All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
1,012 verses · 6,994 words tagged · 1,188 marked doubtful (dashed)
द्वितीयः काण्डः (1/2)
स्वर्गे स्वस्त्रिदिवोऽस्त्री द्युर्दीदिविर्दिदिविर्दिविः ।द्यो-दिवौ दिवमित्युक्तं त्रिविष्टप-त्रिविष्टपे ॥ १ ॥
2.1 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष्ट (wrong syllable)
तात्तातो विषस्तविशं विहेलिम-विशेलिमौ ।सुरे दिवोका दिवौकास्तौ विहङ्गेऽपि, दैवतः ॥ २ ॥
2.2 · p. 177
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 वि (wrong syllable)
देवताऽऽदित्याऽऽदितेयौ, सुधाऽभिनवदुग्धयोः ।पीयूषमपि पेयूषं, व्यन्तरा वानमन्तराः ॥ ३ ॥
2.3 · p. 177
अनुष्टुप्
असंयुक्ततकारः स्याद् वेतालो व्यन्तरान्तरे ।मार्तण्डि-मार्ताण्डौ मार्तण्डोऽर्क एतश ऐतशः ॥ ४ ॥
2.4 · p. 177
अनुष्टुप्
तुविर्भुविश्च द्वौ सान्तौ तपनस्तापनो भगः ।भर्गो हरिर्हरिद्भानु-भानू पेरुश्च पारुवत् ॥ ५ ॥
2.5 · p. 177
अनुष्टुप्
भासन्तो भासयन्तोऽगो नगवत् तरु-शैलयोः ।भुजगेऽप्यंशुराशुश्च महिरो मिहिरस्तथा ॥ ६ ॥
2.6 · p. 177
अनुष्टुप्
मुहिरो मुदिरस्तद्वद् मुचिरः सहुरिस्तथा ।मुहुरिः सृणि-सरणी अव्यवी स्योन-स्यूनकौ ॥ ७ ॥
2.7 · p. 177
अनुष्टुप्metre not read in every line
प्रद्योतनो द्योतनश्च वृषाकपि-कपी अरुः ।अरुषो रुषज-रूषौ दिवि-द्युभ्यां परो मणिः ॥ ८ ॥
2.8 · p. 177
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 ज (wrong syllable)
सूरस्तालव्यदन्त्यादिस्तालव्यादिः शुचिर्वृकः ।कोद्रिरिन्द्रोऽप्यरुः सान्तः किरणे द्युद्-द्युती रुचिः ॥ ९ ॥
2.9 · p. 177
अनुष्टुप्
रोची रुक् शुचियुक् शोचिर्भा-भासौ भाः प्रभा विभा ।त्विट्-त्विषी प्रश्नि-पृष्णी च घृष्णिरभीश्वभीषुकौ ॥ १० ॥
2.10 · p. 177
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
रोचिः शोचिरिसन्तौ द्वौ मयूखो ह्याद्यवर्ग्यखः ।प्रकाशे द्योत उद्योतः, सान्तोऽदन्तो महो महः ॥ ११ ॥
2.11 · p. 177
अनुष्टुप्
धाम नान्तमदन्तं च, ताविषं तविषं तथा ।बलेऽप्यथो विधौ राजा राजराजश्च चन्दिरः ॥ १२ ॥
2.12 · p. 178
अनुष्टुप्
चन्द्र-चन्द्रौ चन्द्रमसाऽमा विकुस्र-विकस्रकौ ।विकस्रः सोम-सोमानौ यज्ञपेयरसेऽपि च ॥ १३ ॥
2.13 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
लाञ्छने लक्ष्मणं लक्ष्म, लक्षणं चन्दिरातपे ।चन्द्रिका चन्द्रिमाऽपि स्यात्, मण्डले मण्डली मता ॥ १४ ॥
2.14 · p. 178
अनुष्टुप्
नक्षत्रे तारका तारा निरिकाराऽत्र तारका ।अश्वयुज्याश्विकिनी चाश्विनी स्युः कृत्यका बहौ ॥ १५ ॥
2.15 · p. 178
