कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

औ

auअ · indecl.

In 4 kośas: 1 synonym verse, 12 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.37 · p. 123
तैलंपाता स्वधार्थे स्यात्स्त्रियां नामायमिष्यते ।चैत्ययज्ञे नमोऽथ स्युर् ए ऐ ओ औ अ ई इ ऊ ।उ हे है भो पाडयेप्याडेते संबोधनार्थकाः ॥ ३७ ॥
अनुष्टुप्metre not read in every line
genderअindecl.
धरणिकोश Dharaṇikośa · धरणिदास अकाराद्यन्ताः Dharaṇikośa 34.1.4 · p. 234
ओऔशब्दौ तु होहौवत्संबुद्ध्याह्वानयोः स्मृतौ ।निपातानामसत्वादि प्रायेणार्थाः प्रकीर्तिताः ।येचित्केचित्क्वचिद्ग्रन्थे मया प्राप्ताः प्रकीर्तिताः ॥
अनुष्टुप्
meanings
कोषकल्पतरु Koṣakalpataru · विश्वनाथ अव्ययवर्गः Koṣakalpataru 5.1.79 · p. 128
लृ मङ्गलेऽथो ए ऐस्तः स्मृत्यामन्त्रण-हूतिषु ।संबुद्ध्याह्वानयोरो औ कुस्तु वारणकुत्सयोः ॥ ७९ ॥
अनुष्टुप्
meanings
शब्दरत्नावली Śabdaratnāvalī · मथुरेश अव्ययवर्गप्रकाशः Śabdaratnāvalī 8.2 · p. 299
लृरदित्यां ॡ दितौ च एर्विष्णौ ऐर्महेश्वरे ।ओ ब्रह्मण्यौरनन्ते च अं विधौ अः पितामहे ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश नानार्थवर्गः Śabdaratnāvalī 8.1.13 · p. 300
औ निर्णये समाह्वाने सम्बोधननिरोधयोः ।
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात मन्त्राभिधान Tantrābhidhāna 1.10 · p. 2
औ-कारो मनुराख्यातो दन्तान्तोऽधोरदाह्वयः ।सङ्कर्षणोऽपि देवेशि! कथितोऽनुग्रहेश्वरः ॥ १० ॥
अनुष्टुप्
औ-कारः शक्तिको नादस्तै(ते)जसो वामजङ्घकः ।मणिबन्धो ग्रहेशश्च शङ्कुकर्णः सदाशिवः ॥ ४६ ॥
अनुष्टुप्
अधोदन्तश्च कण्ठोष्ठौ सङ्कर्षणः सरस्वती ।आज्ञा चोर्ध्वमुखी शान्तो व्यापिनी प्रकृतः पयः ॥ ४७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्ष (wrong syllable)
अनन्ता ज्वालिनी व्योमा चतुर्द्दशी रतिप्रियः ।नेत्रमात्माकर्षिणी च ज्वाला मालिनिका भृगुः ॥ ४८ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 र्द्द (wrong syllable)
तन्त्राभिधान Tantrābhidhāna · अज्ञात एकाक्षरकोषः Tantrābhidhāna 3.4 · p. 23
ए-कारः कथितो विष्णुरै-कारश्च महेश्वरः ।ओ-कारस्तु भवेद्ब्रह्मा औ-कारो रुद्र उच्यते ॥ ४ ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात बीजनिघण्टु Tantrābhidhāna 4.1 · p. 27
अ विद्युज्जिह्वा, आ कालवज्री, इ गर्जिनी,ई धूम्रभैरवी, उ कालरात्रिः, ऊ विदारी, ऋ महारौद्री,ॠ भयङ्करी, ऌ संहारिणी, ॡ करालिनी, ए ऊर्ध्वकेशी,ऐ उग्रभैरवी, ओ भीमाक्षी, औ डाकिनी, अं रुद्रराकिणी,अः चण्डिका, क क्रोधीशः, ख वामनः, ग चण्डः,घ विकारी, ङ उन्मत्तभैरवः, च ज्वालामुखः, छ रक्तदंष्ट्रः,ज असिताङ्गः, झ वडवामुखः, ञ विद्युन्मुखः, ट महाज्वालः,ठ कपाली, ड भीषणः, ढ रुरुः, ण संहारी, त भैरवः,थ दण्डी, द बलिभुक्, ध उग्रशूलधृक्, न सिंहनादी,प कपर्दी, फ करालाग्निः, ब भयङ्करः, भ बहुरूपी,म महाकालः, य जीवात्मा, र क्षतजोक्षितः, ल बलभेदी,व रक्तपटः, श चण्डीशः, ष ज्वलनध्वजः, स धूमध्वजः,ह व्योमवक्त्रः, क्ष त्र्यैलोक्यग्रसनात्मकः ॥
metre not recognised
तन्त्राभिधान Tantrābhidhāna · अज्ञात वरदातन्त्रोक्तमन्त्रार्थाभिधान Tantrābhidhāna 11.2 · p. 65
आदौ प्रसादबीजस्य मन्त्रार्थं शृणु पार्वति ।शिववाची हकारस्तु औकारः स्यात् सदाशिवः ॥
अनुष्टुप्
तन्त्राभिधान Tantrābhidhāna · अज्ञात वरदातन्त्रोक्तमन्त्रार्थाभिधान Tantrābhidhāna 11.19 · p. 66
क्ष नृसिंहो ब्रह्म रश्च ऊर्ध्वदन्तार्थकश्च औ ।दुःखहरार्थको बिन्दुर्नृसिंहं तेन पूजयेत् ॥क्ष्रौं॥
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 3 ह (wrong syllable)