All kośas › Paryāyaśabdaratna
पर्यायशब्दरत्न Paryāyaśabdaratna
981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)
मध्यमलोकसर्गः (4/7)
उपासनं शराभ्यासे शरः पत्री पुमान्खगः ।अजिह्मगः कलम्बश्च रोदो रोप इषुर्द्वयोः ॥ ३६१ ॥
2.361 · p. 71
अनुष्टुप्
प्रक्ष्वेडना तु नाराचे वाजः पक्षश्च तत्सरे ।महोत्कृष्टपृषत्के तु निरस्तः प्रहितः समौ ॥ ३६२ ॥
2.362 · p. 71
अनुष्टुप्
विषलिप्तशरे लिप्तो लिप्तको दिग्धमित्यपि ।इषुधौ तूणतूणीरोपासङ्गकनिषङ्गकाः ॥ ३६३ ॥
2.363 · p. 71
अनुष्टुप्
खड्गे तु मण्डलाग्रः स्यान्निस्त्रिंशो रिष्टिरित्यपि ।कौक्षेयकश्चन्द्रहासः कृपाणोऽसिरपि स्मृतः ॥ ३६४ ॥
2.364 · p. 71
अनुष्टुप्
फलं च फलकश्चर्म संगृही संग्रहोऽपि च ।गृहश्च संगृहश्चापि चर्ममुष्टौ प्रकीर्तितौ ॥ ३६५ ॥
2.365 · p. 71
अनुष्टुप्
एकधारासिभेदे तु स्यादिली करवालिका ।भिण्डिपाले भिन्दिपालः सृगश्च लगुडोऽपि च ॥ ३६६ ॥
2.366 · p. 72
अनुष्टुप्
शक्तौ खण्डी घण्टिका च परिघं परिघातनः ।तोमरे तु मुसुण्डः स्याद्द्रुघणे घनमुद्गरौ ॥ ३६७ ॥
2.367 · p. 72
अनुष्टुप्
कुठारे स्वधितिः पर्शुः परश्वधफलोन्मुखौ ।नीचखड्गे तु शस्त्री स्याच्छुरिका चासिधेनुका ॥ ३६८ ॥
2.368 · p. 72
अनुष्टुप्
असिपुत्री पुत्रिका चेत्येवं केचिदुदाहृताः ।शल्यं शङ्कुर्दारुशूले सोऽपि स्यात्सर्वला परा ॥ ३६९ ॥
2.369 · p. 72
अनुष्टुप्
स्वल्पतोमरभेदे तु कुन्तं प्रास इतीरितः ।शस्त्रस्य धारायां प्रोक्तम(मा?)रं कोटिर्मुरोऽपि च ॥ ३७० ॥
2.370 · p. 72
अनुष्टुप्
पालिरश्रिश्चरः कोशोऽप्यस्रं चापि प्रकीर्तितम् ।संनद्धसैन्ये सर्वौघः स च सर्वाभिसारकः ॥ ३७१ ॥
2.371 · p. 72
अनुष्टुप्
संनः संनहनं चाथ युद्धायोद्युक्तभूभृतः ।निःसारयन्ति शस्राणि यस्मिन्देशे मनोहरे ॥ ३७२ ॥
2.372 · p. 72
अनुष्टुप्
तस्मिँल्लोहाभिसारः स्याल्लोहासार इति द्वयम् ।रिपुं तिरस्कृत्य गतावभिषेणनमिष्यते ॥ ३७३ ॥
2.373 · p. 73
अनुष्टुप्
यात्रायामभिगं व्रज्या प्रस्थानं गमनं गमः ।आसारश्च प्रसरणं सैन्यव्याप्तौ प्रकीर्तितौ ॥ ३७४ ॥
2.374 · p. 73
अनुष्टुप्
पलायितं प्रचक्रं च चलिते सैन्य इष्यते ।अभिक्रमणमास्कन्दे रिपुं प्रत्युदितो(त्यभितो?) गतौ ॥ ३७५ ॥
2.375 · p. 73
अनुष्टुप्
वैतालिको बोधकरो नृपबोधकपाठके ।वितालो विकरश्चाथ चाक्रिको घाण्टिके मतः ॥ ३७६ ॥
2.376 · p. 73
अनुष्टुप्
मागधे मगधो मोदी नान्दीकश्च विशारदः ।वन्दी वन्दान्यो घोषश्च घोषकः स्तुतिपाठकः ॥ ३७७ ॥
