कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

पारस्त्रैणेय

pārastraiṇeyaपुं · masc.

In 5 kośas: 5 synonym verses.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.73 · p. 207
जारजा त्वमृते पत्यौ कुण्डी भवति कन्यका ।पारस्त्रैणः पारशवः पारस्त्रैणेय इत्यपि ॥परस्त्रीजेऽथ कानीनः कन्याया उदितः सुतः ।स्याद्भद्रा मातृसंबुद्धौ मात्रा श्लाघ्यत्वसूचने ॥सौभागिनेयः सुभगापुत्रो दौर्भागिनेयकः ।दुर्भगानन्दनोऽथ स्यात्कैशिन्यः केशिनीसुतः ॥ ७३ ॥
अनुष्टुप्
genderपुंmasc.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.212 · p. 127
परस्त्रीसंभवे तस्मिन्पारस्त्रैणेय उच्यते ।दासीपुत्रे तु दासेरो दासेयोऽपि निगद्यते ॥ २१२ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.569 · p. 131
परस्त्रीषु समुत्पन्नः पारस्त्रैणेय उच्यते ।
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.165 · p. 94
तथा दौर्भागिनेयस्तु दुर्भगासुत ईरितः ।पारस्त्रैणेय आख्यातः सुतो जातः परस्त्रियाः ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1132 · p. 139
ज्ञातेयं ज्ञातिभावे स्याद् बन्धुता तत्कदम्बके ।पारस्त्रैणेयकानीनौ परस्त्रीकन्ययोः सुतौ ॥ ११३२ ॥
अनुष्टुप्
genderपुंmasc.