All kośas › Kalpadrukośa
कल्पद्रुकोशः Kalpadrukośa
4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)
भूमिस्कन्धः · नरादिप्रकाण्डः (2/4)
अनद्धापुरुषो माषो जडकाण्डोऽप्यनेडकः ।शीतोलसोप्यनुष्णः स्यादनेडो मातृशासितः ॥ १२१ ॥
1.4.121 · p. 33
अनुष्टुप्
नासान्तराशब्दवृत्तिर्गुक्कणो निह्मणोऽपि च ।अथापि स्यात्प्रलम्बाण्डो मुष्करः पुंसि मुण्डितः ॥ १२२ ॥
1.4.122 · p. 33
अनुष्टुप्
व्युप्तकेशस्त्रिष्वथ स्याद्भर्ता वरयिता वरः ।धर्मकीलो रतगुरुः प्राणनाथः पतिः प्रियः ॥ १२३ ॥
1.4.123 · p. 34
अनुष्टुप्
रमोभरुश्च यामाता जामाता रमणो धवः ।कान्तः सुखोत्सवश्चापि हृदयेशोऽथ जारके ॥ १२४ ॥
1.4.124 · p. 34
अनुष्टुप्
पापार्थात्पतिपर्याय उपात्पत्यर्थ इत्यपि ।भ्रातृपर्यायपुत्रार्थो भ्रातृव्यः स्वरितोऽह्ययम् ॥ १२५ ॥
1.4.125 · p. 34
अनुष्टुप्
भ्रातृव्योऽपि श्लिकुतमस्तस्य पुत्रः कुलर्द्धिकः ।न द्वयोर्युगलं युग्मं द्वन्द्वं युगलमित्यपि ॥ १२६ ॥
1.4.126 · p. 34
अनुष्टुप्
जटुकः कालकश्चापि पिप्लुश्च तिल इत्यपि ।क्षेत्रं कलेवरं क्लीबे पिण्डोऽस्त्री विग्रहः पुमान् ॥ १२७ ॥
1.4.127 · p. 34
अनुष्टुप्
क्लीबे वपुः संहननं पुद्गलं वर्ष्म मूर्त्तिमत् ।पुरं षडङ्गं करणं सूत्रशाखं शितं कुलम् ॥ १२८ ॥
1.4.128 · p. 34
अनुष्टुप्
व्याधिपर्यायस्थानार्थं स्त्रियां मूर्तिस्तनुस्तनूः ।पुरी पूरस्त्रियां पुंसि पञ्जरो घन इत्यपि ॥ १२९ ॥
1.4.129 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
अङ्गं क्लीबे तनुः सान्तं गात्रं पञ्जरमस्त्रियाम् ।स्कन्धश्च संचरो न स्त्री शरीरं कायमस्त्रियाम् ॥ १३० ॥
1.4.130 · p. 34
अनुष्टुप्
देहोऽस्त्री स्थानकं बेरं पुंस्यात्मा चाथ न द्वयोः ।गात्राङ्गे पुंस्यवयवः प्रतीकोपघनोऽपि च ॥ १३१ ॥
1.4.131 · p. 34
अनुष्टुप्
उत्तमाङ्गं शिरः शीर्षं कं शिरं मस्तकोऽस्त्रियाम् ।मूर्द्धा पुंसि च मुण्डोऽस्त्री मस्तिकोऽपि कमव्ययम् ॥ १३२ ॥
1.4.132 · p. 35
अनुष्टुप्
द्वयोर्मौलिः कपालं षण् केशपर्यायभूरपि ।शिरसोरुड्रुहभवपर्यायाश्चिकुराः कचाः ॥ १३३ ॥
1.4.133 · p. 35
अनुष्टुप्
द्वयोर्वाला वेल्लिताग्राः केशकन्तारकुन्तलाः ।हस्तः पक्षः कलापश्च भार उच्चय इत्यपि ॥ १३४ ॥
1.4.134 · p. 35
अनुष्टुप्
