कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

पातालकाण्डः · आतङ्कवर्गः (2/3)

मित्रयुर्लोकयात्राविद्धर्मयुर्धार्मिकः स्मृतः ।दातोदारो वदान्यस्तु वदन्यो दाक-दानपौ ॥ १८ ॥
3.3.18 · p. 3
अनुष्टुप्
दानशौण्डः स्थूललक्ष्यः स्थूललक्षो बहुप्रदः ।दक्षिणे सरलोदारौ भवेदृज्वाशयोऽपि सः ॥ १९ ॥
3.3.19 · p. 3
अनुष्टुप्
अर्थव्ययज्ञः सुकलो याचकस्तु वनीयकः ।वनीपको मार्गणोऽर्थी स्तो याचनक-तर्कुकौ ॥ २० ॥
3.3.20 · p. 3
अनुष्टुप्
मुखंपचो वसुकृमिः कृपणस्तु मितंपचः ।कदर्यः क्षुल्लकः क्षुद्रः किंपचानश्च रङ्कवत् ॥ २१ ॥
3.3.21 · p. 3
अनुष्टुप्
[159b]दृढमुष्टिस्तद्धनश्च कीनाशोऽपि वराकवत् ।गृध्नुस्तु गर्धनो लुब्ध-तृष्णक्-तर्षित-लिप्सवः ॥ २२ ॥
3.3.22 · p. 3
अनुष्टुप्
लोलुपो लोलुभश्चाभिलाषुको लम्पटश्च सः ।कमनोऽथ महात्मा स्यान्महाचित्तो महाशयः ॥ २३ ॥
3.3.23 · p. 3
अनुष्टुप्
उदीर्णः स्यादुदात्तोऽपि महेच्छोदारकोद्भटाः ।निःस्वस्तु दुर्विधो दीनो दुःस्थाकिंचन-कीकटाः ॥ २४ ॥
3.3.24 · p. 3
अनुष्टुप्
दरिद्रोऽपि दरिद्राणे दुर्गतोऽश्वस्तनोऽपि सः ।व्रातीनः स्याद्व्रातजीवी शरीरायासजीवनः ॥ २५ ॥
3.3.25 · p. 3
अनुष्टुप्
स्याद्दयालुः कारुणिकः कृपालुः सूरतः समाः ।दापितः साधितोऽपि स्याद्वरदस्तु समर्धकः ॥ २६ ॥
3.3.26 · p. 3
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
परीक्षकः कारणिकोऽक्षपाटलिक इत्यपि ।हर्षमाणो विकुर्वाणः प्रमना हृष्टमानसः ॥ २७ ॥
3.3.27 · p. 3
अनुष्टुप्
नीलीरागः स्थिरप्रेमा मञ्जिष्ठारागकः पुनः ।उद्धतप्रेमवानुक्तो हरिद्रारागकः पुनः ॥ २८ ॥
3.3.28 · p. 3
अनुष्टुप्
क्षणमात्रानुरागी स्याद्दुर्मनास्तु विचेतनः ।अन्तर्मनाश्च विमना अथ तद्वद्य आचरेत् [160a] ॥ २९ ॥
3.3.29 · p. 3
अनुष्टुप्
स्याद्दुर्मनायमानोऽसावुत्कस्तूत्सुक उन्मनाः ।उत्कण्ठितोऽथोन्मनायमानस्तद्वत्समाचरन् ॥ ३० ॥
3.3.30 · p. 4
अनुष्टुप्
उन्मनस्त्वं त्वौन्मनस्यं भावेऽस्योन्मनिमा पुमान् ।उन्मनस्ता स्त्रियामेवं दौर्मनस्यादिकान्वदेत् ॥कर्मक्षमोऽलंकर्मीणः कर्मशूरस्तु कर्मठः ।कर्मशीलः कार्म आयःशूलिकस्तीक्ष्णकर्मकृत् ॥ ३१ ॥
3.3.31 · p. 4
अनुष्टुप्
कुण्ठः क्रियासु मन्दो यः क्रियावान्कर्मसूद्यतः ।यद्भविष्यो दैवपरो दीर्घसूत्रश्चिरक्रियः ॥ ३२ ॥
3.3.32 · p. 4
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दै (wrong syllable)
मन्दस्तु तुन्दपरिमृज आलस्यः शीतकोऽलसोऽनुष्णः ।दक्षे तु चतुर-पेशल-पटूष्णकोष्णा धृषुश्च सूत्थानः ॥ ३३ ॥
3.3.33 · p. 4
गीतिःmetre not read in every line
विस्रब्धः स्याद्विश्वसितोऽथोत्ताल-त्वरितौ समौ ।आसक्तः प्रवणः प्रह्वः प्रसितश्च परायणः ।तत्परोऽप्यथ विख्यात-विज्ञातौ वित्त-विश्रुतौ ॥ ३४ ॥
3.3.34 · p. 4
अनुष्टुप्
तथा प्रतीतस्तादृक्तु गुणैराहतलक्षणः ।ईशस्तु ***** पतिरीश्वर ईशिता ॥ ३५ ॥
3.3.35 · p. 4
अनुष्टुप्metre not read in every line
भर्ता भरण्डो नेतार्यः प्रभुः परिवृढोऽधि[160b]पः ।अधिभूर्नायको नाथः स्वामीन्द्रो विभ्विनौ प्रभुः ॥ ३६ ॥
3.3.36 · p. 4
अनुष्टुप्metre not read in every line
साधुलक्साधुलग्नः स्याज्जलमग्जलमज्जनः ।अधिकर्द्धिः समृद्धः स्यादविनीतोद्धतौ समौ ।विनीतः प्रश्रितः प्रोक्तो निभृतोऽथ वचःस्थितः ॥ ३७ ॥
3.3.37 · p. 4
अनुष्टुप्
स्यादाश्रवो विधेयस्तु विनयस्थित इत्यपि ।वश्यः प्रणेयो धृष्टस्तु वियातो धृष्णु-धृष्णजौ ॥ ३८ ॥
