कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

चतुर्थः परिच्छेदः (2/4)

केशिकः केशवो मुण्डः केकरो वलिरः समौ ।वृद्धनाभौ तुण्डिलः स्यात्तुण्डिभोऽपि निरीक्षतः ॥ १२१ ॥
4.121 · p. 116
अनुष्टुप्
आतुरो विकृतो ग्लास्नुग्लानौ व्याधित आमयी ।दर्द्रुणो दर्द्रुरोगी स्यात्कच्छुरः पामनः समौ ॥ १२२ ॥
4.122 · p. 117
अनुष्टुप्
वातरोगी वातकी सातिसारोऽप्यतिसारिणि ।चुल्लचिल्लौ क्लिन्ननेत्रपिल्लौ मिलितलोचने ॥ १२३ ॥
4.123 · p. 117
अनुष्टुप्
कफिनि श्लेष्मलः प्रोक्तः श्लेष्मणः क[64]फरोगिणि ।अर्शोयुगर्शसश्चापि मूर्च्छालो मूर्च्छितः समः ॥ १२४ ॥
4.124 · p. 117
अनुष्टुप्
किलासी सिध्मलः पित्ते स्नेहभूः कफसंज्ञकः ।खटः श्लेष्मा बलाशोऽपि रोगातङ्कावपाटवम् ॥ १२५ ॥
4.125 · p. 117
अनुष्टुप्
रुग्रुजा व्याधिमान्द्ये चोपतापो गद आमयः ।आम आकल्यमप्युक्तं राजयक्ष्मा क्षयस्तथा ॥ १२६ ॥
4.126 · p. 117
अनुष्टुप्
यक्ष्मशोषावथ प्रोक्तं क्षुतं क्षुत्क्षव इत्यपि ।पामा विचर्चिका कण्डूः कच्छूः खर्जूः समे उभे ॥ १२७ ॥
4.127 · p. 117
अनुष्टुप्
खसः कण्डूयनं चापि कण्डूयापि निगद्यते ।कासः क्षवथुरप्युक्तो व्रणे क्षतमितीरितम् ॥ १२८ ॥
4.128 · p. 117
अनुष्टुप्
विपादिका पदस्फोटो पिटकः स्फोटको गडुः ।पृष्ठग्रन्थिर्मतो गण्डो रूढं व्रणपदं किणः ॥ १२९ ॥
4.129 · p. 117
अनुष्टुप्
श्वेतकुष्ठे श्वित्रमुक्तं केशघ्नं चेन्द्रलुप्तकम् ।त्वक्पुष्पकिलासे च सिध्मकोठौ तु मण्डले ॥ १३० ॥
4.130 · p. 118
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 त्व (syllables merged)
गलगण्डो रोहिणी तु गण्डमाला गलाङ्कुरः ।हिक्का हृल्लासहेक्के तु दुर्नामा तु गुदाङ्कुरः ॥ १३१ ॥
4.131 · p. 118
अनुष्टुप्
अर्शः शोफस्तथा शोथः श्वयथुः परिकीर्तितः ।पीनसे तु प्रतिश्यायः कुरण्डस्त्वण्डवर्धने ॥ १३२ ॥
4.132 · p. 118
अनुष्टुप्
वमथुः प्रच्छर्दिका छर्दिर्वमनं च वमिस्तथा ।गुदग्रह उदावर्ते मूत्रकृच्छ्रेऽश्मरी स्मृता ॥ १३३ ॥
4.133 · p. 118
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 र्वम (syllable split)
बहुमूत्रप्रमेहौ तु भेदा रोगस्य भूरयः ।आनाहस्तु विबन्धः स्याद् ग्रहणीरुक्प्रवाहिका ॥ १३४ ॥
4.134 · p. 118
अनुष्टुप्
मान्द्यभेदाश्च विद्रधिभगंदरज्वरादयः ।रोगहारी भिषग्वैद्योऽगदंकारचिकित्सकौ ॥ १३५ ॥
4.135 · p. 118
अनुष्टुप्metre not read in every line
दोषज्ञश्च तथा चायुर्वेदी भेषजमौषधम् ।भैषज्यमगदस्तन्त्रं जायुरप्युच्यते बुधैः ॥ १३६ ॥
4.136 · p. 118
अनुष्टुप्
