भद्रा
bhadrāस्त्री · fem.In 16 kośas: 39 synonym verses, 5 as a nānārtha head word, 6 as a meaning of another word.
अवतोका स्रवद्गर्भा भद्रा गौर्गोमतल्लिका ।अचण्डी सूरता प्रोक्ता वत्सकामा तु वत्सला ॥ २७० ॥
अनुष्टुप्
genderस्त्रीfem.
एकादशी तिथिर्नन्दा षष्ठी च प्रतिपत्तथा ।द्वितीया सप्तमी भद्रा गदिता द्वादशी बुधैः ॥ ९४ ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रा दारुहरिद्रान्या स्थिररागा पचंपचा ।कटंकटेरी पर्जन्या दार्वी कामवती च सा ॥ २१२ ॥
अनुष्टुप्
genderस्त्रीfem.
यचोग्रगन्धा गोलोमी जटिला लोमशा च सा ।रक्षोघ्नी विजया भद्राथ श्वेता विजया च सा ॥ ३५६ ॥
अनुष्टुप्
genderस्त्रीfem.
कुरुविन्दी भद्रमुस्ता वाराही क्रोडवल्लभा ।गुन्द्रा कसेरुर्भद्रापि मेधाह्वा स्यात् द्वयोरपि ॥ ३८८ ॥
अनुष्टुप्
genderस्त्रीfem.
निकुम्भी तु श्योनघण्टा नागस्फोता च रेचनी ।भद्रारूक्षा पवित्रा स्यादनुकूला विशोधनी ॥ ३९६ ॥
अनुष्टुप्
genderस्त्रीfem.
भिषग्भद्रावर्त्तका च भद्रा दन्ती जयावहा ।क्षराङ्गी सारकस्त्वस्त्री जयपालोऽपि रेचकः ॥ ३९८ ॥
अनुष्टुप्
genderस्त्रीfem.
श्रीपर्णी सर्वतोभद्रा हीरा भद्रा च कट्फला ।भद्रपर्णी सीधुपर्णी कम्भारी कुमुदा पुनः ॥ १६७ ॥
अनुष्टुप्
genderस्त्रीfem.
मङ्गलापि तपस्वीष्टा मेध्या दुरितपावनी ।सुभद्रा शङ्कुकलिका भद्रासक्तुफली शिवा ॥ ३१२ ॥
अनुष्टुप्
genderस्त्रीfem.
दुर्मरा भार्गवी भद्राऽनन्ता दिव्या सितच्छदा ।गौरा विघ्नेशानकान्ताऽमृता स्वच्छेक्षुपर्विका ॥ ३५३ ॥
अनुष्टुप्
genderस्त्रीfem.
जीवपुष्टा जीवदात्री जीवभद्रा सुपुङ्गला ।शाकश्रेष्ठा च शृङ्गाटी भद्रा माङ्गल्यदा च सा ॥ ३८९ ॥
अनुष्टुप्
genderस्त्रीfem.
नीलिनी नीलपुष्पी च श्राफलाग्न्येलमोचिका ।कृष्णला रजनी भद्रा भारवाही महाबला ॥ ४८१ ॥
अनुष्टुप्
genderस्त्रीfem.
दिवाव्ययं याममालो व्युष्टांशश्चाथ पञ्च ताः ।नन्दा भद्रा जया रिक्ता पूर्णाः सप्तापि ताः क्रमात् ॥ ३ ॥
अनुष्टुप्
genderस्त्रीfem.
तैतलं गरं वणिजं भद्रा विष्टिरुभे स्त्रियौ ।पञ्चम्यास्तु ववादि स्युर्यावत् कृष्णचतुर्दशी ॥ १३ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
तारा महाश्रीरोंकारा वसुधारा धनप्रदा ।सुदूरवासिनी भद्रा वेश्या नीलसरस्वती ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
भौमी जाम्बती भामा सत्या भद्रा च लक्ष्मणा ।कालिन्दीमित्रविन्दादिपतिपर्याय इत्यपि ॥ २४ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 भौ (syllables merged)
genderस्त्रीfem.
धारा परम्परा गुन्द्रा छत्रा दंष्ट्रा च भस्त्रया ।प्रतिसीरा च मथुरा मात्रा भद्रा च मन्दुरा ॥ २७ ॥
अनुष्टुप्
genderस्त्रीfem.