केशपर्यायतश्चैते केशभूयस्त्ववाचकाः ।अलकोऽस्त्री कर्करालः खंखणश्चूर्णकुन्तलः ॥ १३५ ॥
1.4.135 · p. 35
अनुष्टुप्
भाले भ्रमरकोऽस्त्री स्यात् कुरुलो भ्रमरालकः ।धम्मिल्लः संयताः केशाः केशवेशे कवर्यपि ॥ १३६ ॥
1.4.136 · p. 35
अनुष्टुप्
कर्वर्यथ स्त्रियां वेणिर्वेणी च विशदे कचे ।शीर्षण्यश्च शिरस्यश्च प्रलोभ्योऽपि त्रयस्त्रिषु ॥ १३७ ॥
1.4.137 · p. 35
अनुष्टुप्
केशेषूपरि मालस्य वर्त्म सीमन्तकः पुमान् ।चूडा केशी केशपाशी शिखा पुंसि शिखण्डकः ॥ १३८ ॥
1.4.138 · p. 35
अनुष्टुप्
सबालानां काकपक्षः शिखण्डिकशिखाण्डकौ ।सटा जटा प्ता व्रतिनो लग्नास्ते ये परस्परम् ॥ १३९ ॥
1.4.139 · p. 35
अनुष्टुप्
वक्त्रास्ये वदनं तुण्डमाननं लपनं पुनः ।वेरं घनोत्तरं स्नेहरसनं मुखमस्त्रियाम् ॥ १४० ॥
1.4.140 · p. 35
अनुष्टुप्
दन्तपर्यायसद्मार्थमथ स्याद्भालमस्त्रियाम् ।महाशंखश्च शंखश्च कपालोप्यस्त्रियाममी ॥ १४१ ॥
1.4.141 · p. 36
अनुष्टुप्
स्त्री गोधिरलिकालीकललाटानि श्रुतिः स्त्रियाम् ।पिज्जूषश्रवणावस्त्री क्लीबे श्रोत्रं श्रवः पुनः ॥ १४२ ॥
1.4.142 · p. 36
अनुष्टुप्
शब्दाधिष्ठानपर्यायो ध्वनिपर्यायतो ग्रहः ।श्रोत्रं स्यादपि च क्लीबे श्रोतः श्रवसमित्यपि ॥ १४३ ॥
1.4.143 · p. 36
अनुष्टुप्
पुंसि कर्णो महानादो वेष्टेस्य कर्णशष्कुली ।तयोः प्रान्तस्तु धारा स्त्री तन्मूले शिलकं च षण् ॥ १४४ ॥
1.4.144 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्य (wrong syllable)
पालिः स्त्री कर्णलतिका शंखोऽस्त्री भ्रूश्रवोन्तरा ।विलोचनं चक्षुरक्षि लोचनं नयनाम्बके ॥ १४५ ॥
1.4.145 · p. 36
अनुष्टुप्
ज्योतिश्च देवदीपो ना रूपपर्यायतो ग्रहः ।अस्त्रियामीक्षणं नेत्रं स्त्रियां दृष्टिश्च गौरपि ॥ १४६ ॥
1.4.146 · p. 36
अनुष्टुप्
दृशी दृक् स्याद्दृशिरपि स्त्रियां क्लीबे च दर्शनम् ।तारकास्त्र्यस्त्रियां तारा बिम्बिन्यक्ष्णः कनीनिका ॥ १४७ ॥
1.4.147 · p. 36
अनुष्टुप्
वामं सौम्यं तदितरत्सौरं स्यादथ वीक्षणम् ।निशामनं निभालनं निध्यानमवलोकनम् ॥ १४८ ॥
1.4.148 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 ल (wrong syllable)
दर्शनं द्योतनं निर्वर्णनं चाथार्द्धवीक्षणम् ।उपाङ्गदर्शनं काक्षः कटाक्षोऽक्षि विकूणितम् ॥ १४९ ॥
1.4.149 · p. 36
अनुष्टुप्