उपचारश्चिकित्सा चोपचर्या रुक्प्रतिक्रिया ।क्वाथचूर्णादिभेदेन लङ्घनं त्वपतर्पणम् ॥ १३७ ॥
4.137 · p. 118
अनुष्टुप्
जाङ्गुलिकविषवैद्यौ तु ---------------- ।आरोग्यं सह्यवार्त्ते चानामयं स्वास्थ्यमेव च ॥ १३८ ॥
4.138 · p. 119
अनुष्टुप्metre not read in every line
पटूल्लाघौ समौ वार्त्तकल्यौ नीरुजि सम्मतौ ।माय[65]या विभवेच्छुस्तु संधिजीवकपार्श्वकौ ॥ १३९ ॥
4.139 · p. 119
अनुष्टुप्
अलंकृतां कनीं दत्ते यः स कूकुदसंज्ञकः ।स्थिरप्रीतौ नरे नीलीरागश्चिकुर इत्यपि ॥ १४० ॥
4.140 · p. 119
अनुष्टुप्
चपलोऽथ तदन्यस्तु हरिद्रारागको मतः ।मेदुरे स्निग्धसान्द्रौ च अस्तिमान्धनिको धनी ॥ १४१ ॥
4.141 · p. 119
अनुष्टुप्
पिण्डीशूरो गृहेशूरो गेहेनर्दी तथोच्यते ।स्वस्थानस्थस्तु गोष्ठः स्यात्परद्वेषी तथापरः ॥ १४२ ॥
4.142 · p. 119
अनुष्टुप्
आपन्नापत्स्थितौ तुल्यौ विपत्तिस्तु विपत्तथा ।कुटुम्बव्यापृतोपाधी अभ्यागारिकसंज्ञकः ॥ १४३ ॥
4.143 · p. 119
अनुष्टुप्
शङ्कुरस्त्रासदायी स्यात्कारणिकपरीक्षकौ ।जैवातृको दीर्घजीवी वरदे तु समर्धुकः ॥ १४४ ॥
4.144 · p. 119
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 2 र (wrong syllable)
सदस्यास्तु सभास्ताराः सभ्याः पार्षद्यनामकाः ।सामाजिकास्तथा प्रोक्ताः परिषत्सदसी समे ॥ १४५ ॥
4.145 · p. 119
अनुष्टुप्
सभा संसत्समाजश्चास्था गोष्ठी पर्षदा सह ।समितिः स्त्री तथास्थानं दैवज्ञगणकौ समौ ॥ १४६ ॥
4.146 · p. 119
अनुष्टुप्
निमित्तविज्ज्यौतिषिकावादेशिज्ञानिनौ समौ ।लेखकेऽक्षरजीवी त्वक्षरचञ्च्वक्षराच्चणौ ॥ १४७ ॥
4.147 · p. 120
अनुष्टुप्
लिपिकारवार्णिकौ च लिपिः स्याल्लिविरित्यपि ।मषीकूपी मषीधानं मष्याविलजलं मसी ॥ १४८ ॥
4.148 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र (wrong syllable)
द्यूतकर्ताक्षधूर्तश्चाक्षदेवी सभिकश्च सः ।द्यूतं दुरोदरं चाक्षवती कैतवमित्यपि ॥ १४९ ॥
4.149 · p. 120
अनुष्टुप्
पणोऽथ पाशकः प्रोक्तः प्रासकः परिभावितः ।अष्टापदः शारिफलं खेलनी शारिरुच्यते ॥ १५० ॥
4.150 · p. 120
अनुष्टुप्
शारीणां नयनं सम्यक्परिणायो निगद्यते ।समाह्वयः प्राणिद्यूतं सर्पग्राह्याहितुण्डिकौ ॥ १५१ ॥
4.151 · p. 120
अनुष्टुप्
ताततुल्यो देशकस्तु शास्ता तत्त्वोपदेशकः ।पुण्यवान्सुकृती धन्यो रिष्टतातिः शिवंकरः ॥ १५२ ॥
4.152 · p. 120
अनुष्टुप्
क्षेमंकरः शिवताति?र्मित्रवत्सलमित्रयू ।आस्तिके श्राद्ध आख्यातः [66]श्रद्धालुर्नास्तिके पुनः ॥ १५३ ॥
4.153 · p. 120
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