3.3.38 · p. 4
अनुष्टुप्
विशस्तोऽप्यथ वैयात्य-वियातत्वे नपुंसके ।स्त्रियां वियातता भावे तस्य पुंसि वियातिमा ॥ ३९ ॥
3.3.39 · p. 5
अनुष्टुप्
प्रतीपः प्रतिकूलः स्यान्नमसस्त्वनुकूलवत् ।अधृष्टः शारदः प्रोक्तस्तत्र शालीन इत्यपि ।विलक्षो विस्मयापन्ने वाञ्छापन्नश्च स स्मृतः ॥ ४० ॥
3.3.40 · p. 5
अनुष्टुप्
आपन्नजीविकः प्राप्तजीविकश्च समावुभौ ।वराङ्गरूपोपेतो यः सिंहसंहननो हि सः ॥ ४१ ॥
3.3.41 · p. 5
अनुष्टुप्
निर्वार्यः कार्यकर्ता यः संपतन्सत्त्वसंपदा ।स्वतन्त्रोऽपावृतः स्वैरी स्वच्छन्दो निरवग्रहः ॥ ४२ ॥
3.3.42 · p. 5
अनुष्टुप्
स्वरुचिश्च यथाकामी परतन्त्रस्तु ना[161a]थवान् ।परवांश्च परायत्तः पराधीनोऽन्यनिघ्नवत् ॥ ४३ ॥
3.3.43 · p. 5
अनुष्टुप्metre not read in every line
परच्छन्दः परवशोऽथायत्ताधीन–निघ्नकाः ।अस्वच्छन्दो गृह्यकश्च यस्य कस्यापि यो वशः ॥ ४४ ॥
3.3.44 · p. 5
अनुष्टुप्
भार्याटिकः स्त्रीजितः स्याच्चक्षुष्यस्तु सुदर्शनः ।सुभगो वल्लभो रुच्यो दयितः प्रिय इत्यपि ॥ ४५ ॥
3.3.45 · p. 5
अनुष्टुप्
लोकंपृणस्तु लोकस्य प्रीतिकारी प्रकीर्तितः ।साधुः सहो रश्मियः (?) स्याद्भव्यस्तु भविलो भवेत् ॥प्रतिस्नातस्त्व * गथो लमकस्तीर्थशोधनः ।उपासकस्तु गोमी स्याद्गोमानिति च कीर्तितः ॥उग्रपश्यः क्रूरदर्शी द्वेष्यस्त्वक्षिगतो मतः ॥ ५० ॥
3.3.50 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शीर्षच्छेद्यो वध्य-घात्यौ शैर्षच्छेदिक इत्यपि ।हल्यो हलेन यो वध्यो मुशल्यो मुशलेन यः ॥ ५१ ॥
3.3.51 · p. 5
अनुष्टुप्
संनद्धस्त्वाततायी स्याच्छस्त्राद्यैर्यो वधोद्यतः ।शरारुर्घातुको हिंस्रो दशेरः शीर्वि-मीवरौ ॥ ५२ ॥
3.3.52 · p. 6
अनुष्टुप्
शिश्विदानः कृष्णकर्मा नृशंसः क्रूरकर्मकृत् ।निस्त्रिंशो घातुकः पापो शठस्तु निकृतो[161b]ऽनृजुः ॥
3.3.152 · p. 6
metre not recognised
भवेदनभ्याशमित्यः परिहार्यः सुदूरतः ॥ ५३ ॥
3.3.53 · p. 6
मायावान्मायिको मायी मायावी धूर्त-वञ्चकौ ।व्यंसकः कुहको दाण्डाजिनिकः कुटिलाशयः ॥ ५४ ॥
3.3.54 · p. 6
अनुष्टुप्
कुचरश्छित्वरः कापटिको जालिक-दाम्भिकौ ।कर्णेजपः सूचकः स्यात्पिशुनो दुर्जनः खलः ॥ ५५ ॥
3.3.55 · p. 6
अनुष्टुप्
द्विजिह्वो मत्सरी नीचः पुरोभागी तु दोषदृक् ।खलानां तु समूहे स्तः खल्या च खलिनी स्त्रियौ ॥क्रुद्धस्तु रुषितो रुष्टश्चक्षाणस्तु कलिप्रियः ।रोषणः क्रोधनः क्रोधी कोपनोऽमर्षणः सुरुट् ॥ ५६ ॥
3.3.56 · p. 6
अनुष्टुप्
चण्डस्त्वत्यन्तकोपी स्यात्तितिक्षुः सहनः क्षमी ।सहिष्णुः क्षमिता क्षन्ता क्षमावानपि सासहिः ॥ ५७ ॥
3.3.57 · p. 6
अनुष्टुप्
लज्जाशीलोऽपत्रपिष्णुः ह्रीकुर्ह्लीकुश्च तत्समौ ।त्रपितो लजितो ह्रीणो ह्रीतो बहुकरः पुनः ॥
3.3.158 · p. 6
अनुष्टुप्
द्वयोः पुंस्त्वे तु खलपूरीर्ष्यालुः कुहनः स्मृतः ।दूढ्यस्तु दुर्ध्यानकरे दूणाशो दूर्वधः स्मृतः ॥दूडाशो दुःखदे[162a]यः स्याद्दुर्दभ्यो दूडभः स्मृतः ।सर्वंसहः सर्वसोढा क्षमः शक्तः सहः प्रभुः ॥समर्थः सहिता सोढा प्रभूष्णुरपि तादृशः ।बुभुक्षितः स्यात्क्षुधितो जिघत्सुरशनायितः ॥भक्षको घस्मरो वर्विराशितश्चाद्मराशिनौ ॥ ५९ ॥
3.3.59 · p. 6
metre not recognised
परान्नः परपिण्डादः पुत्रान्नादः कुटीचरः ।अथोदरपिशाचः स्यात्सर्वान्नीनोऽखिलान्नभुक् ॥ ६० ॥
3.3.60 · p. 7
अनुष्टुप्
