All kośas › Śabdaratnākara
शब्दरत्नाकर Śabdaratnākara
2,335 verses · 19,015 words tagged · 2,063 marked doubtful (dashed)
तृतीयः काण्डः · मनुष्याध्यायः (1/2)
इति वत्सकुलवामनभट्टबाणविरचिते शब्दरत्नाकरे नाट्याध्यायः सप्तदशः ।
॥ इति द्वितीयः काण्डः समातः ॥
मनुष्याध्यायः
मानवा मनुजा मर्त्या मनुष्या मानुषा नराः ।पुरुषाः स्युः पञ्चजनाः पुमांसः पूरुषा नरः ॥ १०३१ ॥
3.1.1031 · p. 128
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
पौरुषं पौरुषेयं च पुरुषाणां कदम्बके ।मानुष्यकं मनुष्याणामथ स्त्री वनिता वधूः ॥ १०३२ ॥
3.1.1032 · p. 129
अनुष्टुप्
अङ्गना योषिदबला नारी वामा नितम्बिनी ।प्रतीपदर्शिनी योषा कामिनी वामलोचना ॥ १०३३ ॥
3.1.1033 · p. 129
अनुष्टुप्
ललना रमणी रामा महिला तनुमध्यमा ।तन्वी सीमन्तिनी कान्ता प्रमदा वरवर्णिनी ॥ १०३४ ॥
3.1.1034 · p. 129
अनुष्टुप्
वरारोहा मत्तकाशिन्यभीष्टा वल्लभा प्रिया ।सती पतिव्रता साध्वी कल्याणी पतिदेवता ॥ १०३५ ॥
3.1.1035 · p. 129
अनुष्टुप्
अपांसुला सुचारित्रा भामिनी कोपना समे ।कुलपालिका कुलस्त्री भार्या पत्नी सधर्मिणी जाया ॥ १०३६ ॥
3.1.1036 · p. 129
अनुष्टुप्metre not read in every line
स्युः पुंसि भूम्नि दाराः स्याच्च पुरन्ध्री कुटुम्बिनी गृहिणी ।क्लीबे कलत्रमध्यूढाधिविन्नाथ स्वयंवरा ॥ १०३७ ॥
3.1.1037 · p. 129
अनुष्टुप्metre not read in every line
वर्या पतिंवरा कन्या कुमारी नागतार्तवा ।सा तु दृष्टरजा राका चिरण्टी स्यात् सुवासिनी ॥ १०३८ ॥
3.1.1038 · p. 129
अनुष्टुप्
पतिवत्नी भर्तृमती प्राज्ञा प्राज्ञी च धीमती ।समाः स्नुषावधूजन्यास्तरुणी युवतिः समे ॥ १०३९ ॥
3.1.1039 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भ (wrong syllable)
पाञ्चालिका पुत्रिका स्त्री वस्त्रदन्तादिनिर्मिता ।स्याल्लेप्यमय्यञ्जलिका निष्कला विगतार्तवा ॥ १०४० ॥
3.1.1040 · p. 129
अनुष्टुप्
स्यात् स्त्रीधर्मिण्युदक्याविरात्रेयी मलिनी तथा ।रजस्वला पुष्पवती ऋतुमत्यार्तवं रजः ॥ १०४१ ॥
3.1.1041 · p. 129
अनुष्टुप्
पुष्पं सखी वयस्याली दूती संचारिका समे ।गर्भिण्यापन्नसत्त्वा स्यादन्तर्वत्नी च गुर्विणी ॥ १०४२ ॥
3.1.1042 · p. 130
अनुष्टुप्
नग्निका स्त्री कोट्टवी स्यात् सैरन्ध्री शिल्पकारिका ।विदग्धा वाणिनी धूर्ता स्वैरिणी पुंश्चलीत्वरी ॥ १०४३ ॥
3.1.1043 · p. 130
