कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

डाकिनी

ḍākinīस्त्री · fem.

In 3 kośas: 2 synonym verses, 2 as a meaning of another word.

पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.437 · p. 81
मुद्गादित्वचि शिम्बा स्याच्छमी पेला च डाकिनी ।सुक्षेत्रादिगुणैः पूर्णधान्ये वसितमिष्यते ॥ ४३७ ॥
अनुष्टुप्
genderस्त्रीfem.
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.33 · p. 30
ज्वालिन्यो-कारगा ज्ञेया भीमाक्षी चण्डमालिनी ।औ-कारे डाकिनी सिंहनादिनी चण्डभैरवी ॥अक्रूराख्या विदारी च अं-कारे रुद्ररा(डा)किणी ।शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ॥
अनुष्टुप्
genderस्त्रीfem.

डाकिनी as a meaning in nānārtha verses

  • शब्दरत्नावली रक्तपाकुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले । दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥ कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे । जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥ प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि । रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥ विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥ Śabdaratnāvalī 7.21.18
  • तन्त्राभिधान औअ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी, ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री, ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी, ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी, अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः, घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः, ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः, ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः, थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी, प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी, म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी, व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः, ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥ Tantrābhidhāna 4.1