कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

मर्त्यकाण्डः (1/7)

इत्याचार्यहेमचन्द्रविराचितायामभिधानचिन्तामणौ नाममालायां देवकाण्डो द्वितीयः ॥ २ ॥

मर्त्यः पञ्चजनो भूस्पृक्पुरुषः पूरुषो नरः ।मनुष्यो मानुषो ना विट् मनुजो मानवः पुमान् ॥ ३३७ ॥
3.337 · p. 17
अनुष्टुप्
बालः पाकः शिशुर्डिम्भः पोतः शावः स्तनंधयः ।पृथुकार्भोत्तानशयाः क्षीरकण्ठः कुमारकः ॥ ३३८ ॥
3.338 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्ता (wrong syllable)
शिशुत्वं शैशवं बाल्यं वयस्थस्तरुणो युवा ।
3.3 · p. 17
अनुष्टुप्
तारुण्यं यौवनं वृद्धः प्रवयाः स्थविरो जरन् ॥ ३३९ ॥जरी जीर्णो यातयामो जीनोऽथ विस्रसा जरा ।
3.4 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 थ (wrong syllable)
वार्धकं स्थाविरं ज्यायान्वर्षीयान्दशमीत्यपि ॥ ३४० ॥
3.340 · p. 17
अनुष्टुप्metre not read in every line
विद्वान्सुधीः कविविचक्षणलब्धवर्णा ज्ञः प्राप्तरूपकृतिकृष्ट्यभिरूपधीराः ।मेधाविकोविदविशारदसूरिदोषज्ञाः प्राज्ञपण्डितमनीषिबुधप्रबुद्धाः ॥ ३४१ ॥व्यक्तो विपश्चित्संख्यावान्सन्प्रवीणे तु शिक्षितः ।निष्णातो निपुणो दक्षः कर्महस्तमुखाः कृतात् ॥ ३४२ ॥कुशलश्चतुरोऽभिज्ञविज्ञवैज्ञानिकाः पटुः ।
3.6 · p. 18
वसन्ततिलका
छेको विदग्धे प्रौढस्तु प्रगल्भः प्रतिभामुखः ॥ ३४३ ॥कुशाग्रीयमतिः सूक्ष्मदर्शी तत्कालधीः पुनः ।प्रत्युत्पन्नमतिर्दूराद्यः पश्येद्दीर्घदर्श्यसौ ॥ ३४४ ॥
3.344 · p. 18
अनुष्टुप्
हृदयालुः सहृदयश्चिद्रूपोऽप्यथ संस्कृते ।व्युत्पन्नप्रहतक्षुण्णा अन्तर्वाणिस्तु शास्त्रवित् ॥ ३४५ ॥
3.345 · p. 18
अनुष्टुप्
वागीशो वाक्पतौ वाग्मी वाचोयुक्तिपटुः प्रवाक् ।समुखो वावदूकोऽथ वदो वक्ता वदावदः ॥ ३४६ ॥
3.346 · p. 18
अनुष्टुप्
स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।
3.10 · p. 18
अनुष्टुप्
यद्वदोऽनुत्तरे दुर्वाक्कद्वदे स्यादथाधरः ॥ ३४७ ॥हीनवादिन्येडमूकानेडमूकौ त्वावाक्श्रुतौ ।
3.11 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 त्वा (wrong syllable)
रवणः शब्दनस्तुल्यौ कुवादकुचरौ समौ ॥ ३४८ ॥
3.348 · p. 18
अनुष्टुप्metre not read in every line
लोहलोऽस्फुटवाङ्मूकोऽवागसौम्यस्वरोऽस्वरः ।
3.13 · p. 18
अनुष्टुप्
वेदिता विदुरो विन्दुर्वन्दारुस्त्वभिवादकः ॥ ३४९ ॥
3.349 · p. 18
अनुष्टुप्
आशंसुराशंसितरि कट्वरस्त्वतिकुत्सितः ।
