कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Tantrābhidhāna

तन्त्राभिधान Tantrābhidhāna

821 verses · 5,340 words tagged · 1,460 marked doubtful (dashed)

बीजनिघण्टु

[4]बीजनिघण्टुः । (Sloka count: ?)

अथ वक्ष्ये मन्त्रकोशं यदुक्तं भूतडामरे ।

क्रमात् बीजविधानञ्च श्रुत्यर्थज्ञानसम्भवम् ॥

श्रीशिव उवाच-

अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
4.1 · p. 27
metre not recognised

(नयनश्रोत्रास्यनासाहृत्सु न्यासे दश स्वराः ।)

-----------------------------------विद्युज्जिह्वा कालवक्त्रा महाकालैरलङ्कृता ॥ॐ॥
4.2 · p. 27
metre not recognised
विषबीजं श्रुतिमुखं ध्रुवं हालाहलं प्रिये (च तत्) ॥
4.3 · p. 28
चण्डीशः क्षतजारूढो धूम्रभैरव्यलङ्कृऽतः ।नादबिन्दुसमायुक्तो बीजं विष्णुप्रिया मतम् ॥श्री̐॥
4.4 · p. 28
अनुष्टुप्
क्षतजस्थो व्योमवक्त्रो धूम्रभैरव्यलङ्कृतः ।नादबिन्दुसमायुक्तो बीजं प्राथमिकं स्मृतम् ॥ह्री̐॥
4.5 · p. 28
अनुष्टुप्
क्रोधीशः क्षतजारूढो धूम्रभैरव्यलङ्कृतः ।नादबिन्दुसमायुक्तः पितृभूवासिनी स्मृतः ॥क्री̐॥
4.6 · p. 28
अनुष्टुप्
विदारीयुक्तं व्योमास्यं रुद्रराकिण्यलङ्कृतम् ।कूर्चं कालं क्रोधबीजं जानीहि वीरवन्दिते ॥हू̐॥
4.7 · p. 28
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 क्तं (wrong syllable); pāda 4, syllable 3 हि (wrong syllable)
नादबिन्दुसमायुक्तां समादायोग्रभैरवीम् ।भौतिकं वाग्भवं बीजं विद्धि सारस्वतं प्रिये ॥ऐ॥
4.8 · p. 28
अनुष्टुप्
प्रलयाग्निर्महाज्वालः ख्यातश्चास्त्रमनुः प्रिये ॥फट्॥
4.9 · p. 28
क्रोधीशरक्तभीमाक्ष्योऽङ्कुशोऽयं नादबिन्दुमान् ॥क्रो̐॥
4.10 · p. 28
द्विठः शिरो वह्निजाया स्वाहा ज्वलनवल्लभा ॥स्वाहा॥
4.11 · p. 28
क्रोधीशो बलभिद्धूम्रभैरवीनादबिन्दुभिः ।त्रिमूर्तिर्मन्मथः कामः बीजं त्र्यैलोक्यमोहनम् ॥क्ली̐॥
4.12 · p. 28
अनुष्टुप्
व्योमास्यः कालरात्र्याढ्यो वर्म बिन्दीन्दुसंयुतः ।कथितं कवचं बीजं कुलाचारप्रियेऽमले ॥हु̐॥
4.13 · p. 28
अनुष्टुप्
व्योमास्यः क्षतजारूढो डाकिनीनादबिन्दुभिः ।ज्योतिर्मन्त्रः समाख्यातो महापातकनाशनः ॥ह्रौ̐॥
4.14 · p. 28
अनुष्टुप्
-----------------------------------संयुक्तो धूम्रभैरव्या रक्तस्थो बलिभोजनः ।नादबिन्दुसमायुक्तः किङ्किणीबीजमुत्तमम् ॥द्री̐॥
4.15 · p. 28
अनुष्टुप्metre not read in every line
बहुरूपिणमादाय क्षतजोक्षितसंस्थितम् ।विदार्यालिङ्गितं तद्वत् विशेषार्थो महामनुः ॥भ्रू̐॥
4.16 · p. 29
अनुष्टुप्
धूमध्वजाधः कालाग्निः सोर्ध्वकेशीन्दुबिन्दुभिः ।युगान्तकारकं बीजं भैरवेण प्रकाशितम् ॥स्फे̐॥
4.17 · p. 29
अनुष्टुप्
संहारिण्याश्रितञ्चोर्ध्वकेशिनी तु कपर्द्दिनम् ।नादबिन्दुसमायुक्तं बीजं वैतालिकं स्मृतम् ॥प्ले̐॥
