कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

भूकाण्डः · वनौषधिवर्गः (8/15)

अर्याणी स्वयमर्या स्यात्क्षत्रिया क्षत्रियाण्यपि ।उपाध्यायाप्युपाध्यायी या स्वतोऽध्यापिका भवेत् ॥ ४६ ॥
2.3.46 · p. 205
अनुष्टुप्
आचार्या तु स्वतो व्याख्याकर्त्री पुंयोगिनी पुनः ।उपाध्यायाप्यु(न्यु ?)पाध्यायी स्यादर्यी क्षत्रियी तथा ॥ ४७ ॥
2.3.47 · p. 205
अनुष्टुप्
आचार्यानी चाथ पुनर्भूरुक्ता दिधिषूरपि ।या द्विरूढा पतिस्त्वस्याः पुनर्भूदिधिषूरसौ ॥ ४८ ॥
2.3.48 · p. 205
अनुष्टुप्
स तु द्विजोऽग्रेदिधिषूः सैव यस्य कुटिम्बिनी ।परिवेत्तानुजोऽनूढे ज्येष्ठे दारपरिग्रहात् ॥ १९ ॥
2.3.19 · p. 206
अनुष्टुप्
परिवित्तिस्तु तज्ज्यायाञ्जायास्य परिवेदिनी ।पुष्पवत्यविरात्रेयी मलिनी च रजस्वला ॥ ५० ॥
2.3.50 · p. 206
अनुष्टुप्
ऋतुमत्यप्युदक्यावीः स्त्रीधर्मिण्यार्तवः पुनः ।[77a]स्त्रीधर्मश्च रजः पुष्पमृतुस्तत्समयो भवेत् ॥ ५१ ॥
2.3.51 · p. 206
अनुष्टुप्
आपन्नसत्त्वा स्याद्गुर्विण्यन्तर्वत्नी च गर्भिणी ।गुर्वी चोदरिणी भ्रूणः पुंस्यस्यां सा सदोहदा ॥ ५२ ॥
2.3.52 · p. 206
अनुष्टुप्
श्रद्धालुः स्यादथ श्रद्धा जोङ्गटः स्त्री न दोहदम् ।दौहृदं च प्रजाता तु विजाता च प्रसूतिका ॥ ५३ ॥
2.3.53 · p. 206
अनुष्टुप्
प्रसूतका विजननं पुनः प्रसव उच्यते ।सूतिमासो वैजननो गार्भिणं गर्भिणीगणे ॥ ५४ ॥
2.3.54 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
कुमारभृत्या गर्भिण्याः परिचर्या निगद्यते ।भ्रूणः स्याद्गरभो गर्भस्तत्स्याद्दोहदलक्षणम् ॥ ५६ ॥
2.3.56 · p. 206
अनुष्टुप्
भर्ता भोक्ता वरयिता रमणो रामिलो वरः ॥ ५५ ॥
2.3.55 · p. 206
पतिर्धवो जीवितेशो वल्लभो दयितोऽपि च ।कामलः सरसी कान्तः सुविदश्च हृदीश्वरः ॥ ५६ ॥
2.3.56 · p. 206
अनुष्टुप्
सेक्ता विवोढा चोद्वोढा प्रेष्ठः सहचरोऽपि सः ।वातपुत्रस्तूपपतिर्जारोऽथ गणिकापतिः ॥ ५७ ॥
2.3.57 · p. 206
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्तू (wrong syllable)
भुजंगः स्याद्विवाहे तूपयामोपयमौ समौ ।तथोद्वाहः परिणयः पाणिपीडनमित्यपि ॥ ५८ ॥
2.3.58 · p. 206
अनुष्टुप्
स्यात्पाणिग्रहणं दारकर्म चाथाम्बुपूर्विका ।कन्यामलंकृतां दद्या[77b] द्ब्राह्मोऽसौ वितते पुनः ॥ ५९ ॥
2.3.59 · p. 206
अनुष्टुप्metre not read in every line
मखे दद्यादृत्विजे तामेष दैवो निगद्यते ।चरतः सह धर्मं यत्प्राजापत्योऽथ गोयुगम् ॥ ६० ॥
2.3.60 · p. 206
अनुष्टुप्
दत्त्वा समुद्धरेदार्षो गान्धर्वः समयान्मिथः ।आसुरो धनदानाद्यः पैशाचश्छलचौर्यतः ॥ ६१ ॥
2.3.61 · p. 206
अनुष्टुप्
राक्षसो युद्धहरणाद्यौतकं युतकं तथा ।विवाहादिषु यद्देयं सुदायो दाय इत्यपि ॥ ६२ ॥