शाष्कुलः पिशिताशी स्यादथ स्वोदरपूरके ।आत्मंभरिस्तत्सदृशौ कुक्षिंभर्युदरंभरी ॥ ६१ ॥
3.3.61 · p. 7
अनुष्टुप्
आद्यूनः स्यादौदरिक उदरे प्रसितो हि यः ।भवन्ति पात्रेसमिताः भोक्तुमेव क्षमा हि ये ॥उदुम्बरकृमिः स स्याद्य उदुम्बरजन्तुवत् ।कामुकः कमिता कम्रोऽनुकः कामयिताभिकः ॥कामनः कमनः कामी कमराभीक-रामिलाः ।हर्षुलः पञ्चभद्रस्तु व्यसनी विप्लुतोऽपि सः ॥ ६३ ॥
3.3.63 · p. 7
अनुष्टुप्
विक्लवो विह्वलः स्यात्तु विवशोऽनिष्ट[ दुष्ट ]धीः ।चलाचलश्चाचलिश्च चिकुरश्चपलस्तथा ॥ ६४ ॥
3.3.64 · p. 7
अनुष्टुप्
अस्थिरः स्यात्संकसुकोऽथापन्नः स्याद्विपद्यु[162b]तः ।आक्षारितः क्षारितोऽभिशस्त आक्रुष्ट इत्यपि ॥ ६५ ॥
3.3.65 · p. 7
metre not recognised
व्यसनार्तोपरक्तौ द्वौ विहस्त-व्याकुलौ समौ ।निकृतः स्याद्विप्रकृतोऽन्यध्रुट्स्वस्थानगोऽपि सः ।शरणार्थ्यभिपन्नः स्यात्पिण्डीशूरोऽस्तिमान्धनी ॥ ६६ ॥
3.3.66 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्वि (wrong syllable)
हथो विषण्ण आर्तश्च विषादी तान्त इत्यपि ।स गोष्ठश्वः प्रतिक्षिप्तस्त्वाक्षिप्तो हतकश्च सः ॥ ६७ ॥
3.3.67 · p. 7
अनुष्टुप्
अधिक्षिप्तोऽप्यथो विप्रलब्धो वञ्चित इत्यपि ।भवेत्पाण्डुरपृष्ठोऽसौ यो लक्षणविवर्जितः ॥ ६८ ॥
3.3.68 · p. 7
अनुष्टुप्
निष्कासितोऽवकृष्टः स्यादपध्वस्तस्तु धिक्कृतः ।अवरीणो न्यक्कृतश्चावगीतः ख्यातगर्हणः ।त्रासदायी शंकुरः स्यात्तर्जितो भीषितः समौ ॥ ६९ ॥
3.3.69 · p. 8
अनुष्टुप्metre not read in every line
प्रत्यादिष्टो निरस्तः स्यात्प्रत्याख्यातो निराकृतः ।अपविद्धोऽथ भग्नेच्छः प्रतिबद्धो मनोहतः ॥ ७० ॥
3.3.70 · p. 8
अनुष्टुप्
हतः प्रतिहतश्च स्यादथ संदानितः सितः ।बद्धो निगडितो नद्धो यन्त्रितः कीलितस्तथा ॥ ७१ ॥
3.3.71 · p. 8
अनुष्टुप्
संयतोऽप्यथ मुक्तः स्यादुत्सृष्टश्च विसृष्टवत् ।प्राट् कथं[163a]कथिकः प्रष्टा कथकैकलटौ(?)समौ ॥ ७२ ॥
3.3.72 · p. 8
अनुष्टुप्metre not read in every line
सुखशयनं यः पृच्छत्ययमुदितः सौखशायनिकः ।सौस्नातिकोऽपि तद्वत्सुस्नातप्रश्नकारी हि यः ॥ ७३ ॥
3.3.73 · p. 8
उपगीतिःmetre not read in every line
मा कारि शब्द इति यः प्राह माशब्दिकोऽपि सः ।पार्याप्तिकस्तु पर्याप्तिवादी प्राभूतिकस्तथा ॥नग्नो विवस्त्रो दिग्वासा हसनीयस्तु हास्यवत् ।स्यान्नासिकंधमो नासां धमन्स्यान्नासिकंधयः ॥नासां धयन्नेवमेव ज्ञेया नाडिंधमादयः ।अभ्रंलिहिस्त्वभ्रलेही भवेदभ्रंकषः पुनः ॥ ७४ ॥
3.3.74 · p. 8
अनुष्टुप्
अभ्रं कषन्सर्वकाषी पुनः सर्वंकषः स्मृतः ।कूलंकषः कूलकाषी जायाघ्नस्तिलकालकः ॥ ७५ ॥
3.3.75 · p. 8
अनुष्टुप्
पतिघ्नी पाणिरेखा स्यात्पित्तघ्नं पित्तनाशनम् ।हस्तिघ्नो हस्तिघाती स्याज्जनौः स्याज्जनरक्षकः ॥ओजायमान उक्तोऽसावोजस्वीवाचरेद्धि यः ।अधीरः कातरस्त्रस्नुर्भीरुर्भीरुक-भीलुकौ ॥ ७७ ॥
3.3.77 · p. 8
अनुष्टुप्
दरि[163b]तश्चकितो भीतस्तथा हरिणचेतनः ।आशासानो नाथमानोऽथाशंसुस्तत्स्वभावकः ॥ ७८ ॥
3.3.78 · p. 9
metre not recognised
ग्रहयालुर्ग्रहीता स्यात्पतयालुस्तु पातुकः ।प्रह्वस्तु वन्दथो वन्द्रो नमतो नम्र इत्यपि ।***चि?न्नमस्यश्च वन्दारुरभिवादकः ॥ ७९ ॥
3.3.79 · p. 9
अनुष्टुप्metre not read in every line
