कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

निगडित

nigaḍitaवि · adj.

In 5 kośas: 5 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.119 · p. 21
बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ४३८ ॥संदानितः संयतश्च स्यादुद्दानं तु बन्धनम् ।
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव विशेष्यनिघ्नकाण्डः Kalpadrukośa 1.9.81 · p. 223
प्रतिबद्धः प्रतिहतो हतश्चापि मनोहतः ।नद्धे बद्धो निगडितः संयतः कीलितः सितः ॥ ८१ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.71 · p. 8
हतः प्रतिहतश्च स्यादथ संदानितः सितः ।बद्धो निगडितो नद्धो यन्त्रितः कीलितस्तथा ॥ ७१ ॥
अनुष्टुप्
genderविadj.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.117 · p. 46
पाटितं दारितं भिन्नं विद्धे छिद्रितवेधितौ ।बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ११७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.220 · p. 89
तथा सन्दानितश्चापि प्रोक्तं निगडितः किल ।
अनुष्टुप्
genderविadj.