4.18 · p. 29
अनुष्टुप्
सनादबिन्दुं क्रोधीशं गृह्य संहारिणीस्थितम् ।कम्पिनीबीजमित्युक्तं द्विठेनोक्ता मनोहरी ॥क्ली̐ स्वाहा॥
4.19 · p. 29
अनुष्टुप्
कपर्दिनं समादाय क्षतजोक्षितसंस्थितम् ।संयुक्तं धूम्रभैरव्या ध्वाङ्क्षोऽयं नादबिन्दुमान् ॥प्री̐॥
4.20 · p. 29
अनुष्टुप्
कपालिद्वयमादाय महाकालेन मण्डितम् ।समासनमिति प्रोक्तं चण्डिकाढ्यं मनोहरम् ॥ठंठं ठःठः॥
4.21 · p. 29
अनुष्टुप्
प्रलयाग्निस्थितो धूमध्वजो गुह्ये सबिंदुमान् ।संयुक्तो धूम्रभैरव्या स्मृता फेत्कारिणी प्रिये ॥स्फीं॥
4.22 · p. 29
अनुष्टुप्
क्षतजस्थो व्योमवक्त्रो बिन्दुखण्डेन्द्वलङ्कृतः ।खद्योतमिति विख्यातं ग्रासिनी कालरात्रियुक् ॥ह्रू̐॥
4.23 · p. 29
अनुष्टुप्
क्षतजस्थं व्योमवक्त्रं नादबिन्दुसमन्वितम् ।विदारीभूषणं कृत्वा बीजं वैवस्वतात्म(न्त)कम् ॥ह्रू̐॥
4.24 · p. 29
अनुष्टुप्
व्योमवक्त्रो धूमध्वजो वारणः प्रलयाग्निकः ।ऊर्ध्वकेशी क्षतारूढा बिन्दुचन्द्रार्धसंगता ॥
4.25 · p. 29
अनुष्टुप्metre not read in every line
-----------------------------------बीजमानन्दभैरव्या मूकानन्दकरं परम् ॥ह्स्ख्फ्रें॥
4.26 · p. 29
अनुष्टुप्metre not read in every line
अ-कारे भीषणा कीत्तिर्विद्युज्जिह्वेति कीर्त्तिता ।आ-कारे तामसी कालवज्री(जिह्वा) च कालभैरवी ॥
4.27 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
इ-कारे गर्जिनी चण्डा विज्ञेया रुद्रभैरवी ।ई-कारे शूलिनी ख्याता चण्डोग्रा धूम्रभैरवी ॥
4.28 · p. 30
अनुष्टुप्
उ-कारे कालकूटा(वक्त्रा)ख्या प्रचण्डा चण्डवल्लभा ।विदार्यू-कारके प्रोक्ता ता(ना)लजङ्घा कपालिनी ॥
4.29 · p. 30
अनुष्टुप्
ऋ-कारे स्यान्महारौद्री ज्वालिनी योगिनीत्यपि ।ॠ-कारे कालिका प्रोक्ता पितृकाली भयङ्करी ॥
4.30 · p. 30
अनुष्टुप्
संहारिणी ऌ-कारे स्यान्मेघनादोग्रभाषिणी ।रुद्रचण्डा कालरात्रिः ॡ-कारे च करालिनी ॥
4.31 · p. 30
अनुष्टुप्
ऊर्ध्वकेशी च चामुण्डा नादिन्ये-कारके स्मृता ।ऐकारे कोटराक्षी च मालिन्युन्मत्तभैरवी ॥
4.32 · p. 30
अनुष्टुप्
ज्वालिन्यो-कारगा ज्ञेया भीमाक्षी चण्डमालिनी ।औ-कारे डाकिनी सिंहनादिनी चण्डभैरवी ॥अक्रूराख्या विदारी च अं-कारे रुद्ररा(डा)किणी ।शेषे कपालिनी याम्या चण्डिका कुण्डलद्वयम् ॥
4.33 · p. 30
अनुष्टुप्
विसर्गो नादः सकलाः षड्दशोक्ताः स्वरा मताः ॥
4.34 · p. 30
क्रोधीशो वारणश्चण्डः शङ्का तून्मत्तभैरवः ।ज्वालामुखो रक्तदंष्ट्रोऽसिताङ्गो बलयामुखः ॥
4.35 · p. 30
अनुष्टुप्
विद्युन्मुखो महाज्वाली कपाली भीषणो गुरुः ।-----------------------------------प्रहारी रौरवो दण्डी बलितोऽत्युग्रशूलधृक् ॥
4.36 · p. 30
अनुष्टुप्
सिंहनादी कपर्दी च प्रलयाग्निर्भयङ्करः ।बहुरूपी महाकालः स्थिरात्मा क्षतजोक्षितः ॥
4.37 · p. 31
अनुष्टुप्