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 कि (wrong syllable)
बहुलाश्च मृगशीर्षे मृगमार्गौ मृगाच्छिरः ।मृगशिराऽपि शीर्षस्तारकास्तस्य त्विल्वलाः ॥ १६ ॥
2.16 · p. 178
metre not recognised
इन्वका मित्रदेवायामनुराधाऽनुराधिका ।तृतीयवर्गद्वितीययुग्ज्येष्ठा मूल आश्रयः ॥ १७ ॥
2.17 · p. 178
अनुष्टुप्
तालव्यदन्त्ययोराप्यामषाढा ह्रस्वपूर्विका ।श्रविष्ठा च धनिष्ठापि त्रिकवर्गद्वितीययुक् ॥ १८ ॥
2.18 · p. 178
अनुष्टुप्
तद्वत्प्रोष्ठपदा लग्नत्रिभागे तु दृकाणवत् ।द्रिक-द्रेक्काण-दृक्काणाः, बुधे चान्द्रमसायनिः ॥ १९ ॥
2.19 · p. 178
अनुष्टुप्
चान्द्रमसायनश्चापि गुरौ गीर्पति-गीःपती ।गीःपति-गीष्पती रेफ-विसर्गगजकुम्भषाः ॥ २० ॥
2.20 · p. 178
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable); pāda 3, syllable 3 ति (wrong syllable)
चतुर्ष्वेषु च वाग्वाग्मी प्रख्या आख्याः प्रचक्षसा ।सकारान्तास्त्रयोऽमी स्युः, शुक्रे काव्य-कवी भृगुः ॥ २१ ॥
2.21 · p. 178
अनुष्टुप्
भार्गवेऽप्यर्कपुत्रे तु शनैश्चर-शनी-शनैः ।अव्ययं, सौरि-सौरौ द्वौ, दन्त्य-तालव्यपूर्वकौ ॥ २२ ॥
2.22 · p. 178
अनुष्टुप्
राहौ स्वर्भाणु-स्वर्भानू तमास्तमस्तमोऽपि च ।द्वौ सन्तौ तृतीयोऽदन्तो, ध्रुव उत्तानपादकः ॥ २३ ॥
2.23 · p. 178
metre not recognised
औत्तानपादिः, कौम्भौ तु, मैत्रावरुणि-वारुणी ।मैत्रावरुण आग्नेय अग्निमारुत इत्यपि ॥ २४ ॥
2.24 · p. 179
अनुष्टुप्
अगस्त्येऽगस्तिरेकोक्त्या शशि-भास्करयोः पुनः ।पुष्पदन्तौ पुष्पवन्तावुपलिङ्गमुपद्रवे ॥ २५ ॥
2.25 · p. 179
अनुष्टुप्
उपालिङ्गं रिष्टा-ऽरिष्टे माङ्गल्ये चाप्यनेहसि ।कालेऽतिथोऽतिथः कालविशेषे सुषमा तथा ॥ २६ ॥
2.26 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रि (wrong syllable)
दुःषमा षोऽत्र मूर्धन्यः, काष्ठा त्वष्टादश स्मृताः ।निमेषाष्ठाग्रगो वर्णोऽत्र घट्यां नाडि-नाडिके ॥ २७ ॥
2.27 · p. 179
अनुष्टुप्
नाडी-नाली-नालिकाश्च, दिने तु दिवसो दिवम् ।दिवा प्रतिदिवा नान्तौ द्युरस्त्र्यव्ययमप्यहः ॥ २८ ॥
2.28 · p. 179
अनुष्टुप्
अह्न्यहे ङ्यन्त-टाबान्तावहः सन्तोऽथ वासरः ।वाश्रश्च दन्त्य-तालव्यमध्यौ घस्रश्च हस्रयुक् ॥ २९ ॥
2.29 · p. 179
अनुष्टुप्
दिवाव्ययं सप्तम्यर्थे, व्युष्टे कल्यं सकाल्यकम् ।उषः प्रत्युषसी सान्तौ प्रत्यूषोऽपि प्रगेऽव्ययम् ॥ ३० ॥
2.30 · p. 179
अनुष्टुप्
प्राह्णे पूर्वेद्युरेतौ च गोस-गोसर्गकौ समौ ।मध्याह्ने तु दिवामध्यं मध्यं मध्यंदिनं तथा ॥ ३१ ॥
2.31 · p. 179
अनुष्टुप्
