All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · विशेष्यनिघ्नकाण्डः (1/2)
इति शूद्रादिप्रकाण्डः ।
स्त्रादाराद्यं यद्विशेष्यं यादृशैः प्रस्तुतं पदैः ।गुणद्रव्यक्रियाशब्दा विज्ञेयास्तस्य भेदकाः ॥ १ ॥
1.9.1 · p. 214
अनुष्टुप्
क्षेमंकरोरिष्टतातिः शिवतातिः शिवंकरः ।पुण्यवान् सुकृती धन्यो महेच्छस्तु महाशयः ॥ २ ॥
1.9.2 · p. 214
अनुष्टुप्
उदात्त उद्भटोदीर्णमहात्मानो महायशाः ।महामनाः कृतार्थस्तु महोत्साहो महोद्यमः ॥ ३ ॥
1.9.3 · p. 214
अनुष्टुप्
तदर्थकारश्चापि स्यात्कृतकृत्योऽथ शिक्षितः ।निष्णातश्चतुरो विज्ञः प्रवीणो निपुणः पटुः ॥ ४ ॥
1.9.4 · p. 214
अनुष्टुप्
छेकश्छइल्लश्छेकालो विदग्धश्छेकलोऽपि च ।तद्वत्स्यात्कृतकर्मापि छेको दक्षो लघुक्रियः ॥ ५ ॥
1.9.5 · p. 214
अनुष्टुप्
विद्रपी तु सहृदयो हृदयालुः कृतीत्यपि ।तथा सहृदयोपि स्यादथ वैज्ञानिकः पुनः ॥ ६ ॥
1.9.6 · p. 214
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
सैवोक्तः कर्महस्तोपि कुशलश्च कृताननः ।पूज्यः प्रतीक्ष्यः सांशयिकः संशयापन्नमानसः ॥ ७ ॥
1.9.7 · p. 215
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
दक्षिणीयो दक्षिणार्हस्तत्र दक्षिण्य इत्यपि ।स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे ॥ ८ ॥
1.9.8 · p. 215
अनुष्टुप्
वदान्यो दानशीलः स्यादुदारश्चानुदारवत् ।त्यागी च स्थूललक्षोपि वरदस्तु समर्द्धकः ॥ ९ ॥
1.9.9 · p. 215
अनुष्टुप्
संयद्वरोप्यभयदे पिङ्गलस्तु बहुश्रुतः ।व्रतानुष्ठानसमये कान्तया कामितोपि सन् ॥ १० ॥
1.9.10 · p. 215
अनुष्टुप्
तदानुकूल्यं न चरेदसिधाराव्रती च सः ।सदा लक्षणसम्पन्नः पुमान् भालाङ्क उच्यते ॥ ११ ॥
1.9.11 · p. 215
अनुष्टुप्
मनस्वी बहुविघ्नेपि कार्ये सुस्थिरमानसः ।जैवातृकः स्यादायुष्मानन्तर्वाणिस्तु शास्त्रवित् ॥ १२ ॥
1.9.12 · p. 215
अनुष्टुप्
व्युत्पन्नः प्रहतः क्षुण्णः कारणी तु परीक्षकः ।तारतम्यविचारज्ञः श्लिकुतः संशयावहः ॥ १३ ॥
1.9.13 · p. 215
अनुष्टुप्
हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ।दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मनाः ॥ १४ ॥
1.9.14 · p. 215
अनुष्टुप्