नास्तीतिमतिकश्चैष परलोकनिषेधकः ।विरागी तु विरागार्होऽकल्कनो गतवञ्चने ॥ १५४ ॥
4.154 · p. 120
अनुष्टुप्
क्षमः सहः समर्थोऽसौ प्रभूष्णुः शक्तनामकः ।भूतगृहीतभूतात्ताविष्टा भूतनिपीडिते ॥ १५५ ॥
4.155 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गृ (wrong syllable)
श्लथे तु शिथिलः प्रोक्तो नष्टबीजस्तु निष्कलः ।अङ्गमर्दे तु संवाह आसीने तूपविष्टकः ॥ १५६ ॥
4.156 · p. 121
अनुष्टुप्
ऊर्ध्वंदमः स्थितोर्ध्वौ च प्रवासी देशिकोऽध्वगः ।अध्वन्यश्चाध्वनीनश्च पान्थो हारिस्तु तद्गणे ॥ १५७ ॥
4.157 · p. 121
अनुष्टुप्
शम्बलं च समं प्रोक्तं पाथेयेन नपुंसकम् ।जाङ्घिकोऽतिजवो वेगगामी जङ्घाल इत्यपि ॥ १५८ ॥
4.158 · p. 121
अनुष्टुप्
जङ्घाकरिकनामासौ त्वरितो जवनो जवी ।वेगो जवो रयो वाजस्तरो रंहः स्यदः पुनः ॥ १५९ ॥
4.159 · p. 121
अनुष्टुप्
प्रसरोऽतिजवश्चैव मन्थरो मन्दगामिनि ।कामंगामिनि कामीनोऽनुपूर्वोऽत्यन्तगामिनि ॥ १६० ॥
4.160 · p. 121
अनुष्टुप्
अत्यन्तीनोऽपि तत्रैव सहायः सेवकः समौ ।अनुप्लवोऽभिगामी चानुगाम्यभिचरस्तथा ॥ १६१ ॥
4.161 · p. 121
अनुष्टुप्
सेवा प्रसादना भक्तिः सेवनं परिचर्यया ।परीष्ट्याराधनोपास्तिः शुश्रूषा वरिवस्यया ॥ १६२ ॥
4.162 · p. 122
अनुष्टुप्
भक्तिवाच्युपचारोऽपि पद्गपत्तिपदातिकाः ।पदातिः पादचारी च पादातिकपदाजिनौ ॥ १६३ ॥
4.163 · p. 122
अनुष्टुप्
पुरोगोऽग्रसरश्चापि पुरोगाम्यग्रतःसरः ।प्रष्ठः पुरोगमश्चैवाभ्यागतोऽपि विभाव्यते ॥ १६४ ॥
4.164 · p. 122
अनुष्टुप्
प्राघूर्णाभ्यासिकागन्त्वतिथिप्राघुणकाः समाः ।आवेशिकमातिथेय्यातिथ्यं तत्र निगद्यते ॥ १६५ ॥
4.165 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 क (wrong syllable)
अस्तंगते रवौ प्राप्तः सूर्योढः प्राघुणो मतः ।अभ्युत्थानं गौरवं च व्यथकः स्यादरुंतुदः ॥ १६६ ॥
4.166 · p. 122
अनुष्टुप्
मर्मस्पृगथ लोकस्तु प्रजा जन अपीक्षितः ।ग्रामेयकस्तथा ग्राम्यग्रामीणावथ सत्कुले ॥ १६७ ॥
4.167 · p. 122
अनुष्टुप्
[67] प्रख्यातवप्तृकः कुल्योऽभिजातमहाकुले ।कौलेयकः कुलीनोऽपि जात्योऽऽमुष्यायणः पुनः ॥ १६८ ॥
4.168 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अन्ववायः कुलं गोत्रं संतानो जननं तथा ।अन्वयोऽभिजनश्चापि वंशो नार्यां वधूर्वशा ॥ १६९ ॥
4.169 · p. 122
अनुष्टुप्
वनिता वर्णिनी योषा वामा सीमन्तिनी च सा ।महिलाबला तथा योषिद्विशेषास्तत्र केचन ॥ १७० ॥
4.170 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रमदा सुन्दरी रामा भीरुः कान्ता नितम्बिनी ।तद्विशेषा गुणैश्चान्ये यथा तरललोचना ॥ १७१ ॥