अनुष्टुप्
धर्षिणी कुलटा बन्धक्यसती पांसुला च सा ।विश्वस्ता विधवा रण्डा जातापत्या प्रसूतिका ॥ १०४४ ॥
3.1.1044 · p. 130
अनुष्टुप्
प्रजाता च प्रसूता च गार्भिणं गर्भिणीगणः ।रूपाजीवा तु गणिका वेश्या वारविलासिनी ॥ १०४५ ॥
3.1.1045 · p. 130
अनुष्टुप्
पण्याङ्गना सत्कृता सा वारमुख्याथ तद्गणः ।गाणिक्यं तद्भृतौ भोगः कृट्टनी शंभली समे ॥ १०४६ ॥
3.1.1046 · p. 130
अनुष्टुप्
आशीःस्वस्त्ययनाभिज्ञा वृद्धवेश्या महत्तरी ।भुजंगः पल्लवो धूर्तो विटः षिद्गः समा इमे ॥ १०४७ ॥
3.1.1047 · p. 130
अनुष्टुप्
मैथुनेच्छावती या सा वृषस्यन्ती च कामुकी ।रत्यै कान्तार्थिनी यैति संकेतं साभिसारिका ॥ १०४८ ॥
3.1.1048 · p. 130
अनुष्टुप्
नाथः कामयिता पतिर्वरयिता कभ्रो धवः कामनोभर्ता प्राणसमः प्रियः सहचरः कान्तोऽभिकः कामुकः ।प्राणेशः कमितानुगो रतिगुरुर्नेता वरो वल्लभोनिर्वेष्टा परिणायकश्च कमनोऽभीकश्च सध्य्रङ् सुहृत् ॥ १०४९ ॥
3.1.1049 · p. 130
शार्दूलविक्रीडितम्
अशिश्वी शिशुहीना स्यादवीरा निर्धवात्मजा ।स्त्रैणं स्त्रीणां समूहे स्याद्युवतीनां तु यौवतम् ॥ १०५० ॥
3.1.1050 · p. 130
अनुष्टुप्
स्त्रीपुंसलक्षणा पोटा वीरमाता तु वीरसूः ।उपाध्यायान्युपाध्यायी मातुलानी तु मातुली ॥ १०५१ ॥
3.1.1051 · p. 131
अनुष्टुप्
आचार्यानी च पुंयोग अर्यी च क्षत्रियीति च ।अथोपाध्याय्युपाध्याया क्षत्रिया क्षत्रियाण्यपि ॥ १०५२ ॥
3.1.1052 · p. 131
अनुष्टुप्
अर्यार्याणी तथाचार्या सप्त पुंयोगवर्जिताः ।स्यादाभीरी महाशूद्री जातिपुंयोगयोः समा ॥ १०५३ ॥
3.1.1053 · p. 131
अनुष्टुप्
शूद्रा तु जातावेव स्याच्छूद्री शूद्रस्य योषिति ।विप्रश्निका त्वीक्षणिका दैवज्ञा च समा इमाः ॥ १०५४ ॥
3.1.1054 · p. 131
अनुष्टुप्
उद्भवो जातिरुत्पत्तिर्जनिर्जननजन्मनी ।जनुश्च चेतनो जन्मी जन्तुर्जन्युः शरीरभाक् ॥ १०५५ ॥
3.1.1055 · p. 131
अनुष्टुप्
प्रेतः परेतविगतासुमृतप्रमीत-प्राप्तान्तसंस्थितपरासुविलीननष्टाः ।एते दश त्रिषु कटः कुणपः शवोऽस्त्रीचित्या चिता चितिरथ प्रलयोऽत्ययोऽन्तः ॥ १०५६ ॥
3.1.1056 · p. 131
वसन्ततिलका
लयो नाशः कालधर्मो दीर्घनिद्रा च पञ्चता ।मरणं निधनं मृत्युर्द्वयोर्जीवोऽसुधारणम् ॥ १०५७ ॥
3.1.1057 · p. 131
अनुष्टुप्
आयुर्जीवितकालः स्यादरिष्टं मृतिलक्षणम् ।प्रायो वयोऽसवः प्राणाः पुंसि भूम्न्यथ जीविका ॥ १०५८ ॥
3.1.1058 · p. 131
अनुष्टुप्