2.377 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 न्यो (wrong syllable)
सप्तकः संसप्तकश्च सङ्ग्रामादनिवर्तिते ।रेणुः पांसौ पुमान्क्षोदः शर्करासहिते रजे (तं रजः?) ॥ ३७८ ॥
2.378 · p. 73
अनुष्टुप्
समुत्पिञ्जः पिञ्जरश्च भृशव्याकुलसैन्यके ।पताकश्च पताका च केतनं च ध्वजे मताः ॥ ३७९ ॥
2.379 · p. 73
अनुष्टुप्
स्याद्वीराशंसनं युद्धभयातिशयभूमिका ।स्यादहंपूर्विका वीरप्रोत्सादनसुकर्मणि ॥ ३८० ॥
2.380 · p. 73
अनुष्टुप्
स्यादुक्ताहमहमिका चाहोपुरुषिका तथा ।परस्परं तु वीराणामहंकार इतीष्यते ॥ ३८१ ॥
2.381 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ह (wrong syllable)
सामर्थ्ये द्रविणं शौर्यं तरः सह इति द्वयम् ।स्थे(स्था?)म शुष्म बलं प्राणः शक्तिश्चापि पराक्रमः ॥ ३८२ ॥
2.382 · p. 74
अनुष्टुप्
वीरपाणं वीरपानं युद्धे मद्यविपानने ।वीरवृत्तौ तु वीरालं विरालमपि कथ्यते ॥ ३८३ ॥
2.383 · p. 74
अनुष्टुप्
युद्धे युद्धं सायुधं युदाजिः संपात इत्यपि ।जन्यं संख्यं मृधं कल्पं कलिरास्कन्दनं तथा ॥ ३८४ ॥
2.384 · p. 74
अनुष्टुप्
आमर्दः कलहः क्षेपः प्रधनं प्रविदारणम् ।समीकं समरः सङ्गः साम्परायिकमित्यपि ॥ ३८५ ॥
2.385 · p. 74
अनुष्टुप्
संस्फोटः संप्रहारश्चाभिसंपातः समित्स्त्रियाम् ।समितिः समुदायश्चाभ्यामर्दं संयदित्यपि ॥ ३८६ ॥
2.386 · p. 74
अनुष्टुप्
बाहुयुद्धे नियुद्धं स्यात्तुमुले संकुलं मतम् ।अश्ववृन्दे हलाहाली गजौघे घटना घटा ॥ ३८७ ॥
2.387 · p. 74
अनुष्टुप्
क्रन्दनं भटसंरावे बृंहितं गजगर्जिते ।फलितं हरिशब्दे स्यान्नादितं रथनादने ॥ ३८८ ॥
2.388 · p. 74
अनुष्टुप्
धनुःस्वाने तु विस्फारः शङ्खरावे विभञ्जनः ।संरम्भने तु पटहश्चाडम्बर इति द्वयम् ॥ ३८९ ॥
2.389 · p. 75
अनुष्टुप्
बलात्कारे हरः(ठः?) सायः प्रसभः(भं?) प्रसरोऽपि च ।उत्पाते ता(चो?)पसर्गः स्यादजन्यं जन्यमित्यपि ॥ ३९० ॥
2.390 · p. 75
अनुष्टुप्
मूर्च्छायां कश्मलं मोहः स्खलिते तु छलं मतम् ।अप(व?)मर्दः पीडने स्याद्बलादाक्रमणेऽपि च ॥ ३९१ ॥
2.391 · p. 75
अनुष्टुप्
अभ्यवस्कन्दनं च स्यादभ्यासादनमित्यपि ।प्रोक्ता प्रत्यपकारे तु वैरशुद्धिः प्रयोजनम् ॥ ३९२ ॥
2.392 · p. 75
अनुष्टुप्
निर्यातनं निर्यसनं निर्यासनमिति स्मृतम् ।पलायने तु द्रवणं विद्रावो विद्रवो द्रवः ॥ ३९३ ॥
2.393 · p. 75
अनुष्टुप्
वधे प्रहरणं प्राणहरणं क्रथनं हरः ।क्षणनं निर्गन्ध(न्थ?)नं च निराकरणमित्यपि ॥ ३९५ ॥