4.171 · p. 123
अनुष्टुप्
मत्तेभगमना मानवती लीलावती पुनः ।वामाक्षी तु मृगाक्षी सा तथा स्यादलसेक्षणा ॥ १७२ ॥
4.172 · p. 123
अनुष्टुप्
सुस्मितास्या धनं लीलामानादिः स्यादनेकधा ।विच्छित्तिश्च विलासोऽपि विव्वोको लीलया सह ॥ १७३ ॥
4.173 · p. 123
अनुष्टुप्
किलिकिञ्चितसंज्ञं च ललितं कुट्टिमं समे ।मोट्टायितं तु विहृतं विभ्रमोऽपि निगद्यते ॥ १७४ ॥
4.174 · p. 123
अनुष्टुप्
भेदा दश समख्याताः स्त्रीणां शुभ्रा अलंकृतेः ।भामिनी कोपना वामा मत्ता छेका च वाणिनी ॥ १७५ ॥
4.175 · p. 123
अनुष्टुप्
कनी कन्या कुमारी च नग्निका अरजाः स्मृता ।दृष्टेन रजसा कन्या मध्यमा परिकीर्तिता ॥ १७६ ॥
4.176 · p. 123
अनुष्टुप्
तरुणी [च] चरी तुल्ये युवतौ तलुनी मता ।वरार्हा दिक्करी वर्या स्वयंवरापतिंवरे ॥ १७७ ॥
4.177 · p. 123
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
वधूटी च चिरण्टी स्यात्सुवासिन्यपि कथ्यते ।पत्नी पाणिग्रहीत्री तु गृहा दाराश्च भूमनि ॥ १७८ ॥
4.178 · p. 123
अनुष्टुप्
भार्या सहचरी जाया वधूः क्षेत्रं परिग्रहः ।सधर्मिणी जनी जानिः गृहिणी च तथोच्यते ॥ १७९ ॥
4.179 · p. 123
अनुष्टुप्
द्वितीयोढा कलत्रं स्यात्कुटुम्बिन्यां पुरन्ध्र्यपि ।भ्रातृजाया प्रजावत्यां पुत्रभार्या जनी स्नुषा ॥ १८० ॥
4.180 · p. 124
अनुष्टुप्
परस्परं भ्रातृवर्गकलत्राणि तु यातरः ।वीरभार्या वीरकान्ता कुलबाला कुलस्त्र्यपि ॥ १८१ ॥
4.181 · p. 124
अनुष्टुप्
प्रेयसी हृदयेशा च दयिता प्राणवल्लभा ।कान्ता प्राणसमा चैव प्रेष्ठा प्रणयिनी पुनः ॥ १८२ ॥
4.182 · p. 124
अनुष्टुप्
प्रेयस्याद्या अमी शब्दाः पुंसि स्युर्वरवाचकाः ।पतिर्भर्ता वरः सेक्ता रमणो वरयिता तथा ॥ १८३ ॥
4.183 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 रम (syllable split)
वि[68]वोढा च धवो भोक्ता रुच्यप्राणप्रियौ समौ ।उद्वाहोऽथ विवाहश्चोपयामः पाणिपीडनम् ॥ १८४ ॥
4.184 · p. 124
अनुष्टुप्
दारकर्म तथा पाणिग्रहणं परिणयोऽपि च ।पुत्रिकायाः पतिः प्रोक्तो जामाता पुंसलिङ्गकः ॥ १८५ ॥
4.185 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 1 ग्रह (syllable split)
जारे तूपपतिः पुंसि भुजंगो गणिकापतिः ।सुदायो यौतकं तत्तु हरणं च विभाव्यताम् ॥ १८६ ॥
4.186 · p. 124
अनुष्टुप्
भार्यापती दम्पती तु तथा जायापती समे ।महिषी पट्टराज्ञी स्याद्भोगिन्यो[ऽन्या?] नृपाङ्गना ॥ १८७ ॥
4.187 · p. 124
अनुष्टुप्