नेत्रार्थादम्बुपर्यायं बाष्पास्रावश्रु रोदनम् ।नालोतम स्त्रियामक्ष्णोरूर्ध्वं ये रोमपद्धती ॥ १५० ॥
1.4.150 · p. 37
अनुष्टुप्
भ्रुवौ स्त्रियां चिल्लिका स्यादस्त्रियां कूर्चकूर्पके ।नेत्ररोमणि पक्ष्मास्त्री निमेषनिमिषौ समौ ॥ १५१ ॥
1.4.151 · p. 37
अनुष्टुप्
मुद्रणेथोद्घाटने स्यादुन्मेषश्चोन्मिषश्च सः ।घोणा विकूणिका नस्या नासिका सिङ्घिनी च सा ॥ १५२ ॥
1.4.152 · p. 37
अनुष्टुप्
गन्धनाडी गन्धवहा गन्धज्ञा गन्धनालिका ।विकूणिका नभाः क्लीबे घ्राणं नो नर्कनर्कुटे ॥ १५३ ॥
1.4.153 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ग (wrong syllable)
नासा नक्का नसापि स्यात्तज्जे नासिक्यमित्यपि ।ओष्ठोऽधरश्च दन्तार्थाद्वस्त्रच्छदनयोरपि ॥ १५४ ॥
1.4.154 · p. 37
अनुष्टुप्
पर्यायो वाचः पर्यायाद्दलपर्याय इत्यपि ।तयोः प्रान्ते सृक्कसृकिसृक्काणि सृक्कणीति च ॥ १५५ ॥
1.4.155 · p. 37
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 चः (wrong syllable); pāda 4, syllable 3 णि (wrong syllable)
तयोरधोसिकं तस्मादधस्तु चिबुकं चिबुः ।सृक्कणस्तु परोगल्लस्तत्परः स्यात्कपोलकः ॥ १५६ ॥
1.4.156 · p. 37
अनुष्टुप्
हनुर्द्वयोर्हनू स्त्रीत्वे श्मश्रु षण् व्यञ्जनं हिनुः ।कूर्चमस्त्री पुमान्घोट आस्यलोम च भासुरी ॥ १५७ ॥
1.4.157 · p. 37
अनुष्टुप्
दाढिका दंष्ट्रिका दाढा द्राढास्ताश्चर्वणार्थकाः ।दन्ता वक्त्रखुरा जम्भा हालवो रदना द्विजाः ॥ १५८ ॥
1.4.158 · p. 37
अनुष्टुप्
दतो रदा भक्षमल्लाः खरवोदंशका रथाः ।पुंसि क्लीबे च दशनाश्चत्वारस्तेषु मध्यगाः ॥ १५९ ॥
1.4.159 · p. 38
अनुष्टुप्
राजदन्तौ श्रेणिकौ द्वावधश्चोपरितः स्थितौ ।स्त्रियां क्लीबे च रसना रसाला रसना रसा ॥ १६० ॥
1.4.160 · p. 38
अनुष्टुप्
रसिकापि च लोलार्था जिह्वाप्यमृतवर्षिणी ।रसमाता च काकुत्स्त्री तालु क्लीबे च काकुदम् ॥ १६१ ॥
1.4.161 · p. 38
अनुष्टुप्
अपि वक्त्रदलं चाथ घण्टिका गलशुण्डिका ।सुधास्रवा लम्बिका स्यादन्याधो मूलजिह्विका ॥ १६२ ॥
1.4.162 · p. 38
अनुष्टुप्
प्रत्युपाभ्यां जिह्विका स्याच्छिरोधिरपि कन्धरा ।ग्रीवापि धमनिः सा तु त्रिरेखालङ्कृता यदि ॥ १६३ ॥
1.4.163 · p. 38
अनुष्टुप्
कम्बुपर्यायग्रीवार्था स्त्रियां घाटा कृकाटिका ।अवटुश्चावटोऽपि स्यादस्त्रियां च कृकः पुमान् ॥ १६४ ॥