उत्सुकोत्कण्ठितौ चाथ सरलोदारदक्षिणाः ।अपि स्यात्सुकलोर्थस्य दानभोगसमन्विते ॥ १५ ॥
1.9.15 · p. 215
अनुष्टुप्
दोषैकदृक् पुरोभागी साधुसभ्यार्यसज्जनाः ।तत्परे प्रसितासक्ता विष्टार्थोद्युक्त उत्सुकः ॥ १६ ॥
1.9.16 · p. 216
अनुष्टुप्
प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः ।गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ ॥ १७ ॥
1.9.17 · p. 216
अनुष्टुप्
आढ्योस्तिमान् धनी स्वामीभ्येश्वरौ पतिरीशिता ।भर्त्तेशेनेन्द्रनाथार्या नायकस्त्वधिभूः प्रभुः ॥ १८ ॥
1.9.18 · p. 216
अनुष्टुप्
नेताधिपः परिवृढोऽधिकर्द्धिस्तु समृद्धकः ।डिङ्गरः किङ्करो भृत्यो दासः प्रेष्यः पराचितः ॥ १९ ॥
1.9.19 · p. 216
अनुष्टुप्
परिकर्मी परिस्कन्दनियोज्यपरिचारकाः ।भुजिष्योऽभ्यागारिकस्तु कुटुम्बव्यापृतः स यः ॥ २० ॥
1.9.20 · p. 216
अनुष्टुप्
पुंस्युपाधिः सुन्दराङ्गः सिंहसंहननो हि सः ।निर्वार्यः कार्यकर्ता यः सम्पन्नः सत्त्वसम्पदा ॥ २१ ॥
1.9.21 · p. 216
अनुष्टुप्
सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः ।वीक्षापन्नो विलक्षेथाधृष्टे शालीनशारदौ ॥ २२ ॥
1.9.22 · p. 216
अनुष्टुप्
लक्ष्मीवांल्लक्ष्मणः श्रीमांल्लक्ष्मणो लक्षणोपि च ।अथ स्निग्धो वत्सलोऽथ दयालुरपि सूरतः ॥ २३ ॥
1.9.23 · p. 216
अनुष्टुप्
स्यात् कृपालुः कारुणिकः स्वतन्त्रस्तु निरङ्कुशः ।अपावृतो यथाकामी स्वच्छन्दो निरवग्रहः ॥ २४ ॥
1.9.24 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
स्वैर्यधीनस्तु परवान्नाथवान्निघ्नगृह्यकौ ।अस्वच्छन्दः पराधीनः परतन्त्रो वशोऽपि च ॥ २५ ॥
1.9.25 · p. 217
अनुष्टुप्
आयत्तश्चाथ खलपूः स स्याद्बहुकरोऽपि च ।चिरक्रियो दीर्घसूत्रो जाल्मोऽसमीक्ष्यकारिणि ॥ २६ ॥
1.9.26 · p. 217
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
सेवाहीनः श्लिकुतमस्थूत्कृतः कुष्ठपीडितः ।कुसृत्या विभवान्वेषी पार्श्वकः सन्धिजीवकः ॥ २७ ॥
1.9.27 · p. 217
अनुष्टुप्
तीक्ष्णोपायेन यो जीवेत्स आयःशूलिकः पुनः ।क्रियासु मन्दः कुण्ठः स्यात् क्रियावान् कर्मसूद्यतः ॥ २८ ॥
1.9.28 · p. 217
अनुष्टुप्
कर्मक्षमोलङ्कर्मीणः कर्मशूरस्तु कर्मठः ।सकार्मः कर्मशीलो यः कर्मकारस्तु तत्क्रियः ॥ २९ ॥
1.9.29 · p. 217
