ईण्डेरिका च वटिका लघ्वी सा यदि क्रियते ।
4.121 · p. 77
अनुष्टुप्metre not read in every line
* रोटिकानाम *
शष्कुली भोजने सौम्या तथा स्यादर्धलोटिका ॥ ५९६ ॥
4.596 · p. 77
अनुष्टुप्metre not read in every line
* पर्पटानाम *
पर्पटाः मर्मरालाश्च घृताण्डी तु घृतौषणी ।
4.123 · p. 77
अनुष्टुप्
* मोदकनामानि *
मोदको लड्डुकश्चातिस्वादवान् सिंहकेसरः ॥ ५९७ ॥
4.597 · p. 77
अनुष्टुप्
भृष्टा यवास्तु धानाः स्युः धानाचूर्णानि सक्तवः ।
4.125 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ट (wrong syllable)
* चिपिटनाम *
चिपिटः पृथुकश्चैव चिपिटकोऽपि कथ्यते ॥ ५९८ ॥
4.598 · p. 77
अनुष्टुप्metre not read in every line
भृष्टधान्यानि लाजाः स्युरक्षताः शालिसारभाक् ।उद्धूषो भरुजो ज्ञेयः खटिका परिवारकः ॥ ५९९ ॥
4.599 · p. 77
अनुष्टुप्
गोधूमचूर्णः समिता यवक्षोदस्तु चिक्कसः ।गुड इक्षुरसक्वाथः सितोपला तु शर्करा ॥ ६०० ॥
4.600 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)
सिता च मधुधूलिस्तु खण्डं खण्डोऽपि कथ्यते ।मत्स्यण्डिका तु मत्स्यण्डी मत्स्याण्डिका च फाणितम् ॥ ६०१ ॥
4.601 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्डि (wrong syllable)
मत्स्याण्डी चेक्षुरसतः सामान्यं शर्कराभिदा ।
4.130 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
* शीखण्डनामानि *
शिखरिणी रसाला च मर्जिता मार्जिता तथा ॥ ६०२ ॥
4.602 · p. 78
अनुष्टुप्metre not read in every line
शीखण्डं कथ्यते लोके यूर्यूषश्च रसोऽन्यथा ।
4.132 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
* दुग्धनामानि *
दुग्धं च गोरसः क्षीरं पुसवनं च सोमजम् ॥ ६०३ ॥
4.603 · p. 78
अनुष्टुप्metre not read in every line
ऊधस्यममृतं गव्यं स्तन्यं योग्यं रसोत्तमम् ।बालसात्म्यं मधुज्येष्ठं जीवनीयं सरं रसम् ॥ ६०४ ॥
4.604 · p. 78
अनुष्टुप्
पयश्चेत्यादि नामानि दुग्धस्य कथ्यते बुधैः ।पयस्यं दधि दुग्धोत्थं वस्तुजातं निगद्यते ॥ ६०५ ॥
4.605 · p. 78
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
पीयूषं नव दुग्धं स्यात् पेयूषश्चापि कथ्यते ।किलाटी कूर्चिका चाथ कूचिका दुग्धजा स्मृता ॥ ६०६ ॥
4.606 · p. 78
अनुष्टुप्
* पायसनामानि *
परमान्नञ्च क्षैरेयी पयः पक्वं हि पायसम् ।
4.137 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ञ्च (wrong syllable)
* दधिनामानि *
क्षीरजं गोरसश्चैव मङ्गल्यं श्रीघनं दधि ॥ ६०७ ॥
4.607 · p. 79
अनुष्टुप्metre not read in every line
अघनं दधि द्रप्सं स्यात् द्रप्स्यं पत्रलमित्यपि ।
4.139 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धि (wrong syllable)
* घृतनामानि *