3.15 · p. 18
अनुष्टुप्
निराकरिष्णुः क्षिप्नुः स्याद्विकासी तु विकस्वरः ॥ ३५० ॥
3.350 · p. 18
अनुष्टुप्
दुर्मुखे मुखराबद्धमुखौ शक्लः प्रियंवदः ।
3.17 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
दानशीलः स वदान्यो वदन्योऽप्यथ बालिशः ॥ ३५१ ॥मूढो मन्दो यथाजातो बालो मातृमुखो जडः ।मूर्खोऽमेधो विवर्णाज्ञौ वैधेयो मातृशासितः ॥ ३५२ ॥देवानांप्रियजाल्मौ च दीर्घसूत्रश्चिरक्रियः ।
3.18 · p. 18
अनुष्टुप्metre not read in every line
मन्दः क्रियासु कुण्ठः स्यात्क्रियावान्कर्मसूद्यतः ॥ ३५३ ॥
3.353 · p. 18
अनुष्टुप्
कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।
3.20 · p. 18
अनुष्टुप्
कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३५४ ॥
3.354 · p. 18
अनुष्टुप्
सिंहसंहननः स्वङ्गः स्वतन्त्रो निरवग्रहः ।यथाकामी स्वरुचिश्च स्वच्छन्दः स्वैर्यपावृतः ॥ ३५५ ॥
3.355 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रु (wrong syllable)
यदृच्छा स्वैरिता स्वेच्छा नाथवान्निघ्नगृह्यकौ ।तन्त्रायत्तवशाधीनच्छन्दवन्तः परात्परे ॥ ३५६ ॥
3.356 · p. 18
अनुष्टुप्
लक्ष्मीवांल्लक्ष्मणः श्रील इभ्य आढ्यो धनीश्वरः ।
3.24 · p. 18
अनुष्टुप्
ऋद्धे विभूतिः संपत्तिर्लक्ष्मीः श्रीऋद्धिसंपदः ॥ ३५७ ॥
3.357 · p. 18
अनुष्टुप्
दरिद्रो दुर्विधो दुःस्थो दुर्गतो निःस्वकीकटौ ।अकिंचनोऽधिपस्त्वीशो नेता परिवृढोऽधिभूः ॥ ३५८ ॥पतीन्द्रस्वामिनाथार्याः प्रभुर्भर्तेश्वरो विभुः ।ईशितेनो नायकश्च नियोज्यः परिचारकः ॥ ३५९ ॥डिङ्गरः किंकरो भृत्यश्चेटो गोप्यः पराचितः ।दासः प्रेष्यः परिस्कन्दो भुजिष्यपरिकर्मिणौ ॥ ३६० ॥परान्नः परिपिण्डादः परजातः परैधितः ।
3.26 · p. 18
अनुष्टुप्
भृतके भृतिभुग्वैतनिकः कर्मकरोऽपि च ॥ ३६१ ॥
3.361 · p. 18
अनुष्टुप्
स निर्भृतिः कर्मकारो भृतिः स्यान्निष्क्रयः पणः ।कर्मण्या वेतनं मूल्यं निर्वेशो भरणं विधा ॥ ३६२ ॥भर्मण्या भर्म भृत्या च भोगस्तु गणिकाभृतिः ।
3.28 · p. 18
अनुष्टुप्
खलपूः स्याद्बहुकरो भारवाहस्तु भारिकः ॥ ३६३ ॥
3.363 · p. 18
अनुष्टुप्
वार्तावहे वैवधिको भारे विवधवीवधौ ।
3.30 · p. 18
अनुष्टुप्
काचः शिक्यं तदालम्बो भारयष्टिर्विहङ्गिका ॥ ३६४ ॥
3.364 · p. 18
अनुष्टुप्
शूरश्चारभटो वीरो विक्रान्तश्चाथ कातरः ।दरिद्रश्चकितो भीतो भीरुभीरुकभीलुकाः ॥ ३६५ ॥
3.365 · p. 18
अनुष्टुप्
