भीष्म
bhīṣmaवि · adj.In 17 kośas: 22 synonym verses, 6 as a nānārtha head word, 10 as a meaning of another word.
भयंकरं प्रतिभयं भीमं भीष्मं भयानकम् ॥ ३०२ ॥भीषणं भैरवं घोरं दारुणं च भयावहम् ।
अनुष्टुप्
genderविadj.
विस्मयोऽद्भुतमाश्चर्यं चित्रमप्यथ भैरवम् ॥ १९ ॥दारुणं भीषणं भीष्मं घोरं भीमं भयानकम् ।भयङ्करं प्रतिभयं रौद्रं तूग्रममी त्रिषु ॥ २० ॥
अनुष्टुप्
genderविadj.
घोरं प्रतिभयं भीमं दारुणं स्याद्भयानकम् ।आभीलं भीषणं भीष्मं भैरवं च भयावहम् ॥ ७०५ ॥
अनुष्टुप्
genderविadj.
बीभत्सो विकृतं चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं च भीषणम् ॥ १२९ ॥
अनुष्टुप्
genderविadj.
गङ्गापर्यायपुत्रार्थो गाङ्गेयो गाङ्ग इत्यपि ।गाङ्गायनिः शान्तनवो भीष्मो देवव्रतोपि च ॥ ३१ ॥
अनुष्टुप्
genderपुंmasc.
रुक्मिणीजनकेऽपि स्याद्भीष्मो भीष्मक इत्यपि ।दमघोषश्चेदिपतिः शिशुपालश्च चेदिराट् ॥ ५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चे (wrong syllable)
genderपुंmasc.
व्योमपर्यायकेशार्थः पशुपर्यायतः पतिः ।घस्रो जयन्तो गिरिशो मृडो भीष्मो महेश्वरः ॥ ८० ॥
अनुष्टुप्
genderपुंmasc.
भयङ्करं प्रतिभयं भयं भीष्मं भयावहम् ।भीषणं भैरवं घोरमाभीलं डमरं पुनः ॥ १०३ ॥
अनुष्टुप्
genderविadj.
भवः संभवः कृत्तिवासाः पिनाकीमहाकाल-कालंजरौ वाहिर्बुध्न्यौ ।पुरारि-र्गजाराति-भीष्मैकपादःकटाटङ्कवद्-रेरिहा-[11a]णोऽस्थिभूषः ॥ ६८ ॥
metre not recognised
genderपुंmasc.
अत्याहितं महाभीतिरथ पुंसि रसार्थकाः ।भीषणो भैरवो भीमो भीष्मो घोरो भयंकरः ॥ १३० ॥
अनुष्टुप्
genderपुंmasc.
भवेदुत्पलगन्धिश्च सैरन्ध्री नित्ययौवना ।भीष्मः शांतनवो गाङ्गो गाङ्गेयश्च पितामहः ॥ २२ ॥
अनुष्टुप्
genderपुंmasc.
भयं दरः साध्वसं भीराशङ्कातङ्कभीतयः ।भीषणं दारुणं रौद्रं भीष्मं प्रतिभयं तथा ॥ २१२ ॥
अनुष्टुप्
genderविadj.
आश्चर्यमद्भुते चित्रं चाथ दिव्ये भयानके ।स्याद्दारुणं प्रतिभयं भीष्मं घोरं भयकरम् ॥ १६६ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 य (wrong syllable)
genderविadj.
भयङ्करं तथा भीष्मं प्रतिभयं च भासुरम् ।आभीलं डमरं चैव जुगुप्सा तु घृणा खलु ॥ ४४३ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 भ (wrong syllable)
genderविadj.
दारुणो भीषणो भीष्मो भीमो घोरश्च भैरवः ।भयङ्करः प्रतिभयं त्रिष्वेते च भयानके ॥
अनुष्टुप्
genderविadj.
शान्तनुः स्यान्महाभीमः प्रतीपः प्रतिपोऽपि च ।अथ भीष्मः शान्तनवो गाङ्गेयो गान्दिनीसुतः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शा (wrong syllable)
genderपुंmasc.
भर्गो भार्गो भर्ग्यः शर्व-सर्वौ महेश्वरौ ।भीम-भीष्मौ च तच्चापे, त्वजकावमजीजकम् ॥ ८० ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
भयङ्करे भीम-भीष्मे डमरं डामरं तथा ।उड्डामरमुड्डमरं, शान्तावुपशमः शमः ॥ ११९ ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 र (wrong syllable)
genderविadj.
रौद्रमुग्रं प्रतिभयं भीमं भीष्मं भयानकम् ।भीषणं दारुणं घोरं भैरवं च भयंकरम् ॥ ९७० ॥
अनुष्टुप्
genderविadj.
विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः ।वृकोदरो जटी भीष्मः क्षोभकः खे(ख)चरो नटः ॥
अनुष्टुप्
genderपुंmasc.
देवव्रतः शान्तनवो गाङ्गो गाङ्गायनिश्च सः ।भीष्मः कौणपदन्तश्च स्वेच्छामृत्युः पुरावसुः ॥ १२ ॥
अनुष्टुप्
genderपुंmasc.
बीभत्सो विकृतश्चित्रं त्वाश्चर्यं फुल्लमद्भुतम् ।भयानकं प्रतिभयं भीमं भीष्मं भयंकरम् ॥ ७८ ॥
अनुष्टुप्
genderविadj.