2.395 · p. 75
अनुष्टुप्
निरासनं निकारणं निबर्हणं निशारणम् ।प्रवासनं निवा(र्वा?)सनं परासनं त्ववा(पा?)सनम् ॥ ३९६ ॥
2.396 · p. 76
पञ्चचामरम्
निषूदनं विघातनं निहिंसनं विहिंसनम् ।निहननं विहननं विशंसनं विशारणम् ॥ ३९७ ॥
2.397 · p. 76
metre not recognised
उन्माद(थ?)श्च प्रमथनं हननं घात एव च ।प्रतिघातं चालभश्च निर्वापणसमापने ॥ ३९९ ॥
2.399 · p. 76
अनुष्टुप्
निर्गन्धनं संज्ञपनं निस्तर्हणमिति स्मृतम् ।एवं बहुविधाः शब्दा उन्नेयास्तत्त्ववेदिभिः ॥ ४०० ॥
2.400 · p. 76
अनुष्टुप्
प्राणत्यागे कालधर्मः पञ्चता प्रलयो लयः ।दिष्टान्तो निधनं मृत्युर्मरणं सदनं हरिः ॥ ४०१ ॥
2.401 · p. 76
अनुष्टुप्
मृते परासुः पञ्चत्वान्परेतः प्रेत इत्यपि ।मृतः प्रमीतः प्रकलः संस्थितो निष्कलस्तथा ॥ ४०२ ॥
2.402 · p. 76
अनुष्टुप्
चिता चित्या च चित्ति(ति?)श्च काष्ठभस्मनि ते त्रयः ।शवे तु कुणपः प्रोक्तः कारागेहे प्रतिग्रहः ॥ ४०३ ॥
2.403 · p. 76
अनुष्टुप्
प्रग्रहोपग्रहौ चाथ प्राणाश्चासव इत्यपि ।पुंसि भूम्नि कदाचित्तु वैकतापि प्रसज्यते ॥ ४०४ ॥
2.404 · p. 77
अनुष्टुप्
आयुर्जीवितकाले स्यादाजीवः प्राणधारणे ।जीवसौख्ये तु जैवातुर्जीवातुर्जीवनौषधे ॥ ४०५ ॥
2.405 · p. 77
अनुष्टुप्
वैश्ये तूरुज ऊरव्य आ(अ?)र्यभूमिस्पृशौ [च] विट् ।जीवने वर्तनं वार्ता जीविकाजीव इत्यपि ॥ ४०६ ॥
2.406 · p. 77
अनुष्टुप्
पाशुपाल्ये तु वाणिज्यं श्ववृत्तिर्नीचसेवने ।अनृतं कृषिवृत्तौ स्यादुञ्छवृत्तौ ऋतं शिलम् ॥ ४०७ ॥
2.407 · p. 77
अनुष्टुप्
उञ्छमुञ्छशिलं कुञ्चं शिलोञ्छं च शिलातलम् ।स्यादयाचितवृत्तौ स्यादमृतं मृतमन्यथा ॥ ४०८ ॥
2.408 · p. 77
अनुष्टुप्
वाणिज्यवृत्तावनृतं सत्यं सत्यानृतं तथा ।ऋणे त्वृणो महाकष्टमुद्धारः पर्युदञ्चनम् ॥ ४०९ ॥
2.409 · p. 77
अनुष्टुप्
स्याद्वृद्धिजीविकायां तु कुसीदं वार्धिकं तथा ।याच्ञाद्रव्ये याचितकं नियमा(मया?)त्संभृतेऽपि तु ॥ ४१० ॥
2.410 · p. 78
अनुष्टुप्
आपमित्यकमक्लिष्टमनिन्द्यं चापमित्यकम् ।उत्तमर्णस्तु वृद्ध्यर्थं धनधान्यप्रयोक्तरि ॥ ४११ ॥
2.411 · p. 78
अनुष्टुप्
अधमर्णो धनग्राहे अधवर्णोऽपि च क्वचित् ।अन्येन स्वल्पवृद्ध्या यः स्वमादायान्यमानुषात् ॥ ४१२ ॥
2.412 · p. 78
अनुष्टुप्
बहुवृद्ध्या तु जीवेत तस्मिन्वार्धुषिकः स्मृतः ।कुसीदकश्च कुटिलो वृद्ध्याजीवो बहूकृतः ॥ ४१३ ॥
2.413 · p. 78
अनुष्टुप्