विहस्तव्याकुलौ व्यग्रे कांदिशीको भयद्रुते ।
3.33 · p. 18
अनुष्टुप्
उत्पिञ्जलसमुत्पिञ्जपिञ्जलाभृशमाकुले ॥ ३६६ ॥
3.366 · p. 18
अनुष्टुप्
महेच्छे तूद्भटोदारोदात्तोदीर्णमहाशयाः ।महामना महात्मा च कृपणस्तु मितंपचः ॥ ३६७ ॥कीनाशस्तद्धनक्षुद्रकदर्यदृढमुष्टयः ।किंपचानो दयालुस्तु कृपालुः करुणापरः ॥ ३६८ ॥सूरतोऽथ दया शूकः कारुण्यं करुणा घृणा ।कृपानुकम्पानुक्रोशो हिंस्रे शरारुघातुकौ ॥ ३६९ ॥
3.369 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
व्यापादनं विशरणं प्रमयः प्रमापणं निर्ग्रन्थनं प्रमथनं कदनं निबर्हणम् ।निस्तर्हणं विशसनं क्षणनं परासनं प्रोज्जासनं प्रशमनं प्रनिघातनं वधः ॥ ३७० ॥प्रवासनोद्वासनघातनिर्वासनानि संज्ञप्तिनिशुम्भहिंसाः ।निर्वापणालम्भनिसूदनानि निर्यातनोन्मन्थसमापनानि ॥ ३७१ ॥अपासनं वर्जनमारपिञ्जा निष्कारणाक्राथविशारणानि ।
3.36 · p. 19
metre not recognised
स्युः कर्तने कल्पनवर्धने च च्छेदश्च घातोद्यत आततायी ॥ ३७२ ॥
3.372 · p. 19
उपजातिः
स शैर्षच्छेदिकः शीर्षच्छेद्यो यो वधमर्हति ।
3.38 · p. 19
अनुष्टुप्
प्रमीत उपसंपन्नः परेतप्रेतसंस्थिताः ॥ ३७३ ॥नामालेख्ययशः शेषो व्यापन्नोऽपगतो मृतः ।परासुस्तदहे दानं तदर्थमौर्ध्वदेहिकम् ॥ ३७४ ॥
3.374 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्थ (wrong syllable)
मृतस्नानमपस्नानं निवापः पितृतर्पणम् ।
3.40 · p. 19
अनुष्टुप्
चितिचित्याचितास्तुल्या ऋजुस्तु प्राञ्जलोऽञ्जसः ॥ ३७५ ॥
3.375 · p. 19
अनुष्टुप्
दक्षिणे सरलोदारौ शठस्तु निकृतोऽनृजुः ।
3.42 · p. 19
अनुष्टुप्
क्रूरे नृशंसनिस्त्रिंशपापा धूर्तस्तु वञ्चकः ॥ ३७६ ॥व्यंसकः कुहको दाण्डाजिनिको मायिजालिकौ ।
3.43 · p. 19
अनुष्टुप्
माया तु शठता शाठ्यं कुसृतिर्निष्कृतिश्च सा ॥ ३७७ ॥
3.377 · p. 19
अनुष्टुप्
कपटं कैतवं दम्भः कूटं छद्मोपधिश्छलम् ।व्यपदेशो मिषं लक्षं निभं व्याजोऽथ कुक्कुटिः ॥ ३७८ ॥कुहना दम्भचर्या च वञ्चनं तु प्रतारणम् ।व्यलीकमतिसन्धानं साधौ सभ्यार्यसज्जनाः ॥ ३७९ ॥
3.379 · p. 19
अनुष्टुप्
दोषैकदृक्पुरोभागी कर्णेजपस्तु दुर्जनः ।पिशुनः सूचको नीचो द्विजिह्वो मत्सरी खलः ॥ ३८० ॥
3.380 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ज (wrong syllable)
व्यसनार्तस्तूपरक्तश्चोरस्तु प्रतिरोधकः ।दस्युः पाटच्चरः स्तेनस्तस्करः पारिपन्थिकः ॥ ३८१ ॥परिमोषिपरास्कन्द्यैकागरिकमलिम्लुचाः ।