दिनावसाने सायोऽस्त्री सायं स्यान्मान्तमव्ययम् ।पितृप्रस्वां सन्धा सन्द्या सन्धिश्चापि विभावरौ ॥ ३२ ॥
2.32 · p. 179
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स (wrong syllable)
विभावरी निशा निट् च निशीथश्च निशीथिनी ।निशीथ्या वासुरा मध्यदन्त्य-तालव्ययुक्, तमिः ॥ ३३ ॥
2.33 · p. 179
अनुष्टुप्
तमी तमा तामसी च वसतिर्वासतेय्यपि ।शार्वरी सर्वरी दन्त्यतालव्यादिरुषा उषः ॥ ३४ ॥
2.34 · p. 179
अनुष्टुप्
उसास्त्रयोऽमी सान्ता स्युरुषा दोषाऽप्यनव्यये ।अव्यये च तथाऽऽदन्तौ, रजनी रजनिः स्मृताः ॥ ३५ ॥
2.35 · p. 179
अनुष्टुप्
त्रियामा यामिनी यामा याम्या रात्री च रात्रियुक् ।नक्ता नक्तं तथा नक्तं मान्तमव्ययमप्यथो ॥ ३६ ॥
2.36 · p. 180
अनुष्टुप्
ज्योत्स्नायुक्तक्षपायां तु, ज्योत्स्नी ज्योत्स्नापि, दर्शनिट् ।तमिस्रा दन्तसंयोगा द्युः पक्षी निड्द्वयावृतः ॥ ३७ ॥
2.37 · p. 180
अनुष्टुप्
ध्वान्ते तमं तमोऽदन्तौ, तमसं तमसस्तमः ।सान्तं, तमिस्रा तमिस्रं सदन्त्यौ तिमिरं तथा ॥ ३८ ॥
2.38 · p. 180
अनुष्टुप्
सन्तमसा-ऽवतमसे अन्धातमसमन्धतः ।तमसं चाऽन्धकारान्धे भूच्छायमनृलिङ्गकम् ॥ ३९ ॥
2.39 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
तुल्याहर्निशि विषुशो विषुवद्विशुवं तथा ।विषुवं बहुलः कृष्णपक्षे मध्य उकारवान् ॥ ४० ॥
2.40 · p. 180
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्नि (wrong syllable)
पूर्णिमायां पौर्णमासी, दर्शेऽमावास्यमावसी ।अमावस्याऽमाऽमावास्या, नष्टेन्दौ तु कुहुः कुहूः ॥ ४१ ॥
2.41 · p. 180
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 माऽ (wrong syllable)
चतुर्दशी विध्वदर्शे शिनीवाली सयुग्मभाक् ।मासे माः स्याद्वर्षकोशो वर्षांशकयुतस्तथा ॥ ४२ ॥
2.42 · p. 180
अनुष्टुप्
मार्गशीर्षे मार्ग-सहौ सहाः सान्तोऽथ माघके ।तपाः सान्तो ह्यस्त्रियां स्यात्, फल्गुनाले तु फाल्गुनः ॥ ४३ ॥
2.43 · p. 180
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
फल्गुनश्च फाल्गुनिको मधौ चैत्रः सचैत्रिकः ।शुक्रे तु ज्येष्ठा-मूलयोर्ज्येष्ठ-ज्येष्ठौ त्रयोप्यऽमी ॥ ४४ ॥
2.44 · p. 180
metre not recognised
त्रिकवर्गद्वितीयाप्तषसंयोगाः शुचौ पुनः ।अषाढ आषाढोऽपि स्यात्, नभसि श्रावणः स्मृतः ॥ ४५ ॥
2.45 · p. 180
अनुष्टुप्
श्रावणिकोऽथ नभस्ये भाद्र-भाद्रपदौ समौ ।प्रौष्ठपदस्त्रिकवर्गद्वितीयाप्तो ह्यथाश्विने ॥ ४६ ॥
2.46 · p. 180
metre not recognised
अश्वयुज आश्वयुजो, बाहुले कार्तिकस्तथा ।कार्तिकिकः प्रशलर्तौ हेमन्तो नान्तहेमयुक् ॥ ४७ ॥
2.47 · p. 180
metre not recognised
