कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Śāradīyākhyanāmamālā

शारदीयाख्यनाममाला Śāradīyākhyanāmamālā

462 verses · 4,677 words tagged · 226 marked doubtful (dashed)

तृतीयः काण्डः · संकीर्णवर्गः

इति शूद्रवर्गः ॥

उत्पत्तिर्जन्म जननमुत्पादो जनिरुद्भवः ।जीवितं चासवः प्राणाः श्वासश्च श्वसितं मरुत् ॥ ७० ॥
3.5.70 · p. 41
अनुष्टुप्
युवा वयःस्थस्तरुणस्तारुण्यं यौवनं वयः ।जरीयान्स्थविरो वृद्धो वार्धक्यं विस्रसा जरा ॥ ७१ ॥
3.5.71 · p. 41
अनुष्टुप्
गुणवानुत्तमः श्रेष्ठो योग्यः पूज्यो महान्गुणी ।श्रेयाञ्शिष्टः सदाचारः साधुसभ्यार्यसज्जनाः ॥ ७२ ॥
3.5.72 · p. 41
अनुष्टुप्
विख्यातः प्रथितो ज्ञातः प्रतीतो विश्रुतोऽपि च ।दातोदारो वदान्यश्च त्राता गोप्ता च रक्षकः ॥ ७३ ॥
3.5.73 · p. 41
अनुष्टुप्
कर्णेजपश्च पिशुनो द्विजिह्वो दुर्जनः खलः ।पापो धूर्तः शठः क्रूरः क्षुद्रो नीचोऽधमोऽनृजुः ॥ ७४ ॥
3.5.74 · p. 41
अनुष्टुप्
दृप्तोऽभिमानी गर्विष्ठो गर्वितः स्तब्ध उन्नतः ।कलङ्को लाञ्छनं लक्ष्म चिह्नमङ्कश्च लक्षणम् ॥ ७५ ॥
3.5.75 · p. 42
अनुष्टुप्
वैरं विरोधो विद्वेषः शृङ्खलो निगडोऽन्दुकः ।विघ्नोऽन्तरायः प्रत्यूहो रोगातङ्कगदामयाः ॥ ७६ ॥
3.5.76 · p. 42
अनुष्टुप्
पाषाणः प्रस्तरो ग्रावा दृषदश्मोपलः शिला ।रेणुर्धूली रजः पांशुः पङ्कश्चिखिल्लकर्दमौ ॥ ७७ ॥
3.5.77 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्चि (wrong syllable)
व्यवसायोद्यमोद्योगाभियोगोत्साहविक्रमाः ।खुरली तु श्रमोऽभ्यासः संवाहनं तु मर्दनम् ॥ ७८ ॥
3.5.78 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ह (wrong syllable)
मिष्टं स्वादुश्च मधुरः कषायस्तुवरो रसः ।पाचनोऽम्लो दन्तशठः कटुकः कटुरुषणः ॥ ७९ ॥
3.5.79 · p. 42
अनुष्टुप्metre not read in every line
स्याल्लवणः सर्वरसः क्षारस्तिक्तं तु तीक्ष्णवत् ।रक्तः शोणोऽरुणस्ताम्रो लोहितः पाटलोऽपि च ॥ ८० ॥
3.5.80 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 2 ल्ल (wrong syllable)
श्वेतः शुक्लः सितः शुभ्रो वलक्षो धवलः शुचिः ।गौरोऽवदातो विशदः पाण्डुः पाण्डुर उज्ज्वलः ॥ ८१ ॥
3.5.81 · p. 42
अनुष्टुप्
पीतो गौरो हरिद्राभः पालाशो हरितो हरित् ।कालः श्यामः सितिः कृष्णः श्यामलो मेचकोऽसितः ॥ ८२ ॥
3.5.82 · p. 42
अनुष्टुप्
नीलो रामोऽञ्जनाभश्च कर्बुराद्यास्तु मिश्रिताः ।युग्मं द्वयं युगं द्वंद्वमुभयं युगलं द्वयी ॥ ८३ ॥
3.5.83 · p. 42
अनुष्टुप्
यमलं मिथुनं द्वैतं त्रयं च त्रितयं त्रयी ।समूहो निवहो व्यूहो वृन्दं चक्रं कदम्बकम् ॥ ८४ ॥
3.5.84 · p. 42
अनुष्टुप्