3.47 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ग (wrong syllable)
यः पश्यतो हरेदर्थं स चौरः पश्यतोहरः ॥ ३८२ ॥
3.382 · p. 19
अनुष्टुप्metre not read in every line
चौर्यं तु चौरिका स्तेयं लोप्त्रं त्वपहृतं धनम् ।
3.49 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
यद्भविष्यो दैवपरोऽथालस्यः शीतकोऽलसः ॥ ३८३ ॥मन्दस्तुन्दपरिमृजोऽनुष्णो दक्षस्तु पेशलः ।पटूष्णोष्णकसूत्थानचतुराश्चाथ तत्परः ॥ ३८४ ॥आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः ।
3.50 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 न्द (wrong syllable)
दातोदारः स्थूललक्षो दानशौण्डो बहुप्रदे ॥ ३८५ ॥
3.385 · p. 19
अनुष्टुप्
दानमुत्सर्जनं त्यागः प्रदेशनविसर्जने ।विहायितं वितरणं स्पर्शनं प्रतिपादनम् ॥ ३८६ ॥विश्राणनं निर्वपणमपवर्जनमंहतिः ।
3.52 · p. 19
अनुष्टुप्
अर्थव्ययज्ञः सुकलो याचकस्तु वनीपकः ॥ ३८७ ॥मार्गणोऽर्थी याचनकस्तर्कुकोऽथार्थनैषणा ।अर्दना प्रणयो याच्ञा याचनाध्येषणा सनिः ॥ ३८८ ॥
3.388 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 या (wrong syllable)
उत्पतिष्णुस्तूत्पतितालंकरिष्णुश्च मण्डनः ।
3.54 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
भविष्णुर्भविता भूष्णुः समौ वर्तिष्णुवर्तनौ ॥ ३८९ ॥
3.389 · p. 19
अनुष्टुप्metre not read in every line
विसृत्वरो विसृमरः प्रसारी च विसारिणि ।
3.56 · p. 19
अनुष्टुप्
लज्जाशीलोऽपत्रपिष्णुः सहिष्णुः क्षमिता क्षमी ॥ ३९० ॥तितिक्षुः सहनः क्षन्ता तितिक्षा सहनं क्षमा ।
3.57 · p. 19
अनुष्टुप्
ईर्ष्यालुः कुहनोऽक्षान्तिरीर्ष्या क्रोधी तु रोषणः ॥ ३९१ ॥अमर्षणः क्रोधनश्च चण्डस्त्वत्यन्तकोपनः ।
3.58 · p. 19
अनुष्टुप्
बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥ ३९२ ॥
3.392 · p. 19
अनुष्टुप्
बुभुक्षायामशनाया जिघत्सा रोचको रुचिः ।
3.60 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 श (wrong syllable)
पिपासुस्तृषितस्तृष्णक्तृष्णा तर्षोऽपलासिका ॥ ३९३ ॥पिपासा तृट्तृषोदन्या धीतिः पानेऽथ शोषणम् ।रसादानं भक्षकस्तु घस्मरोऽद्मर आशितः ॥ ३९४ ॥
3.394 · p. 19
अनुष्टुप्metre not read in every line
भक्तमन्नं कूरमन्धो भित्सा दीदिविरोदनः ।अशनं जीवनकं च याजो वाजः प्रसादनम् ॥ ३९५ ॥
3.395 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 न (wrong syllable)