2.3.62 · p. 207
अनुष्टुप्
हरणं चाथ सत्कृत्य कन्यादातात्र कूकुदः ।कुकुदोऽथाकृतोद्वाहो ठण्ठ इत्यभिधीयते ॥ ६३ ॥
2.3.63 · p. 207
अनुष्टुप्
वरस्य सुहृदो जन्या जनीवोढार इत्यपि ।युवतिर्यस्य जाया स्याद्युवजानिरसौ वरः ॥ ६४ ॥
2.3.64 · p. 207
अनुष्टुप्
कल्याणीप्रिय एवं स्यात्सुभगाप्रिय इत्यपि ।एवं स्यात्पञ्चमीभार्यः सुकेशीभार्य इत्यपि ॥ ६५ ॥
2.3.65 · p. 207
अनुष्टुप्
तथैव ब्राह्मणीभार्यः शूद्राभार्य इमा दिशः ।परदाररते तु स्यात्क्षेत्रियः पारदारिकः ।दंपती जंपती जायापती च भरिमा तु ना ॥ ६५ ॥
2.3.65 · p. 207
अनुष्टुप्
बर्हः पुमान्परीवारः सुविदत्रं कुटुम्बकम् ।पुत्रः सुतो[78a] दारकः स्यान्नन्दन्तो नन्दनोऽङ्गजः ॥ ६७ ॥
2.3.67 · p. 207
अनुष्टुप्metre not read in every line
आत्मजस्तनयः सूनुर्दायादश्चोद्वहश्च सः ।द्वितीयः कुलकृच्चासौ पुत्राद्यास्तु स्त्रियाममी ॥ ६८ ॥
2.3.68 · p. 207
अनुष्टुप्
प्राहुर्दुहितरं सर्वे पुत्रका पुत्रिकापि सा ।नन्दन्ती नन्दिनी च स्याद्धातकी च निगद्यते ॥ ६९ ॥
2.3.69 · p. 207
अनुष्टुप्
पुत्रोऽपि दुहिता पुत्रौ तयोस्तु तोकमन्तिमे ।अपत्यं च प्रसूतिः स्त्री प्रजा संततिरित्यपि ॥ ७० ॥
2.3.70 · p. 207
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
स्वजाते त्वौरसोरस्यौ सुतादौ क्षेत्रजोऽन्यजे ।अमृते जारजः कुण्डो मृते भर्त * [रि] गोलकः ॥ ७१ ॥
2.3.71 · p. 207
अनुष्टुप्
जारजा त्वमृते पत्यौ कुण्डी भवति कन्यका ।पारस्त्रैणः पारशवः पारस्त्रैणेय इत्यपि ॥परस्त्रीजेऽथ कानीनः कन्याया उदितः सुतः ।स्याद्भद्रा मातृसंबुद्धौ मात्रा श्लाघ्यत्वसूचने ॥सौभागिनेयः सुभगापुत्रो दौर्भागिनेयकः ।दुर्भगानन्दनोऽथ स्यात्कैशिन्यः केशिनीसुतः ॥ ७३ ॥
2.3.73 · p. 207
अनुष्टुप्
स ज्यैष्ठिनेयः कानिष्ठिनेयो ज्येष्ठाकनिष्ठयोः ।सुतो माध्यमि[78b]नेयः स्यान्मध्यमाया अथो भवेत् ॥ ७४ ॥
2.3.74 · p. 208
अनुष्टुप्metre not read in every line
पौनर्भवो दैधिषवः पुनर्भूसंभवः सुतः ।पीलायाः पैल-पैलेयौ नैघेयस्तु निघेः सुतः ॥दास्या दासेर-दासेयौ कौलटेरस्तु बन्धुलः ।भवेद्बान्धकिनेयश्च तथा कौलटिनेयवत् ॥नट्या नाटेर-नाटेयौ जाडेरोऽपि जडासुतः ।समौ काणेय-काणेरौ शौभ्रेयः शुभ्रनन्दनः ॥ ७७ ॥
2.3.77 · p. 208
अनुष्टुप्
जाडारः स्याज्जडापत्यं पाण्डारः पण्डनन्दनः ।दत्तासुतः स्याद्दात्तेयः खाञ्जेरः खञ्जिकासुतः ॥ ७८ ॥
2.3.78 · p. 208
अनुष्टुप्
पुत्रस्तूरसिलोम्नो यः स स्यादौरसिलोमनः ।सांमातुरः सतीपुत्रो भाद्रमातुर इत्यपि ॥ ७९ ॥
2.3.79 · p. 208
अनुष्टुप्
त्यादस्त्यादायनिस्त्यस्यापत्ये तस्य तु तादवत् ।तादायनिरथैतस्यैतदायनिवदैतदः ॥ ८० ॥
