कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

नद्ध

naddhaवि · adj.

In 9 kośas: 9 synonym verses, 2 as a nānārtha head word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.119 · p. 21
बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ४३८ ॥संदानितः संयतश्च स्यादुद्दानं तु बन्धनम् ।
अनुष्टुप्
genderविadj.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.340 · p. 40
पाटच्चरः पटचौरो बद्धो नद्धश्च संयतः ।क्षेमङ्करो रिष्टतातिः शिवतातिः शिवङ्करः ॥ ३४० ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 ट (wrong syllable)
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ आतङ्कवर्गः Koṣakalpataru 3.3.71 · p. 8
हतः प्रतिहतश्च स्यादथ संदानितः सितः ।बद्धो निगडितो नद्धो यन्त्रितः कीलितस्तथा ॥ ७१ ॥
अनुष्टुप्
genderविadj.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.101 · p. 114
कीलितो यन्त्रितो बद्धो नद्धः संदानितः सितः ।संयतो बन्धनं तु स्यादुद्दानं परिकीर्तितम् ॥ १०१ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट ऊर्ध्वलोकसर्गः Paryāyaśabdaratna 1.37 · p. 6
ततं वीणादिके वाद्ये नद्धं स्यान्मुरजादिके ।वंशादिके तु सुषिरं कांस्यतालादिके घनम् ॥ ३७ ॥
अनुष्टुप्
genderक्लीneut.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.626 · p. 107
स्यात्पानगोष्ठिकायां तु नद्धमापानमित्यपि ।चषकः पानपात्रं च स्यात्सुरापानपात्रके ॥ ६२६ ॥
अनुष्टुप्
genderक्लीneut.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति संकीर्णवर्गः Śāradīyākhyanāmamālā 3.5.117 · p. 46
पाटितं दारितं भिन्नं विद्धे छिद्रितवेधितौ ।बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ११७ ॥
अनुष्टुप्
genderविadj.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.664 · p. 89
बद्धो नद्धश्च यन्त्रितः कोलितः संयतः सितः ॥ ६६४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश अर्थवल्लिङ्गाध्यायः Vaijayantī 5.4.97 · p. 209
नुन्नास्तनुत्तप्रहितक्षिप्तविद्धाः स्युरीरिते ।बद्धे सन्नाहितं नद्धं मुद्रितं सन्दितं सितम् ॥ ९७ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ धान्ताः Koṣakalpataru 6.20.53 · p. 239
बुधः कवौ ज्ञातरि रौहिणेयेमिद्धं तथालस्यकनिद्रयोः स्यात् ।न्यासे च वित्तस्य परत्र नद्धःसंसारिणि स्यादपि बद्धमात्रे ॥ ५३ ॥
उपजातिः
शब्दरत्नावली Śabdaratnāvalī · मथुरेश धान्ताः Śabdaratnāvalī 7.19.8 · p. 231
नद्धो बद्धे समुद्धृते वधो बन्धकरन्धयोः ।बन्धुर्ना बान्धवे मित्रे बन्धूके भ्रातरीत्यपि ॥बाधा निषेधे दुःखे च बुधः सोमजसूरिणोः ।बुद्धो जिने पण्डिते ना बुधितेऽपि च वाच्यवत् ॥बोधः समाधिभेदे ना तथा पिप्पलभूरुहे ।मधु क्लीबं पुष्परसे मर्त्ये क्षौद्रे रसान्तरे ॥पुंसि मधुद्रुमे चैव वसन्ते द्रैत्यभिद्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 द्धृ (wrong syllable)