ओघः संघो व्रजो व्रातो निकरः प्रकरश्चयः ।संदोहः संहतिः स्तोमो वारः समुदयो गणः ॥ ८५ ॥
3.5.85 · p. 43
अनुष्टुप्
समुदायः समवायो निकुरम्बं च संचयः ।जालः कलापः पटलः संघातः पूगमण्डलौ ॥ ८६ ॥
3.5.86 · p. 43
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 म (wrong syllable)
राशिः पुञ्जोत्करौ कूटं जातं यूथं भरः कुलम् ।ग्रामो वर्गः समाहारो निकायो निचयोऽपि च ॥ ८७ ॥
3.5.87 · p. 43
अनुष्टुप्
राजिर्मालावलिः श्रेणिस्ततिः पङ्क्तिश्च घोरिणी ।सर्वं समस्तं सकलं समग्रं निखिलाखिले ॥ ८८ ॥
3.5.88 · p. 43
अनुष्टुप्
विश्वं कृत्स्नं तथाशेषं खण्डेऽर्धं शकलं दलम् ।स्तोकं तुच्छं दभ्रमल्पं मात्रा लेशः कणो लवः ॥ ८९ ॥
3.5.89 · p. 43
अनुष्टुप्
अणु सूक्ष्मं लघु श्लक्ष्णं क्षामः क्षीणः कृशस्तनु ।बंहिष्ठं प्रचुरं प्राज्यं पुष्कलं बहुलं बहु ॥ ९० ॥
3.5.90 · p. 43
अनुष्टुप्
अदभ्रं भूरि भूयिष्ठं भूयश्च प्रबलोऽधिकः ।खर्वं ह्रस्वं वामनं च प्रलम्बं दीर्घमायतम् ॥ ९१ ॥
3.5.91 · p. 43
अनुष्टुप्
उच्चं प्रांशून्नतं तुङ्गं निम्नं नीचं न्यगानतम् ।विवरं कुहरं छिद्रं रन्ध्रं गर्तावटौ बिलम् ॥ ९२ ॥
3.5.92 · p. 43
अनुष्टुप्
विचालं त्वन्तरं मध्यमन्तरालं च मध्यमम् ।अरालं कुटिलं वक्रं सरलं प्रगुणो ऋजु ॥ ९३ ॥
3.5.93 · p. 43
अनुष्टुप्
बृहद्विशालं विस्तीर्णं महच्च विपुलं पृथु ।कठोरः कठिनो रूक्षो निष्ठुरः कर्कशः खरः ॥ ९४ ॥
3.5.94 · p. 43
अनुष्टुप्
तीव्रोग्रौ दारुणं घोरं दृढमुद्दाममुत्कटम् ।सुकुमारः सुखस्पर्शः कोमलो मृदुलो मृदु ॥ ९५ ॥
3.5.95 · p. 44
अनुष्टुप्
सुन्दरं रुचिरं रुच्यं xxxx मनोहरम् ।मनोज्ञं मञ्जुलं मञ्जु पेशलं वल्गु बन्धुरम् ॥ ९६ ॥
3.5.96 · p. 44
अनुष्टुप्metre not read in every lineLatin letters: xxxx
कान्तं रम्यं चारु हारि कमनीयं मनोरमम् ।हृद्यं काम्यं रमणीयं प्रशस्तं साधु शोभनम् ॥ ९७ ॥
3.5.97 · p. 44
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 म (wrong syllable)
मुख्यः प्रधानः प्रवरो वर्योऽग्र्योऽग्रेसरोऽग्रणीः ।प्रकृष्टश्च परार्ध्यश्च पुंगवः सत्तमः परः ॥ ९८ ॥
3.5.98 · p. 44
अनुष्टुप्
पौरस्त्यः प्रथमः पूर्व आदिराद्यादिमोऽग्रिमः ।जघन्यः पश्चिमोऽन्त्यश्च पाश्चात्त्यश्चरमोऽन्तिमः ॥ ९९ ॥
3.5.99 · p. 44
अनुष्टुप्
पूतं पवित्रं मेध्यं च मलिनं च मलीमसम् ।निर्णिक्तं क्षालितं धौतमुज्ज्वलं निर्मलं शुचि ॥ १०० ॥
3.5.100 · p. 44
अनुष्टुप्
समानं सदृशं xx संकाशः संनिभः समः ।अनुहारश्चोपमानं समकक्षा तुलोपमा ॥ १०१ ॥
3.5.101 · p. 44
metre not recognisedLatin letters: xx
समीपं निकटं पार्श्वं समयाभ्यर्णमन्तिकम् ।उपकण्ठं संनिधानोपान्ते सविधसंनिधी ॥ १०२ ॥