1.4.164 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 य (wrong syllable)
वीतनौ कृकपार्श्वस्थौ धमनी ग्रीवयोः पुरः ।नीलः पुमांस्तयोः पश्चात् स्त्रियां मन्या कदम्बिका ॥ १६५ ॥
1.4.165 · p. 38
अनुष्टुप्
अस्त्री निगरणः कण्ठो गलः स्यादथ तन्मणिः ।अस्त्रियां काकलं चाथ क्लीबे भुजशिरः पुमान् ॥ १६६ ॥
1.4.166 · p. 38
अनुष्टुप्
स्कन्धोंसोस्त्री पुमान्स्कन्धो बाह्वर्थाच्छिखरं तयोः ।संधीउरोंसगे स्यातां जत्रुणी तदधः स्त्रियाम् ॥ १६७ ॥
1.4.167 · p. 38
अनुष्टुप्
कक्षा क्लीबे बाहुमूलं तदधः पार्श्वमस्त्रियाम् ।विलग्नं मध्यमं मध्यमवलग्नं च न स्त्रियाम् ॥ १६८ ॥
1.4.168 · p. 39
अनुष्टुप्
दोरस्त्रियां स्त्रियां दोषा भुजापि स्याद्भुजः पुमान् ।प्रवेष्टो नाकुलिर्बाहुर्बाहा बाहू स्त्रियां पुमान् ॥ १६९ ॥
1.4.169 · p. 39
अनुष्टुप्
कपोणिः कपणिः पुंसि कफणी कफणिः स्त्रियौ ।कफोणिश्च कफाणिश्च द्वावेतौ पुंस्यपि स्त्रियाम् ॥ १७० ॥
1.4.170 · p. 39
अनुष्टुप्
कूर्परं तदधः पुंसि प्रगण्डस्तदधः पुमान् ।मणिबन्धो मणिश्चास्त्री तदधस्तु प्रकोष्ठकः ॥ १७१ ॥
1.4.171 · p. 39
अनुष्टुप्
मणिबन्धादाकनिष्ठं करस्य करभो बहिः ।पञ्चशाखः शयः पाणिः करो हस्तः शलः करिः ॥ १७२ ॥
1.4.172 · p. 39
अनुष्टुप्
अङ्गुलिः करशाखा स्यादङ्गुलीयाङ्गुलीत्यपि ।अङ्गुरिः करवीरो नाप्यङ्गुष्ठोऽङ्गुल इत्यपि ॥ १७३ ॥
1.4.173 · p. 39
अनुष्टुप्
प्रदेशिनी तर्जनी स्यान्मध्या ज्येष्ठा च मध्यमा ।आनामिका स्यात्सावित्री कनिष्ठा तु कनीनिका ॥ १७४ ॥
1.4.174 · p. 39
अनुष्टुप्
तन्मध्यसंधिर्ग्रन्थिः स्त्री क्लीबे पर्व परुः पुनः ।यदङ्गुष्ठाङ्गुलीमध्ये तत्स्यात्क्षिप्रं पुनस्ततः ॥ १७५ ॥
1.4.175 · p. 39
अनुष्टुप्
तले धनादिसूचिन्यो रेखाः पर्यायगोचराः ।करस्याधः प्रपाणिर्ना तस्याधस्तु तलं च षण् ॥ १७६ ॥
1.4.176 · p. 39
अनुष्टुप्
स्यात्पाण्यङ्गुलिपर्यायजार्थः कामाङ्कुशोऽपि च ।महाराजः कररुहः करकण्टपुनर्नवौ ॥ १७७ ॥
1.4.177 · p. 40
अनुष्टुप्
कराग्रजः करशूकोनखोऽस्त्री नखरस्त्रिषु ।संपिण्डिताङ्गुलिः पाणिर्मुष्टिर्ना मुचुटिः स्त्रियाम् ॥ १७८ ॥
1.4.178 · p. 40
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
काहिर्ना मुस्तुसंग्राहौ खटकस्त्वर्धमुष्टिकः ।प्रसृतिः कुब्जिते पाणौ चुलका कुञ्चिते पुमान् ॥ १७९ ॥