स्वतन्त्रा त्वन्यवेश्मस्था सैरन्ध्री शिल्पजीविनी ।संचारिका दूतिका त्वसिक्न्यन्तःपुरचारिणी ॥ १८८ ॥
4.188 · p. 125
अनुष्टुप्
आभीरी तु महाशूद्री जातिपुंयोगयोः समा ।आचार्यी मातुलानी च पुंयोगे प्रोच्यते बुधैः ॥ १८९ ॥
4.189 · p. 125
अनुष्टुप्
आचार्यानी मातुली चोपाध्यायी क्षत्रियी समः ।स्वतः शूद्रा तथाचार्या क्षत्रिया क्षत्रियाण्यपि ॥ १९० ॥
4.190 · p. 125
अनुष्टुप्
कामुक्यां तु वृषस्यन्तीच्छायुक्ताकामुके समे ।पतिव्रता चैकपत्नी सुचरित्रा सती च सा ॥ १९१ ॥
4.191 · p. 125
अनुष्टुप्
असती धर्षिणी पांसुलाविनीतेत्वरी समाः ।पुंश्चली बन्धकी चापि कुलटा स्वैरिणी मता ॥ १९२ ॥
4.192 · p. 125
अनुष्टुप्
वयस्या तु सखी सध्रीच्याली जीवत्पतिः पुनः ।पतिवत्नी तथा रण्डा विश्वस्ता विधवा समाः ॥ १९३ ॥
4.193 · p. 125
अनुष्टुप्
निर्वीरा रमणी सा तु पतिपुत्रविवर्जिता ।शिशुहीना तथाशिश्वी जीवत्तोका तु जीवसूः ॥ १९४ ॥
4.194 · p. 125
अनुष्टुप्
नश्यद्बाला च सा निन्दुः श्मश्रुयुग्नरमालिनी ।अर्धवृद्धाधवा कात्यायिनी साप्यधवा स्मृता ॥ १९५ ॥
4.195 · p. 125
अनुष्टुप्
भिक्षुकी श्रवणा मुण्डा पोटा स्त्री तु नृलक्षणा ।वेश्या पणाङ्गना वारवधूः पण्याङ्गना पुनः ॥ १९६ ॥
4.196 · p. 125
अनुष्टुप्
साधारणस्त्री भुजिष्या रूपाजीवा च लञ्जिका ।गणिकास्वामिनी चुन्दी शम्भली कुट्टिनी समे ॥ १९७ ॥
4.197 · p. 126
अनुष्टुप्
पोटी वोटी तथा दासी चेटी[69] स्यात्कुटहारिणी ।कोटवी नग्निका तुल्या पलिक्नी वृद्धया सह ॥ १९८ ॥
4.198 · p. 126
अनुष्टुप्
रजस्वलाधिरात्रेयी मलिनी पुष्पवत्यवी ।निष्कला पुष्पहीना स्याद्राका कन्या रजोवती ॥ १९९ ॥
4.199 · p. 126
अनुष्टुप्
रजः पुष्पं स्त्रियो धर्म आर्तवं मोहनं रतम् ।सुरतं संप्रयोगश्च संवेशनं रहोरती ॥ २०० ॥
4.200 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
संभोगो ग्राम्यधर्मश्च मैथुनं कामकेल्यपि ।पशुक्रियानिधुवने व्यवायो मिथुनं च तत् ॥ २०१ ॥
4.201 · p. 126
अनुष्टुप्
अन्तर्वत्न्यां गर्भिणी चोदरिणी गर्भवत्यपि ।आपन्नसत्त्वा श्रद्धालुगुर्वी स्याद्दोहदान्विता ॥ २०२ ॥
4.202 · p. 126
अनुष्टुप्
प्रसूतिका प्रजाता च जातापल्या विजातिका ।गर्भे तु गरभस्तुल्यौ भ्रूणो दोहदलक्षणम् ॥ २०३ ॥
4.203 · p. 126
अनुष्टुप्
गर्भशयो जरायूल्बे प्रसवे विजननं स्मृतम् ।उल्बं च कललं प्रोक्तं दोहदं लालसा पुनः ॥ २०४ ॥
4.204 · p. 126
अनुष्टुप्metre not read in every line
श्रद्धया दौहृदं तुल्यं दारको नन्दनः सुतः ।तनयाङ्गजात्मजाः सूनुरुद्वहः पुत्र इत्यपि ॥ २०५ ॥
4.205 · p. 126