2.3.80 · p. 208
अनुष्टुप्
गोत्रापत्ये तु जातस्य स्याज्जातायनसंज्ञतः ।जातासुते तु जातेयो मैत्रेयो मित्रयूद्भवः ॥औडुलोमिस्तूडुलोम्नो बाहोर्बाहविराह्वये ।उडुलोमा[79a] बहुत्वे स्युः शरलोमास्तथेरिताः ॥वैहीनरिस्त्वपत्ये स्याद्विहीनरसमुद्भवे ।पौत्रो नप्ता पुत्रपुत्रो दौहित्रो दुहितुः सुतः ॥ ८१ ॥
2.3.81 · p. 208
metre not recognised
प्रणप्ता तु प्रपौत्रः स्यात्तत्पुत्रोऽस्त्री परंपरः ।भ्रात्रीयः स्याद्भातृपुत्रो भ्रातृव्योऽथ स्वसुः सुतः ॥ ८२ ॥
2.3.82 · p. 209
अनुष्टुप्
स्वस्रीयो भागिनेयश्च जामेयः कुतपश्च सः ।सापत्नः स्यात्सपत्नीजः सुतः सापत्य इत्यपि ।पैतृष्वसेयः स्यात्पैतृष्वस्रीयश्च पितृष्वसुः ॥ ८३ ॥
2.3.83 · p. 209
अनुष्टुप्
मातृष्वसेयो मातृष्वस्रीयो मातृष्वसुः सुतः ।मातुलेयस्तु मातुल्यः श्यालेयः श्यालिकासुतः ॥जात्यन्धो जनुषान्धः स्याज्जानुषान्धिस्तु तत्सुतः ।पुंसानुजोऽग्रजे पुंसि तस्य पौंसानुजिः सुतः ॥ ८५ ॥
2.3.85 · p. 209
अनुष्टुप्
आत्मनापञ्चमस्य स्यादात्मनापाञ्चमिः सुतः ।भवेद्ग्रामणिपुत्रश्च ग्रामणीपुत्र इत्यपि ।विना तु बाहविं सर्वेऽप्यौरसाद्या विशेष्यगाः ॥ ८६ ॥
2.3.86 · p. 209
अनुष्टुप्
तातस्ततः पिता वप्ता रेतोधा जनकोऽपि च ।[79b]बीजी जनयितासौ तु व्रती संस्कारकृद्यदि ॥ ८७ ॥
2.3.87 · p. 209
अनुष्टुप्
महागुरुस्तातगुस्तु स क्षुद्रोऽथ पितामहः ।पितृतातोऽथास्य तातः * * * प्रपितामहः ॥ ८८ ॥
2.3.88 · p. 209
metre not recognised
मातुर्मातामहाद्येवं स्त्रियां तु स्यात्पितामही ।एवं मातामही च स्यात्तद्वच्च प्रपितामही ॥जनयित्री जनित्री च जनन्यम्बा प्रसूश्च सूः ।माता सवित्री चाक्काल्ला धात्री तु पृथिवी मता ॥ ८९ ॥
2.3.89 · p. 209
अनुष्टुप्
पितरौ मातापितरौ मातरपितरौ जनित्वौ च ।श्वश्रूश्वशुरौ * * * [श्वशुरौ]तातसुतौ स्तः पितापुत्रौ ॥ ९० ॥
2.3.90 · p. 209
metre not recognised
मातापितृभ्यां यः शून्यश्छेमण्डः स प्रकीर्तितः ।नरौ नरश्च नारी च युवानौ युवतिर्युवा ॥भ्राता स्वसा च गदितौ भ्रातरावथ सोदरः ।सहोदरः सगर्भ्यश्च समानोदर्य इत्यपि ॥ ९१ ॥
2.3.91 · p. 209
अनुष्टुप्
सोदर्यः सहजश्चाथ वैमात्रेयो विमातृजः ।स्वसा जामिश्च भगिनी भग्नी यामिर्धवस्य तु ॥ १ ॥
2.3.1 · p. 210
अनुष्टुप्
;l[4945}सा ननान्दा ननन्दा च नन्दिनी च स्त्रियास्त्वसौ ।[80a]ज्येष्ठश्वश्रूः कुली ज्येष्ठा श्यालिका तु कनीयसी ॥ २ ॥
2.3.2 · p. 210
अनुष्टुप्metre not read in every lineLatin letters: l
हाली च यन्त्रिणी केलिकुञ्चिका च निगद्यते ।मातृष्वसा मातृभग्नी पितृभग्नी पितृष्वसा ॥ ३ ॥
2.3.3 · p. 210
अनुष्टुप्