3.5.102 · p. 44
अनुष्टुप्
विप्रकृष्टं परं दूरं ध्रुवं नित्यं च शाश्वतम् ।चञ्चलं चपलं लोलं तरलं चटुलं चलम् ॥ १०३ ॥
3.5.103 · p. 44
अनुष्टुप्
वेल्लितं प्रेङ्खितं धूतमान्दोलितं च वीजितम् ।दोला प्रेङ्खोलनं प्रेङ्खा हिन्दोलश्चापहिञ्चितम् (?) ॥ १०४ ॥
3.5.104 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
संहनं मेदुरं सान्द्रं नीरन्ध्रं निबिडं दृढम् ।प्रकटं तु स्फुटं स्पष्टं प्रकाशं व्यक्तमुल्बणम् ॥ १०५ ॥
3.5.105 · p. 45
अनुष्टुप्
त्वरितं सत्वरं शीघ्रं तूर्णं क्षिप्रं द्रुतं लघु ।जवो वेगो रयो रंहस्तरो मन्दे तु मन्थरः ॥ १०६ ॥
3.5.106 · p. 45
अनुष्टुप्
अत्यर्थं निर्भरं तीव्रं गाढं बाढं दृढं भृशम् ।पूरितं भरितं पूर्णं शून्यरिक्ताखिलोद्वसाः ॥ १०७ ॥
3.5.107 · p. 45
अनुष्टुप्
संकुलाकुलसंकीर्णाकीर्णसंबाधसंकटाः ।परीतं निचितं व्याप्तं दिग्धलिप्ताक्तगुण्डिताः ॥ १०८ ॥
3.5.108 · p. 45
अनुष्टुप्
संपृक्तः खचितो मिश्रः संवलितः करम्बितः ।आश्रितः सहितो युक्तः समवेतः समन्वितः ॥ १०९ ॥
3.5.109 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 लि (wrong syllable)
सिद्धे निर्वृत्तनिष्पन्नौ निर्मितो विहितः कृतः ।लब्धमासादितं प्राप्तं त्यक्तमुत्सृष्टमुज्झितम् ॥ ११० ॥
3.5.110 · p. 45
अनुष्टुप्
उरीकृतं प्रतिज्ञातमङ्गीकृतं प्रतिश्रुतम् ।प्रस्थापितः प्रतिसृष्टः प्रहितः प्रेषितोऽपि च ॥ १११ ॥
3.5.111 · p. 45
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 कृ (wrong syllable); pāda 3, syllable 6 ति (wrong syllable)
रुद्धं तिरोहितं छन्नं छादितं पिहितावृते ।उत्पाटितमुन्मूलितमुत्खातं भग्नमुद्धृतम् ॥ ११२ ॥
3.5.112 · p. 45
अनुष्टुप्metre not read in every line
उक्तं जल्पितमाख्यातं भाषितं कथितोदिते ।प्रतिकूलं विलोमं च प्रतीपं वाममेव च ॥ ११३ ॥
3.5.113 · p. 45
अनुष्टुप्
ज्ञातं बुद्धमवसितं विदितावगते अपि ।व्यत्यासस्तु विपर्यासो वैपरीत्यं विपर्ययः ॥ ११४ ॥
3.5.114 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द्ध (wrong syllable)
प्रत्यादिष्टं प्रतिक्षिप्तं निरस्तं नुन्नमीरितम् ।श्र(स्र)स्तं भ्रष्टं च प्रस्कन्नं पतितं गलितं च्युतम् ॥ ११५ ॥
3.5.115 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च (wrong syllable)
अन्वेषितं गवेषितमन्विष्टं मार्गितं तथा ।छेदितं खण्डितं कृत्तं छिन्नं लूनं छितं दितम् ॥ ११६ ॥
3.5.116 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 षि (wrong syllable)
पाटितं दारितं भिन्नं विद्धे छिद्रितवेधितौ ।बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ११७ ॥