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुतायां दुहिता पुत्री तुक्प्रजा तद्द्वयं मतम् ।पुत्रिकायां तथा स्त्रीत्वे तोकापत्यप्रसूतयः ॥ २०६ ॥
4.206 · p. 127
अनुष्टुप्
भ्रातृव्यो भ्रातृपुत्रे तु भ्रात्रीयोऽथ स्वसुः सुते ।जामेयभागिनेयौ तु स्वस्त्रीयकुतपौ समौ ॥ २०७ ॥
4.207 · p. 127
अनुष्टुप्
पुत्रपुत्रे नप्तृपौत्रौ दौहित्रः पुत्रिकासुतः ।प्रपौत्रः प्रतिनप्ता स्यात्तत्पुत्रपरंपरौ ॥ २०८ ॥
4.208 · p. 127
metre not recognisednearly अनुष्टुप्
पैतृष्वस्रीयपैतृष्वसेयौ पितृष्वसुः सुते ।मातृष्वस्रीयमातृष्वसेयौ मातृष्वसुः सुते ॥ २०९ ॥
4.209 · p. 127
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable)
द्वैमातुरो विमात्रेयो द्विमातृजविमातृजौ ।सतीपुत्रे समाख्यातो भाद्रमातुर इत्यपि ॥ २१० ॥
4.210 · p. 127
अनुष्टुप्
सांमातुरस्तथा प्रोक्तः कानीनः कन्यकासुतः ।सौभागिनेय आख्यातः सुभगायाः सुतो बुधैः ॥ २११ ॥
4.211 · p. 127
अनुष्टुप्
परस्त्रीसंभवे तस्मिन्पारस्त्रैणेय उच्यते ।दासीपुत्रे तु दासेरो दासेयोऽपि निगद्यते ॥ २१२ ॥
4.212 · p. 127
अनुष्टुप्
नटीसुतेऽथ नाटेरः कौलटेरोऽसतीसुतः ।औरस्येऽथौरसश्चैव क्षेत्रजो देवराङ्गजे ॥ २१३ ॥
4.213 · p. 127
अनुष्टुप्
[70] गोलकश्च मृते पत्यावमृते कुण्ड एव सः ।एते शब्दाः पुंसलिङ्गाः सगर्भः सोदरः समौ ॥ २१४ ॥
4.214 · p. 127
अनुष्टुप्
भ्राता सहोदरश्चैव समानोदर्यसंज्ञकः ।सोदर्यसहजौ पित्र्यपूर्वजौ वृद्धसोदरे ॥ २१५ ॥
4.215 · p. 127
अनुष्टुप्
कनिष्ठोऽवरजश्चैव यविष्ठोऽप्यनुजः स्मृतः ।जघन्यजः कनीयांश्च यवीयानपि कथ्यते ॥ २१६ ॥
4.216 · p. 128
अनुष्टुप्
पितृव्यस्तु पितुर्भ्राता मातुलो मातृसोदरे ।पत्नीभ्राता मतः श्यालो देवरः पतिबान्धवे ॥ २१७ ॥
4.217 · p. 128
अनुष्टुप्
देवा देवानन्तरं तौ समानार्थप्रकाशकौ ।भगिन्या तु स्वसा जामिर्ननान्दा नन्दिनी पुनः ॥ २१८ ॥
4.218 · p. 128
अनुष्टुप्
पत्नीज्येष्ठस्वसा ज्येष्ठश्वश्रूः सा च कुली मता ।श्यालिका यन्त्रिणी लध्वी हालिका केलिकुञ्चिका ॥ २१९ ॥
4.219 · p. 128
अनुष्टुप्
क्रीडा खेला नर्मकेली परिहासद्रवावपि ।वर्करो ललनं नर्म देवनं कूर्दनं समे ॥ २२० ॥
4.220 · p. 128
अनुष्टुप्
पिता जनकतातौ तु वप्ता जनयिता समौ ।रेतोधोबीजिनौ चापि पितृतातपितामहौ ॥ २२१ ॥
4.221 · p. 128
अनुष्टुप्
प्रपितामहतत्तातौ स्त्रीत्वे मातामहादयः ।जनन्यम्बा प्रसूर्माता सवित्री जनयित्र्यपि ॥ २२२ ॥
4.222 · p. 128
अनुष्टुप्
उपमाता तु धात्री स्यात्कृमिला तु बहुप्रसूः ।पतिपत्नीजनन्यां तु श्वश्रूरपि विभाव्यते ॥ २२३ ॥