वर्धिष्णुर्वर्धनो भूष्णुर्भविष्णुर्भवितापि सः ।प्रजनिष्णुः प्रजनिता ****** समौ ।उत्पतिष्णुस्तूत्पतिताथानतावर्जितौ समौ ।क्षयिष्णुः क्षयशीलः स्याद्भ्राजिष्णुर्भ्राजनोऽपि च ।निराकरिष्णुः क्षिप्नुः स्यात्प्रमादी तु प्रमादवान् ।श्रमी श्रान्तो भ्रमी भ्रान्तो ***** शीलवान् ।आयामशीलस्त्वायामी दोषी दूषणशीलवान् ।संपर्की चापि संसर्गी भङ्गुरो भङ्गशीलकः ॥भिक्षाशीलस्तु भिक्षाको लुण्टाको लुण्टकः समौ ।कुट्टाकः कुट्टकस्तुल्यौ तमी तान्तः समाविमौ ॥नश्वरो नाशशीलः स्यात्सृत्वरः सृमरः समौ ।प्रसारी तु विसारी स्याद्भवेत्प्रसृमरोऽपि सः ॥[विसृत्वरो] विसृमरोऽथेत्व[164a]रो गत्वरः समौ ।गन्ता तु गामुकस्तुल्यौ गमिष्यंस्तु गमी मतः ।श्वोगामी श्वो गमिष्यन्स्याज्जगन्वाञ्जग्मिवानुभौ ॥प्रातर्गामी प्रातरित्वा भृशं तु क्रमशीलवान् ।भवेच्चङ्क्रमणो दन्द्रमणश्च स निगद्यते ॥पापतिस्तु भृशं पातशील एवं तु वावहिः ।उन्निद्रो निद्रया हीनो बुद्धो जागरितः समाः ॥जागरूको जागरिता जागरी च समास्त्रयः ।स्वप्नक्शयालुर्निद्रालुर्घूर्णितः प्रचलायितः ॥निद्राणः शयितः सुप्तो निद्रामिच्छन्निदिद्रिषुः ।निद्राकाम्य[स्तु] निद्रीयन्सुषुप्सुरथ सुप्तिमान् ॥निद्रायमाणो निद्रायंस्तन्द्रालुस्तन्द्रयान्वितः ।धारुर्धरणशीलः स्याद्धर्ता धारय-धारकौ ॥धीवाथ धीवरी स्त्रीदृक् भावे धैवत्यमन्तिमे ।सम्मुखीनस्त्वभिमुखः पराचीनः पराङ्मुखः ॥प्रत्यङ्मुखः प्रतीचीनोऽथावाङ्मुखोऽप्यधोमुखः ।अवाचीनोऽप्यथोत्पश्यन्नुन्मुख[164b]श्च प्रकीर्तितः ॥विष्वद्र्यङ् विष्वगञ्चेद्यो देवद्र्यङ् देवमञ्चति ।सध्र्यङ् सहाञ्चंस्तिर्यङ् तु सम्मतो यस्तिरोऽञ्चति ॥अमुमञ्चन्नमुमुयङ्ङसावदसुयङ्ङपि ।अदद्र्यङ् चाथ गोअक् स्याद् गवाग्गोग्धेनुमञ्चति ॥साध्वञ्चति भवेत्सम्यङ् शयानस्तूत्स्वपन्मतः ।प्रबुध्यमानो जाग्रत्स्याच्छासदाज्ञापयन्नपि ॥शासिता दैशिकः शास्ताथोर्द्ध्वस्थोर्ध्वंदमौ समौ ।आसीनः स्यादुपविशन्नुपविष्टस्तथासितः ॥विधित्सन्कर्तुकामः स्याच्चिकीर्षुश्च विधित्सुवत् ।पित्सुस्तु पातुकामो यो जिघृक्षु [क्षं ?] स्तु जिघृक्षुवत् ॥ईर्ष्यामिच्छन्नीर्ष्यियिषन्भवेदीर्ष्यिषिषन्नपि ।पिपृच्छिषन्प्रष्टुकामो बिभित्सन्भेत्तुमिच्छति ॥क्षेप्तुमिच्छंश्चिकरिषन्गिलितुं पुनरिच्छति ।उक्तो जिगरिषंस्तत्र तथा जिगलिषन्नपि ॥चिकीषंस्तु चिचीषुश्च चेतुकामोऽपि कीर्तितः ।तितृंहिषंस्तितृक्षंश्च जि[165a]घांसन्रित्सुरित्यपि ॥तितांसंस्तु तितंसन्स्यात्तथा तितनिषन्नपि ।पित्सन्पिपतिषंस्तुल्यावथ स्याद्दिदरिद्रिषन् ॥तथा स्याद्दिदरिद्रासन्दित्सन्स्याद्दित्समानवत् ।अथो अधिजिगांसुः स्यात्तथा पिपठिषन्नपि ॥अध्यापिपयिषंश्चाधिजिगापयिषता समः ।गन्तुमिच्छञ्जिगमिषन्बोधने त्वीषिषन्मतः ॥दिदेविषंस्तु दिद्यूषन्सुस्यूषंस्तु सिषेविषन् ।ईर्त्सन्नर्दिधिषंस्तुल्यौ गदितौ वृद्धिकामुके ॥विवूर्षन्स्याद्विवरिषन्विवरीषन्नपि स्मृतः ।तितरीषंस्तितरिषंस्तितीर्षंस्तर्तुकामवत् ॥बुभुक्षन्स्यादशिशिषन्मित्समानस्तु मित्सति ।स्याद्विवर्तिषमाणो [ सौ ] विवृत्संश्च [ स ]मार्थकाः ।अङ्क्तुकामस्त्वञ्जिजिषन्बुभूषन्भवनेच्छुवत् ।तुष्टूषन्स्तोतुकामोऽथ तिष्ठासन्स्थातुमिच्छति ॥निदिद्रापयिषन्सुष्वापयिष[165b]न्नप्युभौ समौ ।इच्छन्स्वेदयितुं सिस्वेद यिषन्परिकीर्तितः ॥स्यान्मीमांसिषमाणश्च यो मीमांसितुमिच्छति ।बिभ्राजिषंस्तु बिभ्रक्षन्बिभर्क्षंश्च बिभर्जिषन् ॥अकल्मषो वीतदम्भो धिप्सन्धीप्सन्दिदम्भिषन् ।शिश्रीषन्स्याच्छिश्रयिषन्मित्सन्स्यान्मित्समानवत् ॥अथोर्णुनुविषन्नूर्णुनविषन्नूर्णुनूषति ।स्याज्जिज्ञापयिषञ्जिज्ञपयिषञ्ज्ञातुमिच्छति ॥बुभूर्षन्स्याद्बिभरिषन्नर्तितुं पुनरिच्छति ।निनर्तिषन्निनृत्संश्च शिक्षन्स्याच्छिक्षमाणवत् ॥पुत्रीयि [ यि ] षन्पुतित्रीयिषन्पुपुत्रीयिषन्नपि ।पुत्रीयन्पुत्रकाम्यश्च य इच्छत्यात्मनः सुतम् ॥दधिकाम्यो दधिस्यन्स्याद्दध्यस्यन्नपि तादृशः ।क्लीबन्क्लीबायमानश्च यः क्लीब इव चाचरन् ॥कृष्णन्कृष्णायमाणः स्यात्कृष्णं कुर्वंश्च कृष्णयन् ।पट्वीमृदूयमानस्तु पट्वीमृद्व्याविवाचरन् ॥ १३ ॥