शैष-शिशिरौ तालव्योपेतौ ग्रीष्मर्तुरूष्मकः ।ऊष्मायण ऊष्मा नान्त उष्ण उष्णागमोष्णकौ ॥ ४८ ॥
2.48 · p. 181
metre not recognised
प्रावृषि प्रावृषा वर्षा बहुत्वे वरिषास्तथा ।घनात्यये तु शरदा शरच्चाब्दे तु वत्सरः ॥ ४९ ॥
2.49 · p. 181
अनुष्टुप्
उद्वत्सर-संवत्सर-परिवस्तर-वत्सराः ।अनुसंवत्सरो विवत्सरो वस्तोऽपि वर्षवत् ॥ ५० ॥
2.50 · p. 181
metre not recognised
वरिषः शारदोपेता शरत् संवदनव्ययम् ।अव्ययं च, समा स्त्रीत्वे वा बहुत्वे च तद्भिदि ॥ ५१ ॥
2.51 · p. 181
अनुष्टुप्
इड्वत्सरेडावत्सरौ क्षये कल्पान्तकल्पकौ ।संवर्तः परिवर्तश्च सांदृष्टिक-सांमृष्टिके ॥ ५२ ॥
2.52 · p. 181
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable); pāda 4, syllable 5 सां (wrong syllable)
तात्कालिकफले प्रोक्ते, आकाशे द्यौ-दिवौ द्यु च ।क्लीबं सन्तं नभश्चापि नभसो नभसं तथा ॥ ५३ ॥
2.53 · p. 181
अनुष्टुप्
अन्तरिक्षमन्तरीक्षं मेघे घन-घनाघनौ ।ऋञ्जसानो रिञ्जसान उभ्रोऽभ्रमब्धमित्यपि ॥ ५४ ॥
2.54 · p. 181
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 क्ष (wrong syllable); pāda 4, syllable 3 भ्र (wrong syllable)
गडयित्नुर्गदयित्नुर्वारितो वाह-वाहनौ ।पर्जन्योऽष्टमवर्ग्याप्तोऽब्दमालायां तु कालिका ॥ ५५ ॥
2.55 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
काली वृष्ट्यां वर्षणं स्याद्वर्षं तद्विघ्नके त्ववात् ।ग्रह-ग्राहौ, घनोपले तु करः करकस्त्रिषु ॥ ५६ ॥
2.56 · p. 181
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 प (wrong syllable)
आशायां दिग्-दिशे काष्ठा त्रिकवर्गद्वितीयभाक् ।ककुभा ककुब्याम्याशाऽपाच्यवाची दिगन्तरे ॥ ५७ ॥
2.57 · p. 181
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कु (wrong syllable)
विदिक् प्रदिक् चापदिशं प्राक्-प्राचीने समे मते ।अपाचीनमपाक् प्रत्यक् प्रतीचीनमुदक् तथा ॥ ५८ ॥
2.58 · p. 181
अनुष्टुप्
उदीचीनमपाक् प्रत्यक् प्रागुदगव्ययान्यपि ।इन्द्रे मघवा मघवान् मघवन् दल्मि-वल्मिकौ ॥ ५९ ॥
2.59 · p. 181
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 द (wrong syllable); pāda 3, syllable 4 घ (wrong syllable)
नान्तौ सुत्रामा सूत्रामा हर्यश्वो हरिमान् हरिः ।बिडोजाः स्यात् बिडौजाश्च सन्तौ वृत्रश्च वृत्रहा ॥ ६० ॥
2.60 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
पर्जन्यः पूर्ववन्नान्तो वृषा दन्त्यद्वयान्वितः ।तालव्यद्वयवानाद्यतालव्यश्च तृतीयकः ॥ ६१ ॥
2.61 · p. 182
अनुष्टुप्
शुनाशीरः स्मृतेन्द्राण्यां महेन्द्राणी सची शची ।सचिर्वासवौ जयन्तः जयदत्तो जयस्तथा ॥ ६२ ॥