4.223 · p. 128
अनुष्टुप्
श्वशुरश्च तयोस्तातः पितरः पितृपूर्वजाः ।मातामहा मातृवंश्या विशेषोऽयं निरीक्ष्यताम् ॥ २२४ ॥
4.224 · p. 129
अनुष्टुप्
भ्राता च भगिनी चापि भ्रातरावेकशेषतः ।पुत्रश्च पुत्रिका चापि पुत्रौ वा पुत्रिकासुतौ ॥ २२५ ॥
4.225 · p. 129
अनुष्टुप्
समौ पिता च माता च पितरावेकशेषतः ।बान्धवः स्वजनो ज्ञातिः सगोत्रः स्वनिजावपि ॥ २२६ ॥
4.226 · p. 129
अनुष्टुप्
बन्धुः स्वकीय आत्मीयः सपिण्डास्तु सनाभयः ।नपुंसकं क्लीबषण्ढौ पण्डो देहे पुरं वपुः ॥ २२७ ॥
4.227 · p. 129
अनुष्टुप्
विग्रहः संचरो वेरं मूर्तिः कायघनावपि ।क्षेत्रगात्रशरीराणि वर्ष्मसंहनने समे ॥ २२८ ॥
4.228 · p. 129
अनुष्टुप्
इन्द्रियायतनं बन्धोऽघनः ? [71] पुद्गलसंज्ञकाः ।तनुः करणमाख्यातं मृतवर्ष्म कलेवरम् ॥ २२९ ॥
4.229 · p. 129
अनुष्टुप्
शवः कुणपनामाथ कबन्धो रुण्डमित्यपि ।अपशीर्षं क्रियायुक्तं मृतकं तु विभाव्यताम् ॥ २३० ॥
4.230 · p. 129
अनुष्टुप्
देहलक्षणसामुद्रे प्रतीकोऽवयवः समौ ।अङ्गेऽपघनश्चैकदेशस्तत्र निगद्यते ॥ २३१ ॥
4.231 · p. 129
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 अ (syllables merged)
वराङ्गं मस्तकं मूर्धोत्तमाङ्गं शिर इत्यपि ।करणत्राणशीर्षे च मस्तिकं कं नपुंसके ॥ २३२ ॥
4.232 · p. 129
अनुष्टुप्
मुण्डं मौलिः कचाः केशास्तीर्थवाकाश्च कुन्तलाः ।वालाः स्युश्चिकुरास्तुल्या रचना भार उच्चयः ॥ २३३ ॥
4.233 · p. 130
अनुष्टुप्
हस्तः पाशः कलापश्च पक्षः केशचयोऽपि च ।कर्करालालकौ तुल्यौ चूर्णकुन्तलखङ्खरौ ॥ २३४ ॥
4.234 · p. 130
अनुष्टुप्
कुरुलो भ्रमरकस्तुल्यौ भाले स्याद्भ्रमरालकः ।बद्धकेशेषु धम्मिल्लः केशवेषे कबर्यपि ॥ २३५ ॥
4.235 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्रवेणी वेणिका तुल्ये सीमन्तो वर्त्मके समम् ।पलितं तु धवलः केशः केशपाशी शिखा समे ॥ २३६ ॥
4.236 · p. 130
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
काकपक्षस्तु बालानां शिखण्डकशिखाण्डकौ ।मुखं तु लपनं वक्त्रं तुण्डमास्यानने समे ॥ २३७ ॥
4.237 · p. 130
अनुष्टुप्
ललाटेऽमिकभाले तु गोध्यलीके समे उभे ।श्रोत्रं कर्णः श्रुतिः शब्दाधिष्ठानं श्रवसा सह ॥ २३८ ॥
4.238 · p. 130
अनुष्टुप्
ध्वनिग्रहो महानादपैञ्जूषौ श्रवणं तथा ।भालश्रवोऽन्तरे शङ्खो वेष्टनं कर्णशष्कुली ॥ २३९ ॥
4.239 · p. 130
अनुष्टुप्
नयनं लोचनं नेत्रमम्बकं दृष्टिचक्षुषी ।अक्षीक्षणे तथा दृक्च तारायां स्यात्कनीनिका ॥ २४० ॥
4.240 · p. 130
अनुष्टुप्