आजीवश्चेष्टनं त्वीहा जीवातुर्जीवनौषधम् ।श्मशानं स्यात् पितृवनं रुद्रावासः परेतभूः ॥ १०५९ ॥
3.1.1059 · p. 131
अनुष्टुप्
देहोऽस्त्री विग्रहः कायः पिण्डो मूर्तिस्तनुस्तनूः ।वपुः संहननं वर्ष्म गात्रं क्षेत्रं कलेवरम् ॥ १०६० ॥
3.1.1060 · p. 132
अनुष्टुप्
शरीरमङ्गेऽवयवप्रतीकापघनास्त्रयः ।अस्त्रियामङ्घ्रिचरणौ पादः पत् पदमस्य तु ॥ १०६१ ॥
3.1.1061 · p. 132
अनुष्टुप्
अग्रे स्यात् प्रपदं गुल्फौ तद्ग्रन्थी घुटिके तयोः ।अधः पार्ष्णिः पुमान् जङ्घा प्रसृता जानु न द्वयोः ॥ १०६२ ॥
3.1.1062 · p. 132
अनुष्टुप्
अष्ठीवदस्त्री जानूर्वोः पर्वोर्वष्ठीवमित्यदः ।ऊरुश्चाष्ठीवदित्येते सक्थ्यूरुः पुंसि वङ्क्षणः ॥ १०६३ ॥
3.1.1063 · p. 132
अनुष्टुप्
तत्सन्धावथ पायुर्ना गुदापाने अथ द्वयोः ।वस्तिर्नाभेरधो नाभिर्द्वयोरेवं कटः कटी ॥ १०६४ ॥
3.1.1064 · p. 132
अनुष्टुप्
श्रोणिः कलत्रमारोहः कटिप्रोथौ स्त्रियां स्फिजौ ।पश्चाद्भागो नितम्बोऽस्त्री स्त्रीकट्या जघनं पुरः ॥ १०६५ ॥
3.1.1065 · p. 132
अनुष्टुप्
नितम्बे कूपकौ यौ तौ क्लीबे स्यातां कुकुन्दरे ।साधनं मेहनं शेफः शिश्नो दण्डः स्मरध्वजः ॥ १०६६ ॥
3.1.1066 · p. 132
अनुष्टुप्
मेढ्रोऽण्डं कोशवृषणावथ योनिर्द्वयोर्भगम् ।उपस्थं पृष्ठवंशस्य क्लीबे स्यादधरे त्रिकम् ॥ १०६७ ॥
3.1.1067 · p. 132
अनुष्टुप्
चरमं वपुषः पृष्ठं पिचण्डजठरोदरम् ।तुन्दं कुक्षिर्न ना क्रोडं वत्सो वक्ष उरः समे ॥ १०६८ ॥
3.1.1068 · p. 132
अनुष्टुप्
मध्यमं चावलग्नं स्याद् विलग्नं मध्यमस्त्रियाम् ।स्तनौ कुचौ तयोरग्रं चूचुकं भुजमूर्ध्नि तु ॥ १०६९ ॥
3.1.1069 · p. 133
अनुष्टुप्
स्कन्धोंऽसोऽस्त्री तयोः सन्धिर्जत्रुणी दोर्नपुंसके ।भुजबाहू द्वयोर्मूले तयोः कक्षौ तयोरधः ॥ १०७० ॥
3.1.1070 · p. 133
अनुष्टुप्
पार्श्वमस्त्री कफोणिस्तु कूर्परस्तस्य तूपरि ।प्रकाण्डस्तदधः पुंसि प्रकोष्ठोऽथ करः शयः ॥ १०७१ ॥
3.1.1071 · p. 133
अनुष्टुप्
पाणिर्हस्तः पञ्चशाखस्तौ युतावञ्जलिर्नरि ।मणिबन्धादाकनिष्ठं करस्य करभो बहिः ॥ १०७२ ॥
3.1.1072 · p. 133
अनुष्टुप्
अङ्गुल्यः करशाखाः स्युस्तर्जनी तु प्रदेशिनी ।अङ्गुष्ठस्तर्जनी मध्यानामिका च कनिष्ठिका ॥ १०७३ ॥
3.1.1073 · p. 133
अनुष्टुप्
पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम् ।प्रसृतिः कुञ्चितः पाणिः पाणौ तु प्रतताङ्गुलौ ॥ १०७४ ॥
3.1.1074 · p. 133