क्षेत्राजीवे कर्षकः स्यात्कृषिकश्च कृषीवलः ।व्रैहेयं व्रीहिनं यव्यं यवक्यं यावनं तथा ॥ ४१४ ॥
2.414 · p. 78
अनुष्टुप्
शाल्यं शालेयमपि च षाष्टिक्यं षाष्टिकं तथा ।तैलीनं चापि तिल्यं च माष्यं मापि(षी?)णमित्यपि ॥ ४१५ ॥
2.415 · p. 78
अनुष्टुप्
औमीनं तूमिनं तूम्यमण्वं चाणवि(वी?)नं तथा ।भङ्ग्यं च भाङ्गि(ङ्गी?)नं भाङ्गं मौद्गिकं मौद्गि(द्गी?)नं तथा ॥ ४१६ ॥
2.416 · p. 78
अनुष्टुप्
कोद्रव्यं स्यात्कौद्रवीणं मासूरं मासुरीणकम् ।इत्यादयो भूमिभेदा उन्नेयाः शास्त्रवेदिभिः ॥ ४१७ ॥
2.417 · p. 79
अनुष्टुप्
बीजैः समानमाकृष्यमाणक्षेत्रे तु कृष्टितम् ।बीजाकृतं बीजकृतमुत्तप्तं चोप्तकृष्टकम् ॥ ४१८ ॥
2.418 · p. 79
अनुष्टुप्
हलेन लिखिते क्षेत्रे हल्यं सीत्यं कृषीकृतम् ।कृष्टं चाथ त्रिवा(ह?)ल्यादिस्त्रिवारं कृष्टभूतले ॥ ४१९ ॥
2.419 · p. 79
अनुष्टुप्
शम्बाकृतं द्विकृष्टेऽथ क्षेत्रे वापः प्रकीर्तितः ।खारिकादिकशब्दाः स्युः संख्याबीजाङ्कभूतले ॥ ४२० ॥
2.420 · p. 79
अनुष्टुप्
कैदारिकं च कैदार्यं कैदारणमुखादिकम् ।केदारवृन्दे मृत्पिण्डे लोष्टानी लोष्टना च सा ॥ ४२१ ॥
2.421 · p. 79
अनुष्टुप्
स्याल्लोष्टभेदनार्थाय निर्मिते दारुभेदके ।कोटीशः पुंसि चाथ स्यात्तोत्रं तोदनप्राजने ॥ ४२२ ॥
2.422 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 न (wrong syllable)
श्रल्पशय्यायुक्तवेणुदण्डे चाथावदारणम् ।खनित्रं चापि कुद्दाले लवित्रे दात्रमिष्यते ॥ ४२३ ॥
2.423 · p. 79
अनुष्टुप्
पश्वादिकण्ठरज्जौ तु योक्त्रं चाबन्ध इत्यपि ।योत्रं च बन्धकं चाथ कूटं फालाग्रदारुणि ॥ ४२४ ॥
2.424 · p. 80
अनुष्टुप्
कृषके फाल इत्युक्त ईषा शम्या समार्थके ।कारिर्मेधा च तत्पुच्छे मेधिरित्यभिधीयते ॥ ४२५ ॥
2.425 · p. 80
अनुष्टुप्
एतत्सामग्रिसंयुक्ते लाङ्गलं सीर इत्यपि ।हलं फलकरं चापि गोदारणमितीष्यते ॥ ४२६ ॥
2.426 · p. 80
अनुष्टुप्
यवे तु शितशूकः स्याद्धरिते तोक्म इष्यते ।कलायः सतिनकश्च हरेणुः खण्डिकोऽपि च ॥ ४२७ ॥
2.427 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
कोद्रवाख्ये धान्यभेदे कोरदूषः प्रकीर्तितः ।स्यात्स्वल्पचणके सूरमसूरो(रौ?) मिरिदोऽपि च ॥ ४२८ ॥
2.428 · p. 80
अनुष्टुप्
मङ्गल्यकश्च मङ्गल्यो मञ्चितो मञ्चिदोऽप्यथ ।वनमुद्गे तु मङ्कुष्ठो मङ्कुष्ठकमयष्ठिकौ ॥ ४२९ ॥
2.429 · p. 80
अनुष्टुप्
सर्षपे कर्षपः पुंसि तुन्दु(न्तु?)भश्च कदम्बकः ।गोध्या(धू?)मे सुमनः प्रोक्तः सिद्धार्थः श्वेतसर्षपे ॥ ४३० ॥