1.4.179 · p. 40
अनुष्टुप्
अथ सिंहतलः स स्यात्तत्र हस्तेऽर्धमुष्टिते ।पुंस्यञ्जलिस्तु प्रसृती युतेऽङ्गुष्ठे तते पुनः ॥ १८० ॥
1.4.180 · p. 40
अनुष्टुप्
प्रदेशिन्या प्रदेशोपि प्रादेशश्च नराविमौ ।मध्यमावितते तालः सपादैकादशाङ्गुलः ॥ १८१ ॥
1.4.181 · p. 40
अनुष्टुप्
अनामयापि गोकर्णः सपादद्वादशाङ्गुलः ।कनिष्ठया ततेऽङ्गुष्ठे वितस्तिर्द्वादशाङ्गुलः ॥ १८२ ॥
1.4.182 · p. 40
अनुष्टुप्
पुंसि स्त्रियां किष्कुरपि वितस्तिश्च पुनः स्त्रियाम् ।तर्जन्यनामिके श्लिष्टे मध्यमा पृष्ठगा तयोः ॥ १८३ ॥
1.4.183 · p. 40
अनुष्टुप्
करिहस्तोथ कटिका छोटिका द्वे इमे समे ।तर्जन्यङ्गुष्ठयोगोत्थे शब्दे स्यातामथो पुनः ॥ १८४ ॥
1.4.184 · p. 40
अनुष्टुप्
विसृताङ्गुलिके हस्ते चपेटः स्यादपि द्वयोः ।प्रतलश्च प्रहस्तश्च तालिका ताल इत्यपि ॥ १८५ ॥
1.4.185 · p. 40
अनुष्टुप्
हस्ते स्यान्मुष्टितेरत्निर्द्वयोरथ कनिष्ठया ।रहिते स्यादरत्निस्तु ननाव्यामस्तु पुंस्ययम् ॥ १८६ ॥
1.4.186 · p. 41
अनुष्टुप्
वियामो हस्तचापार्थो हस्तबाह्वोर्यदन्तरम् ।तिर्यक् स्यादथ पुरुषप्रमाणो पौरुषं त्रिषु ॥ १८७ ॥
1.4.187 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 द (wrong syllable)
तलाद्यावत्परीमाणे दघ्नद्वयसरूपकौ ।जलादीनां जानु जङ्घा कण्ठादौ तद्वति त्रिषु ॥ १८८ ॥
1.4.188 · p. 41
अनुष्टुप्
घटप्रस्थादिमाने तु मात्रं स्या तद्वति त्रिषु ।अष्टौ तु मुष्ट्यः कुञ्चिर्न द्वयोः किंविरित्यपि ॥ १८९ ॥
1.4.189 · p. 41
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 मु (syllables merged)
द्विगुणं पुष्कलं चैतद्द्विगुणं पूर्णपात्रकम् ।द्रवद्रव्यस्य प्रसृतिश्चुलुकं षण् चुलुः पुमान् ॥ १९० ॥
1.4.190 · p. 41
अनुष्टुप्
उरोहृद्धृदयक्रोडे न ना स्कन्धो भुजान्तरम् ।गुणाधिष्ठानमसहमपि मर्मवरं त्रसम् ॥ १९१ ॥
1.4.191 · p. 41
अनुष्टुप्
क्लीबे वत्सं च वक्षश्च स्तनाधो जठरोपरि ।क्लीबे पृष्ठं च पृष्ठिश्च पृष्ठी च द्वे इमे स्त्रियौ ॥ १९२ ॥
1.4.192 · p. 41
अनुष्टुप्
वक्षःपर्यायरुहरुड्जार्थौ कूचौ कुचावपि ।धरणौ तावुरसिजावुरोजावपि च स्तनौ ॥ १९३ ॥
1.4.193 · p. 41
अनुष्टुप्
पयोधरौ पयोध्रौ च मेचकं पिप्पलं च षण् ।स्तनार्थाच्च मुखं वृन्तं क्लीबे स्तनशिखा स्त्रियाम् ॥ १९४ ॥