अनुष्टुप्
त्रयश्चपेटप्रतलप्रहस्ता द्वौ तु संहतौ ।स्यातां करौ सिंहतलप्रतलौ सव्यदक्षिणौ ॥ १०७५ ॥
3.1.1075 · p. 133
अनुष्टुप्
वितस्तिः सकनिष्ठे स्यादङ्गुष्ठेऽथ प्रकोष्ठकः ।ततपाण्यङ्गुलिर्हस्तः स तु मुष्ट्यैव बद्धया ॥ १०७६ ॥
3.1.1076 · p. 133
अनुष्टुप्
पुंसि रत्निररत्निस्तु निष्कनिष्ठेन मुष्टिना ।पौरषं तु त्रिषूद्बाहुनृमानेऽथ सहस्तयोः ॥ १०७७ ॥
3.1.1077 · p. 133
अनुष्टुप्
व्यामः स बाह्वास्ततयोर्यत्तु स्यात्तिर्यगन्तरम् ।शिरोधिः कन्धरा ग्रीवा सा तु रेखात्रयाङ्किता ॥ १०७८ ॥
3.1.1078 · p. 133
अनुष्टुप्
कम्बुग्रीवावटुर्घाटा कृकः पुंसि कृकाटिका ।कण्ठो गलो मुखं वक्त्रं लपनं वदनानने ॥ १०७९ ॥
3.1.1079 · p. 134
अनुष्टुप्
तुण्डास्ये नासिकानासाघोणागन्धवहाः स्त्रियः ।घ्राणमोष्ठाधरौ दन्तच्छदौ दशनवाससी ॥ १०८० ॥
3.1.1080 · p. 134
अनुष्टुप्
आस्यं मुखबिलं दन्ता दशना रदना रदाः ।रसज्ञा रसना जिह्वा समाने तालुकाकुदे ॥ १०८१ ॥
3.1.1081 · p. 134
अनुष्टुप्
सृक्वणी त्वोष्ठयोः प्रान्तौ चिबुकं त्वधरादधः ।गण्डः कपोलस्तद्भागे गल्लः स्त्री तत्परा हनुः ॥ १०८२ ॥
3.1.1082 · p. 134
अनुष्टुप्
श्रवणं तु श्रवः श्रोत्रं कर्णः शब्दग्रहः श्रुतिः ।शष्कुली कर्णवेष्टः स्यात् कर्णजाहस्तदन्तिकम् ॥ १०८३ ॥
3.1.1083 · p. 134
अनुष्टुप्
दृग्दृष्टिरक्षि नयनं लोचनं चक्षुरीक्षणम् ।अम्बकं दर्शनं नेत्रं निध्यानमवलोकनम् ॥ १०८४ ॥
3.1.1084 · p. 134
अनुष्टुप्
मलं तु दूषिका दृष्ट्योस्तारकास्तु कनीनिका ।अपाङ्गश्चक्षुषोरन्ते कटाक्षोऽपाङ्गदर्शने ॥ १०८५ ॥
3.1.1085 · p. 134
अनुष्टुप्
भ्रुवौ तु चक्षुषोरूर्ध्वे लोचकस्तु मणिभ्रुवि ।ललाटमलिकं फालं निटिलं गोधिरित्यपि ॥ १०८६ ॥
3.1.1086 · p. 134
अनुष्टुप्
ऊर्णा भ्रूमध्यगावर्ते तन्मध्ये कूर्चमस्त्रियाम् ।उत्तमाङ्गशिरःशीर्षकानि मस्तकमस्त्रियाम् ॥ १०८७ ॥
3.1.1087 · p. 134
अनुष्टुप्
मूर्धाथ कुन्तलं केशो वालः शिरसिजः कचः ।शिरोरुहोऽथ तंद्वृन्दे कौशिकं कैश्यमित्युमे ॥ १०८८ ॥
3.1.1088 · p. 134
अनुष्टुप्
कबरी केशवेशः स्यादलकाश्चूर्णकुन्तलाः ।भालगात्रे भ्रमरकाः परौ तु विशदे कचे ॥ १०८९ ॥
3.1.1089 · p. 135
अनुष्टुप्
(यौ) शीर्षण्यशिरस्यौ द्वौ काकपक्षः शिखण्डकः ।केशान्तःपद्धतिः स्त्रीणां सीमन्तोऽथ कचात् परे ॥ १०९० ॥
3.1.1090 · p. 135
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 शी (syllables merged)