भ्राता ज्येष्ठः पूर्वजः स्यात्पित्र्यस्तत्राग्रियाग्रजौ ।जघन्यजो यविष्ठः स्याद्यवीयाननुजोऽपि सः ॥ ४ ॥
2.3.4 · p. 210
अनुष्टुप्
कनीयांश्च कनिष्ठश्चावरजः सूनुरित्यपि ।यमौ च यमलौ न स्त्री युगलौ जनकस्य तु ॥ ५ ॥
2.3.5 · p. 210
अनुष्टुप्
भ्राता पितृव्यो मातुस्तु तत्र मातुल-मामकौ ।मातुलानी मातुली च मामिका चास्य कामिनी ॥ ६ ॥
2.3.6 · p. 210
अनुष्टुप्
श्यालाः स्युर्भ्रातरः पत्न्याः स्वामिनस्तु कनीयसि ।रागारो देवरो देवा जामाता दुहितुः पतिः ॥ ७ ॥
2.3.7 · p. 210
अनुष्टुप्
भार्यास्तु भ्रातृवर्गस्य यातरः स्युः परस्परम् ।पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु पिता तयोः ॥ ८ ॥
2.3.8 · p. 210
अनुष्टुप्
दौहित्री दुहितुः कन्या पौत्री नप्त्री सुतात्मजा ।प्रजावती भ्रातृजाया सपिण्डास्तु सनाभयः ॥ ९ ॥
2.3.9 · p. 210
अनुष्टुप्
पितरः पितृवंश्याः[80b] स्युर्मातुर्मातामहाः कुले ।स्वो ज्ञातिःस्वजनो बन्धुर्बान्धवश्चारिकोऽपि सः ॥ १० ॥
2.3.10 · p. 210
अनुष्टुप्metre not read in every line
दायादो भागधेयोऽथ भावे ज्ञातेयमन्तिमे ।बन्धुता तु व्रजे लोको जनो विट् चर्षणिः प्रजा ।जनकीयं जनस्येदं * * * * * * * * ।त्रिषु सार्वजनीनः स्यात्साधुः सर्वजनेषु यः ।* * * * * * * * जनता स्त्री जनव्रजे ।भवेद्विश्वजनीनं तद्धितं विश्वजनाय यत् ।स्यात्सार्वजनिकं सर्वजनीनं च विशेष्यवत् ॥सर्वेभ्योऽपि जनेभ्यो यद्धितं वस्तु भवेदिह ।एवं प्रातिजनीनः स्यान्माहाजनिक इत्यपि ॥तथा पञ्चजनीनश्च सर्वीयः सार्ववत्स्मृतः ।त्रिषु स्वो निज आत्मीय * * * सौव इत्यपि ॥ ११ ॥
2.3.11 · p. 210
अनुष्टुप्metre not read in every line
न स्त्री नपुंसकः क्लीबः षण्ढो ना षण्ड-षण्डकौ ।तृतीया प्रकृतिर्या स्यात्स्त्रियः प्राया दशावयः ॥ १२ ॥
2.3.12 · p. 210
अनुष्टुप्
शिशुत्वं शैशवं बाल्यं बालता शिशु[81a]ता स्त्रियौ ।बालस्तु स्यान्माणवको माणवीनं तु तद्धितम् ॥ १३ ॥
2.3.13 · p. 210
अनुष्टुप्metre not read in every line
माणव्यं तत्समूहेऽन्त्येऽथ भूते मासमीरितौ ।मासीन-मास्यौ षाण्मास्यो भवेत्षण्मास इत्यपि ।षाण्मासिकोऽस्त्री * * * वयःस्थस्तरुणो युवा ।किशोरस्तलुनोऽथ स्याद्वेकटो जातयौवनः ॥ १४ ॥
2.3.14 · p. 210
अनुष्टुप्metre not read in every line
भवेत्तरुणिमा पुंसि तारुण्यं यौवनेऽस्त्रियाम् ।प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि ।जरी जर्णो * * (यात)यामो वृद्धत्वं स्थाविरं समे ॥ १५ ॥
2.3.15 · p. 210
अनुष्टुप्metre not read in every line
भवेद्दशमिता चात्र वार्द्धकं भाववृन्दयोः ।अतिवृद्धस्तु वर्षीयान्वर्षिष्ठो दशमी च सः ॥ १६ ॥
2.3.16 · p. 210
अनुष्टुप्
परोवरीणः स भवेद्यः परानवरांस्तथा ।आत्मनानुभवत्येवं पुत्रपौत्रीण इत्यपि ॥ १७ ॥