घृतमाज्यं हविः सर्पिः तथाऽऽधारो हविष्यकम् ॥ ६०८ ॥
4.608 · p. 79
अनुष्टुप्metre not read in every line
ह्यो गोदोहस्य विकारे तु हैयङ्गवीनमुच्यते ।
4.141 · p. 79
अनुष्टुप्metre not read in every line
* नवनीतनामानि *
शरजं दधिसारञ्च तक्रसारं नवोद्धृतम् ॥ ६०९ ॥
4.609 · p. 79
अनुष्टुप्metre not read in every line
* तक्रनामानि *
अरिष्टं गोरसो घोलं कालशेयं रसायनम् ॥ ६१० ॥
4.610 · p. 79
अनुष्टुप्
दण्डाहतं षडेतानि पठ्यन्ते तक्रनामनि ।उदश्वित् त्वर्धपानीयं तक्रं भोजनपाचनम् ॥ ६११ ॥
4.611 · p. 79
अनुष्टुप्
श्वेतं श्वेतरसञ्चैव समभागजलं दधि ।कटवरं सारणं तक्रमर्शोघ्नं परमरसः ॥ ६१२ ॥
4.612 · p. 80
अनुष्टुप्metre not read in every line
जलं विनैव मथितं मथितं कथ्यते दधि ।सर्पिषा संस्कृतं द्रव्यं सार्पिष्कं कथ्यते जनैः ॥ ६१३ ॥
4.613 · p. 80
अनुष्टुप्
दध्नि यत् संस्कृतं द्रव्यं तद्दाधिकमुदाहृतम् ।दकलावणिकं द्रव्यं लवणोदकसंस्कृतम् ॥ ६१४ ॥
4.614 · p. 80
अनुष्टुप्
अर्द्धपानीयवद्दध्ना संस्कृतं वस्तु कथ्यते ।औदश्वितमौदश्वित्कं लोके सर्वत्र भोजनम् ॥ ६१५ ॥
4.615 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मौ (wrong syllable)
लवणेन संस्कृतं द्रव्यं लावणं कथ्यते बुधैः ।उखायां जातमुख्यं स्यात् पैठरं पिठरे कृतम् ॥ ६१६ ॥
4.616 · p. 80
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुसंस्कृतं प्रयस्तञ्च पक्वान्नं चारु कथ्यते ।सिद्धं राद्धञ्च पक्वञ्च नाम पक्वस्य वस्तुनः ॥ ६१७ ॥
4.617 · p. 80
अनुष्टुप्
भृष्टं भवति तद्वस्तु यत् पक्वं जलमन्तरा ।अग्नौ पक्वञ्च भूतिः स्यात् भटित्रञ्च भरूटकम् ॥ ६१८ ॥
4.618 · p. 80
अनुष्टुप्
शूल्यं शूलाकृतं मांस जानीयात् मांसभक्षकः ।मांसानाञ्च रसः प्रोक्तो निष्क्वाथो रसकस्तथा ॥ ६१९ ॥
4.619 · p. 80
अनुष्टुप्
प्रणीतमुपसम्पन्नं सिद्धमन्नं रसादिवत् ।मसृणं चिक्कणं स्निग्धः सामान्यस्निग्धवस्तुनि ॥ ६२० ॥
4.620 · p. 80
अनुष्टुप्
पिञ्छिलं विजिलं चापि विजिविलञ्च विज्जलम् ।विजिपिलं सारयुक्तदधिजं भोजनं भवेत् ॥ ६२१ ॥
4.621 · p. 80
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 वि (wrong syllable); pāda 3, syllable 3 पि (wrong syllable)
वासितं भावितं धूपैः पुष्पाद्यैश्च सुगन्धिते ।स्वच्छं कृतं भवेद्वस्तु सम्मृष्टं शोधितं तथा ॥ ६२२ ॥
4.622 · p. 81
अनुष्टुप्
* काञ्चिकनामानि *
काञ्चिकं काञ्जिकं चुक्रं कुञ्जलं कुण्डगोलकम् ।कुल्माषाभिषुतः शुक्तं कुल्माषं तुषोदकम् ॥ ६२३ ॥
4.623 · p. 81
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
आरनालं सुवीराम्लं धान्याम्लं च महारसम् ।अवन्तिसोमं सौवीरं रक्षोघ्नं मधुरा तथा ॥ ६२४ ॥
4.624 · p. 81