पाशः पक्षश्च हस्तश्च प्रशंसावाचकास्त्रयः ।केशबन्धविशेषे स्युर्वेणीधम्मिल्लमुख्यकाः ॥ १०९१ ॥
3.1.1091 · p. 135
अनुष्टुप्
असंस्काराः कचाः श्लिष्टाः व्रतिनस्ते जटा सटा ।दोषा वातादयो वायुः पित्तं श्लेष्मा कफः समौ ॥ १०९२ ॥
3.1.1092 · p. 135
अनुष्टुप्
व्याधिरामय आतङ्को गदो रोगो रुजा च तत् ।क्षयः शोषो राजयक्ष्मा यक्ष्मा जूर्तिर्जरोऽन्तकः ॥ १०९३ ॥
3.1.1093 · p. 135
अनुष्टुप्
अर्शस्तु पायुकीलः स्यात् प्रतिश्यायस्तु पीनसः ।क्षुतं स्त्री क्षुत् क्षवः पुंसि कासः क्षवथुरित्यपि ॥ १०९४ ॥
3.1.1094 · p. 135
अनुष्टुप्
नाडीव्रणः पुमानीर्ममरुः क्लीबे व्रणोऽस्त्रियाम् ।वमिः प्रच्छर्दिका छर्दिरुद्वान्तिर्वमथुः पुमान् ॥ १०९५ ॥
3.1.1095 · p. 135
अनुष्टुप्
शोथस्तु श्वयथुः शोफो ग्रहणीरुक् प्रवाहिका ।प्रमेहो बहुमूत्रं स्यात् स्फोटकः पिटकस्त्रिषु ॥ १०९६ ॥
3.1.1096 · p. 135
अनुष्टुप्
क्लीबे किलाससिध्मे द्वे श्वित्रं कुष्ठं पिचुः पुमान् ।कण्डूः खर्जूश्च कण्डूया पामा पामा विचर्चिका ॥ १०९७ ॥
3.1.1097 · p. 135
अनुष्टुप्
कच्छूः स्त्रियामथो पादवल्मीकः स्याद्विपादिका ।मन्दाभ्यान्ताभ्यमितव्याधितविकृतातुरापटुग्लानाः ॥ १०९८ ॥
3.1.1098 · p. 136
अनुष्टुप्metre not read in every line
आर्तामयाविरुग्णग्लास्नव उल्लाघ आमयान्मुक्तः ।कल्यो निरामयो वार्तो वातरोगी तु वातकी ॥ १०९९ ॥
3.1.1099 · p. 136
अनुष्टुप्metre not read in every line
अन्धोऽचक्षुरतीसारी यः स एवातिसारकी ।न्युब्जो भुग्नः कुब्जो गडुलः कुकरः कुणिर्जडः स्तब्धः ॥ ११०० ॥
3.1.1100 · p. 136
अनुष्टुप्metre not read in every line
श्रोणः पङ्गुः खोडः खञ्जः कोलोऽथ केकरो वलिरः ।दुश्चर्मणि शिपिविष्टः खल्वाटः खलतिरेडबधिरौ तु ॥ ११०१ ॥
3.1.1101 · p. 136
गीतिः
अश्रुतिरथैडमूकोऽवाक्श्रुतिरपनासिको विग्रः ।अप्यवटीटमवभ्रटमवनाटं विनतनासिकं प्राहुः ॥ ११०२ ॥
3.1.1102 · p. 136
उद्गीतिः
खरणास्तु खरणसः स्यान्नःक्षुद्रः क्षुद्रनासिकः ।खुरणाः खुरणस उन्नतदन्ते दन्तुर एकेक्षणः काणः ॥ ११०३ ॥
3.1.1103 · p. 136
metre not recognised
श्लेष्मलमाहुः श्लेष्मणमर्शसमर्शोयुतं तथाश्मश्रुम् ।तूबरमल्पशरीरं पृश्निं खर्वस्तु वामनो ह्रस्वः ॥ ११०४ ॥
3.1.1104 · p. 136
गीतिः
मूर्च्छालो मूर्च्छितो मूर्तो मिर्मिरस्तब्धलोचनः ।किलासी सिध्मलः पामरोगी पामनकच्छुरौ ॥ ११०५ ॥