2.3.17 · p. 210
अनुष्टुप्
परंपरीणः स परंपरानुभववान्स्वयम् ।विना भावप्रत्ययान्तान्बालाद्या भेद्यलिङ्गकाः ।पलितं जरसा शौक्ल्यं केशादौ विस्रसा जरा ॥ १८ ॥
2.3.18 · p. 210
अनुष्टुप्
पलितंकरणी सा स्याच्च्व्यर्थे पलितकारिणी ।अथो[81b]पजरसं क्लीबाव्ययं स्याज्जरसोऽन्तिके ॥ १९ ॥
2.3.19 · p. 212
अनुष्टुप्metre not read in every line
सुप्रजाः शोभनापत्यो दुरपत्यस्तु दुःप्रजाः ।अप्रजाः प्रजया हीनः सुजम्भा चारुदन्तकः ॥ २० ॥
2.3.20 · p. 212
अनुष्टुप्
एवं हरितजम्भाद्याः संज्ञायां श्यावदन्भवेत् ।श्यावदम्भोऽरोकदंस्तु नाम्न्येवारोकदन्तकः ॥ २१ ॥
2.3.21 · p. 212
अनुष्टुप्
उपमायामसंज्ञायां भवेच्छिखरदन्निति ।उत्काकुच्च विकाकुत्स्यादुद्गतापेततालुकः ॥ २२ ॥
2.3.22 · p. 212
अनुष्टुप्
स्यात्पूर्णकाकुदः पूर्णकाकुद्यः पूर्णतालुकः ।औपम्ये स्यादेणीपदस्तथाजपद इत्यपि ।पूज्यभ्राता तु सुभ्राता प्रज्ञुः प्रगतजानुकः ॥ २३ ॥
2.3.23 · p. 212
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 णी (wrong syllable)
संज्ञुः संहतजानुः स्यादूर्ध्वजुस्तूर्ध्वजानुकः ।सुसक्थिः स्यात्सुसक्थश्च दुःसक्थोऽसक्थ इत्यपि ॥ २४ ॥
2.3.24 · p. 212
अनुष्टुप्
दीर्घसक्थो गौरसक्थो यस्य दीर्घादि सक्थि चेत् ।दुःसक्था च सुसक्था स्त्री दीर्घसक्थीति दिक्स्मृता ॥ २५ ॥
2.3.25 · p. 212
अनुष्टुप्
द्विमूर्धः स्यात्त्रिमूर्धश्च द्विमूर्धी स्त्री त्रि[82a]मूर्ध्यपि ।अन्तर्लोमो वहिर्लोमोऽथान्तर्लोमा स्त्रियां भवेत् ॥संज्ञायां द्रुणसोऽथ स्यादुन्नसस्तुङ्गनासिकः ।प्रणसः प्रनसश्च स्यात्प्रकृष्टा यस्य नासिका ॥ २० ॥
2.3.20 · p. 212
अनुष्टुप्metre not read in every line
खुरणाः स्यात्खुरणसो नःक्षुद्रः क्षुद्रनासिकः ।खरणाः स्यात्खरणसः शितिनाः श्यामनासिकः ॥ २८ ॥
2.3.28 · p. 212
अनुष्टुप्
* * [विख्यौ]विग्रोऽपि च विखुर्यः स्याद्विगतनासिकः ।अवटीटोऽवनाटश्चावभ्रटो नतनासिके ॥ २९ ॥
2.3.29 · p. 212
अनुष्टुप्
स्यादामुष्यायणोऽमुष्यपुत्रः प्रख्याततातकः ।आमुष्यपुत्रिका भावे स्त्र्यामुष्यकुलिका तथा ।पितृभोगाय स हितः पितृभोगीण उच्यते ॥ ३० ॥
2.3.30 · p. 213
अनुष्टुप्
एवं स्यान्मातृभोगीणोऽथो यः स्यात्पितृसंनिभः ।स मनोजवसः प्रोक्तः पितृधर्मा मनोजवः ॥ ३१ ॥
2.3.31 · p. 213
अनुष्टुप्
असौ पितृसधर्मापि स्यादथास्मै हितो हि यः ।स स्यादाचार्यभोगीनो दुर्बलस्तु कृशस्तनुः ॥ ३२ ॥
2.3.32 · p. 213
अनुष्टुप्
क्षामः क्षीणोऽमांसलश्च तलिनच्छात-पेलवाः ।निर्दिग्धः[82b] स्यादुपचितो बलवान्मांसलोंऽसलः ॥ ३३ ॥
2.3.33 · p. 213
metre not recognised
