ज्ञातेय
jñāteyaक्ली · neut.In 6 kośas: 6 synonym verses.
genderक्लीneut.
ज्ञातेयं देहकर्त्ता तु तातो जनयिता पिता ।जन्यो वप्रश्च सविता वप्ता जन्मार्थकारकः ॥ १०० ॥
अनुष्टुप्
genderक्लीneut.
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
अनुष्टुप्metre not read in every line
genderक्लीneut.
सनाभयः सपिण्डाः स्युर्ज्ञातेयं ज्ञातिता स्मृता ।सति भर्तरि कुण्डः स्यान्मृते भर्तरि गोलकः ॥ १०१ ॥
अनुष्टुप्
genderक्लीneut.
ज्ञातिस्वबन्धुदायादगोत्रस्वजनबान्धवाः ।ज्ञातेयं ज्ञातिभावे स्याद् बन्धुवृन्दे च बन्धुता ॥
अनुष्टुप्
genderक्लीneut.
ज्ञातेयं ज्ञातिभावे स्याद् बन्धुता तत्कदम्बके ।पारस्त्रैणेयकानीनौ परस्त्रीकन्ययोः सुतौ ॥ ११३२ ॥
अनुष्टुप्
genderक्लीneut.