3.1.1105 · p. 136
अनुष्टुप्
कण्डूतियुक्तः कण्डूलो दद्रुरोगिणि दुद्रुलः ।चिल्लः पिल्लश्च चुल्लश्च क्लिन्नास्ये क्लिन्नचक्षुषि ॥ ११०६ ॥
3.1.1106 · p. 136
अनुष्टुप्
मूकस्तु यमनो वाचि सिरालस्तु सिरान्वितः ।स्याच्छ्मश्रुलः श्मश्रुवति ह्रीणो ह्रीतश्च लज्जितः ॥ ११०७ ॥
3.1.1107 · p. 137
अनुष्टुप्
लोहलः स्यादस्फुटवाक् प्रज्ञुः प्रगतजानुकः ।ऊर्ध्वजानुक ऊर्ध्वज्ञुः संज्ञुः संगतजानुकः ॥ ११०८ ॥
3.1.1108 · p. 137
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
विकलाङ्गस्तु पोगण्डो बृहत्कुक्षिः पिचण्डिलः ।तुन्दिकस्तुन्दिलस्तुन्दी तिलकस्तिलकालकः ॥ ११०९ ॥
3.1.1109 · p. 137
अनुष्टुप्
केशवः केशिकः केशी गर्ह्यवादी तु कद्वदः ।शिश्विदानो दुराचार उपक्रान्तश्चिकित्सितः ॥ १११० ॥
3.1.1110 · p. 137
अनुष्टुप्
कुण्ठः क्रियासु मन्दः स्यान्मन्दाभ्यन्तादयस्त्रिषु ।रोगहार्यगदंकारभिषग्वैद्यचिकित्सकाः ॥ ११११ ॥
3.1.1111 · p. 137
अनुष्टुप्
भेषजभैषज्यौषधमगदो जायुश्च शुक्रवीर्ये तु ।रेतस्तेजश्चेन्द्रियबीजे करणं समे हृद्धृदये ॥ १११२ ॥
3.1.1112 · p. 137
गीतिःmetre not read in every line
पिशितपलपललतरसक्रव्यामिषजाङ्गलानि मांसे स्युः ।असृगस्ररुधिरलोहितरक्तक्षतजास्रशोणितं तु समम् ॥ १११३ ॥
3.1.1113 · p. 137
गीतिः
पक्वं मांसं भटित्रं स्याच्छूल्यं शूलाकृतं च तत् ।वल्लूरं त्रिषु तच्छुष्कं समाने तूख्यपैठरे ॥ १११४ ॥
3.1.1114 · p. 137
अनुष्टुप्
मांसभेदे तु वृक्कोऽस्त्री डिम्बः पुंस्युण्डुकोऽस्त्रियाम् ।समे तु तिलकक्लोम्नी समे आन्त्रपुरीतती ॥ १११५ ॥
3.1.1115 · p. 137
अनुष्टुप्
समे तु गोर्दमस्तिष्के द्वौ गुल्मप्लीहनौ समौ ।कालखण्डं यकृत क्लीबे स्नायुर्ना वस्नसा स्त्रियाम् ॥ १११६ ॥
3.1.1116 · p. 138
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
मेदो वपा वसा नाडीसिराधमनयः समाः ।पश्चाद्ग्रीवासिरा मन्या किट्टं तु मलमस्त्रियाम् ॥ १११७ ॥
3.1.1117 · p. 138
अनुष्टुप्
पुरीषं शमलं वर्चः शकृद्विष्ठाविशौ स्त्रियौ ।गूथवर्चस्कमस्त्री स्यादुच्चारावस्करौ समौ ॥ १११८ ॥
3.1.1118 · p. 138
अनुष्टुप्
प्रस्त्रावो न द्वयोर्मूत्रं लाला त्वास्यभवं जलम् ।सृणिका स्यन्दिनी सैव स्वेदघर्मौ निदाघवत् ॥ १११९ ॥
3.1.1119 · p. 138
अनुष्टुप्
स्यादस्थि कीकसं कुल्यं करोटिः स्त्री शिरोस्थनि ।कर्परस्तु कपालोऽस्त्री नलकं त्वस्थि बाहुजम् ॥ ११२० ॥