पार्ष्णीलः पार्ष्णिसंयुक्तो धमनीलः शिरायुतः ।बलूलो बलवानुक्तो ललाटूलो ललाटवान् ॥तुन्दिलस्तुन्दिकस्तुन्दिस्तुन्दवांश्च पिचण्डिलः ।पिचण्डवान्पिचण्डी च बृहत्कुक्षिः पिचण्डिकः ॥ ३४ ॥
2.3.34 · p. 213
अनुष्टुप्
उदर्युदरिलोऽपि स्यात्तुण्डिभो वृद्धनाभिकः ।ग्रौण्डश्च बलिभस्तु स्याद्वलिनोऽथ बलासहः ॥ ३५ ॥
2.3.35 · p. 213
अनुष्टुप्
बलूलो भ्रातृयुक्तस्तु भवेद्भ्रातृवलाभिधः ।पुत्रयुक्तः पुत्रवलो दन्तुरस्तूच्चदन्तकः ॥ ३६ ॥
2.3.36 · p. 213
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पु (wrong syllable)
प्रलम्बाण्डो मुष्करः स्यादथ बाल्यसमुद्धृतः ।भवेदण्डीर आण्डीरः पौगण्डो विकलाङ्गकः ॥ ३७ ॥
2.3.37 · p. 213
अनुष्टुप्
पोगण्डश्चाथ कुब्जः स्यात्त्रिवक्रो गडुलोऽपि सः ।कुणिः कूणिश्च कुकरो वन्धुस्तु छिन्नहस्तकः ॥ ३८ ॥
2.3.38 · p. 213
अनुष्टुप्
श्रोणः पङ्गुरथो खञ्जः खोटः खोडोऽथ पर्पिकः ।पर्पचारी पर्पिकी स्त्री पर्पः पीठे हि तद्गतेः ॥ ३९ ॥
2.3.39 · p. 213
अनुष्टुप्
खल्वाटः खलतिश्चैन्द्रलुप्तिको बभ्रुरित्यपि ।शिपिविष्टश्च का[83a]णस्तु सिनः कनक(न) एकदृक् ॥ ४० ॥
2.3.40 · p. 213
अनुष्टुप्metre not read in every line
स्युः क्लिन्नाक्षे चुल्ल-पिल्ल-पिच्छाः क्लिन्नेऽक्ष्णि चाप्यमी ।नष्टलिङ्गोऽधोगताक्षः पृश्निस्त्वल्पशरीरकः ।निखर्वः खदृतः खर्वः खर्वशाखश्च वामनः ॥ ४१ ॥
2.3.41 · p. 213
अनुष्टुप्metre not read in every line
मुण्डस्तु मुण्डितोऽथ स्युः केशि-केशव-केशिकाः ।अकर्ण एडो बधिरो दुश्चर्मा तु द्विनग्नकः ॥ ४२ ॥
2.3.42 · p. 213
अनुष्टुप्
वण्डश्च शिपिविष्टोऽथ मूको वाचा विवर्जितः ।सुप्रजःप्रमुखाः सर्वे विना पर्पं विशेष्यगाः ॥ ४३ ॥
2.3.43 · p. 213
अनुष्टुप्
पिण्डोऽस्त्री विग्रहः कायः सरः (संचरः) स्कन्धपञ्चरः (रौ) ।अप्तुर्घनो भूघनोऽङ्गमिन्द्रियायतनं पुरम् ॥ ४४ ॥
2.3.44 · p. 213
metre not recognisednearly अनुष्टुप्
करणं मूर्तिमत्क्षेत्रं गात्रं संहननं वपुः ।श्रोत्रं वर्षाङ्गुबेरं च पुद्गलं च कलेवरम् ॥ ४५ ॥
2.3.45 · p. 213
अनुष्टुप्
मूर्तिस्तनूस्तनुश्च स्त्री कुडिः सान्तं तनुर्न ना ।शरीर-देहे अस्त्रीके तत्तु शस्तं वपुष्टमम् ॥ ४६ ॥
2.3.46 · p. 213
अनुष्टुप्
देहार्द्धमर्द्धदेहं च देहादेः स्यात्समेंऽशके ।अङ्गं प्रतीकोऽवयवोऽपघनोऽस्यैकदेशकः ।प्राणस्थानं मर्म चान्ते पीडनाद्यत्र रुग्भवेत् ।अङ्घ्रि[83b]रंह्रिः क्रमः पादः क्रमणश्चलनश्च पद् ॥ ४१ ॥
2.3.41 · p. 213
अनुष्टुप्metre not read in every line
पदमस्त्री च चरणो गोहिरं मूलमस्य च ।पादाग्रं प्रपदं क्षिप्रं त्वङ्गुष्ठाङ्गुलिमध्यगम् ॥ ४८ ॥
2.3.48 · p. 213
अनुष्टुप्