3.5.117 · p. 46
अनुष्टुप्
दग्धः प्रज्वलितः प्लुष्टो हेतिर्ज्वालाशिखार्च्चिषः ।अङ्गारेङ्गालौ रक्षा तु भसितं भस्म भूतिवत् ॥ ११८ ॥
3.5.118 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लौ (wrong syllable)
आर्द्रं तु स्तिमितं क्लिन्नं शुष्कमाश्याननीरसौ ।निशितं तेजितं तीक्ष्णं कुण्ठितं वेगवर्जितम् ॥ ११९ ॥
3.5.119 · p. 46
अनुष्टुप्
वर्तुलं मण्डलं वृत्तं निस्तलं वलयाकृतिः ।अस्रं कोटिरणिः कोणं प्रान्तं पर्यन्तमन्तवत् ॥ १२० ॥
3.5.120 · p. 46
अनुष्टुप्
संदेहः संशयो रेको निश्चयो निर्णयोऽपि च ।तथा विश्रम्भविश्वासप्रतीतिप्रत्ययाः समाः ॥ १२१ ॥
3.5.121 · p. 46
अनुष्टुप्
आर्भट्याडम्बराटोपाः व्यापप्रसरमूर्छनाः ।आधारः स्यादवष्टम्भः स्यादालम्बनमाश्रयः ॥ १२२ ॥
3.5.122 · p. 46
अनुष्टुप्
स्वरूपं लक्षणं भावो रूपधर्मात्मरीतयः ।सृष्टिः सर्गश्च निर्माणं करणं घटनं कृतिः ॥ १२३ ॥
3.5.123 · p. 46
अनुष्टुप्
जम्बूः प्लक्षः शाल्मलिश्च कुशः क्रोञ्चाभिधस्तथा ।शाकद्वीपः पुष्कराख्यः सप्त द्वीपा इमे स्मृताः ॥ १२४ ॥
3.5.124 · p. 46
अनुष्टुप्
लवणक्षीरदध्याज्यसुरेक्षुस्वादुसागराः ।भारताख्यं किंपुरुषं हरिवर्षमिलावृतम् ।रम्यकाख्यं पञ्चमकं खण्डं षष्ठं हिरण्मयम् ॥ १२५ ॥
3.5.125 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 किं (wrong syllable); pāda 3, syllable 5 प (wrong syllable)
कुरुखण्डं च भद्राख्यं केतुमालमिति स्मृतम् ।एतानि नव खण्डानि जम्बूद्वीपविभागतः ॥ १२६ ॥
3.5.126 · p. 47
अनुष्टुप्
वीणावारणवाजिसिंहहरिणानङ्गप्रवालाचलाःचन्द्रश्चातकचञ्चरीकजलमुक्चापासिवज्राहयः ।हंसः कोकिलकेकिकीरगरुडः स्वर्णानिलार्कास्तमोगुञ्जा श्रीफलपद्मदीपखटीकाः सारङ्गशब्दा इमे ॥ १२७ ॥
3.5.127 · p. 47
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्: pāda 2, syllable 11 टी (wrong syllable)
श्रीसिंहे च कपौ शुके हरिहरे चामीकरे भार्गवेचन्द्रेभे कविराजवाजिवहने वंशे यमे पारदे ।नागे वर्णसमीरणेऽपि दहने स्कन्दे च संक्रन्दनेमार्तण्डेऽशनिपन्नगेश्वरदिने खड्गे हरिः कीर्तितः ॥ १२८ ॥
3.5.128 · p. 47
शार्दूलविक्रीडितम्
अर्कमर्कटमण्डूकविष्णुवासववायवः ।तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ १२९ ॥
3.5.129 · p. 47
अनुष्टुप्
दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु ।भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १३० ॥
3.5.130 · p. 47
अनुष्टुप्

इति श्रीसंकीर्णवर्गः ।

ब्रह्मक्षत्रियविट्शूद्रसंकीर्णाख्यैर्मनोरमैः ।वर्गैस्तृतीयः काण्डोऽयं पूर्णितो हर्षकीर्तिना ॥ १३१ ॥
3.5.131 · p. 47
अनुष्टुप्