2.430 · p. 80
अनुष्टुप्
कुल्माषो यावकश्चापि कुलुत्थे संप्रकीर्तितौ ।चणके हरिमन्थः स्यात्तिलपिञ्जस्तु निष्फले ॥ ४३१ ॥
2.431 · p. 81
अनुष्टुप्
तिले च तिलपेजश्च तिलपाजश्च सम्मतः ।स्यात्कृष्णसर्षपे क्षावः क्षुताभिजननोऽपि च ॥ ४३२ ॥
2.432 · p. 81
अनुष्टुप्
राजीवा (राजिका ?) कृष्णिकासूरिरासुरी चाथ कोरवे ।कङ्गुः प्रियङ्गुः सारङ्गुरतस्यां तु क्षुमाप्युमा ॥ ४३३ ॥
2.433 · p. 81
अनुष्टुप्
मातुलानी तु भङ्गा च भङ्गी च शणपुष्पिका ।व्रीहिधान्ये स्तम्बकरी कणिशं सस्यमञ्जरी ॥ ४३४ ॥
2.434 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त (wrong syllable)
नालं तृणशलाकायां नडिर्नाडी? नडीति च ।स्यान्निष्प(ष्फ?)ले नाडिभेदे पलाक्षश्च पलांक्षकः ॥ ४३५ ॥
2.435 · p. 81
अनुष्टुप्
खले पशुपदाघातमात्रक्षोदे बुसं स्मृतम् ।कडङ्गरः कडारश्च तुषो धान्यत्वचि स्मृतः ॥ ४३६ ॥
2.436 · p. 81
अनुष्टुप्
मुद्गादित्वचि शिम्बा स्याच्छमी पेला च डाकिनी ।सुक्षेत्रादिगुणैः पूर्णधान्ये वसितमिष्यते ॥ ४३७ ॥
2.437 · p. 81
अनुष्टुप्
ऋद्धं च निर्बुसीधान्ये बहुलीकृतमिष्यते ।माषश्च कलमाः शाल्यः शालयः षष्टिकादयः ॥ ४३८ ॥
2.438 · p. 82
अनुष्टुप्
नीवारास्तृणधान्याः स्युर्वनधूमे गवेधुकः ।प्रस्फोटनं तु शूर्पे स्यादुलूखलमुदूखलम् ॥ ४३९ ॥
2.439 · p. 82
अनुष्टुप्
चालिन्यां तितउः पुंसि प्रसेवे स्यूत इष्यते ।पुटिके पेटकः पेटः कण्डोलः कण्ड इत्यपि ॥ ४४० ॥
2.440 · p. 82
अनुष्टुप्
पौरोगवः पाककारे पाकस्थानं महानसम् ।सूपशाकव्यञ्जनादिपाचके बल्लवः पुमान् ॥ ४४१ ॥
2.441 · p. 82
अनुष्टुप्
भक्तादिकारके सूद आरालिकगुणौ तथा ।आन्धसिकश्चौदनिकोऽथापूप(पि?)क इतीष्यते ॥ ४४२ ॥
2.442 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 न्ध (wrong syllable)
भक्ष्यकारेऽथ चुल्यां(ल्ल्यां?) स्यादश्मन्तं गोपुरं तथा ।स्यादधिश्रयणी चोद्धानं चऊतं(?) च सम्मतम् ॥ ४४३ ॥
2.443 · p. 82
अनुष्टुप्
अङ्गारधानिकायां स्यादङ्गारशकटी हसी ।हसन्ती हसनी हंसी भारी त्वङ्गारमस्त्रियाम् ॥ ४४४ ॥
2.444 · p. 82
अनुष्टुप्
अलातमुल्मुके क्लीबे साग्निकाष्ठे पुमान्क्वचित् ।मङ्गले त्वम्बरीषं स्याद्भ्राष्ट्रश्चरक इत्यपि ॥ ४४५ ॥
2.445 · p. 83
अनुष्टुप्
पेवने स्वेदनी कन्दुर्मणिके स्यादलञ्जरः ।गलन्तिकायामालुः स्यात्कर्करी कलुगापि च ॥ ४४६ ॥
2.446 · p. 83
अनुष्टुप्