मध्ये पादतलस्याहुरभितोमध्यमाङ्गुलि ।तलहृत्क्षिप्रतस्तूर्ध्वं द्व्यङ्गुले कूर्च्चमस्त्रियाम् ॥ ४९ ॥
2.3.49 · p. 213
अनुष्टुप्
अङ्घ्रिस्कन्धः कूर्च्चशिरो द्वंद्वे तु घुटिको घुटः ।घुण्टिकश्चास्त्रियां गुल्फो निस्तोदः पादशीर्षकः ।खुरकाप्रपदौ पार्ष्णिस्त्वधस्ताद्घुटयोर्द्वयोः ॥ ५१ ॥
2.3.51 · p. 213
अनुष्टुप्
पिचण्डिका पिण्डिका स्यादिन्द्रवस्तिस्तदन्तरम् ।प्रतिजङ्घा त्वग्रजङ्घा जङ्घा तु प्रसृता भवेत् ॥ ५२ ॥
2.3.52 · p. 213
अनुष्टुप्
टङ्के नलकिनी टङ्गो अष्ठीवज्जानु चास्त्रियौ ।नलकीलश्चोरुपर्व पश्चाद्भागोऽस्य मन्दिरः ॥ १५३ ॥
2.3.153 · p. 213
अनुष्टुप्
अग्रिमस्तु कपोल्यूर्वङ्क्षणं सक्थिचान्तिमे ।मृगसक्थं पूर्वसक्थं * * * * तु पूर्वकम् ॥ ५४ ॥
2.3.54 · p. 213
metre not recognised
तथा फलकसक्थं स्यादौपम्ये स्तम्भसक्थवत् ।ऊर्वोरष्ठीवतोर्द्वंद्वे स्यादूर्वष्ठीवमन्तिमे ॥ ५५ ॥
2.3.55 · p. 213
अनुष्टुप्
ऊरुसं[84a]धिर्वङ्क्षणो ना नाभीलं स वरस्त्रियाः ।विटपोऽस्त्री महाबीज्यं मुष्कवङ्क्षणमध्यगम् ॥ ५६ ॥
2.3.56 · p. 213
अनुष्टुप्metre not read in every line
अण्डकः पेलकः पेलमस्त्रियामण्डकोषवत् ।मुष्काण्ड-वृषणाः पायुः स्याद्गुदोऽपानमस्त्रियाम् ।पेलमण्डं गुदस्त्वस्त्री पायुः पुं पुंसि विण्मुखम् ॥ ५७ ॥
2.3.57 · p. 213
अनुष्टुप्
अधोमर्म शकृद्द्वारं त्रिवलीकं बुलिश्च्युतिः ।शृधुः क्लीबे त्वपानं स्यात्पुतमाधारचक्रकम् ॥ ५८ ॥
2.3.58 · p. 213
अनुष्टुप्
शिश्नमस्त्री मेहनं स्याच्छेपं शेवं च शेफवत् ।पुंश्चिह्न-शेफ-शेपांसि लिङ्गं तद्वच्च साधनम् ॥ ५९ ॥
2.3.59 · p. 213
अनुष्टुप्
स्मरध्वजो मेढ्रमस्त्री मणिस्त्वस्याग्रमुच्यते ।सावनी तदधःसूत्रं योनिस्तु न नपुंसके ॥ ६० ॥
2.3.60 · p. 213
अनुष्टुप्
च्युतिर्बुलिः कामरूपी मर्कटी च स्त्रियामिमे ।कामगेहं स्त्रीकरणं वराङ्गं शौक-धैनुके ॥ ६१ ॥
2.3.61 · p. 213
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 स्त्री (wrong syllable)
कर्कटोऽपत्यमार्गश्च जत्रुर्ना भगमस्त्रियाम् ।स्त्रीपुंसयोस्तु करणे गुह्यं प्रजननं च तत् ॥ ६२ ॥
2.3.62 · p. 213
अनुष्टुप्
उपस्थोऽथ कटिप्रोथः प्रोह-स्फिजौ स्त्रियौ युतम् ।क्लीबे स्फिगं तदूर्ध्वं तु[84b] कटीक-तरुणे उभे ॥ ६३ ॥
2.3.63 · p. 216
metre not recognised
पृष्ठवंशं ह्युभयतो यौ संधी कटिपार्श्वयोः ।जघनस्य बहिर्भागे न स्त्री यौते ककुंदरे ॥ ६४ ॥
2.3.64 · p. 216
अनुष्टुप्
रताकुके कूपकौ च द्वयोः श्रोणिः कटिः स्त्रियाम् ।ककुद्मती त्रिकस्थानं कलत्रं रसनापदम् ॥ ६५ ॥
2.3.65 · p. 216
अनुष्टुप्