बलभेदी रक्तपटश्चण्डीशो ज्वलनध्वजः ।धूमध्वजो व्योमवक्त्रस्त्रैलोक्यग्रसनात्मकः ॥
4.38 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
(नयनश्रोत्रास्यनासाहृत्सु न्यासे दश स्वराः ॥
4.39 · p. 31
ध्वजिनीधूम्रभैरव्यावभावे च दृशोः स्मृते ।मूलार्णमुखमादिष्टं हृदयं स्वरशक्तयः ॥
4.40 · p. 31
अनुष्टुप्
आदिमध्यावसानेषु पूर्वाभावे यथोत्तरम् ॥)
4.41 · p. 31
अनुष्टुप्
कण्ठास्यः कालवक्त्रेण महाकालेन भूषितः ।तदादिः पञ्चरश्मिश्च सृष्टिस्थितिलयं विषम् ॥ॐ॥
4.42 · p. 31
अनुष्टुप्
शूलिन्या सहितोऽग्निस्थश्चण्डीश इन्दुबिन्दुमान् ।एतद्विष्णुप्रियाबीजं यन्मान्यं जगतः प्रियम् ॥श्री̐॥
4.43 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
क्षतजस्थो व्योमवक्त्रश्चण्डोग्राबिन्दुभूषितः ।अद्रिजा रौद्री भूतेशो बीजं प्राथमिकं प्रियम् ॥ह्री̐॥
4.44 · p. 31
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्री (wrong syllable)
क्रोधीशो रक्तसंस्थश्च धूम्रभैरव्यलङ्कृऽतः ।बिन्द्विन्दुसंयुतो बीजं द्रावणं क्लेदनं स्मृतम् ॥क्री̐॥
4.45 · p. 31
अनुष्टुप्
व्योमास्यो बिन्दुसंयुक्तस्तालजङ्घाविभूषितः ।कूर्चं कालो महाकालः क्रोधबीजं निरञ्जनम् ॥हू̐॥
4.46 · p. 31
अनुष्टुप्
उन्मत्तभैरवी रुद्रडाकिन्या च विभूषिता ।नादेनाऽलङ्कृता बीजं वाग्भवं बुद्धिवर्द्धनम् ॥ए̐॥
4.47 · p. 31
अनुष्टुप्
-----------------------------------फडित्यस्त्रं प्रसिद्धं स्यात् ॥फट्॥ ज्वालाग्निर्व्यापकाङ्कुशः ॥क्री̐॥
4.48 · p. 31
metre not recognised
शिरः स्वाहा द्विठो वह्निजाया ज्वलनवल्लभा ।दक्षजानुद्वयं सेन्दुः देवास्यं वह्निसुन्दरी ॥स्वाहा॥
4.49 · p. 32
अनुष्टुप्
इन्द्रासनगतो ब्रह्मा त्रिमूर्त्तीन्दुश्च मन्मथः ॥क्ली̐॥
4.50 · p. 32
गर्जिनी-धूम्रभैरव्यौ दक्षवामपयोधरौ ।व्योमास्यः कालवक्त्राढ्यो वर्म बिन्दीन्दुसंयुतः ॥हु̐॥
4.51 · p. 32
अनुष्टुप्
शून्यं क्षतजमारूढं चण्डभैरव्यलङ्कृऽतम् ।नादबिन्दुयुतं मूर्ध्नि ज्योतिर्मन्त्रं उदाहृतः ॥ह्रौ̐॥
4.52 · p. 32
अनुष्टुप्
आदिदेवेन निर्दिष्टं मन्त्रकोषमनुत्तमम् ।यदर्थिभ्यः पुरा गुप्तं तन्मयाऽद्य प्रकाशितम् ॥
4.53 · p. 32
अनुष्टुप्
यक्षडामरतन्त्रस्य मन्त्रकोषविवेचनम् ।क्रोधीशेन तु यत्प्रोक्तं भैरवाय महात्मने ॥
4.54 · p. 32
अनुष्टुप्
यामि(ग्रासि)नी त्रासिनी चण्डी कलेत्येवं प्रकीर्त्तिता ।कालभैरवेऽमरसर्वासु भूतलाङ्गलवरासु च (?) ॥
4.56 · p. 32
अनुष्टुप्metre not read in every line
मानिनी हंसिनी चौला कलना भू(धू)मिनीति च ।आदिदेवेन निर्दिष्टाः प्रथमाधिपशक्तयः ॥
4.58 · p. 32
अनुष्टुप्
विभ्रमो बाहुलो दण्डी भैरवो नटकः शुकः ।वृकोदरो जटी भीष्मः क्षोभकः खे(ख)चरो नटः ॥
4.59 · p. 32
अनुष्टुप्