अनुष्टुप्
कर्मण्यभुक् कर्मकरः कर्मकारस्तु निर्भृतिः ।भृतिको भृतिभुक्कर्मकरो वैतनिकोऽपि सः ॥ ३० ॥
1.9.30 · p. 217
अनुष्टुप्
अपस्नातो मृतस्नान आमिषाशी तु शौष्कलः ।शौष्कलः शष्कुलः शास्ता देशकोऽथ बुभुक्षितः ॥ ३१ ॥
1.9.31 · p. 217
अनुष्टुप्
अप्सातः क्षुधितश्चाथ जिघत्सुरशनायितः ।परान्नः परपिण्डाद आशितो घस्मरोद्मरः ॥ ३२ ॥
1.9.32 · p. 217
अनुष्टुप्
भक्षकः स्यादथ पुनर्विजिगीषाविवर्जिते ।आद्यूनः स्यादौदरिकोऽप्यथ स्वोदरपूरके ॥ ३३ ॥
1.9.33 · p. 217
अनुष्टुप्
कुक्षिंभरिः स्यादुदरंभरिरात्मंभरिः पुनः ।सर्वान्नीनस्तु सर्वान्नभोजिपर्याय इत्यपि ॥ ३४ ॥
1.9.34 · p. 218
अनुष्टुप्
तथोदरपिशाचः स्यात्तर्षितश्च पिपासितः ।पिपासुस्तर्षितस्तृष्णक् पिपासस्तृषितोऽपि च ॥ ३५ ॥
1.9.35 · p. 218
अनुष्टुप्
लालसो लोलुपो लिप्सुर्लम्पटश्चाभिलाषुकः ।लुब्धो गृध्नुर्गर्द्धनः स्यात्मायी कुरकजालिकौ ॥ ३६ ॥
1.9.36 · p. 218
अनुष्टुप्
दण्डाजिनी व्यंसकोथाविनीतः स्यात्समुद्धतः ।उन्मदस्तून्मदिष्णुः स्यात्कामुके कमितानुकः ॥ ३७ ॥
1.9.37 · p. 218
अनुष्टुप्
कम्रः कामयिताभीकः कामनः कमनोभिकः ।कामिः कामी च कमुको लुब्धे लोलुपलोलुभौ ॥ ३८ ॥
1.9.38 · p. 218
अनुष्टुप्
मत्ते शौण्डोत्कटक्षीबाः पञ्चभद्रः परिप्लुते ।व्यसनी निर्लक्षणस्तु पाण्डुरपृष्ठ इत्यपि ॥ ३९ ॥
1.9.39 · p. 218
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
अथ श्लिकुतमो बालः पितृहीनो विनायकः ।गेहेनर्दी गृहेशूरः पिण्डीशूरोऽथ दुष्टधीः ॥ ४० ॥
1.9.40 · p. 218
अनुष्टुप्
विवशोऽनिष्टबुद्धिः स्यादीर्ष्यालुः कुहनः पुनः ।स्यादस्थिरे संकुसुको द्वेष्टात्वनुपदीत्यपि ॥ ४१ ॥
1.9.41 · p. 218
अनुष्टुप्
व्युत्पन्नः संस्कृतः क्षुण्णः प्रहतोऽथ स्थिरोऽपि च ।नीलीरागो विश्रथः स्यात् स्थिरसौहृद इत्यपि ॥ ४२ ॥
1.9.42 · p. 218
अनुष्टुप्
कुसुम्भरागोऽतोन्यः स्याद्धरिद्राराग इत्यपि ।सुनिश्चितः संशितः स्यात्पुत्रान्नादः कुटीचकः ॥ ४३ ॥
1.9.43 · p. 219
अनुष्टुप्
विदग्धो नागसंचारजीवी च शरणार्थकः ।अभ्यापन्नश्च तद्वत्स्याद्वीक्षापन्नो विलक्षितः ॥ ४४ ॥
1.9.44 · p. 219
अनुष्टुप्
आसीन उपविष्टः स्यादूर्ध्वस्थोर्ध्वदमौ समौ ।उत्पश्य उन्मुखे गृह्यः पक्ष्ये न्युब्जस्त्वधोमुखे ॥ ४५ ॥
