कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

धार्तराष्ट्र

dhārtarāṣṭraपुं · masc.

In 12 kośas: 12 synonym verses, 4 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य पञ्चेन्द्रियाः Abhidhānacintāmaṇi 4.9.1326 · p. 51
मल्लिकाक्षास्तु मलिनैर्धार्तराष्ट्राः सितेतरैः ॥ १३२६ ॥
अनुष्टुप्
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह सिंहादिवर्गः Amarakośa 2.5.24
मलिनैर्मल्लिकाक्षास्ते धार्तराष्ट्राः सितेतरैः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.252 · p. 31
आताम्रै राजहंसाश्च धार्तराष्ट्राः सितेतरैः ।मलिनैर्मल्लिकाख्याश्च कथ्यन्ते चरणाननैः ॥ २५२ ॥
अनुष्टुप्
genderपुंmasc.
बालप्रबोधिका Bālaprabodhikā · नत्कीर चतुर्दशोपदेशः Bālaprabodhikā 14.291 · p. 92
राजहंसस्तु तद्भेदे धार्तराष्ट्रः सितेतरे ।वरटा हंसकान्ता स्यात् वराला वरलापि च ॥ २९१ ॥
अनुष्टुप्
genderपुंmasc.
कल्पद्रुकोशः Kalpadrukośa · केशव सरभादिप्रकाण्डः Kalpadrukośa 1.12.123 · p. 331
सितेतरैर्धार्तराष्ट्रा मरालो धूसरच्छदः ।कादम्बः कलहंसः स श्यामधूसरपक्षकः ॥ १२३ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.69 · p. 195
चक्राङ्गो धवलगरुन्मराल-हंस-चक्राङ्का अपि कलकण्ठ-केरवौ च ।आरक्ताननचरणः स राजहंसःश्वेतान्यैर्मुखचरणैः स धार्तराष्ट्रः ॥ ६९ ॥
प्रहर्षिणी
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.23 · p. 246
गाङ्गायनिस्तथा देवव्रतः स्वच्छन्दजीवनः ।धृतराष्ट्रस्त्वाम्बिकेयो धार्तराष्ट्रास्तु कौरवाः ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास तृतीयः परिच्छेदः Paramānandīyanāmamālā 3.229 · p. 80
धार्तराष्ट्रास्तु ते चञ्चुचरणैः श्यामवर्णकैः ।वरला वारला हंसी वारटा वरटा पुनः ॥ २२९ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.68 · p. 87
धार्तराष्ट्रः श्वेतवर्णः कृष्णचञ्चूपदैः स्मृतः ।आटिराटी शरारी च शरारिराडिराडिका ॥
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 रि (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.351 · p. 247
कुक्कटः कुर्कुटस्ताम्रचूडेऽङ्को वक्र-चक्रतः ।हंसे, कृष्णचञ्चुपादे धार्तराष्ट्र इति स्मृतः ॥ ३५१ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्ण (wrong syllable)
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण शकुन्ताध्यायः Śabdaratnākara 2.5.808 · p. 102
राजहंसा मल्लिकाक्षा धार्तराष्ट्रा यथाक्रमम् ।कलहंसस्तु कादम्बः किञ्चिदाधूसरच्छदः ॥ ८०८ ॥
अनुष्टुप्
genderपुंmasc.
वैजयन्ती Vaijayantī · यादवप्रकाश खगाध्यायः Vaijayantī 2.3.7 · p. 26
क्षीराशश्चाप्यसौ राजहंसो रक्तैः पदाननैः ।मलिनैर्मल्लिकाक्षस्तैर्धार्तराष्ट्रः सितेतरैः ॥ ७ ॥
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ रान्ताः Koṣakalpataru 6.27.33 · p. 336
स्यादर्धचन्द्रो गलहस्तबाण-प्रभेदयोः स्त्री तु भवेत्त्रिभङ्ग्याम् ।स्याद्धार्तराष्ट्रोऽसितवक्त्रपाद-हंसे तथा भोगिनि कौरवेषु ॥ ३३ ॥
उपजातिः
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.292 · p. 51
धार्तराष्ट्रो द्वयोश्चञ्चूचरणैरसितैः सिते ।हंसभेदेऽप्यपत्ये च धृतराष्ट्रस्य ना पुनः ॥ २९२ ॥
अनुष्टुप्
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् चतुरक्षरकाण्डः Nānārthārṇavasaṃkṣepa 6.293 · p. 51
नागराजे सुरे त्रिस्तु धृतराष्ट्रस्य योगिनि ।धामार्गवस्त्वपामार्गे कोशातक्यां च पुंस्ययम् ॥ २९३ ॥
अनुष्टुप्
doubtful
शब्दरत्नावली Śabdaratnāvalī · मथुरेश रेफान्ताः Śabdaratnāvalī 7.27.129 · p. 275
धार्तराष्ट्रो हंसभेदे कौरवे च भुजङ्गमे ।धुन्दुमार इन्द्रगोपे गृहधूमे पदालिके ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र (wrong syllable)