पृष्ठशृङ्गिन्
pṛṣṭhaśṛṅginपुं · masc.In 2 kośas: 1 synonym verse, 2 as a nānārtha head word.
पृष्ठशृङ्गी भीमसेनो भीमो मारुतनन्दनः ।वृकोदरो हिडिम्बेशो धृतराष्ट्रसुतान्तकः ॥ १४ ॥
अनुष्टुप्
genderपुंmasc.
अमेरुद्रुमभिदो(?)र्ना जम्बुमाली निगद्यते ।स्यात्क्लीबं दन्तशुद्धौ ना खदिरे दन्तधावनः ॥केतुग्रहे हुताशे च स्यात्पुमान् धूमकेतनः ।शिवे सुते च पक्षान्ते मित्रे ना नन्दिवर्द्धनः ॥दाने च प्रतिपत्तौ च बोधने प्रतिपादनम् ।भुजङ्गे च मयूरे च प्रचलाकी भवेत्पुमान् ॥धनदे भास्करे विष्णौ विधौ च पद्मलाञ्छनः ।वाग्देवतायां तारायां पद्मायां पद्मलाञ्छना ॥कालीयके हरिद्रायां न द्वयोः पीतचन्दनम् ।भीमे षेष्ठे च महिष पृष्ठशृङ्गी भवेत्पुमान् ॥देवदारुणि कालीये न द्वयोर्वरचन्दनम् ।स्त्रीरत्नरोचनालाक्षाहरिद्राफलिनीषु च ॥साध्व्यां गौरीसरस्वत्योः पद्यायां वरवर्णिनी ।वासुदेवे मधुकरे स्यात्पुंसि मधुसूदनः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 भि (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)