3.3.13 · p. 9
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 जा (wrong syllable)nearly अनुष्टुप्nearly अनुष्टुप्: pāda 1, syllable 5 स्त्व (wrong syllable)nearly अनुष्टुप्
वर्धिष्णुविवर्धनविभूष्णुविभविष्णुविभवितृविप्रजनिष्णुविप्रजनितृविउत्पतिष्णुविउत्पतितृविआनतविआवर्जितविक्षयिष्णुविक्षयशीलविभ्राजिष्णुविभ्राजनविनिराकरिष्णुविक्षिप्नुविप्रमादिन्विप्रमादवत्विश्रमिन्विश्रान्तविभ्रमिन्विभ्रान्तविआयामशीलविआयामिन्विदोषिन्विदूषणशीलवत्विसंपर्किन्विसंसर्गिन्विभङ्गुरविभङ्गशीलकविभिक्षाशीलविभिक्षाकविलुण्टाकविलुण्टकविकुट्टाकविकुट्टकवितमिन्वितान्तविनश्वरविनाशशीलविसृत्वरविसृमरविप्रसारिन्विविसारिन्विप्रसृमरविविसृत्वरविविसृमरविइत्वरविगत्वरविगन्तृविगामुकविगमिष्यत्विगमिन्विश्वोगामिन्विजगन्वस्विजग्मिवस्विप्रातर्गामिन्विप्रातरित्वन्विचङ्क्रमणविदन्द्रमणविपापतिविवावहिविउन्निद्रविबुद्धविजागरितविजागरूकविजागरितृविजागरिन्विस्वप्नज्विशयालुविनिद्रालुविघूर्णितविप्रचलायितविनिद्राणविशयितविसुप्तविनिदिद्रिषुविनिद्राकाम्यविनिद्रीयत्विसुषुप्सुविसुप्तिमत्विनिद्रायमाणविनिद्रायत्वितन्द्रालुविधारुविधरणशीलविधर्तृविधारयविधारकविधीवन्विधीवरीस्त्रीधैवत्यक्लीसंमुखीनविअभिमुखविपराचीनविपराङ्मुखविप्रत्यङ्मुखविप्रतीचीनविअवाङ्मुखविअधोमुखविअवाचीनविउत्पश्यत्विउन्मुखविविष्वद्र्यञ्च्विदेवद्र्यञ्च्विसध्र्यञ्च्वितिर्यञ्च्विअमुयञ्च्विअदसुयञ्च्विअदद्र्यञ्च्विगञ्च्विगवाञ्च्विसम्यञ्च्विशयानविउत्स्वपत्विप्रबुध्यमानविजाग्रत्विशासत्विआज्ञापयत्विशासितृविदैशिकविशास्तृविऊर्ध्वस्थविऊर्ध्वंदमविआसीनविउपविशत्विउपविष्टविआसितविविधित्सत्विकर्तुकामविचिकीर्षुविविधित्सुविपित्सुविपातुकामविजिघृक्षुविईर्ष्यियिषत्विईर्ष्यिषिषत्विपिपृच्छिषत्विप्रष्टुकामविबिभित्सत्विचिकरिषत्विजिगरिषत्विजिगलिषत्विचिकीषत्विचिचीषुविचेतुकामवितितृंहिषत्वितितृक्षत्विजिघांसत्विरित्सुवितितांसत्वितितंसत्वितितनिषत्विपित्सत्विपिपतिषत्विदिदरिद्रिषत्विदिदरिद्रासत्विदित्सत्विदित्समानविअधिजिगांसुविपिपठिषत्विअध्यापिपयिषत्विअधिजिगापयिषत्विजिगमिषत्विईषिषत्विदिदेविषत्विदिद्यूषत्विसुस्यूषत्विसिषेविषत्विईर्त्सत्विअर्दिधिषत्विविवूर्षत्विविवरिषत्विविवरीषत्वितितरीषत्वितितरिषत्वितितीर्षत्वितर्तुकामविबुभुक्षत्विअशिशिषत्विमित्समानविविवर्तिषमाणविविवृत्सत्विअङ्क्तुकामविअञ्जिजिषत्विबुभूषत्विभवनेच्छुवितुष्टूषत्विस्तोतुकामवितिष्ठासत्विनिदिद्रापयिषत्विसुष्वापयिषत्विसिस्वेदयिषत्विमीमांसिषमाणविबिभ्राजिषत्विबिभ्रक्षत्विबिभर्क्षत्विबिभर्जिषत्विअकल्मषविवीतदम्भविधिप्सत्विधीप्सत्विदिदम्भिषत्विशिश्रीषत्विशिश्रयिषत्विमित्सत्विऊर्णुनुविषत्विऊर्णुनविषत्विऊर्णुनूषत्विजिज्ञापयिषत्विजिज्ञपयिषत्विबुभूर्षत्विबिभरिषत्विनिनर्तिषत्विनिनृत्सत्विशिक्षत्विशिक्षमाणविपुत्रीयिषत्विपुतित्रीयिषत्विपुपुत्रीयिषत्विपुत्रीयत्विपुत्रकाम्यविदधिकाम्यविदधिस्यत्विदध्यस्यत्विक्लीबत्विक्लीबायमानविकृष्णत्विकृष्णायमाणविकृष्णयत्विपट्वीमृदूयमानवि