1.9.45 · p. 219
अनुष्टुप्
प्रेतवाहित आविष्टः शान्तो दान्तोऽथ दातरि ।दाको दारुश्च मुदिरो वचने स्थित आश्रवः ॥ ४६ ॥
1.9.46 · p. 219
अनुष्टुप्
वश्यः प्रणेयो निभृतो विनीतः प्रश्रितः समाः ।विधेयो विनयग्राही प्रगल्भः प्रतिभान्विते ॥ ४७ ॥
1.9.47 · p. 219
अनुष्टुप्
प्रौढोथ सूक्ष्मदर्शी तु कुशाग्रीयमतिश्च सः ।प्रत्युत्पन्नमतिस्तत्कालधीर्मेधाविमेधिरौ ॥ ४८ ॥
1.9.48 · p. 219
अनुष्टुप्
धृष्टे धृष्णो वियातश्च धृष्णक् स्यादस्तिमान्धनी ।स्यादधृष्टे तु शालीनः शारदोऽथातिकुत्सिते ॥ ४९ ॥
1.9.49 · p. 219
अनुष्टुप्
कट्वरश्चाथ षट्प्रज्ञः कामकेलिर्विदूषकः ।पिङ्गः पाठविकः पट्टो व्यलीको धूर्त इत्यपि ॥ ५० ॥
1.9.50 · p. 219
अनुष्टुप्
पीठकेलिः पीठमर्दो भविलश्छिदुरो विटः ।प्रघटाविच्छास्त्रगण्डः प्रपञ्चलविपश्चितौ ॥ ५१ ॥
1.9.51 · p. 219
अनुष्टुप्
समावथो विप्रलब्धो वञ्चितो विकृतोऽपि च ।ग्रामेयकस्तु ग्रामीणो ग्राम्यो ग्रामचरोप्यथ ॥ ५२ ॥
1.9.52 · p. 220
अनुष्टुप्
दुर्विगाह्यं दुःप्रधृष्यं विषमं स्थपुटं पुनः ।अगम्यमनवस्थं स्यात्समे बहलपीवरे ॥ ५३ ॥
1.9.53 · p. 220
अनुष्टुप्
प्रेषितस्तु विसृष्टः स्यात्प्रहितः परिसृष्टकः ।उल्वणस्तूत्करोद्गाढ उद्धतश्चाथ दैष्टिकः ॥ ५४ ॥
1.9.54 · p. 220
अनुष्टुप्
स्याद्दैवतत्परोऽजिह्मः प्रगुणः प्राञ्जलोप्यृजुः ।सरलः प्रोष्यः पथिकः समीचीनः समञ्जसः ॥ ५५ ॥
1.9.55 · p. 220
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्यः (wrong syllable)
खट्वारूढोऽविनीतः स्यान्मसारमसृणौ समौ ।अग्र्योग्रगण्यो ग्रामण्यः श्रेष्ठः शाल्युत्तमः पुनः ॥ ५६ ॥
1.9.56 · p. 220
अनुष्टुप्
क्लीबेऽव्ययं प्रधानं स्यादुपाग्रं प्रमुखं पुनः ।उत्तमानुत्तमे तुल्ये स्यात्प्रवेकोऽपि राजघः ॥ ५७ ॥
1.9.57 · p. 220
अनुष्टुप्
स्थगस्तीक्ष्णोप्यथाशंसुराशंसितरि पातुके ।पतयालुः संशयालुः स्यात्संशयितरीत्यपि ॥ ५८ ॥
1.9.58 · p. 220
अनुष्टुप्
श्रद्धालुः श्रद्धया युक्ते ग्रहयालुर्ग्रहीतरि ।हृदयालुः सहृदये वन्दारुरभिवादके ॥ ५९ ॥
1.9.59 · p. 220
अनुष्टुप्
लज्जाशीलोपत्रपिष्णुः स्याद्वर्द्धिष्णुस्तु वर्द्धनः ।उत्पतिष्णुस्तूत्पतितोऽलङ्करिष्णुस्तु मण्डनः ॥ ६० ॥