-----------------------------------निशाचरो ध्वजी भीमो विचित्रः कौषिको यमः ।लिङ्गी वत्साधिको भृङ्गी मणिभद्रो घटोत्कचः ॥
4.60 · p. 32
अनुष्टुप्metre not read in every line
महानन्दी शुको दण्डी सुग्रीवः कलहो भवः ।दण्डी भाषान्तकोऽजेशो (गर्गो) हंसः पक्षैश्चरो हली ॥
4.61 · p. 33
अनुष्टुप्
चण्डीबीजमिति ख्यातं विद्युन्नागाङ्गनांशुकैः ।औरसाधिकेऽंशुकाद्या च धूमिन्यसौ किन्नरः स्मृतः (?) ।उर्वश्यालङ्कृऽतो हंसो हंसेन्दुमस्तकोद्धृतः ॥हू̐॥
4.62 · p. 33
अनुष्टुप्metre not read in every line
विद्युच्चण्डा च हंसी च केतुर्नागिन्यलङ्कृऽता ॥ह (?)॥
4.63 · p. 33
डिण्डिभेन सरक्तेन कामिनी बिन्दुभिः शशी ॥श्री̐॥
4.64 · p. 33
हंससुग्रीवपार्वत्या कपर्द्दीन्द्वाद्यलङ्कृता ॥ह्री̐॥
4.65 · p. 33
विग्रहकलहकामिनीन्द्वादिप्राणहारिणी ॥क्री̐॥
4.66 · p. 33
विभ्रमो रक्तपार्वत्यै स्वाहा उल्कामुखी स्मृता ।ज्वालन्धरीति विख्याता सबिन्द्विन्दुकला नटी ॥ठं॥
4.67 · p. 33
अनुष्टुप्
हंसः सुग्रीवचण्डाद्यैः खद्योतैः परिकीर्त्तिता ॥ह्रम्॥
4.68 · p. 33
श्यामालिङ्गितदेहोऽसौ खद्योतो ज्योतिरीरितः ॥ह्रौम्॥
4.69 · p. 33
यमः सुग्रीवः कामिनीन्द्रेद्वाद्यैः किन्नरीति च ॥ह्रुम्॥
4.70 · p. 33
सुग्रीवोऽपि यमश्चण्डो नीलाद्यैर्बाण ईरितः ॥द्राम्॥
4.71 · p. 33
यमः सुग्रीवबिन्द्वीन्दुजपाद्यः पिशिताशनः ॥द्रूम्॥
4.72 · p. 33
त्यागिनं मणिभद्रस्थं प्रेतिनीन्द्वाद्यलङ्कृतम् ।युगान्तकारकं बीजं भैरवेण प्रकाशितम् ॥स्फें॥
4.73 · p. 33
अनुष्टुप्
भृङ्गिणं मेखलायुक्तम् प्रेतिनीन्द्वाद्यलङ्कृतम् ।बीजं वैतालिकं प्रोक्तं द्विठेनोक्ता मनोहरी ॥प्लें स्वाहा॥
4.74 · p. 33
अनुष्टुप्
-----------------------------------विभ्रमो धूमिनी विद्युच्चण्डिकाद्यस्तु काकिनी ।ध्वाङ्क्षबीजमिति ख्यातं सर्वतन्त्रेषु गोपितम् ॥प्री̐॥
4.75 · p. 33
अनुष्टुप्metre not read in every line
नटद्वयेन धूमिन्या ऊर्ध्वकेश्या ह्यलङ्कृतम् (?) ॥फ्रे̐॥
4.76 · p. 34
नटो धवानसंयुक्तो नटीतीक्ष्णपयोधरैः (?) ॥टं ठं॥
4.77 · p. 34
पार्वत्यालिङ्गितं मणिभद्रस्थं योगिनीप्रिये ।फेत्कारिणीति विख्याता विद्युच्चण्डविभूषिता ॥स्फी̐॥
4.78 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 म (wrong syllable)
सुग्रीवास्थिलयः श्रोत्रे हृद्यत्वाविकलादृशः (?) ।विकलायाः स्वभावे च स्याद्गौरीति च पार्वती ॥
4.79 · p. 34
अनुष्टुप्
मूलार्णमासमाख्यातं हृदयं स्वरशक्तयः ।भवस्थित्यवसानेषु विज्ञातव्यं यथोत्तरम् ॥
4.80 · p. 34
अनुष्टुप्
आदिदेवेन निर्दिष्टं जम्बुद्वीपे कलौ युगे ।मन्त्रकोषमिदं भूतयक्षडामरतन्त्रयोः ॥
4.81 · p. 34
अनुष्टुप्
मर्त्यानामुपकाराय त्रिषु लोकेषु दुर्लभम् ॥
4.82 · p. 34

॥ इति श्रीभैरवविरचितो बीजनिघण्टुमन्त्रकोषः समाप्तः ॥

-----------------------------------
4.83 · p. 34