अश्वयुज्यामुप्तधान्ये स्यादाश्वयुजकं त्रिषु ।प्रतिपत्प्रभृतीनां स्यात्तिथीनां पञ्चके क्रमात् ।नन्दा भद्रा जया रिक्ता पूर्णाग्रेऽप्येवमुन्नयेत् ॥ ७२ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
विष्टिस्तु भद्रा कल्याणी पञ्चाङ्गं धर्मलोचनम् ।तिथि-वासर-नक्षत्र-योग-तिथ्यर्द्धपञ्चके ॥ ७५ ॥
अनुष्टुप्
genderस्त्रीfem.
महावल्कः स्त्रियां कुम्भी महाकुम्भी प्रचेतसा ।म[[25a]हाकषायोग्रगन्धा भद्रा भद्रवती तथा ॥ ८९ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
श्रीपर्णी सर्वतोभद्रा गम्भारी काश्मरी हिरा ।काश्मीरी मधुपर्णी च हीरा भद्रा विदारिका ॥ ६० ॥
अनुष्टुप्
genderस्त्रीfem.
कृष्णमूला तु सा श्यामा भद्रा चन्दनगोपिका ।कालिन्दी चन्दना कृष्णवल्ली कालानुसार्यपि ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
भारद्वाजी च भद्राथ कार्पासो बादरः पिचुः ।पिचव्यस्तूलमप्यस्याः सूत्रेथ वरतिक्तकः ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
दीर्घरङ्गा च पिञ्जा च भद्रा रोमशमूलिका ।योषित्प्रिया तुरंगा च जयन्ती विषनाशिनी ॥ ९८ ॥
अनुष्टुप्
genderस्त्रीfem.
जारजा त्वमृते पत्यौ कुण्डी भवति कन्यका ।पारस्त्रैणः पारशवः पारस्त्रैणेय इत्यपि ॥परस्त्रीजेऽथ कानीनः कन्याया उदितः सुतः ।स्याद्भद्रा मातृसंबुद्धौ मात्रा श्लाघ्यत्वसूचने ॥सौभागिनेयः सुभगापुत्रो दौर्भागिनेयकः ।दुर्भगानन्दनोऽथ स्यात्कैशिन्यः केशिनीसुतः ॥ ७३ ॥
अनुष्टुप्
genderस्त्रीfem.
यात्रा मात्रा चित्रा छत्राभस्त्रा भद्रा क्षुद्रा मुद्राः ।इन्द्रा गुन्द्रा वध्री धाराधीरा कारा कस्तूरी च ॥ ६७ ॥
metre not recognised
genderस्त्रीfem.
कट्फले तु सोमवल्कः कैडर्यो गोपभद्रिका ।कुम्भी कुमुदिका भद्रा श्रीपर्णी भद्रवत्यपि ॥ १४८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 तु (wrong syllable)
genderस्त्रीfem.
कार्पास्यां तु समुद्रान्ता बदरा तुण्डिकेर्यपि ।सा तु वन्या भारद्वाजी भद्रा चन्दनबीजिका ॥ १५७ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
genderस्त्रीfem.
नागजिह्वाथ सा कृष्णा भद्रा चन्दनशारिवा ।भद्रवल्ली कृष्णवल्ली चन्दनोत्पलशारिवा ॥ ३१४ ॥
अनुष्टुप्
genderस्त्रीfem.
नैचकी गौर्गृहश्रेष्ठा भद्रा गौर्गोमतल्लिका ।काल्योपसर्या प्रजनी पलिक्नी बालगर्भिणी ॥ ८७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रतिसीरा दशा भद्रा भस्त्रा छत्रा कशा कुशा ।यात्रा मात्रा बला माला दंष्ट्रा लीला च शङ्कुला ॥ ५५ ॥
अनुष्टुप्
genderस्त्रीfem.
शमी भद्रा सूक्ष्मपत्रा शुभा रामप्रियङ्करी ।वर्चूरः शृङ्गिफलको दृढबीजस्त्रिकण्टकः ॥ १६० ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रा स्यात् सर्वतो भद्रा काश्मरी कश्मरीति च ।अथ द्वयोस्तु कर्कन्धुः कर्कन्धूर्वदरोऽपि च ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रालपत्रिका भद्रा भद्राली भलभा लता ॥
genderस्त्रीfem.
श्रीभद्रो भद्रको भद्रा गुन्द्रा च भद्रमुस्तकम् ।उच्चटा चक्रला चूडा चूडाला चेचुडा भये ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
genderस्त्रीfem.