2.62 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स (wrong syllable)
इन्द्रपुत्र्यां ताविषी स्याद् वात्यायां च तविष्यपि ।इन्द्रहस्तिन्यैरावण, ऐरावतः ऋजौ घनौ ॥ ६३ ॥
2.63 · p. 182
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 स्ति (syllables merged)
इन्द्रस्यर्जुरोहितं स्याद् रोहितं पारिभद्रके ।मन्दार-मन्दरौ तद्वद् मन्दारुश्च पवौ शृणिः ॥ ६४ ॥
2.64 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्जु (wrong syllable)
सृणिश्च वह्नावप्येतौ, भिदिरं भिदुरं भिदुः ।भिदि-भेदी दिभिः शम्ब-सम्बौ शाम्बः शतारकः ॥ ६५ ॥
2.65 · p. 182
अनुष्टुप्
धारः शित-शतात्, वज्रोऽस्त्रियां वज्राशनिर्द्वयोः ।अशनिर्द्वयोराशनः, स्वार्थे प्रज्ञाद्यणा, शरुः ॥ ६६ ॥
2.66 · p. 182
अनुष्टुप्metre not read in every line
स्वरु-श्वरू उदन्तौ द्वौ स्वरुः सान्तोऽथ षण्डके ।व्याधाम नान्तं, व्याधामोऽदन्तः पुंसि च, दस्रयोः ॥ ६७ ॥
2.67 · p. 182
अनुष्टुप्
अश्विनावाऽश्विनेयौ च, देवत्वष्टरि विश्वकृत् ।विश्वकर्मापि, स्वर्वध्वां, वा स्त्री भूम्न्यप्सरा मता ॥ ६८ ॥
2.68 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
ऊर्वसी दीर्घ-ह्रस्वादिर्दन्त्यतालव्यभाक् क्रमात् ।गन्धर्वो गायने दैवे गान्धर्वोऽपि च तद्भिदि ॥ ६९ ॥
2.69 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्घ (wrong syllable)
अव्ययाऽनव्ययौ हाहा हाहाः सान्तोऽप्यथो हहाः ।हुहुर्द्विह्रस्वो हूहूश्च द्विदीर्घोऽव्ययमप्यथो ॥ ७० ॥
2.70 · p. 182
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वो (wrong syllable)
हाहाहूहूरित्यखण्डं, नामैके, शमने यमः ।यमराजो यमराट् च संयमनी त्र्यकारयुक् ॥ ७१ ॥
2.71 · p. 182
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 यम (syllable split)
शङ्कावश्नपोऽन्तर्दन्त्योपि, हनुषो हनूषवत् ।रात्रिंचरो रात्रिचरो, नृचक्षाः ख्याश्च चक्षसा ॥ ७२ ॥
2.72 · p. 183
अनुष्टुप्metre not read in every line
त्रयः सान्ता अन्त्यषण्ढाः, क्रव्यात् क्रव्यादसंयुतः ।जातुधानो यातुधानो जातु यातु च षण्ढकौ ॥ ७३ ॥
2.73 · p. 183
अनुष्टुप्
कर्बुरः कर्बरो रक्षः राक्षसोऽप्याशराऽऽशिरौ ।तज्जनन्यां तु निकसा निकषा खषया सह ॥ ७४ ॥
2.74 · p. 183
अनुष्टुप्
वरुणे यादःपतियुक् यादसांपतिरप्पतिः ।अपांपतिर्धनदे त्वैडविडैलविलौ समौ ॥ ७५ ॥
2.75 · p. 183
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 दः (wrong syllable); pāda 3, syllable 6 न (wrong syllable)