1.9.60 · p. 220
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 स्तू (wrong syllable)
भूष्णुर्भविष्णुर्भविता वर्त्तिष्णुर्वृष्णुवर्त्तनौ ।निराकरिष्णुः क्षिप्नुः स्यात्प्रभूष्णुस्तु सहाः पुनः ॥ ६१ ॥
1.9.61 · p. 221
अनुष्टुप्
क्षमावांश्चापि शक्तः स्यादथ रोचिष्णुरोचनौ ।शरारुर्घातुको हिंस्रो रुष्टेऽमर्षणरोषणौ ॥ ६२ ॥
1.9.62 · p. 221
अनुष्टुप्
क्रोधनः कुहनेर्ष्यालू चण्डस्त्वत्यन्तकोपनः ।जागरूको जागरिता वासदायी तु शङ्कुरः ॥ ६३ ॥
1.9.63 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)
शरणार्थ्यभिपन्नः स्यात्सान्द्रः स्निग्धश्च मेदुरः ।ज्ञाता तु विदुरो विन्दुर्वेदिताथ नमस्यितः ॥ ६४ ॥
1.9.64 · p. 221
अनुष्टुप्
अपाचितो नमसितोऽचित आचित इत्यपि ।विसृत्वरो विसृमरो विकासी तु विकस्वरः ॥ ६५ ॥
1.9.65 · p. 221
अनुष्टुप्
विसारी तु प्रसारी स्याद्घूर्णितः प्रचलायितः ।स्वप्नक् शयालुर्निद्रालुर्निद्राणशयितौ पुनः ॥ ६६ ॥
1.9.66 · p. 221
अनुष्टुप्
सुप्तः श्लथस्तु शिथिलः प्रतीकप्रतिकौ समौ ।प्रतिकूलेऽथापि पुनः पराचीनः पराङ्मुखः ॥ ६७ ॥
1.9.67 · p. 221
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 था (wrong syllable)
प्रतीपोथाप्यवाचीनोऽधोमुखेप्यथ सम्मुखे ।सम्मुखीनोथ देवद्र्यङ् देवानञ्चति यः पुनः ॥ ६८ ॥
1.9.68 · p. 221
अनुष्टुप्
सहाञ्चति स सध्र्यङ् यो विष्वद्र्यङ् विष्वगञ्चति ।यस्तिरोञ्चति तिर्यङ् स सम्यङ् यः सममञ्चति ॥ ६९ ॥
1.9.69 · p. 221
अनुष्टुप्
प्रथमामुख्यवचने किमः कद्र्यङ् भवेदिति ।सहिष्णुः सहनः क्षन्ता तितिक्षुर्दमिता दमी ॥ ७० ॥
1.9.70 · p. 222
अनुष्टुप्
वदो वदावदो वक्ता वाचोयुक्तिपटुः पुनः ।वागीशो वाक्पतिर्वाग्मी वावदूकोऽतिवक्तरि ॥ ७१ ॥
1.9.71 · p. 222
अनुष्टुप्
जञ्जपूकस्तु जल्पाको वाचालस्तु विगर्ह्यवाक् ।वाचाटः कुरवेऽबद्धमुखे मुखरदुर्मुखौ ॥ ७२ ॥
1.9.72 · p. 222
अनुष्टुप्
सूचकोथापि शक्रे तु सुमुखस्तु प्रियंवदः ।श्लक्ष्णः प्रगल्भवचनः कुवादः कुवचोऽपि च ॥ ७३ ॥
1.9.73 · p. 222
अनुष्टुप्
कद्वदो गर्ह्यवाग्दुर्वाग्यद्वदोनुत्तरेपि च ।अथानेडो वर्कटः स्यादधरो हीनवादिनि ॥ ७४ ॥
1.9.74 · p. 222
अनुष्टुप्