अनुष्टुप्
उन्नाहं चापि धातुघ्नं शुक्लं चाऽभिषुतं पुनः ।गृहाम्बु चेति नामानि कथ्यन्ते पण्डितैः जनैः ॥ ६२५ ॥
4.625 · p. 81
अनुष्टुप्
* तैलस्य नामानि *
तैलं स्नेहो म्रक्षणञ्च कथ्यतेऽभ्यञ्जनं तथा ।
4.160 · p. 81
अनुष्टुप्
* उपस्करस्य नामानि *
* तिन्तिडीकस्यनामानि *
तिन्तिडीकं तथा चुक्रं वृक्षाम्लमम्लवेतसः ।
4.162 · p. 81
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 म्ल (wrong syllable); pāda 3, syllable 7 र्णि (wrong syllable)
* हरिद्रानामानि *
हरिद्रा वरवर्णिनी निशा पीता च काञ्चनी ॥ ६२७ ॥
4.627 · p. 81
metre not recognised
रात्रिवाचकशब्दा ये हरिद्रा नामतः स्मृताः ।
4.164 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 क्ष (wrong syllable)
* राजिकानामानि *
क्षुताभिजननः क्षवः राजिका राजसर्षपः ॥ ६२८ ॥
4.628 · p. 82
अनुष्टुप्metre not read in every line
असुरी कृष्णिका चापि व्यञ्जने स्वादकारिणी ।
4.166 · p. 82
अनुष्टुप्
* धान्याकस्य नामानि *
कुस्तम्बरु च धन्याकं धान्याकं धान्यकं तथा ॥ ६२९ ॥
4.629 · p. 82
अनुष्टुप्
धन्या नामापि तस्यास्ति ज्ञायता मल्लुका पुनः ।
4.168 · p. 82
अनुष्टुप्
* मरीचनामानि *
मरीचं मरिचं कृष्णं धार्मपत्तनमूषणम् ॥ ६३० ॥
4.630 · p. 82
अनुष्टुप्
कोलकं बलितं चापि वेल्लजं यवनप्रियम् ।द्वारवृत्तं दशैतानि कृष्णनामानि कथ्यते ॥ ६३१ ॥
4.631 · p. 82
अनुष्टुप्
* शुण्ठीनामानि *
शुण्ठी शुण्ठिस्तथा विश्वा नागरं विश्वभेषजम् ।तथा महौषधं विश्वे कथ्यते कोविदैः किल ॥ ६३२ ॥
4.632 · p. 82
अनुष्टुप्
* पिप्पलीनामानि *
पिप्पली पिप्पलिः कृष्णा कोला च कृष्णतण्डुला ।उपकुल्या कणा शौण्डी वैदेही तीक्ष्णतण्डुला ॥ ६३३ ॥
4.633 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
ऊषणा चोषणा चापि चपला मागधी तथा ।हि तण्डुलफला चेति कृष्णानामानि कथ्यते ॥ ६३४ ॥
4.634 · p. 83
अनुष्टुप्
* पिप्पलीमूलनामानि *
पिप्पलीमूलमित्येकं ग्रन्थिकं चटकाशिरः ।सर्वग्रन्थिकमित्येवं नाम ज्ञेयं चतुष्टयम् ॥ ६३५ ॥
4.635 · p. 83
अनुष्टुप्
* त्रिकटुनामानि *
त्र्यूषणं त्रिकटु व्योषं त्रिकटुकञ्च कथ्यते ।
4.175 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 टु (wrong syllable)
* जीरकनामानि *
जीरश्च जोरकोऽजाजी जरणो जीरणः कणा ॥ ६३६ ॥
4.636 · p. 83
अनुष्टुप्metre not read in every line
* हिङ्गुनामानि *
वाह्लीकं जतुकं हिङ्गुः सहस्रवेधि रामठन् ।अत्युग्राऽगूढगन्धे च कथ्यते भूतनाशनम् ॥ ६३७ ॥
4.637 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्र (wrong syllable)
* भक्षणनामानि *
भक्षणं जक्षणं जग्धिर्जेमनं जमनं घसिः ।आहारोऽभ्यवहारश्च भोजनं जवनं तथा ॥ ६३८ ॥