[166a]श्रयंस्तु श्रीरिवाचारी स्रग्वीव स्रजयंस्तथा ।अथ चित्रीयमाणः स्याद्य आश्चर्यसमन्वितः ॥ १४ ॥
3.3.14 · p. 12
अनुष्टुप्
शब्दं कुर्वति शब्दायमानश्च परिकीर्तितः ।पटयन्पटुमाचष्टेऽतिक्रामति तु तेन यः ॥ १३ ॥
3.3.13 · p. 12
अनुष्टुप्
अत्यश्वयन्हस्तिनातिहस्तयन्स प्रकीर्तितः ।अथो हस्तयमानः स्याद्यो हस्तौ स्वौ निरस्यति ॥ १४ ॥
3.3.14 · p. 12
अनुष्टुप्
श्वेताश्वं यः समाचष्टे योऽतिक्रामति तेन वा ।भवेच्छ्वेतयमानोऽश्वतरं त्वश्वयमानकः ॥ १५ ॥
3.3.15 · p. 13
अनुष्टुप्
गालोडितं समाचष्टे स्याद्गालोडयमानकः ।भवन्तं यः प्रेरयति भावयन्नयमुच्यते ।यवयन्कनयंस्तुल्यौ स्फाययन्स्फिरकारिणि ॥ १५ ॥
3.3.15 · p. 13
अनुष्टुप्
स्थवयन्स्थूलकारी स्यात्त्रपयंस्तृप्रकारकः ।वृन्दारकं कुर्वति स्याद्वृन्दयन्वरयन्पुनः ॥ १६ ॥
3.3.16 · p. 13
अनुष्टुप्
वारयन्नुरुकारी स्याद्बृंहयंस्तु बृहत्त्वकृत् ।च्व्यर्थे त्वाढ्यंभविष्णुः स्यादाढ्यंभावुक इत्यपि ॥ १७ ॥
3.3.17 · p. 13
अनुष्टुप्
सुभगंभावुकस्तद्वच्च्व्यर्थे यः सुभगो भवेत् ।एवं स्थूलंभविष्णुः[166b] स्यात्स्थूलंभावुक इत्युभौ ॥ १८ ॥
3.3.18 · p. 13
अनुष्टुप्metre not read in every line
स्थूलस्तु पीवरः पीनः पीवा सान्द्रस्तु मेदुरः ।पितृस्थानीयस्तु पितृस्थानः स्यात्पितृसंनिभः ॥ १९ ॥
3.3.19 · p. 13
अनुष्टुप्
पितेवाचरिता प्रोक्तः पितरन्मातरंस्तथा ।मित्रशीर्मित्रशास्ता यः शिष्यशास्ता तु शिष्यशीः ॥स्थवीयांस्तु स्थविष्ठः स्यात्स्थौल्यं तु स्थविमा नरि ।पुत्रीय-पुत्र्यौ तद्धेतुसंयोगोत्पातयोरुभौ ॥ २० ॥
3.3.20 · p. 13
अनुष्टुप्
अथानुकम्पितः पुत्रः पुत्रको विनिगद्यते ।देवियो देविलो देवदत्तकः सोऽनुकम्पितः ॥ २१ ॥
3.3.21 · p. 13
अनुष्टुप्
उपेन्द्रदत्ते तादृक्ष उपडोपेन्द्रदत्तकौ ।उपकश्चोपिकश्च स्यादुपियः स्यात्तथोपिलः ॥ २२ ॥
3.3.22 · p. 13
अनुष्टुप्
वागाशीर्दत्तकस्तादृग्वाचिकः परिकीर्तितः ।देवदत्तग्रामणीकः कथितो देवदत्तकः ॥ २२ ॥
3.3.22 · p. 13
अनुष्टुप्
श्वगणेन चरञ्श्वागणिकः श्वगणिकोऽपि सः ।वासुदेवादिगृह्यः स्याद्वासुदेवादिपक्षयुक् ॥ २३ ॥
3.3.23 · p. 14
अनुष्टुप्
कृत्कर्ता कारकः स्रष्टा निर्माता च विधातरि ।ग्रहीता ग्राहको ग्रा[167a]ही चेतयंश्चेतयः समौ ।वेदयन्वेदयस्तद्वत्सातयन्सातयस्तथा ॥ २४ ॥
3.3.24 · p. 14
अनुष्टुप्metre not read in every line
साहयः साहयंस्तुल्यौ जिघ्रो जिघ्रन्धयो धयन् ।पश्यन्पश्यः पिबः पाता धमस्तु स्याद्धमन्नपि ॥ २५ ॥
3.3.25 · p. 14
अनुष्टुप्
गोसंदायो गोप्रदः स्याच्चाटुकारस्तु चाटुकृत् ।अङ्गं तु कम्पयन्नङ्गमेजयः परिकीर्तितः ॥ २६ ॥
3.3.26 · p. 14
अनुष्टुप्
ब्रह्महा ब्रह्म हतवान्भ्रूणहा तद्वदीरितः ।बोभूयमानस्तु पुनर्भृशं वा भवति स्मृतः ॥ २७ ॥
3.3.27 · p. 14
अनुष्टुप्
बोभवन्नपि तत्राथ कुटिलं व्रजति स्मृतः ।वाव्रज्यमानो लोलुप्यमानो लुम्पन्विगर्हितम् ॥ २८ ॥
3.3.28 · p. 14
अनुष्टुप्
दन्दह्यमान-चञ्चूर्यमाणाद्यानेवमुन्नयेत् ।पंफुल्यमानः पम्फुल्यमानश्चापि भृशं फलन् ॥ २९ ॥
3.3.29 · p. 14
अनुष्टुप्
कोकूयमानश्चोकूयमानोऽपि भृशभाषिणि ।चरीकरंश्चरिकरंश्चर्करन्नीरिता अमी ॥ ३० ॥
3.3.30 · p. 14
अनुष्टुप्