एडो मूकः कडोऽवाचि स्यादसौम्यस्वरेऽस्वरः ।रवणः शब्दनो नान्दीवादी नान्दीकरः समौ ॥ ७५ ॥
1.9.75 · p. 222
अनुष्टुप्
डमरोड्डमरौ तुल्यौ क्रीडासंरम्भनिर्भरे ।शास्त्रेष्वधीती मन्त्रेषु नाधीती श्लिकुतोऽप्यथ ॥ ७६ ॥
1.9.76 · p. 222
अनुष्टुप्
एडमूकोऽनेडमूको वक्तुं श्रोतुमसज्जिते ।तूष्णींशीलस्तु तूष्णीको नग्नोऽवासा दिगम्बरः ॥ ७७ ॥
1.9.77 · p. 222
अनुष्टुप्
देशिके शासकः शास्ता धार्मिको धर्मिकः समौ ।निःकाशितोऽपकृष्टोपध्वस्ते न्यक्कृतधिक्कृतौ ॥ ७८ ॥
1.9.78 · p. 222
अनुष्टुप्
आत्तगन्धोभिभूतोरित्याजिताहंकृतिश्च सः ।दण्डितो दापितश्चापि साधितोऽथ निराकृतः ॥ ७९ ॥
1.9.79 · p. 223
अनुष्टुप्
प्रत्याख्यातः प्रतिक्षिप्तः पत्यादिष्टोपविद्धवत् ।निरस्तश्चाप्यधिक्षिप्तस्तुल्यौ विक्लवविह्वलौ ॥ ८० ॥
1.9.80 · p. 223
अनुष्टुप्
प्रतिबद्धः प्रतिहतो हतश्चापि मनोहतः ।नद्धे बद्धो निगडितः संयतः कीलितः सितः ॥ ८१ ॥
1.9.81 · p. 223
अनुष्टुप्
आलानितो यन्त्रितोऽपि स्यात्संदानित इत्यपि ।स्थिरेऽसंकसुकश्चाथ विहस्तव्याकुलौ समौ ॥ ८२ ॥
1.9.82 · p. 223
अनुष्टुप्
व्यग्रोऽथापि पुनः स स्यात्समुत्पिञ्जश्च पिञ्जलः ।भृशाकुलोत्पिञ्जलौ च क्षारिताक्षारितौ पुनः ॥ ८३ ॥
1.9.83 · p. 223
अनुष्टुप्
अभिशस्तेऽथोपरक्तो व्यसनार्तो वधोद्यते ।संनद्ध आततायी स्यात् कशार्हः कश्य इत्यथ ॥ ८४ ॥
1.9.84 · p. 223
अनुष्टुप्
आपन्न आपत्प्राप्तोथ प्रत्याख्याते पुनः पुनः ।प्रतिशिष्टो नारकीटः स्वदत्ताशाविहन्तरि ॥ ८५ ॥
1.9.85 · p. 223
अनुष्टुप्
द्वेष्यस्त्वक्षिगतो वध्यः शीर्षच्छेद्यो विषेण यः ।वध्यो विष्यो मुसल्यस्तु यो वध्यो मुसलेन च ॥ ८६ ॥
1.9.86 · p. 223
अनुष्टुप्
शिश्विदानः कृष्णकर्मा निकृतस्त्वनृजुः शठः ।दोषैकदृक् पुरोभागी द्विजिह्वो मत्सरी खलः ॥ ८७ ॥
1.9.87 · p. 223
अनुष्टुप्
कर्णेजपः सूचकः स्यान्नीचः कुरवदुर्जनौ ।पिशुनोऽथ नृशंसः स्यात्क्रूरो घातुक इत्यथ ॥ ८८ ॥
1.9.88 · p. 224
अनुष्टुप्
स्याद्धूर्तो वञ्चकः पापः क्षुद्रो वञ्चूक इत्यपि ।कीनाशश्च कदर्यः स्यात्किंपचानो मितम्पचः ॥ ८९ ॥
1.9.89 · p. 224
अनुष्टुप्
दृढमुष्टिर्बद्धकरो निस्वो दुस्थश्च दुर्विधः ।दुस्थितो दुर्गतो दीनो दरिद्रोऽकिंचनोऽपि च ॥ ९० ॥