4.638 · p. 83
अनुष्टुप्
अवष्वाणश्च विष्वाणो लेहो न्यादश्च खादनम् ।अदनं स्वदनं प्सानं निघसश्चापि वल्भनम् ॥ ६३९ ॥
4.639 · p. 83
अनुष्टुप्
अशनं प्रत्यवसानं चेति नामानि वै घसेः ।
4.180 · p. 84
अनुष्टुप्metre not read in every line
* चर्वणनाम *
कथ्यते चूर्णनं दन्तैश्चर्वणं पण्डितैर्जनैः ।
4.181 · p. 84
अनुष्टुप्metre not read in every line
* लेहननाम *
जिह्वास्वादो हि शब्दोऽपि कथितं लेहनं पुनः ॥ ६४० ॥
4.640 · p. 84
अनुष्टुप्metre not read in every line
* प्रातःकालिक भोजननाम *
प्रातःकालघसेर्नाम प्रातराशो हि कथ्यते ।पुनरपि कल्यवर्त्तः सग्धिस्तु सहभोजनम् ॥ ६४१ ॥
4.641 · p. 84
अनुष्टुप्metre not read in every line
* ग्रासनामानि *
ग्रासो गुडश्च गण्डोलो गडोलश्च गुडेरकः ।कवकः कवलः पिण्डश्चेत्यादि ग्रासनामकाः ॥ ६४२ ॥
4.642 · p. 84
अनुष्टुप्
* तृप्तनामानि *
आघ्रातः सुहितस्तृप्तः आघ्राणश्चाशितः पुनः ।
4.185 · p. 84
अनुष्टुप्
* तृप्तिनामानि *
सौहित्यतृप्तिराघ्राणं भोजनैरिह जायते ॥ ६४३ ॥
4.643 · p. 84
अनुष्टुप्
* उच्छिष्टनामानि *
भुक्तोच्छिष्टञ्च पिण्डोलिः फेला भुक्तसमुज्झितम् ।फेलिरित्यपि नामास्ति भुक्त्वा व्यक्तस्य वस्तुनः ॥ ६४४ ॥
4.644 · p. 85
अनुष्टुप्
* उदरम्भरिनामानि *
स्वोदरपूरकश्चापि कुक्षिम्भरिः स एव च ।उदरम्भरिराख्यात आत्मम्भरिर्निकृष्टकः ॥ ६४५ ॥
4.645 · p. 85
metre not recognised
आद्यून औदरिकरश्च बुभुक्षापीडितो जनः ।सर्वान्नभक्षकश्चैवं सर्वान्नीनश्च कथ्यते ॥ ६४६ ॥
4.646 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उदरपिशाचो नाम सर्वं भुङक्ते हि सर्वभुक् ।
4.190 · p. 85
metre not recognised
* मांसभक्षकनामानि *
पिशिताशी च शाष्कुलः शौष्कलो मांसभक्षकः ॥ ६४७ ॥
4.647 · p. 85
metre not recognised
* उन्मत्तनाम *
उन्मादसंयुतः प्रोक्त उन्मदिष्णुस्तथापि वै ।
4.192 · p. 85
अनुष्टुप्
* लुब्धनामानि *
लुब्धश्च लोलुपो लोलो लोलुभश्चाभिलाषुकः ॥ ६४८ ॥
4.648 · p. 85
अनुष्टुप्
लम्पटो लालसो लिप्सुः गृघ्नुश्च गर्धनस्तथा ।तृष्णक् चेत्यादि नामानि लुब्धस्य कथ्यते बुधैः ॥ ६४९ ॥
4.649 · p. 85
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्च (wrong syllable); pāda 4, syllable 3 स्य (wrong syllable)
* लोभनामानि *
लोभस्तृष्णा स्पृहा लिप्सा गर्द्धः काङ्क्षा वशस्तथा ।आशा वाञ्छा धनाया च रुचिः कामश्च कामना ॥ ६५० ॥
4.650 · p. 86
अनुष्टुप्
आशंसा चाऽभिलाषस्तृट् चेच्छा चेहा मनोगवी ।ईप्सा चेहो मनोराज्यं प्रोक्तं मनोरथस्तथा ॥ ६५१ ॥
4.651 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
* अभिध्यानामानि *