कैलासौका मध्यदन्त्यो नाराद्वाहण-वाहनौ ।तद्विमानं पुष्पकं स्याद् मूर्धन्यौष्ठ्यकयोगयुक् ॥ ७६ ॥
2.76 · p. 183
अनुष्टुप्
वस्वोकसारा तत्पुर्यामोकःशब्दे सलोपभाक् ।वित्ते ऋक्थं रिक्थमृक्तं रिक्तः सान्तं नपुंसके ॥ ७७ ॥
2.77 · p. 183
अनुष्टुप्
सारोऽस्त्रियां निधाने तु शेवधिर्नर-षण्ढभाक् ।शङ्करे जोटी जोटीङ्गो गिरीशो गिरिशो हरः ॥ ७८ ॥
2.78 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 टी (wrong syllable)
हीर ईशान ईशश्च वामदेवश्च वामयुक् ।अहिर्बुध्नो बुध्नकाही महाकालः सकालकः ॥ ७९ ॥
2.79 · p. 183
अनुष्टुप्
भर्गो भार्गो भर्ग्यः शर्व-सर्वौ महेश्वरौ ।भीम-भीष्मौ च तच्चापे, त्वजकावमजीजकम् ॥ ८० ॥
2.80 · p. 183
अनुष्टुप्metre not read in every line
अजगावमाजगवं भवेदजकवं तथा ।अजगवं, गणेष्वस्य, पार्षद्याः पार्षदा अपि ॥ ८१ ॥
2.81 · p. 183
metre not recognised
पारिषद्याः पारिषदा, मृडान्यामीश्वरेश्वरी ।कैटभी कैटभा दुर्गा दुर्गमा वरदा वरा ॥ ८२ ॥
2.82 · p. 183
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पा (wrong syllable)
अपर्णा चैकपर्णायुग् गौरी गौरा शिवी शिवा ।भद्रकाली महाकाली काली काला च कालिका ॥ ८३ ॥
2.83 · p. 183
अनुष्टुप्
हिमा हैमवतीयुक्ता विकराला करालिका ।महारौद्री सरौद्रिका जयन्ती विजया जया ॥ ८४ ॥
2.84 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्रि (wrong syllable)
महाजया नन्दयन्ती नन्दिनी नन्दयाऽन्विता ।सुनन्दा कुला नकुली, भैरव्यां चर्ममुण्डिका ॥ ८५ ॥
2.85 · p. 184
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 कु (wrong syllable)
चामुण्डा चण्डमुण्डा च चर्च्चा चर्च्चिः सचर्चिका ।स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी ॥ ८६ ॥
2.86 · p. 184
अनुष्टुप्
भृङ्गिणे भृङ्गिरिटिर्भृङ्गिरीटिश्च, तण्डुके ।नन्दीश-नन्दिनौ नन्दिः, कमने क-कवी विधिः ॥ ८७ ॥
2.87 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
विधा वेधाश्च द्वौ सान्तौ सर्वविद्-विदुषोरपि ।विरिञ्चन-विरिञ्ची च विरिञ्चः परमेष्ठियुक् ॥ ८८ ॥
2.88 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
परमेष्ठस्त्रिकवर्गद्वितीयकलितावमू ।नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा ॥ ८९ ॥
2.89 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
द्रुहिणो द्रुघणस्तद्वद् द्रुघनोऽपि च शम्भुयुक् ।स्वयंभूरथ गोविन्दे नारायण-नरायणौ ॥ ९० ॥
2.90 · p. 184
अनुष्टुप्
विष्वक्सेनो विश्वक्सेनो वृषाकपि-कपी विधुः ।वेधा मुकुन्द-कुन्दौ च वासुदेवश्व वासुयुक् ॥ ९१ ॥
