All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
नानार्थवर्गप्रकाशः · पान्ताः
इति नान्तवर्गः ॥
कपिर्ना वानरेऽपि स्याद्वासुदेवे च सिरके ।कूपःकूपकगर्त्ताह्वमृन्मानगुणवृक्षके ॥
7.21.3 · p. 248
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 सि (wrong syllable)
कृपी स्त्रियां द्रोणपत्न्यां स्याद्द्रोणश्यालके कृपः ।कृपा दयायां हर्षे च खष्पः क्रोधे वलात्कृतौ ॥
7.21.4 · p. 248
अनुष्टुप्
क्षेपः स्यात्प्रेरणे गर्वे निन्दाविक्षेपलेपने ।गोपः पुंसि नृपे गोष्ठ्याध्यक्षे गोपालकेऽपि च ॥
7.21.5 · p. 248
अनुष्टुप्
भूरि-ग्रामाद्यधिकृते रक्षकेतूपकारके ।गोपी गोपालकान्तायां सारिवाख्यौषधौ स्त्रियाम् ॥
7.21.6 · p. 248
अनुष्टुप्
छपः क्षुपे स्पर्शने च अपुरङ्गे च सीसके ।अल्पमट्टे क्लीबलिङ्गं शयनीयकलत्रयोः ॥
7.21.7 · p. 248
अनुष्टुप्
तापः कृच्छे च सन्तापे तापी नद्यन्तरे स्त्रियाम् ।त्रपा स्त्री कुलटायाञ्च स्याल्लज्जाकुलकीर्तिषु ।दर्पः पुमानहङ्कारे कस्तूर्यां दर्पकेऽपि च ॥
7.21.8 · p. 248
अनुष्टुप्
पुष्पां विकाशे कुसुमे कान्तारजसि न द्वयोः ।रूपं सौन्दर्ये स्वभावे मानके निनदे पशौ ॥
7.21.10 · p. 248
अनुष्टुप्
ग्रन्थावृत्तौ नाटकादौ श्लोके चा कोरकेऽपि च ।रेपः क्रूरे निन्दिते च रोपो बाणे च रोपणे ॥
7.21.11 · p. 248
अनुष्टुप्
लेपः स्याद्भोजने लिप्तौ वयाच्छिद्रे च मेदसि ।वाष्पो ना स्रेऽप्युष्मयुते शष्पं ह्रासे तृणेऽपि च ॥
7.21.12 · p. 248
अनुष्टुप्
शापो दिव्ये तथाक्रोशे शिल्पं योग्ये स्रुवेऽपि च ।स्वापः स्पर्शाज्ञताज्ञाननिद्रासंवेशनेषु च ॥सूपः स्याद्व्यञ्जने सूदे सूर्पो भाण्डे तु शायके ।
7.21.13 · p. 248
अनुष्टुप्
अनूपः कासरे पुंसि देशभेदे तु वाच्यवत् ॥आवापो वपने भाण्डे परिक्षेपालवालयोः ॥
7.21.14 · p. 249
अनुष्टुप्
आक्षेपो भर्त्सनाकृष्टिकाव्यालङ्कारणेषु च ।उडुपन्तु प्लवे न स्त्री पुमान् हिमकरे भवेत् ॥उलपोऽस्त्री तु गुल्मिन्यां तृणभेदे भवेत्पुमान् ।कच्छपो निधिभित्कूर्ममल्लबन्धान्तरेषु च ॥
7.21.15 · p. 249
अनुष्टुप्
कच्छपीवल्लकीभेदक्षुद्ररोगडुलीष्वपि ।कलापो भूषणे तूणे काञ्च्यां बर्हे च संहतौ ॥कशिपु क्लीबमेकोक्त्या मिलिते चान्नवाससी ।पृथक्कृतेऽन्ने वस्त्रे च कशिपुः पुंसि दृश्यते ॥
7.21.16 · p. 249
अनुष्टुप्
काश्यपो मुनिभेदे स्यान्मृगे पुंसि क्षितौ स्त्रियाम् ॥
7.21.17 · p. 249
कुतपोऽस्त्री कुशे वाद्ये दौहित्रे छागकम्बले ।दिवसस्याष्टमांशे च भवेद्दिनकरे पुमान् ॥कुणपः पूतिगन्धौ स्याच्छवे स्त्री शारिकादिषे ।जिह्वापः कुक्कुरे व्याघ्रे मार्जारे भल्लुकेऽपि च ॥प्रतापः पुंसि तापे स्याच् शौर्ये तीक्ष्णांशुतेजसि ।रक्तपा स्त्री जलोकायां डाकिन्यां राक्षसे पुमान् ॥विटपोऽस्त्री वृक्षशाखाविस्तारे पल्लवेषु च ॥
7.21.18 · p. 249
अनुष्टुप्
पुमान् कुटन्यनिद्रात्मकलत्रे(?) च विटाधिपे ।विकल्पः कल्पने भ्रान्तौ द्वैधेऽपि च भवेत्पुमान् ॥
7.21.19 · p. 249
अनुष्टुप्
अभिरूपो बुधे रम्ये कामेन्दुहरविष्णुषु ।अवन्वेपो दूषणे स्यादहङ्कारे च लेपने ॥
7.21.20 · p. 249
अनुष्टुप्
उपतापस्त्वराव्याधिसमुत्तापाशुभार्त्तिषु ।जलकूपी पुष्करिण्यां कूपे गर्तेऽपि च स्त्रियाम् ॥नागपुष्पं चम्पके स्यात्पुन्नागे नागकेशरे ।परिवापो जलस्थाने पर्याप्तौ च परिच्छदे ॥परितापः पुमान् दुःखे शोके च नरकान्तरे ॥
7.21.21 · p. 249
अनुष्टुप्
पिण्डपुष्पं सरोजे स्याज्जवातगरवञ्जुले ।बहुरूपी(?) स्मरे विष्णौ शिवे च केशबुद्धयोः ॥मेघपुष्पः शक्रह्ये क्लीबं पिण्डाभ्रवारिणोः ।विप्रलापोऽपार्थवाक्ये विरोधवचनेऽपि च ॥
7.21.22 · p. 249
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 4 ष्पः (syllables merged)
बीजपुष्पञ्च मदने क्लीबं मरुवकेऽपि च ।वृषाकपिः पुंसि कृष्यो वीतिहोत्रे शिवेऽपि च ॥हेमपुष्पं जवापुष्पेऽप्यशोके च नपुंसकम् ।
7.21.23 · p. 250
अनुष्टुप्