1.4.194 · p. 41
अनुष्टुप्
नरि वा चूचुकं चाथो तुन्दिस्तुन्दा पिचण्डकः ।स्त्रियां कुक्षी द्वयोः कुक्षिः पिचिण्डो जठरोऽस्त्रियाम् ॥ १९५ ॥
1.4.195 · p. 42
अनुष्टुप्
उदरं चापि तुन्दश्च मलुकश्च पुमानयम् ।त्रिषु लोमलताधारः कुक्षी उदरपार्श्वगे ॥ १९६ ॥
1.4.196 · p. 42
अनुष्टुप्
नाभिर्द्वयोः स्त्रियां नाभी तुन्तोदिर्दीदिडिः पुमान् ।दरोऽपि स्याच्छिरामूलं देहवृन्तार्थमित्यपि ॥ १९७ ॥
1.4.197 · p. 42
अनुष्टुप्
अपि स्यादुदरावर्तं स्यादथो नाभिकूपिका ।गर्भडो नाभिगुडको नाभिस्थानान्तरागतः ॥ १९८ ॥
1.4.198 · p. 42
अनुष्टुप्
जन्तोरामाशयः पुंसि पुंसि क्लीबेऽपि मध्यमम् ।क्लीबे वलग्नं चाथ स्यात्पृष्ठग्रन्थौ गुडः पुमान् ॥ १९९ ॥
1.4.199 · p. 42
अनुष्टुप्
स्यात्कटिप्रान्तपर्यायः पृष्ठवंशाधरे त्रिकम् ।नाभेरधो मूत्रपुटं बस्तिर्मूत्राशयः पुमान् ॥ २०० ॥
1.4.200 · p. 42
अनुष्टुप्
वातपर्यायशीर्षार्थः स च पक्काशयोन्तरा ।गर्भस्थानं तु तत्स्त्रीणामथ काञ्चीपदं तु षण् ॥ २०१ ॥
1.4.201 · p. 42
अनुष्टुप्
कलत्रं च कटीरोऽस्त्री फलको ना कटिः स्त्रियाम् ।ककुद्मतो द्वयोः श्रोणिः स्त्रियौ श्रोणिकटी कटः ॥ २०२ ॥
1.4.202 · p. 42
अनुष्टुप्
अधो नितम्बः स्त्रीकट्याः पुमान्स च कटीरकः ।तदग्राधः पुनः क्लीबे जघनं चाथ कूपकौ ॥ २०३ ॥
1.4.203 · p. 42
अनुष्टुप्
नाषण् ककुन्दरे फुल्ललिङ्गे ते चरतावुके ।कुकंदरेप्यथ भगो द्वयोर्योनिश्च योन्यपि ॥ २०४ ॥
1.4.204 · p. 43
अनुष्टुप्
अधस्तादव्ययं चापि क्लीबे रतगृहार्थकम् ।कलत्रं स्मरपर्यायगृहं गुह्यं वराङ्गकम् ॥ २०५ ॥
1.4.205 · p. 43
अनुष्टुप्
अस्त्रियां जन्मसंसारपुष्पापत्यार्थतः पथः ।स्मरकूपोधरः संधिरवाच्यविषयार्थकः ॥ २०६ ॥
1.4.206 · p. 43
अनुष्टुप्
अधोऽव्ययं च कुहरं द्वयोः स्त्रीप्रकृतिर्बुलिः ।च्युतिर्वुरिः स्यादथ च तनीयस्तत्र मध्यगः ॥ २०७ ॥
1.4.207 · p. 43
अनुष्टुप्
स्यादङ्कुशो मणिरथ लिङ्गं लाङ्गलमस्त्रियाम् ।शेवशेपौ ध्वजोपस्थौ भगमेढ्रौ च मेहनः ॥ २०८ ॥
1.4.208 · p. 43
अनुष्टुप्
पुंसि लोलः स्मरस्तम्भः कन्दर्पः शङ्कुरित्यपि ।स्त्रियां कामलता क्लीबे शेफः शेपश्च न स्त्रियाम् ॥ २०९ ॥
1.4.209 · p. 43
अनुष्टुप्