अभिध्या च परस्वेहा तथैव विषमस्पृहा ।प्रोक्तं परधनेच्छायां विषमप्रार्थना पुनः ॥ ६५२ ॥
4.652 · p. 86
अनुष्टुप्
* उद्धतस्य नाम *
उद्धतश्चाऽविनीतश्च द्वयं सदा प्रयुज्यते ।
4.198 · p. 86
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
* विनीतनामानि *
विनीतो निभृतश्चैवं प्रश्रितो विनयी जनः ॥ ६५३ ॥
4.653 · p. 86
अनुष्टुप्metre not read in every line
* विधेयनाम *
विनयस्थो विधेयश्च शास्त्रसंस्कारवान् जनः ।वश्यः प्रणेय आख्यात आश्रवो वचने स्थितः ॥ ६५४ ॥
4.654 · p. 86
अनुष्टुप्
* धृष्टनामानि *
धृष्टो घृष्णुर्वियातश्च घृष्णक् निर्लज्ज उच्यते ।
4.201 · p. 87
अनुष्टुप्
* विलक्षनाम *
विक्षापन्नो विलक्षश्च विस्मयेन समन्वितः ॥ ६५५ ॥
4.655 · p. 87
अनुष्टुप्
* अधृष्टनामानि *
* शुभसंयुक्तनाम *
शुभंयुः शुभसंयुक्तश्चेति माङ्गलिकं किल ॥ ६५६ ॥
4.656 · p. 87
अनुष्टुप्
* अहंकृतनामानि *
* कामुकनामानि *
कमिता कामुकः कम्रः कामनः कमनोऽनुकः ॥ ६५७ ॥
4.657 · p. 87
अनुष्टुप्
कामयिताऽभिकोऽभीकः कमरश्चापि कथ्यते ।
4.207 · p. 87
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 यि (wrong syllable)
* विप्लुतनामानि *
विप्लुतः पञ्चभद्रश्च व्यसनी कथितं पुनः ॥ ६५८ ॥
4.658 · p. 87
अनुष्टुप्metre not read in every line
* हर्षमाणनामानि *
* विचेतानामानि *
अन्तर्मनाः विचेताश्च विमनाः दुर्मना अपि ॥ ६५९ ॥
4.659 · p. 88
अनुष्टुप्
* मत्तनामानि *
मत्तः शौण्डस्तथा क्षीबः उत्कटश्चापि कथ्यते ।
4.211 · p. 88
अनुष्टुप्metre not read in every line
* उत्सुकनामानि *
उन्मना उत्सुक उत्क उत्कण्ठितस्तथोच्यते ॥ ६६० ॥
4.660 · p. 88
अनुष्टुप्metre not read in every line
* निन्दितनामानि *
अभिशस्तस्तथा वाच्यः क्षारितश्चापि दूषितः ।आक्षारितः प्रयुक्तोऽस्ति सर्वत्र निन्दिते जने ॥ ६६१ ॥
4.661 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
* कृतलक्षणनाम *
आहतलक्षणः ख्यातो गुणवान् कृतलक्षणः ।
4.214 · p. 88
metre not recognised
* निर्लक्षणनामा *
निर्गुणः पाण्डुरपृष्ठो निर्लक्षणश्च कथ्यते ॥ ६६२ ॥
4.662 · p. 88
metre not recognised
* अस्थिरनाम *
संङ्कसुकोऽस्थिरः शब्दश्चपले च भवेद्द्वयम् ।
4.216 · p. 88
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 सु (wrong syllable)
* मूकनाम *
तूष्णींशीलश्च तूष्णीकः मूकार्थे कथ्यते बुधैः ॥ ६६३ ॥
4.663 · p. 88
अनुष्टुप्metre not read in every line
* दुष्टबुद्धेः नाम *
अनिष्टदुष्टधीश्चापि विवशो दुष्टबुद्धिमान् ।
4.218 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 न्त्रि (wrong syllable)
* बद्धनामानि *
बद्धो नद्धश्च यन्त्रितः कोलितः संयतः सितः ॥ ६६४ ॥
4.664 · p. 89