पुष्पवीर्या त्वतिबला सहा भद्रा बलेत्यपि ।भारती तुलसी सेव्या पालिनी विष्णुवल्लभा ॥ ५९४ ॥
अनुष्टुप्
genderस्त्रीfem.
तारिणी च जयाऽनन्ता शिवा लोकेश्वरात्मजा ।खदूरवासिनी भद्रा वेश्याली च सरस्वती ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
गोपा तु शारिवा भद्रा नागजिह्वा सुगन्धिका ।ज्योतिष्मत्यां पीतरसा लगणा कटभींगुदी ॥ १३९ ॥
अनुष्टुप्
genderस्त्रीfem.
नैचिकी गौर्गवां श्रेष्ठा भद्रा गौर्गोमतल्लिका ।काल्योपसर्या प्रजने पलिक्नी बालगर्भिणी ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
भद्रं मुस्तकसाधुनोः सुतसुखश्रेष्ठेषु भद्रा पुन-र्गम्भारीजघनेफलासुरसरिद्रास्नार्धचन्द्रासु च ।भद्रो मेरुकदम्बके च वृषभे भद्रस्तथा खञ्जनेभद्रः कुञ्जरजातिभेदकरणे भद्रं स्मृतं मङ्गलम् ॥
शार्दूलविक्रीडितम्
तेषां द्वितीयतिथिषु भवस्तु प्राप्तिसत्तयोः ।शम्भौ जन्मनि संसारे शुभेऽप्याह तु सज्जनः ॥ ८८२ ॥
अनुष्टुप्
meaningsद्वितीयतिथि
doubtful
पुंसि क्लीबं शातकुम्भे तथा मङ्गलमुस्तयोः ।स्त्रियां कृष्णा व्योमगङ्गारास्नाप्रसारिणीषु ॥
metre not recognised
doubtful
कट्फलायामनन्तायां तथा तिथिभिदि स्त्रियाम् ।त्रिषु साधुश्रेष्ठयोः स्यान्नपुंसि करणान्तरे ॥भारी हरौ वीवधे स्यात्पलानां द्विसहस्रके ।भीरुस्त्रिलिङ्ग आगर्ते स्यात् स्त्रियां मेववस्त्रिषु (?) ॥भूरि क्लीबं काञ्चने स्यात्प्रचुरेऽपि च वाच्यवत् ।पुमान् विष्णौ महादेवे परमेष्ठिनि वासवे ॥
अनुष्टुप्
doubtful
भद्रा as a meaning in nānārtha verses
- कोषकल्पतरु अञ्जलितरुणीनामनि तु स्त्री[ग]न्धोली स्त्री वरट्यां स्यात् । भद्राशच्योश्च कुडवकरसंपुटयोस्तथाञ्जलिः पुंसि ॥ ६९ ॥ Koṣakalpataru 6.28.69
- नानार्थार्णवसंक्षेप गन्धालीभद्राशट्योस्तु गन्धालीत्येतद्रभसभाषितम् । गुडूची(त्य?त्व)मृतानाम्नि वल्ल्या कुस्तुम्बुरुण्यपि ॥ २६ ॥ Nānārthārṇavasaṃkṣepa 3.1.26
- शिवकोष कुम्भीकुम्भं त्रिवृद्गुग्गुलयोर्भद्रास्थालीहठे स्त्रियाम् । रम्भा तु मृत्युपुष्पायां स्याद्रम्भः षट्पदालये ॥ ३२३ ॥ Śivakoṣa 19.1.323
- शिवकोष ?भद्रानन्तारसागोपीकृष्णाहिंस्राम्ललोणिषु । सारिण्यां कट्फले क्लीबं बिम्बाम्बुदमहोत्पले ॥ ३८६ ॥ Śivakoṣa 22.2.386
- तन्त्राभिधान एयोषिदाधारशक्तिश्च त्रिकोणा ईशसंज्ञकः । सन्धिरेकादशी भद्रा पद्मनाभः कुलाचलः ॥ ३७ ॥ Tantrābhidhāna 2.12.37
- तन्त्राभिधान अःअः कण्ठको महासेनः कला पूर्णामृता हरिः । इच्छा भद्रा गणेशश्च रतिर्विद्या सुखं मुखम् ॥ ५३ ॥ Tantrābhidhāna 2.17.53