2.91 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वि (wrong syllable)
जलेशयो जलशयोऽधोक्षजोऽक्षज एकपात् ।त्रिपाद्द्विपद एतद्वद् वृषाक्षः सुवृषोऽपि च ॥ ९२ ॥
2.92 · p. 184
अनुष्टुप्
कपिलो भद्रकपिलः सुभद्रो वासुभद्रकः ।धन्वी सुधन्वा शतकः शतादाऽऽनन्द-वीरकौ ॥ ९३ ॥
2.93 · p. 184
अनुष्टुप्
श्रीवत्साङ्कश्च श्रीवत्सस्तदरौ मेन्द-मेन्दकौ ।कालीयः कालियश्चास्य गदा कौमोदकी स्मृता ॥ ९४ ॥
2.94 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
कौपोदकी कौवोदकी, कृष्णमातरि देवकी ।दैवकी, बलभद्रे तु, भद्राङ्गो बलिना बलः ॥ ९५ ॥
2.95 · p. 184
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 वो (wrong syllable)
पद्मायामीरी आ या च कमला कमलीन्दिरा ।इन्दिः श्री-लक्ष्म्यौ क्विब्यन्तौ यरौ शम्बर-संबरौ ॥ ९६ ॥
2.96 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable); pāda 3, syllable 5 क्ष्म्यौ (wrong syllable)
शूर्पकश्चादितालव्यः, ऋष्याङ्कः कामनन्दने ।मूर्द्धन्याद्यान्तः स्थिकभागूषोषा बाणपुत्रिका ॥ ९७ ॥
2.97 · p. 185
अनुष्टुप्
शम्ब-शाम्बौ जम्बुवत्याः पुत्रे, तार्क्ष्ये सुपर्णकः ।सौपर्णेयो गरुडश्च गरुलो गरुटस्तथा ॥ ९८ ॥
2.98 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 रु (wrong syllable)
सुगते तु महाबोधि-बोधी बुद्ध-बुधौ मुनिः ।मुनीन्द्रः, सप्तमे बुद्धे शाक्यसिंहः सशाक्यकः ॥ ९९ ॥
2.99 · p. 185
अनुष्टुप्
दैत्येऽसुर आसुरश्च सरस्वत्यां गिरा गिरौ ।वाग्-वाचे वाणि-वाण्यौ च तालव्याद्या च शारदा ॥ १०० ॥
2.100 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
व्याहारो वचो वचनं, कारके कर्म-कार्मणे ।ज्ञाता धर्मकथायां स्यात् तकारो दीर्घसंयुतः ॥ १०१ ॥
2.101 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
द्वादशाङ्गे दृष्टिवादो दृष्टिपातोऽपि कथ्यते ।प्रत्याख्यानप्रवादे तु प्रत्याख्यातं च ज्योतिषि ॥ १०२ ॥
2.102 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 5 च (wrong syllable)
ज्योतिषं ज्यौतिषं, भाष्ये चूर्णि-चूर्ण्यौ समे मते ।यङ्लुगन्ते चर्करीतं, चर्करितं, कलिन्दिका ॥ १०३ ॥
2.103 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
कडिन्दिका सर्वविद्या, निघण्टुर्नामसंग्रहे ।निर्घुण्टुश्च, जनश्रुतौ, वदन्ती किंवदन्त्यपि ॥ १०४ ॥
2.104 · p. 185
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 7 श्रु (wrong syllable)
किंवदन्तिर्वदन्तिश्चोदन्ते वृत्तान्त-वार्तिके ।अभिधायां नामधेयं नामाख्याऽभिख्ययाऽह्वयः ॥ १०५ ॥
2.105 · p. 185
