कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

भुजिष्या

bhujiṣyāस्त्री · fem.

In 4 kośas: 3 synonym verses, 1 as a nānārtha head word, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.533 · p. 24
साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ॥ ५३२ ॥भुजिष्या लञ्जिका रूपाजीवा वारवधूः पुनः ।सा वारमुख्याथ चुन्दी कुट्टनी शम्भली समाः ॥ ५३३ ॥
अनुष्टुप्
genderस्त्रीfem.
परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास चतुर्थः परिच्छेदः Paramānandīyanāmamālā 4.197 · p. 126
साधारणस्त्री भुजिष्या रूपाजीवा च लञ्जिका ।गणिकास्वामिनी चुन्दी शम्भली कुट्टिनी समे ॥ १९७ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.849 · p. 126
गणिका लज्जिका चापि पण्याङ्गता पणाङ्गना ।भुजिष्या साधारणस्त्री वारवाणिश्च ज्ञायताम् ॥ ८४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable); pāda 4, syllable 5 श्च (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश यान्ताः Śabdaratnāvalī 7.26.46 · p. 261
पानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् ।पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् ।वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः ।भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके ।स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥मलयो ना चलारामदेशेषु स्त्री तथौषधे ।मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च ।अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च ।रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् ।विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि ।विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 सू (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 3 पि (wrong syllable); pāda 3, syllable 7 द्भ (wrong syllable)

भुजिष्या as a meaning in nānārtha verses

  • शब्दरत्नावली दासीकासूः शक्त्यायुधे दीप्तौ भाषा विकलवाक्ययोः । गुत्सो हारभिदि स्तम्बे स्तबके ग्रन्थिपर्णयोः ॥ गोसो वोले च प्रत्यूषे चास इक्षुविहङ्गयोः । त्रासो भीतौ मणेर्दोषे दासी झिण्ठीभुजिष्ययोः ॥ Śabdaratnāvalī 7.32.3