अनुष्टुप्metre not read in every line
तथा सन्दानितश्चापि प्रोक्तं निगडितः किल ।
4.220 · p. 89
अनुष्टुप्
* बन्धननाम *
उद्वानं बन्धनं चेति बन्धनस्य हि नाम वै ॥ ६६५ ॥
4.665 · p. 89
अनुष्टुप्
* हतनामानि *
हतः स्यात् प्रतिबद्धश्च प्रतिहतो मनोहतः ।
4.222 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
* तिरस्कृतनाम *
अधिक्षिप्तः प्रतिक्षिप्तः तिरस्कृतजनो भवेत् ॥ ६६६ ॥
4.666 · p. 89
अनुष्टुप्metre not read in every line
निष्कासितोऽवकृष्टश्च निस्सारितोऽपि कथ्यते ।आत्तगन्धोऽभिभूतश्च पराभूतजनो भवेत् ॥ ६६७ ॥
4.667 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable)
न्यक्कृतो धिक्कृतश्चापि स्यादपध्वस्त एव सः ।आत्तगन्धोऽपि तस्यैव नामास्ति व्यवहारतः ॥ ६६८ ॥
4.668 · p. 89
अनुष्टुप्
विप्रकृतो निकृतोऽपि निस्तेजो हि जनो भवेत् ।
4.226 · p. 89
metre not recognised
* तिरस्कारनामानि *
न्यक्कारः परिभावश्च परिभवः पराभवः ॥ ६६९ ॥
4.669 · p. 89
metre not recognised
निकारो विप्रकारश्चाऽत्याकाश्च तिरस्क्रिया ।कथितोऽभिभवश्चेति तिरस्कारार्थवाचकः ॥ ६७० ॥
4.670 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
* वञ्चितनाम *
वञ्चितो विप्रलब्धस्तु द्वयं स्याद्वञ्चिते जने ।
4.229 · p. 90
अनुष्टुप्
* निद्रालुनामानि *
शयालुश्चापि निद्रालुः स्वप्नक् च शयनोत्सुके ॥ ६७१ ॥
4.671 · p. 90
अनुष्टुप्
* निद्रानामानि *
निद्राणः शायितः सुप्तः निद्रां प्राप्तो जनो भवेत् ॥ ६७२ ॥
4.672 · p. 90
अनुष्टुप्
* जागरूकनामानि *
जागरूको विना निद्रां जागरिता च जागरी ।
4.233 · p. 90
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 रि (wrong syllable); pāda 4, syllable 3 र (wrong syllable)
* जागरणनामानि *
जागर्या जागरा चापि जागरणञ्च जागरः ॥ ६७३ ॥
4.673 · p. 90
metre not recognised
विश्वद्र्यङ् चापि विष्वद्र्यङ् सर्वत्र गन्तुको जनः ।सध्र्यङ् तु सह गन्ता स्यात् देवद्र्यङ् देवपूजकः ॥ ६७४ ॥
4.674 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 त्र (wrong syllable)
* तिर्यग्गमननाम *
तिर्यङ् भवेद्वक्रगामी खगादौ च प्रयुज्यते ।
4.236 · p. 90
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 सां (syllables merged)
* संशयालुनामानि *
संशयालुः सांसयिकः संशायिता जनो भवेत् ॥ ६७५ ॥
4.675 · p. 91
metre not recognised
* गृहयालुनाम * पतयालुनाम *
गृहीता गृहयालुः स्यात् पतयालुस्तु पातकः ।
4.238 · p. 91
अनुष्टुप्
* रोचिष्णुनाम *
रोचिष्णुः कान्तिमान् लोको रोचनः पुनरुच्यते ॥ ६७६ ॥
4.676 · p. 91
अनुष्टुप्
* दक्षिणार्हनामानि *
दक्षिण्यो दक्षिणार्हश्च दक्षिणीयोऽपि कथ्यते ।
4.240 · p. 91
अनुष्टुप्