कटीर-भसदी श्रोणिफलकं च कटोऽप्यथो ।पश्चान्नितम्ब आरोहः स्त्रीकट्या जघनं पुरः ॥पुंसि कोष्ठोऽन्तराधिः स्यात्पृष्ठवंशाधरे त्रिकम् ।नाभिर्द्वयोः कुरुस्तुण्डिस्तुन्दकूपी ततस्त्वधः ॥मूत्राशयो द्वयोर्बस्तिस्तया मूत्रपुटं भवेत् ॥ ६८ ॥
2.3.68 · p. 216
अनुष्टुप्
रोमावली रोमलता शिखरिण्युदरं पुनः ।उदलं जाठरं तुन्दं कुक्षि-कुक्षौ च गर्भकः ॥पिचण्डं जठरो न स्त्री तुन्दिः स्यात्तत्र च स्त्रियाम् ।कृपीटं कालखण्डं तु कालखञ्जं च कालकम् ॥यकृत्कालेयकमथ तिलकं क्लोम दक्षिणे ॥ ७० ॥
2.3.70 · p. 216
अनुष्टुप्
रक्तफेनोद्भवो वामे पुप्फुसोऽथान्त्रमान्त्रवत् ।पुरीतत् स्थविरात्रं तु वनिष्ठुः स्यात्प्लिहा पुमान् ॥ ७१ ॥
2.3.71 · p. 216
अनुष्टुप्
[85a]ललाटकण्ठजठरस्थिता रेखा वलिर्द्वयोः ।स्तनौ कुचौ कुचौ वक्षोरुहौ तौ च पयोधरौ ।तदधः स्तनमूलं स्यादूर्ध्वं तु स्तनरोहितम् ॥ ७२ ॥
2.3.72 · p. 216
अनुष्टुप्
स्तनवृन्तं पिप्पलकं चूचुकोऽस्त्री च नर्मठम् ।कुचाग्रकमथ क्रोडो न पुंसि स्याद्भुजान्तरम् ॥ ७३ ॥
2.3.73 · p. 216
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
वत्सं वक्ष उरः क्लीबे हृदयस्थानमित्यपि ।विशेष्यवत्प्रत्युरसं यद्भवेदुरसि स्थितम् ।हृदयं हृत्सत्त्वधाम स्तनोरःकोष्ठमध्यगम् ॥ ७४ ॥
2.3.74 · p. 216
अनुष्टुप्metre not read in every line
रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः ।पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि ॥ ७५ ॥
2.3.75 · p. 127
अनुष्टुप्
स्कन्धो भुजशिरोंऽसोऽस्त्री संधी तस्यैव जत्रुणी ।वाहो बाहु - भुजे द्वंद्वे दोषा स्त्री दोस्तु तत्स्त्रियाम् ॥ ७६ ॥
2.3.76 · p. 127
अनुष्टुप्
प्रवेष्टोऽप्यथ दोर्मूलं खण्डिको भुजकोटरः ।अभ्युपा(?)च द्वयोः कक्षा पार्श्वमश्री तयोरधः ॥ ७७ ॥
2.3.77 · p. 127
अनुष्टुप्
कफोणिश्च कपोणिश्च कफणिर्युजि कूर्परः ।अरत्निपृष्ठं बाहूय(?)बाहुसंधिररत्निकः ॥ ७८ ॥
2.3.78 · p. 127
अनुष्टुप्
प्रगण्डः कूर्परांसान्त[85b] उपबाहुश्च सम्मतः ।कलाचिका प्रकोष्ठोऽधोमणिबन्धावधिः स्मृतः ॥ ७९ ॥
2.3.79 · p. 127
अनुष्टुप्metre not read in every line
करः कुलिः पालन-पञ्चशाख-भुजादलाः पाणि-शयौ शमश्च ।हस्तोऽस्त्रियामस्य पुनर्मणिः स्या-दादिस्तथासौ मणिबन्ध उक्तः ॥ ८० ॥
2.3.80 · p. 127
उपजातिः
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।हस्तपुच्छं कुल्युषं च शक्वर्यङ्गुलिरङ्गुरिः ॥ ८१ ॥
2.3.81 · p. 127
अनुष्टुप्
करशाखाथाङ्गुलिभ्यो निर्गते स्यान्निरङ्गुलम् ।प्रमाणे द्ब्यङ्गुलादि स्यात्त्रिरङ्गुलमथास्त्रिषु ॥अस्त्री स्यादङ्गुलोऽङ्गुष्ठस्तर्जनी तु प्रदेशिनी ।प्रदेशनी मध्यमा तु ज्येष्ठा मध्या च सा भवेत् ॥अनामिका तु सावित्री कनिष्ठा स्यात्कनीनिका ॥ ८४ ॥
2.3.84 · p. 127
अनुष्टुप्