भीष्मः शंतनुनन्दने स्मरहरे रात्रिंचरे दारुणेभेद्ये क्षीरखयोः सुमस्तु [न] युगे पुष्पे पुनः स्यात्सुमम् ।धर्मोऽस्त्री सुकृतेऽथ पुंसि च यमे न्याये स्वभावे क्रता-वाचारोपमयोस्तथोपनिषदि स्यात्कार्मुकोपाधिगः ॥ ६७ ॥
शार्दूलविक्रीडितम्
शम्भौ च भीमसेने च त्रि तु क्रूरे भयानके ।भीष्मः शान्तनवे पुंसि भेद्यलिङ्गं भयानके ॥ ९०९ ॥
अनुष्टुप्
meaningsशान्तनव
भीष्मो घोरतरेऽपि स्याद् गाङ्गेयेऽपि च पुंस्ययम् ।भीमो घोरे शिवे मध्यपाण्डवे चाम्लवेतसे ॥अथ भूमिः स्थानमात्रे पृथिव्यामपि च स्त्रियाम् ।भौमस्त्रिषु भूमिभवे पुंसि स्यान्नरके कुजे ॥यमः शत्रौ च शमने काके ना यमजेऽन्यवत् ।ना देहसाधनापेक्षनित्यकर्मणि संयमे ॥यामस्तु प्रहरे पुंसि संयमावसयोरपि (?) ॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 4 षु (wrong syllable)
भीष्म as a meaning in nānārtha verses
- धरणिकोश गाङ्गगाङ्गो भीष्मे च गङ्गोत्थे शार्ङ्गं हरिधनुर्धनुः । व्यङ्गो भेके विनष्टाङ्गे भृगुः [14] स्याच्च तटे मुनौ ॥ Dharaṇikośa 3.1.1
- धरणिकोश गाङ्गेयगाङ्गेयं कनकं प्रोक्तं गाङ्गेयं च कशेरुकम् । गाङ्गेयं मुस्तकं प्राहुर्गाङ्गेयो भीष्म उच्यते ॥ Dharaṇikośa 25.3.17
- कोषकल्पतरु गाङ्गना कूर्चशीर्षे वृषभौषधौ तु स्वर्णे विषायां झषभिद्यपि स्त्री । भीष्मे विशाखे नरि गाङ्गमाहु- र्हेम्न्यन्तिमे तद्भुवि तु त्रिषु स्यात् ॥ ४ ॥ Koṣakalpataru 6.3.4
- नानार्थार्णवसंक्षेप गह्वर(ग्री?भी)ष्मे च दुष्प्रवेशे च गर्गरी तु स्त्रियामियम् । दधिमन्थनपात्रे च क्षेत्रपल्ल्यां द्वयोः पुनः ॥ ६३६ ॥ Nānārthārṇavasaṃkṣepa 4.636
- नानार्थार्णवसंक्षेप गाङ्गेयगाङ्गेयस्तु पुमान् स्कन्दे भीष्मे चाथाभिधेयवत् । अपत्यमात्रे गङ्गायाः क्ली तु हेमकशेरुणोः ॥ ६६६ ॥ Nānārthārṇavasaṃkṣepa 4.666
- शब्दरत्नावली गाङ्गगाङ्गः पुंसि गुहे भीष्मे स्याद्गङ्गासम्भवे त्रिषु । चङ्गो दक्षे शोभने च सारङ्गे हलयाजके ॥ टङ्गोऽस्त्री तु खनित्रे स्याद् जङ्घा खङ्गभिदोरपि । त्यागो दाने वर्जने च विवेकिपुरुषेऽपि च ॥ Śabdaratnāvalī 7.3.6
- शब्दरत्नावली गाङ्गेयऔचित्यं न द्वयोः साम्ये उचितत्वे च सत्यके । कषायः पुंसि निर्यासे रसभेदे विलेपने ॥ अङ्गरागेऽप्यस्त्रियान्तु सुरभौ लोहिते त्रिषु । कुलायः पक्षिवासायां स्थानमात्रे च पुंस्ययम् ॥ क्षेत्रियेऽसाध्यरोगे स्यात्परदाररते पुमान् । क्लीबं परचिकित्सायां तया क्षेत्रोद्भवे तृणे ॥ गाङ्गेयः पुंसि भीष्मे स्यात्क्लीबं स्वर्गे कशेरुके । चक्षुष्यं पुण्डरीकाक्षाख्यपादये केतकेऽपि च ॥ Śabdaratnāvalī 7.26.39
- शब्दरत्नाकर गाङ्गेयगन्धर्वो गायके सप्तौ देवयोनौ मृगान्तरे । चामीवरे तु गाङ्गेयं गाङ्गेयः स्कन्दभीष्मयोः ॥ २०८७ ॥ Śabdaratnākara 4.1.2087
- त्रिकाण्डशेष गाङ्गेयभीष्मे ना हेम्नि गाङ्गेयं गोप्यौ गोप्तव्यचेटकौ । गातव्यगायनौ गेयौ गृह्यमस्वैरिपक्षयोः ॥ ३११ ॥ Trikāṇḍaśeṣa 3.3.311
- वैजयन्ती गांगेयपार्थचापे चापमात्रे गाण्डीवो गाण्डिवोऽस्त्रियौ । कशेरुहेम्नोर्गांगेयं गांगेयो गुहभीष्मयोः ॥ ३५ ॥ Vaijayantī 7.5.35