3.1.1120 · p. 138
अनुष्टुप्
स्याच्छरीरास्थि कङ्कालः पृष्ठास्थि स्त्री कशेरुका ।वंशः पृष्ठप्रधानास्थि पार्श्वास्थिनि तु पार्शुका ॥ ११२१ ॥
3.1.1121 · p. 138
अनुष्टुप्
त्वक् स्त्रिायमजिनं चर्म माता तु जननी प्रसूः ।जनयित्री सवित्री च तातो जनयिता पिता ॥ ११२२ ॥
3.1.1122 · p. 138
अनुष्टुप्metre not read in every lineimpossible sign sequence: ्वक् स्त्रिायमजिनंnearly अनुष्टुप्
जनकः सविता पुत्रस्तनयः सूनुरात्मजः ।नन्दनस्तनया पुत्री दुहिता च सुता तयोः ॥ ११२३ ॥
3.1.1123 · p. 138
अनुष्टुप्
समे तोकमपत्यं द्वे औरस्यस्त्वौरसोऽप्युभौ ।स्वजातेऽथ पितृभ्राता पितृव्यो भगिनी स्वसा ॥ ११२४ ॥
3.1.1124 · p. 138
अनुष्टुप्
स्वस्त्रीयो भागिनेयः स्याद् दौहित्रो दुहितुः सुतः ।जामाता दुहितुर्भर्ता मातुर्भ्राता तु मातुलः ॥ ११२५ ॥
3.1.1125 · p. 139
अनुष्टुप्
मातुली मातुलान्यस्य जाया धात्र्युपमातरि ।पुत्रस्य तनयः पौत्रो नप्ता पौत्रस्य नन्दनः ॥ ११२६ ॥
3.1.1126 · p. 139
अनुष्टुप्
पतिपत्न्योः प्रसूः श्वश्रूः श्वशुरस्तु तयोः पिता ।ननान्दा भगिनी पत्युर्भ्रातृजाया प्रजावती ॥ ११२७ ॥
3.1.1127 · p. 139
अनुष्टुप्
पत्न्यास्तु भ्रातरः स्यालाः स्युः पत्युर्देवृदेवरौ ।भ्रातृवर्गस्य जाया या यातरस्ताः परस्परम् ॥ ११२८ ॥
3.1.1128 · p. 139
अनुष्टुप्
भ्रात्रीयो भ्रातृजः पुत्रौ पुत्री पुत्रश्च तावुभौ ।पितरौ मातापितरौ मातरपितरावथ श्वशुरौ ॥ ११२९ ॥
3.1.1129 · p. 139
अनुष्टुप्metre not read in every line
श्वश्रूश्वशुरौ भ्राता भगिनी च भ्रातरावेतौ ।पितामहश्च प्रपितामहश्चोभौ यथाक्रमम् ॥ ११३० ॥
3.1.1130 · p. 139
अनुष्टुप्metre not read in every line
पितरौ पितृतत्पित्रोरेवं मातामहादिकम् ।दम्पती जम्पती जायापती च द्विवचोऽन्तकौ ॥ ११३१ ॥
3.1.1131 · p. 139
अनुष्टुप्
ज्ञातेयं ज्ञातिभावे स्याद् बन्धुता तत्कदम्बके ।पारस्त्रैणेयकानीनौ परस्त्रीकन्ययोः सुतौ ॥ ११३२ ॥
3.1.1132 · p. 139
अनुष्टुप्
काल्याणिनेयः कानिष्ठिनेयो माध्यमिनेयकः ।ज्यैष्ठिनेयश्च चत्वारः कल्याण्याद्याः सुताः क्रमात् ॥ ११३३ ॥
3.1.1133 · p. 139
अनुष्टुप्
अथ बान्धकिनेयश्च बन्धुलश्चासतीसुतौ ।कौलटेरः कौलटेय इत्युभौ कुलटासुते ॥ ११३४ ॥
3.1.1134 · p. 140
अनुष्टुप्
मातुः संभद्रपूर्वायाः सुतौ सांमातुरादिकौ ।सुतौ द्वैमातुरः षाण्मातुरश्चोभौ यथाक्रमम् ॥ ११३५ ॥