भिस्सटा दग्धिका सर्वरसाग्र्यं मण्डमत्र तु ।
3.63 · p. 19
अनुष्टुप्
दधिजे मस्तु भक्तोत्थे निःस्रावाचाममासराः ॥ ३९६ ॥
3.396 · p. 19
अनुष्टुप्
श्रणाविलेपी तरला यवागूरुष्णिकापि च ।
3.65 · p. 19
अनुष्टुप्
सूपः स्यात्प्रहितं सूदो व्यञ्जनं तु घृतादिकम् ॥ ३९७ ॥
3.397 · p. 19
अनुष्टुप्
तुल्यौ तिलान्ने कृसरत्रिसरावथ पिष्टकः ।पूपोऽपूपः पूलिका तु पोलिकापोलिपूपिकाः ॥ ३९८ ॥पूपलाथेषत्पक्वे स्युरभ्यूषाभ्योषपौलयः ।
3.67 · p. 19
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
निष्ठानं तु तेमनं स्यात्करम्भो दधिसक्तवः ॥ ३९९ ॥
3.399 · p. 20
metre not recognised
घृतपूरो घृतवरः पिष्टपूरश्च घार्तिकः ।
3.69 · p. 20
अनुष्टुप्
चमसी पिष्टवर्तिः स्याद्वटकस्त्ववसेकिमः ॥ ४०० ॥
3.400 · p. 20
अनुष्टुप्
भृष्टा यवाः पुनर्धाना धानाचूर्णं तु सक्तवः ।
3.71 · p. 20
अनुष्टुप्
पृथुकश्चिपिटस्तुल्यौ लाजाः स्युः पुनरक्षताः ॥ ४०१ ॥
3.401 · p. 20
अनुष्टुप्
गोधूमचूर्णे समिता यवक्षोदे तु चिक्कसः ।
3.73 · p. 20
अनुष्टुप्
गुड इक्षुरसक्वाथः शर्करा तु सितोपला ॥ ४०२ ॥सिता च मधुधूलिस्तु खण्डस्तद्विकृतिः पुनः ।मत्स्यण्डी फाणितं चापि रसालायां तु भार्जिता ॥ ४०३ ॥शिखरिण्यथ यूर्यूषो रसो दुग्धं तु सोमजम् ।गोरसः क्षीरमूधस्यं स्तन्यं पुंसवनं पयः ॥ ४०४ ॥
3.404 · p. 20
अनुष्टुप्
पयस्यं घृतदध्यादि पेयूषोऽभिनवं पयः ।
3.75 · p. 20
अनुष्टुप्
उभे क्षीरस्य विकृती किलाटी कूर्चिकापि च ॥ ४०५ ॥
3.405 · p. 20
अनुष्टुप्
पायसं परमान्नं च क्षैरेयी क्षीरजं दधि ।गोरसश्च तदघनं द्रप्सं पत्त्रलमित्यपि ॥ ४०६ ॥
3.406 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
घृतं हविष्यमाज्यं च हविराघारसर्पिषी ।
3.78 · p. 20
अनुष्टुप्
ह्योगोदोहोद्भवं हैयंगवीनं शरजं पुनः ॥ ४०७ ॥दधिसारं तक्रसारं नवनीतं नवोद्धृतम् ।
3.79 · p. 20
अनुष्टुप्
दण्डाहते कालशेयघोलारिष्टानि गोरसः ॥ ४०८ ॥रसायनमथार्धाम्बूदश्विच्छ्वेतं समोदकम् ।
3.80 · p. 20
अनुष्टुप्
तक्रं पुनः पादजलं मथितं वारिवर्जितम् ॥ ४०९ ॥
3.409 · p. 20
अनुष्टुप्
सार्पिष्कं दाधिकं सर्पिर्दधिभ्यां संस्कृतं क्रमात् ।
3.82 · p. 20
अनुष्टुप्metre not read in every line
लवणोदकाभ्यानुदकलावणिकमुदश्विति ॥ ४१० ॥
3.410 · p. 20
अनुष्टुप्metre not read in every line