1.9.90 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्ब (wrong syllable)
यद्भविष्यो दैवपरस्तर्कुकस्तुवनीयकः ।स्याद्याचको याचनको मार्गणोऽथ शुभार्थिनि ॥ ९१ ॥
1.9.91 · p. 224
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
शुभंयुः स्यादहंकारिण्यहंयुर्मित्रवत्सले ।मित्रंयुरथ शंवः स्याच्छंयुरात्मसुखार्थिनि ॥ ९२ ॥
1.9.92 · p. 224
अनुष्टुप्
स तु पञ्चजनीनः स्याद्भाण्डादिनिरतो हि यः ।अनुग्रे सोम्यसौम्यौ द्वौ दीर्घे व्यायत आयतः ॥ ९३ ॥
1.9.93 · p. 224
अनुष्टुप्
हर्षणो हर्षुकस्तुल्यौ श्वेतविन्दुयुते द्वयम् ।स्यात्पृषत् पृषतस्तद्वत् कान्दिशीको भयद्रुते ॥ ९४ ॥
1.9.94 · p. 224
अनुष्टुप्
स च कान्दिशिकोऽपि स्याद्विलीने विद्रुतो द्रुतः ।प्रतिवेशी प्रतीवेशी स्यादासन्ननिवासिनि ॥ ९५ ॥
1.9.95 · p. 224
अनुष्टुप्
ब्रह्मण्यो ब्राह्मणहितो व्रतदम्भस्त्वकल्कनः ।वैरङ्गिको विरागार्हश्चक्षणः कलिलक्षितः ॥ ९६ ॥
1.9.96 · p. 224
अनुष्टुप्
स्याच्चक्षुष्यस्तु सुभगः स्यात्प्रणाय्यस्त्वसम्मतः ।स्वस्थानस्थः परान्द्वेष्टि यः सगोष्ठश्च उच्यते ॥ ९७ ॥
1.9.97 · p. 225
अनुष्टुप्
दिव्योपपादुका देवा नृगवाद्या जरायुजाः ।स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ९८ ॥
1.9.98 · p. 225
अनुष्टुप्
उद्भिज्जास्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ।मनःपर्यायतो हारि हरं ज्ञं रममित्यपि ॥ ९९ ॥
1.9.99 · p. 225
अनुष्टुप्
सुन्दरं रुचिरं चारु कान्तं वल्गु च पेशलम् ।अभिरामं रामवामे मञ्जुलं मञ्जु पेसलम् ॥ १०० ॥
1.9.100 · p. 225
अनुष्टुप्
वन्धूरं वन्धुरं तुल्ये पेलवं चापि शोभनम् ।रुच्यं चापि च चोक्षं स्यान्मनोज्ञं मञ्जु वञ्जुलम् ॥ १०१ ॥
1.9.101 · p. 225
अनुष्टुप्
अपि स्यात्सुषमं चाथाभीप्सितं दयितं प्रियम् ।अभीष्टं वल्लगहृद्यमथासेचनकं हि तत् ॥ १०२ ॥
1.9.102 · p. 225
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
निकृष्टे प्रतिकृष्टार्वरेफयाप्यावमाधमाः ।रोपरेपारमा रेवो निकृष्टः संडमस्त्रियाम् ॥ १०३ ॥
1.9.103 · p. 225
अनुष्टुप्
कुपूयकुत्सितावद्यखेटगर्ह्याणका अपि ।स्युर्वाच्यलिङ्गा मलिनं कल्मषं च मलीमसम् ॥ १०४ ॥
1.9.104 · p. 225
अनुष्टुप्