शिश्नः क्लीबे व्यञ्जनं स्यान्नरपर्यायलक्ष्म च ।अजः प्रजननं गुह्यं मोहनं पुंस्युपस्थकः ॥ २१० ॥
1.4.210 · p. 43
अनुष्टुप्
अथाण्डकोशः कोशाण्डः पेलः कोशक इत्यपि ।अण्डोऽस्त्री वृषणो मुष्कस्तदधः सीवनी स्त्रियाम् ॥ २११ ॥
1.4.211 · p. 43
अनुष्टुप्
सावीसूत्रं पुनः क्लीबे भगः पुंसि पुरीषणः ।उच्चारः षणधो मर्म पायुः पुंसि च्युतिः स्त्रियाम् ॥ २१२ ॥
1.4.212 · p. 43
अनुष्टुप्
शकृद्द्वारं गुदोऽस्त्री स्फिक् न स्त्रियामासनं च षण् ।अपानं ना कटिप्रोथः स्त्रियामपि चुलिश्च्युतिः ॥ २१३ ॥
1.4.213 · p. 44
अनुष्टुप्
ऊर्वोः संधिर्वक्षणः स्यान्मध्यं वंक्षणमुष्कयोः ।विटपं च महावीथ्यस्त्रियामूरुस्तु सक्थि षण् ॥ २१४ ॥
1.4.214 · p. 44
अनुष्टुप्
अस्त्र्यष्ठीवत्तस्य पर्व वारकीलोथ तस्य तु ।पश्चाद्भागे मन्दिरः स्यात्प्रत्यग्रं तदधः पुनः ॥ २१५ ॥
1.4.215 · p. 44
अनुष्टुप्
कपोली तदधो भागो जङ्घा प्रत्यग्रयोः पुरः ।जङ्घापिण्डी पिचण्डी च जाघनी कुल्फगुल्फकौ ॥ २१६ ॥
1.4.216 · p. 44
अनुष्टुप्
द्वयोरधस्ताद्घुटयोः पार्ष्णी पार्ष्णिरपि स्त्रियाम् ।द्वयोर्घुटो घुण्टिकोथ पदोऽस्त्री चरणोऽपि पात् ॥ २१७ ॥
1.4.217 · p. 44
अनुष्टुप्
पुमान्पादोङ्घ्रिरङ्घ्रिः पत्क्रमणो विक्रमः क्रमः ।तन्मूलं गाहिरं क्लीबे पादाग्रं प्रपदं च षण् ॥ २१८ ॥
1.4.218 · p. 44
अनुष्टुप्
अथ तत्रापि च क्षिप्रमङ्गुष्ठाङ्गुलिमध्यतः ।कूर्चमस्त्री तदुपरि स्कन्धोंह्रिशिर इत्यपि ॥ २१९ ॥
1.4.219 · p. 44
अनुष्टुप्
तलं तु तलहृदयं मध्यं पादतलस्य यत् ।पादन्यासः पदं क्लीबे क्रमः क्रमणमित्यपि ॥ २२० ॥
1.4.220 · p. 44
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 त (wrong syllable)
रसासृग्मांसमेदोऽस्थिमज्जाशुक्राणि धातवः ।सप्तैतेषां क्रमाद्योनी रसादिभ्योप्यथ च्छविः ॥ २२१ ॥
1.4.221 · p. 44
अनुष्टुप्
रसिका स्वेदमाता स्यात् षड्रसात्रेप्यसृग्धरा ।स्यात्त्वचा हारतेजोत्थाप्यस्रमाता वपुःस्रवः ॥ २२२ ॥
1.4.222 · p. 45
अनुष्टुप्
पुंसि क्लीबे च चर्माम्भो रसो नर्यथ शोणितम् ।आसुरं प्राणदं रक्तमाग्नेयं मांसकार्यपि ॥ २२३ ॥
1.4.223 · p. 45
अनुष्टुप्
स्यादस्रं रुधिरं शोणं वर्मजं लोहलोहिते ।कीलालं क्षतजं विस्रमसृक् चर्मसमुद्भवम् ॥ २२४ ॥
1.4.224 · p. 45
अनुष्टुप्
तेजस्त्वक् क्षतजन्मार्थं काश्यपं मांसजो रसः ।मांससारोप्यथो मांसं पिशितं क्रव्यमामिषम् ॥ २२५ ॥