औदश्वितमौदश्वित्कं लवणे स्यात्तु लावणम् ।
3.84 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मौ (wrong syllable)
पैठरोख्ये उखासिद्धे प्रयस्तं तु सुसंस्कृतम् ॥ ४११ ॥
3.411 · p. 20
अनुष्टुप्metre not read in every line
पक्वे राद्धं च सिद्धं च भृष्टं पक्वं विनाम्बुना ।
3.86 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्भ (wrong syllable)
भृष्टामिषं भटित्रं स्याद्भूतिर्भरूटकं च तत् ॥ ४१२ ॥
3.412 · p. 20
अनुष्टुप्metre not read in every line
शूल्यं शूलाकृतं मांसं निष्क्वाथो रसकः समौ ।
3.88 · p. 20
अनुष्टुप्
प्रणीतमुपसंपन्नं स्निग्धे मसृणचिक्कणे ॥ ४१३ ॥
3.413 · p. 20
अनुष्टुप्
पिच्छिलं तु विजिविलं विज्जलं विजलं च तत् ।
3.90 · p. 20
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable); pāda 3, syllable 4 तु (wrong syllable)
भावितं तु वासितं स्यात्तुल्ये सम्मृष्टशोधिते ॥ ४१४ ॥
3.414 · p. 20
metre not recognised
काञ्चिकं काञ्जिकं धान्याम्लारनाले तुषोदकम् ।कुल्माषाभिषुतावन्तिसोमशुक्तानि कुञ्जलम् ॥ ४१५ ॥चुक्रं धातुघ्नमुन्नाहं रक्षोघ्नं कुण्डगोलकम् ।महारसं सुवीराम्लं सौवीरं म्रक्षणं पुनः ॥ ४१६ ॥तैलं स्नेहोऽभ्यञ्जनं च वेषवार उपस्करः ।
3.92 · p. 20
अनुष्टुप्
स्यात्तिन्तिडीकं तु चुक्रं वृक्षाम्लं चाम्लवेतसे ॥ ४१७ ॥
3.417 · p. 20
अनुष्टुप्
हरिद्रा काञ्चनी पीता निशाख्या वरवर्णिनी ।
3.94 · p. 20
अनुष्टुप्
क्षवः क्षुताभिजननो राजिका राजसर्षपः ॥ ४१८ ॥आसुरी कृष्णिका चासौ कुस्तुम्बुरु तु धान्यकम् ।धन्या धन्याकं धान्याकं मरीचं कृष्णमूषणम् ॥ ४१९ ॥कोलकं वेल्लजं धार्मपत्तनं यवनप्रियम् ।
3.95 · p. 20
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 कं (wrong syllable)
शुण्ठी महौषधी विश्वा नागरं विश्वभेषजम् ॥ ४२० ॥
3.420 · p. 20
अनुष्टुप्
तन्मूलं ग्रन्थिकं सर्वग्रन्थिकं चटकाशिरः ॥ ४२१ ॥
3.421 · p. 20
अनुष्टुप्
त्रिकटु त्र्यूषणं व्योषमजाजी जीरकः कणा ।
3.99 · p. 20
अनुष्टुप्
सहस्रवेधि वाह्लीकं जतुकं हिङ्गु रामठम् ॥ ४२२ ॥
3.422 · p. 20
अनुष्टुप्
न्यादः स्वदनं खादनमशनं निघसो वल्भनमभ्यवहारः ।जग्धिर्जक्षणभक्षणलेहाः प्रत्यवसानं घसिराहारः ॥ ४२३ ॥प्सानावष्वाणविष्वाणा भोजनं जेमनादने ।
3.101 · p. 20
metre not recognised
चर्वणं चूर्णनं दन्तैर्जिह्वास्वादस्तु लेहनम् ॥ ४२४ ॥
3.424 · p. 20
अनुष्टुप्