स्यान्म्लानं कच्चलं तु स्यान्मलदूषितमित्यथ ।निर्णिक्तं विमलं वीध्रं पूतं मेध्यं पवित्रकम् ॥ १०५ ॥
1.9.105 · p. 225
अनुष्टुप्
समूढं शोधितं मृष्टं निःशोध्यमनवस्करम् ।शून्यं तु वशिकं तुच्छमिरिणं शुन्यमीरिणम् ॥ १०६ ॥
1.9.106 · p. 226
अनुष्टुप्
पुंसि क्लीबे नितानं स्यान्मसारं फल्ग्वथापि च ।अग्रं प्राग्रं प्राग्रहरमाग्र्यमग्रीयमग्रियम् ॥ १०७ ॥
1.9.107 · p. 226
अनुष्टुप्
मुख्यं वर्यं वरेण्यं च प्रबर्हं च प्रबर्हणम् ।परार्ध्यानवरार्ध्यौ द्वे पूरणः पूरकः समौ ॥ १०८ ॥
1.9.108 · p. 226
अनुष्टुप्
विनाकृतं विरहितं व्यवच्छिन्नं विशेषितम् ।भिन्नं स्यादथ निर्व्यूहे मुक्तं यो वातिशोभनः ॥ १०९ ॥
1.9.109 · p. 226
अनुष्टुप्
पुष्कलः सत्तमश्चापि श्रेयान् श्रेष्ठो महत्तमः ।स्युरुत्तरपदे व्याघ्रपुङ्गवर्षभकुञ्जराः ॥ ११० ॥
1.9.110 · p. 226
अनुष्टुप्
सिंहशार्दूलवृषभपुण्डरीकवृषा अपि ।वराहधुर्यधौरेयाः सपर्यायाः क्रमादमी ॥ १११ ॥
1.9.111 · p. 226
अनुष्टुप्
श्रेष्ठार्थगोचराः पुंसि स्त्रियौ मल्लीमचर्चिके ।क्लीबे प्रकाण्डमुद्घश्च तल्लजश्चापि पुंस्युभौ ॥ ११२ ॥
1.9.112 · p. 226
अनुष्टुप्
सर्व एते प्रशस्तार्थाः स्युरुत्तरपदे स्थिताः ।क्लीबेऽप्रधाने तु प्राग्र्यमुपसर्जनमित्यपि ॥ ११३ ॥
1.9.113 · p. 226
अनुष्टुप्
विशंकटं पृथु महद्विशाला च विसंकटा ।स्त्रियां क्लीबे च विकटं पुंसि क्लीबे स्त्रियामिमे ॥ ११४ ॥
1.9.114 · p. 226
अनुष्टुप्
विसंकटो विशालो द्वे वद्रं वड्रं बृहत्पृथु ।पीनं तु पीवरं पीवा बहूरु विपुलं पुनः ॥ ११५ ॥
1.9.115 · p. 227
अनुष्टुप्
पीवपीवरभूरिष्ठपुष्टे स्थूलानि भूरि च ।स्तोकं पत्रमुत्तमल्पं क्षुल्लकं खुल्लकं पुनः ॥ ११६ ॥
1.9.116 · p. 227
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त्र (wrong syllable)
सूक्ष्मं श्लक्ष्णं कृशं दभ्रमथ मात्रा स्त्रियां त्रुटिः ।लवलेशकणाः पुंसि स्यादत्यल्पेप्यणुः कणाः ॥ ११७ ॥
1.9.117 · p. 227
अनुष्टुप्
स्वल्पमल्पं कणीकं च कणिका च कणिः कणी ।कणीयोल्पीयमल्पिष्ठमणीयो बहुलं बहु ॥ ११८ ॥
1.9.118 · p. 227
अनुष्टुप्
प्रभूतं प्रचुरं प्राज्यमदभ्रं पुरुहुः पुरुः ।भूयो भूरि स्फिरं गाढं निविडं विरलं पुनः ॥ ११९ ॥
1.9.119 · p. 227
अनुष्टुप्