वारवाणि
vāravāṇiस्त्री · fem.In 7 kośas: 8 synonym verses, 2 as a nānārtha head word.
श्रमणायां भिक्षुणी स्याद्वेश्यायां तु खगालिका ।वारवाणिः कामलेखा क्षुद्रा चेट्यां गणेरुका ॥ ११२ ॥वडवा कुम्भदासी च पुत्रे तु कुलधारकः ।सदायादो द्वितीयश्च पुत्र्यां धीदा समर्धुका ॥ ११३ ॥देहसंचारिणी चाप्यपत्ये संतानसंतती ।
अनुष्टुप्
genderस्त्रीfem.
रूपाजीवा वारवाणिः कामलेखावगालिका ।क्षुद्राजिना कालकूची कुट्टकी सम्भली समे ॥ ३८ ॥
अनुष्टुप्
genderस्त्रीfem.
लासिकाथो वारवाणिः प्रगातैकनटौ समौ ।कथकोऽथासहायः स्यात्तालावचरको नटः ॥ ७६ ॥
अनुष्टुप्
genderस्त्रीfem.
गणिका लज्जिका चापि पण्याङ्गता पणाङ्गना ।भुजिष्या साधारणस्त्री वारवाणिश्च ज्ञायताम् ॥ ८४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable); pāda 4, syllable 5 श्च (wrong syllable)
genderस्त्रीfem.
अन्येऽपि यन्त्रभेदाः स्युर्विज्ञेया नाट्यशास्त्रतः ।वारवाणिः प्रगाता च यः स्यादुत्तमगायनः ॥
अनुष्टुप्
genderपुंmasc.
रूपाजीवा वारवाणिर्गणिका भण्डहासिनी ।सा वेश्या वारमुख्या स्यादनेकजनसत्कृता ॥
अनुष्टुप्
genderस्त्रीfem.
वारवाणिः प्रगातास्यात्कथकैकनटौ समौ ॥ ७ ॥
genderपुंmasc.
विश्वस्ता लञ्जिनी तु स्याल्लक्षिका कलकूजिका ।वेश्या शूला वारवाणिर्झर्झराप्यथ कुट्टिनी ॥ ५ ॥
अनुष्टुप्
genderस्त्रीfem.
वाडवेयोऽश्विनोर्विप्रे वासुदेवो मुनौ हरौ ।धर्माध्यक्षे ज्योतिषिके वारवाणिरथो वटे ॥ २२२४ ॥
अनुष्टुप्
वारवाणिर्ज्यौतिषिके धर्माध्यक्षेऽप्यथो वटे ।वनस्पतिर्वृक्षमात्रेऽप्यग्नीन्द्वर्का विरोचनाः ॥ ४२ ॥
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 र्ज्यौ (wrong syllable)