कल्यवर्तः प्रातराशः सग्धिस्तु सहभोजनम् ।
3.103 · p. 20
अनुष्टुप्
ग्रासो गुडेरकः पिण्डो गडोलः कवको गुडः ॥ ४२५ ॥गण्डोलः कवलस्तृप्ते त्वाघ्रातसुहिताशिताः ।
3.104 · p. 20
अनुष्टुप्
तृप्तिः सौहित्यमाघ्राणमथ भुक्तसमुज्झिते ॥ ४२६ ॥फेला पिण्डोलिफेली च स्वोदरपूरके पुनः ।कुक्षिंभरिरात्मंभरिरुदरंभरिरप्यथ ॥ ४२७ ॥
3.427 · p. 20
metre not recognised
आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते ।
3.106 · p. 20
अनुष्टुप्metre not read in every line
उदरपिशाचः सर्वान्नीनः सर्वान्नभक्षकः ॥ ४२८ ॥
3.428 · p. 20
अनुष्टुप्metre not read in every line
शाष्कुलः पिशिताश्युन्मदिष्णुस्तून्मादसंयुतः ।
3.108 · p. 20
अनुष्टुप्
गृध्नुस्तु गर्धनस्तृष्णग्लिप्सुर्लुब्धोऽभिलाषुकः ॥ ४२९ ॥लोलुपो लोलुभो लोभस्तृष्णा लिप्सा वशः स्पृहा ।काङ्क्षाशंसागर्धवाञ्छाशेच्छेहातृण्मनोरथाः ॥ ४३० ॥कामोऽभिलाषोऽभिध्या तु परस्वेहोद्धतः पुनः ।अविनीतो विनीतस्तु निभृतः प्रश्रितोऽपि च ॥ ४३१ ॥
3.431 · p. 20
अनुष्टुप्
विधेये विनयस्थः स्यादाश्रवो वचने स्थितः ।
3.110 · p. 21
अनुष्टुप्
वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णुधृष्णजौ ॥ ४३२ ॥
3.432 · p. 21
अनुष्टुप्
वीक्षापन्नो विलक्षोऽथाधृष्टे शालीनशारदौ ।
3.112 · p. 21
अनुष्टुप्
शुभंयुः शुभसंयुक्तः स्यादहंयुरहंकृतः ॥ ४३३ ॥
3.433 · p. 21
अनुष्टुप्
कामुकः कमिता कम्रोऽनुकः कामयिताऽभिकः ।कामनः कमरोऽभीकः पञ्चभद्रस्तु विप्लुतः ॥ ४३४ ॥व्यसनी हर्षमाणस्तु प्रमना हृष्टमानसः ।विकुर्वाणो विचेतास्तु दुरन्तर्विपरो मनाः ॥ ४३५ ॥
3.435 · p. 21
अनुष्टुप्
मत्ते शौण्डोत्कटक्षीबा उत्कस्तूत्सुक उन्मनाः ।उत्कण्ठितोऽभिशस्ते तु वाच्यक्षारितदूषिताः ॥ ४३६ ॥
3.436 · p. 21
अनुष्टुप्
गुणैः प्रतीते त्वाहतलक्षणः कृतलक्षणः ।
3.116 · p. 21
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 त्वा (wrong syllable); pāda 3, syllable 7 ण्डु (wrong syllable)
निर्लक्षणस्तु पाण्डुरपृष्ठः सङ्कसुकोऽस्थिरे ॥ ४३७ ॥
3.437 · p. 21
metre not recognised
तूष्णींशीलस्तु तूष्णीको विवशोऽनिष्टदुष्टधीः ।
3.118 · p. 21
अनुष्टुप्
बद्धो निगडितो नद्धः कीलितो यन्त्रितः सितः ॥ ४३८ ॥संदानितः संयतश्च स्यादुद्दानं तु बन्धनम् ।
3.119 · p. 21
अनुष्टुप्
मनोहतः प्रतिहतः प्रतिबद्धो हतश्च सः ॥ ४३९ ॥
3.439 · p. 21
अनुष्टुप्