पार्ष्णी
pārṣṇīस्त्री · fem.In 2 kośas: 2 synonym verses, 1 as a nānārtha head word.
द्वयोरधस्ताद्घुटयोः पार्ष्णी पार्ष्णिरपि स्त्रियाम् ।द्वयोर्घुटो घुण्टिकोथ पदोऽस्त्री चरणोऽपि पात् ॥ २१७ ॥
अनुष्टुप्
genderस्त्रीfem.
प्रत्यासारो द्वयोः पार्ष्णिः सैन्यपृष्ठं प्रतिग्रहः ।प्रतिग्रहोऽपि पुंसि स्यात्पार्ष्णी प्रत्यासरोऽपि च ॥ २५५ ॥
अनुष्टुप्
genderस्त्रीfem.
क्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् ।चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः ।झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च ।तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके ।द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् ।तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च ।क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च ।स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 गु (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 ष्क (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 भा (wrong syllable)
meanings