कुण्डे तु पिठरः स्थाली पिठरी चाप्युखा सुखा ।घटे तु कुमुदः कुण्डी निपातः(वः?) कुट इत्यपि ॥ ४४७ ॥
2.447 · p. 83
अनुष्टुप्
कलशस्त्रिषु रावे तु शरावो वर्धमानकः ।ऋचि(ची?)षं स्रुतपानं तु कंसपात्रे प्रकीर्तितम् ॥ ४४८ ॥
2.448 · p. 83
अनुष्टुप्
चर्मनिर्मितपात्रे तु कुतूरित्यभिधीयते ।कुत(तु?)पस्तु स्वल्पकुतूभेदे कुतिक इत्यपि ॥ ४४९ ॥
2.449 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्व (wrong syllable)
भाण्डं चावस(प?)नं चैव सर्वपात्राभिवाचके ।आमत्रं पात्रमक्लिष्टं भाजने परिकीर्तिताः ॥ ४५० ॥
2.450 · p. 83
अनुष्टुप्
कांस्यदर्व्यां तु दर्वी स्यात्खजाका कम्भि(म्बि?)रित्यपि ।दारुदर्व्यां तु तर्दूः स्याल्लौहे करित इष्यते ॥ ४५१ ॥
2.451 · p. 83
अनुष्टुप्
शाकमात्रे तु शिग्रुः स्याच्छाकं हरितकं तथा ।कडम्बश्च कलम्बश्च कपोतक्यादिनालके ॥ ४५२ ॥
2.452 · p. 83
अनुष्टुप्
मरीचिहिङ्गुजीरादिसंभारे स्यादुपस्करः ।वेषवारो वेषकरश्चाथ वृक्षाम्लमिष्यते ॥ ४५३ ॥
2.453 · p. 84
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वे (wrong syllable)
चुक्रा(क्रं?) च तिन्तिणीकं चाप्यथ वेल्लजमङ्कनम् ।ऊषणं कोलकं धर्मवत्तनं मरिचे मतम् ॥ ४५४ ॥
2.454 · p. 84
अनुष्टुप्
जीरके जीरणो जीर अ(आ?)जाजी वाथ कृष्णके ।सुषवी कारवी पृथ्वी पृथुः कालोपकुञ्चिके ॥ ४५५ ॥
2.455 · p. 84
अनुष्टुप्
आल्ले स्यादार्द्रकं शृङ्गबेरं चाथ कुतुम्बरे ।कुस्तुम्बुरुस्तुन्नकं च छत्रा धान्याकमित्यपि ॥ ४५६ ॥
2.456 · p. 84
अनुष्टुप्
शुण्ठ्यां विश्वं नागरं च विश्वभेषजमित्यपि ।स्यादन्नसारे कुलजं सौवीरं चारनालकम् ॥ ४५७ ॥
2.457 · p. 84
अनुष्टुप्
कुल्माषाभिषुतं गुञ्जं लेह्यं धान्याम्लकं तथा ।आ(अ?)वन्तिसोमं काञ्चीकं काञ्चिकं कविरित्यपि ॥ ४५८ ॥
2.458 · p. 84
अनुष्टुप्
सहस्रवेदी(दि?) जतुकं रामठं हिङ्गुरिष्यते ।हिङ्गुवृक्षत्वचि दले बाष्पिका पृथुरित्यपि ॥ ४५९ ॥
2.459 · p. 84
अनुष्टुप्
पृथ्वी कबरिका चाथ निशाख्या काञ्चनी तथा ।पीता हरिद्रा चाथ स्यादक्षीबं वशिरं तथा ॥ ४६० ॥
2.460 · p. 84
अनुष्टुप्
समुद्रलवणे चाथ सिन्धुदेशसमुद्भवे ।माणिबन्धं शितशिवं सैन्धवं चाथ बस्तकम् ॥ ४६१ ॥
2.461 · p. 85
अनुष्टुप्
रुमाख्याकरसंभूतलवणे परिकीर्तितम् ।पाकसंभूतलवणे बिडं पाक्यमिति द्वयम् ॥ ४६२ ॥
2.462 · p. 85
अनुष्टुप्
सुवर्चलाख्याकरजे रुचकं चाक्षमित्यपि ।एतस्मिन्नेव नीरे(ले?) तु तिलकं तिलमालकम् ॥ ४६३ ॥