3.1.1135 · p. 140
अनुष्टुप्
द्वयोः षण्णां च मातॄणां वैमात्रेयो विमातृजः ।पैतृष्वसेयः स्यात् पैतृष्वस्रीयश्च पितृष्वसुः ॥ ११३६ ॥
3.1.1136 · p. 140
अनुष्टुप्
सुतो मातृष्वसुश्चैवं कुण्डगोलौ च जारजौ ।अमृते च मृते पत्यौ कृपाकन्या त्वलंकृता ॥ ११३७ ॥
3.1.1137 · p. 140
अनुष्टुप्
समानोदर्यसोदर्यौ सगर्म्यः सहजश्च सः ।सनाभयः सपिण्डाः स्युर्बन्धुस्वज्ञातिबान्धवाः ॥ ११३८ ॥
3.1.1138 · p. 140
अनुष्टुप्
सगोत्रः स्वजनश्चाथ जारश्चोपपतिः समौ ।गर्भाशयो जरायुर्ना स्यादुल्बं कललोऽस्त्रियाम् ॥ ११३९ ॥
3.1.1139 · p. 140
अनुष्टुप्
सूतिमासो वैजननो गर्भो भ्रूणः समावुभौ ।स्तनंधयोत्तानशयौ स्तनपा तु स्तनंधयी ॥ ११४० ॥
3.1.1140 · p. 140
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
वटुर्बालो माणवको माणव्यं तत्कदम्बके ।तारुण्यं यौवनं बाल्यं शिशुत्वं शैशवं समम् ॥ ११४१ ॥
3.1.1141 · p. 140
अनुष्टुप्
केशादौ जरया शौक्ल्यं पलितं विस्रसा जरा ।जरठः स्थविरो वृद्धः प्रवया दशमी जरन् ॥ ११४२ ॥
3.1.1142 · p. 141
अनुष्टुप्
ज्यायान् जीर्णश्च वर्षीयान् वृद्धसंघे तु वार्धकम् ।पूर्वजस्त्वग्रियो ज्येष्ठो ज्यायानग्रज इत्यपि ॥ ११४३ ॥
3.1.1143 · p. 141
अनुष्टुप्
जघन्यजकनीयांसौ कनिष्ठोऽवरजोऽनुजः ।यवीयांश्च यविष्ठश्च वयस्थस्तरुणो युवा ॥ ११४४ ॥
3.1.1144 · p. 141
अनुष्टुप्
सौभ्रात्रं भ्रातृता साध्वी त्रिषु स्युर्जरठादयः ।अनुलेपोऽङ्गरागः स्याद्विच्छित्तिर्वर्णकोऽस्त्रियाम् ॥ ११४५ ॥
3.1.1145 · p. 141
अनुष्टुप्
कुङ्कुमं घुसृणं रक्तं बाह्लीकं पीतनं वरम् ।वासनीयककाश्मीरधीरलोहितचन्दनम् ॥ ११४६ ॥
3.1.1146 · p. 141
अनुष्टुप्
सेव्यपिञ्जरसंकोचपिशुनाग्निशिखानि च ।अगरु कृमिजं लोहं राजार्हं जाङ्गलान्नकम् ॥ ११४७ ॥
3.1.1147 · p. 141
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रु (wrong syllable)
वंशक वंशिकं काकतुण्डं लघु च जाङ्गलम् ।कालागर्वथ तदगरु मङ्गल्यं यत्तु मल्लिगन्धि स्यात् ॥ ११४८ ॥
3.1.1148 · p. 141
metre not recognised
कालानुसार्यजावककालेयान्यत्र पीतसारे स्युः ।पीतचन्दनमर्केष्टं बालाहार्यं किरातजम् ॥ ११४९ ॥
3.1.1149 · p. 141
अनुष्टुप्metre not read in every line
पत्राङ्गं रञ्जनं रक्तचन्दनं च कुचन्दनम् ।कर्पूरागरुकस्तूरीतक्कोलैर्यक्षकर्दमः ॥ ११५० ॥
3.1.1150 · p. 141
अनुष्टुप्