अनुष्टुप्
आह्वा, हूतौ तु हक्कार-कङ्कारौ, शपथे शपः ।शपनं, प्रियबाहुल्ये चटु चाटु, यथास्थिते ॥ १०६ ॥
2.106 · p. 185
अनुष्टुप्
तथ्यं यथातथं सम्यक्, समीचीनं च, रूक्षके ।निष्ठुरं तृतीयवर्गद्वितीययुगवर्णने ॥ १०७ ॥
2.107 · p. 185
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तृ (wrong syllable)
निष्पर्यपात्परो वादो, जुगुप्सा च जुगुप्सनम् ।गर्हणा गर्हणं गर्हो, रतशापे तु क्षारणा ॥ १०८ ॥
2.108 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तु (wrong syllable)
आक्षारणा क्षारणं च, क्षरणा, मङ्गलार्थने ।आशीराशषया चोभे उशत्यशुभवाचि तु ॥ १०९ ॥
2.109 · p. 186
अनुष्टुप्
रुशती रुषती सर्वे त्रिलिङ्गा वाच्यलिङ्गतः ।आज्ञायां स्यान्निराङ्निभ्यो देशोऽथाङ्गीकृतौ पुनः ॥ ११० ॥
2.110 · p. 186
अनुष्टुप्
सन्ध्या स्यात् सन्धया साकं संप्रत्याङ्भ्यः परः श्रवः ।वर्जे वर्जनं वृजनं, नृत्ये नृत्तं च नर्त्तनम् ॥ १११ ॥
2.111 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ज (wrong syllable)
नाट्यं नटनमङ्गविक्षेपेऽङ्गाद्धारि-हारकौ ।आतोद्ये वाद्यं वादित्रं, तूरं तूर्यं च वल्लकी ॥ ११२ ॥
2.112 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 ङ्ग (wrong syllable); pāda 3, syllable 5 द्यं (wrong syllable)
तन्त्रीस्तन्त्रिश्च गन्धर्वे त्र्युकारस्तुम्बुरुः स्मृतः ।मृदङ्गे मार्दलीकश्च, मार्दलो, दुन्दुभौ पुनः ॥ ११३ ॥
2.113 · p. 186
अनुष्टुप्
भेरिर्भेरी च भेरापि, कुहालायां तु काहला ।चण्डकोलाहला पत्रकाहला, सुप्तबोधके ॥ ११४ ॥
2.114 · p. 186
अनुष्टुप्
द्रगडो द्रकटश्चापि, झल्लर्यां झर्झरी स्मृता ।झलरी, बीभस्तरसे, विकृतं वैकृतं तथा ॥ ११५ ॥
2.115 · p. 186
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
घर्घरे हासिका हास्यं हासश्च हसनं हसः ।त्रिकवर्गद्वितीयाप्ता स्मिते वक्रोष्ठिका मता ॥ ११६ ॥
2.116 · p. 186
अनुष्टुप्
शोचने शुक् शुकः शोकः, कोपे क्रोध-क्रुधा-क्रुधः ।रुषा-रोष-रुषश्चाप्युत्साहो तूद्याम उद्यमः ॥ ११७ ॥
2.117 · p. 186
अनुष्टुप्
उद्योगोऽप्यभियोगश्च वीर्यं त्वतिशयान्विते ।वीर्यापि, साध्वसे भीतिर्भीर्भिया भयमप्यथो ॥ ११८ ॥
2.118 · p. 186
अनुष्टुप्
भयङ्करे भीम-भीष्मे डमरं डामरं तथा ।उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११९ ॥
2.119 · p. 186
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र (wrong syllable)
शमथोऽप्यथ रोमाञ्चे पुलकः पुलसंयुतः ।बाष्पेऽश्वस्रू अस्रमश्रं, चित् तान्ता चेतना मतौ ॥ १२० ॥
2.120 · p. 187
अनुष्टुप्