2.463 · p. 85
अनुष्टुप्
स्याद्गौडशर्करायां तु मत्स्यन्दी(ण्डी?) मन्दती(ण्डली?)ति च ।किंचित्पङ्काकृते तस्मिन्फाणितं परिकीर्तितम् ॥ ४६४ ॥
2.464 · p. 85
अनुष्टुप्
शिता स्यात्पञ्चधारायां चैनी चीना च सम्मता ।नवप्रसूतगोक्षीरे कूर्चिका जिन्नुरित्यपि ॥ ४६५ ॥
2.465 · p. 85
अनुष्टुप्
दधिक्षीरादिसम्मिश्रतैलपक्वादिके स्मृता ।रसाला मज्जिका चाथ निष्ठानं तेमने मतम् ॥ ४६६ ॥
2.466 · p. 85
अनुष्टुप्
शूल्यमांसे भटित्रं स्याच्छूलाकृतमिति द्वयम् ।स्थालीसंपृक्तपिष्टादावुल्यं पैठरमित्यपि ॥ ४६७ ॥
2.467 · p. 85
अनुष्टुप्
दध्यन्नादौ प्रणीतं स्यादुपसंपन्नमित्यपि ।प्रश(य?)स्तं स्यात्तु लेह्यादौ कर्पूरादिसुसंस्कृते ॥ ४६८ ॥
2.468 · p. 85
अनुष्टुप्
समण्डदध्न्यादिके स्याद्विजलं पिच्छलं तथा ।वस्त्रशोधिततक्रादौ स(सं?)मृष्टं शोधितं तथा ॥ ४६९ ॥
2.469 · p. 85
अनुष्टुप्
जलसंपृक्तपिष्टादौ चिक्कणं मसृणं तथा ।सुगन्धवासितजले वासितं भावितं तथा ॥ ४७० ॥
2.470 · p. 86
अनुष्टुप्
संभृष्टचणकादौ स्यादम्यूषः पौलिरित्यपि ।धानाः पुंसि बहुत्वे च स्यात्संभृष्टयवादिके ॥ ४७१ ॥
2.471 · p. 86
अनुष्टुप्
स्यात्पिष्टकृतभक्ष्ये तु पिष्टकापूपपूपकाः ।अन्ने दिविः पुमान्भिः सा स्त्रियां भक्तं नपुंसके ॥ ४७२ ॥
2.472 · p. 86
अनुष्टुप्
स्थालूधं(?) दग्धभक्ते भिस्सटा साटी च सम्मता ।मण्डः स्यादिक्षुदध्यादौ ? मण्डं मुण्डोऽपि दृश्यते ॥ ४७३ ॥
2.473 · p. 86
अनुष्टुप्
भक्तमण्डे तु निस्रावश्चाचामो मासरोऽपि च ।अल्पान्नभवबाहुल्यपेयादौ तरलापि च ॥ ४७४ ॥
2.474 · p. 86
अनुष्टुप्
यवागु(गू?)रुष्णिका श्राणा विलेपी लेपिनी तथा ।स्यात्तु गोसम्बन्धिमात्रे गव्यं स्याद्गोमये [च?] विट् ॥ ४७५ ॥
2.475 · p. 86
अनुष्टुप्
शुष्के तस्मिन्करीषं स्यात्पयस्यं पायसे मतम् ।तक्रादौ दधिमध्वन्ने ? दध्यग्रं परिकीर्तितम् ॥ ४७६ ॥
2.476 · p. 86
अनुष्टुप्
घृते तु द्रव्यसं सर्पिः स्यातं स्यात्सेचनं हविः ।हैयङ्गवीनं पूर्वेद्युर्दुग्धगोघृतमात्रके ॥ ४७७ ॥
2.477 · p. 87
अनुष्टुप्
नवनीते च संप्रोक्तं नवनीतं नवोद्धृतम् ।दण्डाहतं कालशेयमरिष्टं नूतनं सनम् ॥ ४७८ ॥
2.478 · p. 87
अनुष्टुप्
वासलं कमलं चापि निर्जले मथितं दधि ।तस्मिन्दण्डाहते तक्रं चतुर्थांशजलान्विते ॥ ४७९ ॥
2.479 · p. 87
अनुष्टुप्
तस्मिन्नर्धाम्बुसहिते चोदश्विन्मथितं द्वयम् ।मतिमस्तु( ?) समाम्नातं दध्युत्पन्ननवोद्धृते ॥ ४८० ॥
2.480 · p. 87
अनुष्टुप्