1.4.225 · p. 45
अनुष्टुप्
पललं जंगलं कीरं लेपनं मारदं पलम् ।अस्रपर्यायजन्मार्थं तरसं जाङ्गलं घसम् ॥ २२६ ॥
1.4.226 · p. 45
अनुष्टुप्
वासिष्ठं रक्ततेजोजं कीनं मेदस्कृदित्यथ ।पृक्का तु तल्लता पेशी हृदयं सुरसं च हृत् ॥ २२७ ॥
1.4.227 · p. 45
अनुष्टुप्
वुक्कस्त्रिषु यकृत् क्लोम ताड्यं क्लपुषमित्यपि ।वल्लूरं त्रिषु षण्मुष्कमांसं सरसमुत्तमम् ॥ २२८ ॥
1.4.228 · p. 45
अनुष्टुप्
गौतमं मांसतेजोजं हृन्मेदः स्त्री वसा वपा ।मांसपर्यायतः स्नेहपर्यायमथ गोदकम् ॥ २२९ ॥
1.4.229 · p. 45
अनुष्टुप्
अस्त्रीशिरोर्थतः स्नेहो मस्तिक्को मस्तुलुङ्गकः ।मेदोजमस्थि कुल्यं स्याद्भारद्वाजं च देहतः ॥ २३० ॥
1.4.230 · p. 45
अनुष्टुप्
अष्ठीलं धारकं मांसपित्तं श्वदयितं पुनः ।कर्करो न पुमान्मज्जाऽप्यस्थिसारः षणस्थिजम् ॥ २३१ ॥
1.4.231 · p. 46
अनुष्टुप्
वाजं तेजः स्त्रियां शुक्रवर्द्धिनी कौशिकीत्यपि ।शुक्रमानन्दजं पुंस्त्वं तेजोवीर्यं च पौरुषम् ॥ २३२ ॥
1.4.232 · p. 46
अनुष्टुप्
स्याद्बीजमिन्द्रियं रेतो रोहणं किट्टर्जितम् ।पुमानन्नविकारः स्यादपि मज्जारसोरसः ॥ २३३ ॥
1.4.233 · p. 46
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शिरसोस्थि करोढिः स्त्री कपालः कर्परोऽस्त्रियाम् ।पृष्ठास्थनि कसेरुस्यात्स्त्रियां क्लीबे सुखंखणः ॥ २३४ ॥
1.4.234 · p. 46
अनुष्टुप्
खट्वाङ्गोपि कसेरुर्ना पर्शूपरशुवक्रयः ।अस्थ्यादौ विषमो देशः स्थपुटं वपुषि स्मृतम् ॥ २३५ ॥
1.4.235 · p. 46
अनुष्टुप्
पुनरप्यथ पार्श्वास्थि स्यात् स्त्रियां पार्श्विका पुनः ।कङ्कालस्त्वस्त्रियामस्थिपञ्जरोऽपि द्वयोरथ ॥ २३६ ॥
1.4.236 · p. 46
अनुष्टुप्
जीवितज्ञा धरा मन्या तन्तुकी धरणी च सा ।स्याच्छिरा धमनिर्नाडी नाडिः षण् सन्धिबन्धनम् ॥ २३७ ॥
1.4.237 · p. 46
अनुष्टुप्
महास्नायुः कण्डरा स्त्री तिस्रस्तासूत्तमा इमाः ।इडा वामे तनोर्मध्ये सुषुम्ना पिङ्गला परे ॥ २३८ ॥
1.4.238 · p. 46
अनुष्टुप्
इत्यादिकाः शिराभेदा विज्ञेया योगशास्त्रतः ।त्वक्त्वचाऽसृग्धरा कृत्तिश्छादिनीरोमभूरपि ॥ २३९ ॥
1.4.239 · p. 46
अनुष्टुप्
क्लीबेऽजिनं देहवर्म चर्म पुंसि महापटः ।रक्ताधारोऽप्यथमलः किट्टेऽस्त्र्यथ तनूरुहम् ॥ २४० ॥
1.4.240 · p. 47
अनुष्टुप्