चेक्रीयमाणतुल्यार्था अथ जेघ्रीयमानवत् ।जञ्जञ्जञ्जन्यमानस्तु जजञ्जाजायमानवत् ॥ ३१ ॥
3.3.31 · p. 14
अनुष्टुप्
[167b]वरीवृतन्वरिवृतन्वर्वृतन्नित्यमी मताः ।त्रयो वरीवृत्यमान (ने?) भृशं तु स्रस्यति स्मृतः ॥ ३३ ॥
3.3.33 · p. 14
अनुष्टुप्
असौ सनीस्रस्यमानोऽथो दनीध्वस्यमानकः ।पुनः पुनर्ध्वस्यति स्याच्चाकरन्विक्षिपन्भृशम् ॥ ३३ ॥
3.3.33 · p. 15
अनुष्टुप्
भृशं तरंस्तातरन्स्याज्जाग्रहन्गृह्णति स्मृतः ।ज[री]गृहञ्जर्गृहन्स्याज्जाहर्यञ्जाहरन्समौ ॥
3.3.203 · p. 15
अनुष्टुप्
पाप्रच्छंस्तु भृशं प्राट् स्याच्चङ्खनंस्तु भृशं खनन् ॥ ३४ ॥
3.3.34 · p. 15
सास्वपन्भृशनिद्रालुर्जाहत्तु भृशमुज्झति ।तोतूर्वन्हिंसति भृशं भृशं बध्नति मामवन् ॥ ३५ ॥
3.3.35 · p. 15
अनुष्टुप्
मोमूर्छंस्त्वपि मोमोरन्भृशं मूर्छति सम्मतः ।वेवीयमानस्तु मतः पौनःपुन्येन योऽजति ॥लोलूर्लोलूयमानः स्यात्स्फारयन्स्फोरयन्समौ ।हेतोस्तु विस्मये विस्मापयमानः समीरितः ॥करणाद्विस्मये विस्माययन्नेव च भावयन् ।हेतोर्भापयमानः स्याद्भये भीषयमाणवत् ॥ ३६ ॥
3.3.36 · p. 15
अनुष्टुप्
पुरोभवस्तु पौरस्त्यः पौरस्तः पौरतोऽपि सः ।आरातीयस्त्वन्ति[168a]कभूः क्वत्यः कुत्रत्य इत्युभौ ॥ ३७ ॥
3.3.37 · p. 15
अनुष्टुप्metre not read in every line
पारतः परतो जातोऽत्रत्यस्तु स्यादिहत्यवत् ।ततस्त्यस्तु ततो भूतोऽथौपरिष्टस्तथोर्ध्वभूः ॥ ३८ ॥
3.3.38 · p. 15
अनुष्टुप्
पश्चाद्भवस्तु पाश्चात्त्यो दक्षिणा तु भवे भवेत् ।दाक्षिणात्यः पार्श्वतीयः पुनः स्यात्पार्श्वतो भवे ॥ ३९ ॥
3.3.39 · p. 15
अनुष्टुप्
तथैव मुखतीयं स्यात्परकीयान्यदीयके ।स्वकस्येदं स्वकीयं स्याद्भावत्कं भवदीयवत् ॥ ४० ॥
3.3.40 · p. 15
अनुष्टुप्
इह लोके भवादौ स्यात्सुखादावैहलौकिकम् ।वेत्रकीयं तु वेत्रस्य वेणुकीयं तु वैणवम् ।यौष्माकीणं युष्मदीयं यौष्माकं च त्रयं समम् ॥ ४१ ॥
3.3.41 · p. 15
अनुष्टुप्metre not read in every line
तावकं तावकीनं च त्वदीयं च समार्थकम् ।आस्माकीनं त्वस्मदीयमास्माकमपि सम्मतम् ॥ ४२ ॥
3.3.42 · p. 16
अनुष्टुप्
मदीयं मामकं मामकीनं चेति समं त्रयम् ।देवदत्तीयमेवं स्याद्दैवदत्तमथो ततः ॥ ४३ ॥
3.3.43 · p. 16
अनुष्टुप्
त्वत्को मत्कश्च त्वमहं ग्रामणीर्यस्य वर्तते ।आगते समरूप्यं स्यात्समीयं [168b] चैवमादिशेत् ।आगतस्तु कुतो यः स्यात्स कौतस्कुत उच्यते ।सर्वकर्मव्यापकस्तु सर्वकर्मीण ईरितः ॥ ४४ ॥
3.3.44 · p. 16
अनुष्टुप्metre not read in every line
पूर्वी येन कृतं पूर्वं भुक्तं वा पीतमित्यपि ।कृतपूर्वी भुक्तपूर्वी पीतपूर्वी तथैव च ॥ ४५ ॥
3.3.45 · p. 16
अनुष्टुप्
अथानुपदमन्वेष्टानुपदीत्यथ वातवान् ।वातूलोऽपि च यो वातं सहते न स सम्मतः ॥ ४६ ॥
3.3.46 · p. 16
अनुष्टुप्
उष्णासहस्तथोष्णालुस्तृप्रालुस्तृप्रदुःसहः ।समौ हिमेलु-शीतालू आर्चस्त्वर्चावति स्मृतः ॥ ४७ ॥
3.3.47 · p. 16
अनुष्टुप्
वार्तस्तु वृत्तिमान्केशी केशिकः केशवानपि ।साहस्रस्तु सहस्री स्याद्गदितोऽपि सहस्रिकः ॥ ४८ ॥
3.3.48 · p. 16
अनुष्टुप्
मुष्करो मुष्कसंयुक्तः पांसुरः पांसुसंयुतः ।शत्रुयुक्तः शत्रुवलो दण्डवद्दण्डि-दण्डिकाः ॥ ४९ ॥
3.3.49 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श (wrong syllable)
स्यान्नैष्कशतिकस्तद्वांस्तद्वन्नैष्कसहस्रिकः ।विप्रधर्मसुतो विप्रधर्मी स्याद्विप्रशीलिवत् ।विप्रवर्णी तथैव स्याद्विप्रवर्णेन संयुतः ।स्याद्बाहुबल्यू[169a]रुबली यो बाहूरुबलान्वितः ॥ ५१ ॥
3.3.51 · p. 16
अनुष्टुप्metre not read in every line
धान्यार्थी च हिरण्यार्थी यो धान्याद्यर्थवान्भवेत् ।बली तु बलवान्दृप्रो बलूलः प्राणथश्च सः ॥ ५२ ॥
3.3.52 · p. 17
अनुष्टुप्
गुण्यस्तु गुणचुञ्चुः स्यात्तथा गुणचणश्च सः ।विदद्रूपः प्रशस्तो यो विदन्नीषत्त्विहोनके ॥वित्कल्पो[ऽथ] विदद्देश्यो विदद्देशीय इत्यपि ।तत्समानार्थ एव स्याद्विज्ञैर्बहु विदन्निति ॥ ५४ ॥
3.3.54 · p. 17
अनुष्टुप्
विदप्रकारकस्तु स्याद्विदज्जातीयनामकः ॥ ५५ ॥
3.3.55 · p. 17
भवेदभूततद्भावे घटीकुर्वन्घटीभवन् ।अरु कुर्वन्क्षतीकुर्वन्नुन्मनीकुर्वदादि च ॥ ५४ ॥
3.3.54 · p. 17
अनुष्टुप्
अथाग्निसाद्भवन्नग्नीभवन्कार्त्स्न्येन तत्र च ।राज्ञोऽधीनकरोत्यर्थे राजसाद्भवदादयः ॥ ५५ ॥
3.3.55 · p. 17
अनुष्टुप्
देये च तदधीने च द्विजत्राकुर्वदादयः ।अव्यक्तशब्दानुकृतौ भवेत्पटपटाभवन् ॥ ५६ ॥
3.3.56 · p. 17
अनुष्टुप्
निष्कुष्णन्निष्कुलाकुर्वन् दुःखाकुर्वन्मनोर्तिकृत् ।तत्प्राचुर्ये त्वन्नमयं तथापूपमयादि च ॥ ५७ ॥
3.3.57 · p. 17
अनुष्टुप्
दिव्यो[169b]पपादुका देवा नृगवाद्या जरायुजाः ।स्वेदजाः कृमिदंशाद्याः पक्षिसर्पादयोऽण्डजाः ॥ ५८ ॥
3.3.58 · p. 17
अनुष्टुप्metre not read in every line
उद्भिदस्तरुगुल्माद्या उद्भिदुद्भिज्जमुद्भिदम् ।तदासेचनकं तृप्तेर्नास्त्यन्तो यस्य दर्शनात् ॥ ५९ ॥
3.3.59 · p. 17
अनुष्टुप्
कान्तं मनोज्ञं रुचिरं रुचिष्यं ।रुचिर्मनोहारि मनोहरं च ।हृद्यं प्रियं बन्धुर-सुन्दराभि-रामाणि वामं रमणीयमाहुः ॥ ६० ॥
3.3.60 · p. 18
उपजातिः
मनोरमं मञ्जुल-मञ्जु-वल्गु-काम्यानि सौम्यं मधुरं च हारि ।स्याच्छोभनं चारु च साधु कम्रंरम्यं सुरूपं सुषमं च दृश्यम् ॥ ६१ ॥
3.3.61 · p. 18
उपजातिः
लडहं कमनीयं चाथो भावे रामणीयकम् ।मानोज्ञकं कामनीयकं च क्लीबे विनिर्दिशेत् ॥ ६२ ॥
3.3.62 · p. 18
अनुष्टुप्
अभीष्टेऽभीप्सितं हृद्यं दयितं वल्लभं प्रियम् ।मिष्टं मृष्टं मधुरं स्वाद्यं स्वादिष्ठ-भल्लवत् ॥ ६३ ॥
3.3.63 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
उत्कृष्टं च प्रकृष्टं च ******** ।मुख्यं प्रमुखं वर्यं प्रवरं प्राग्र्यं वरेण्यमग्र्यं च ।उत्तममग्राग्रीय-प्राग्रहराग्रिय-परार्ध्य-जात्यानि ॥ ६४ ॥
3.3.64 · p. 18
metre not recognised
अग्रेसरमग्रहरं ग्राम[170a]णि चाग्रणि परं प्रबर्हं च ।वरमनवरार्ध्यमुत्तममनुत्तमानुत्तर-प्रष्ठाः ॥ ६५ ॥
3.3.65 · p. 18
आर्या
******** शालि श्लाघ्यं प्रशस्तवत् ।प्रबर्हणं प्रवेकं च प्रधानं ध्रुवमन्तिमे ।श्रेयाञ्श्रेष्ठः पुष्कलः स्यात्सत्तमश्चातिशोभनः ॥ ६६ ॥
3.3.66 · p. 18
अनुष्टुप्metre not read in every line
स्युरुत्तरपदे व्याघ्र-पुंगवर्षभ-कुञ्जराः ।सिंह-शार्दूल-नागाद्याः पुंसि श्रेष्ठार्थवाचकाः ॥ ६७ ॥
3.3.67 · p. 18
अनुष्टुप्
गौरवे त्वार्यमिश्राद्याः श्लाघ्ये भद्रभवन्मुखाः ।नित्यं पुंसि गुणोऽप्राप्य**ग्र्यं चाभिधेयवत् ॥ ६८ ॥
3.3.68 · p. 18
अनुष्टुप्metre not read in every line
द्वयहीनं त्वप्रधानमुपसर्जनमित्यपि ।निकृष्ट-प्रतिकृष्टापकृष्ट-याप्यावमाधमाः ॥रेप-रेफ-कुपूयार्व-कपूयावद्य-गर्हिताः ।गर्ह्य-कुत्सित-खेटापसद-चेल-ब्रुवाणकाः ॥ ७० ॥
3.3.70 · p. 19
अनुष्टुप्
खेटकाण्डश्च पापोऽथ म्लान-कश्मल-कच्चराः ।मलीमसश्च मलिनो मलदूषित इत्यपि ॥ ७१ ॥
3.3.71 · p. 19
अनुष्टुप्