कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

गणिका

gaṇikāस्त्री · fem.

In 21 kośas: 29 synonym verses, 10 as a nānārtha head word, 6 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.533 · p. 24
साधारणस्त्री गणिका वेश्या पण्यपणाङ्गना ॥ ५३२ ॥भुजिष्या लञ्जिका रूपाजीवा वारवधूः पुनः ।सा वारमुख्याथ चुन्दी कुट्टनी शम्भली समाः ॥ ५३३ ॥
अनुष्टुप्
genderस्त्रीfem.
अभिधानचिन्तामणिपरिशिष्ट Abhidhānacintāmaṇipariśiṣṭa · हेमचन्द्र द्वित्रिचतुष्पञ्चेन्द्रियाः Abhidhānacintāmaṇipariśiṣṭa 4.6.3 · p. 7
वशायां वाशिता कर्णधारिणी गणिकापि च ।
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नाट्यवर्गः Amarakośa 1.7.11
भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः ।स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वनौषधिवर्गः Amarakośa 2.4.71
सितासौ श्वेतसुरसा भूतवेश्यथ मागधी ।गणिका यूथिकाम्बष्ठा सा पीता हेमपुष्पिका ॥ ७१ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह मनुष्यवर्गः Amarakośa 2.6.29
वारस्त्री गणिका वेश्या रूपाजीवाथ सा जनैः ।
अनुष्टुप्
genderस्त्रीfem.
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध भूमिकाण्डम् Abhidhānaratnamālā (Halāyudha) 2.490 · p. 56
रूपाजीवा वेश्या गणिका पण्याङ्गना तथा क्षुद्रा ।राजकुलप्रतिबद्धा वारस्त्री वारमुख्या च ॥ ४९० ॥
metre not recognised
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर सप्तमोपदेशः Bālaprabodhikā 7.149 · p. 79
महाराजश्च राज्ञी तु स्वामिनी महिषीति च ।देवी स्याद्भट्टिनी त्वन्या वेश्या तु गणिकार्णिका ॥ १४९ ॥
अनुष्टुप्
genderस्त्रीfem.
बालप्रबोधिका Bālaprabodhikā · नत्कीर षोडशोपदेशः Bālaprabodhikā 16.352 · p. 98
पालागली यधजिता नृपस्योढाः प्रजा इमाः ।अनूढा तु प्रिया राज्ञः कालज्ञा गणिका स्मृता ॥ ३५२ ॥
अनुष्टुप्
genderस्त्रीfem.
कल्पद्रुकोशः Kalpadrukośa · केशव वनौषधिप्रकाण्डः Kalpadrukośa 1.11.262 · p. 278
प्रहसन्ती महाजाती मध्वाढ्या चाथ यूथिका ।माधवी गणिकाम्बष्ठा मोदिनी बालपुष्पिका ॥ २६२ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.96 · p. 159
मागधी गणिकाम्बष्ठा यूथिका बलि(बाल?)पुष्पिका ।गुणोज्ज्व(?)ला पुण्यगन्धा हसन्ती च शिखण्डिनी ॥ ९६ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.38 · p. 205
genderस्त्रीfem.
निघण्टुशेष Nighaṇṭuśeṣa · हेमचन्द्र गुल्मकाण्डः Nighaṇṭuśeṣa 2.239 · p. 131
अम्बष्ठा गणिका सा तु पीता स्याद्धेमपुष्पिका ।कुन्दे माघ्यः सदापुष्पी मकरन्दो मनोहरः ॥ २३९ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.159 · p. 28
अनूढा तु प्रिया राज्ञः कालज्ञा गणिका स्मृता ।गणिका सा प्रगणिका यानाप्तपरिहारिका ॥ १५९ ॥
अनुष्टुप्
genderस्त्रीfem.
नाममाला Nāmamālā (Dhanañjaya) · धनञ्जय Nāmamālā (Dhanañjaya) 36 · p. 17
गणिका लञ्जिका वेश्या रूपाजीवा विलासिनी ।पण्यस्त्री दारिका दासी कामुकी सर्ववल्लभा ॥ ३६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त मनुष्यमरीचिः Pañcatattvaprakāśa 1.1.46 · p. 4
वाराङ्गना वसुरता गणिका सर्व्ववल्लभा ।लोभिनी काञ्चनी वेश्या हौडिकी म्लेच्छगायिका ॥ ४६ ॥
अनुष्टुप्
genderस्त्रीfem.
पञ्चतत्त्वप्रकाश Pañcatattvaprakāśa · वेणीदत्त वृक्षलतौषधिमरीचिः Pañcatattvaprakāśa 1.4.209 · p. 15
यूथिका गणिकाऽम्बष्ठा मागधी बालपुष्पिका ।युवतीष्टा हेमयूथी शिखण्डी नागपुष्पिका ॥ २०९ ॥
अनुष्टुप्
genderस्त्रीfem.
शारदीयाख्यनाममाला Śāradīyākhyanāmamālā · हर्षकीर्ति अङ्गवर्गः Śāradīyākhyanāmamālā 2.1.16 · p. 21
दूती संचारिका चुन्दी कुट्टिनी सम्भली समाः ।पण्यस्त्री गणिका वेश्या रूपाजीवा पणाङ्गना ॥ १६ ॥
अनुष्टुप्
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.849 · p. 126
गणिका लज्जिका चापि पण्याङ्गता पणाङ्गना ।भुजिष्या साधारणस्त्री वारवाणिश्च ज्ञायताम् ॥ ८४९ ॥
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable); pāda 4, syllable 5 श्च (wrong syllable)
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि वनस्पतिकायनामानि Suśīlanāmamālā 5.5.2044 · p. 338
मागधी यूथिकाऽम्बष्ठा गणिकापि च तद्भिदा ॥ २०४४ ॥
अनुष्टुप्metre not read in every line
genderस्त्रीfem.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि पञ्चेन्द्रियजीवनामानि Suśīlanāmamālā 5.9.2203 · p. 361
करिणी हस्तिनी कर्णधारिणी धेनुका वशा ।गणिका वासिता चेति नामानि हि गजस्त्रियाः ॥ २२०३ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.130 · p. 66
गणिकारिश्च गणिका श्रीपर्णं गणिकारिका ।अग्निमन्थो हरिमन्थस्तेजोमन्थो जयत्यपि ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 रि (wrong syllable)
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वनौषधिवर्गप्रकाशः Śabdaratnāvalī 3.4.140 · p. 67
यूथिका गणिका यूथी प्रसहन्ती च मागधी ।अम्वष्टेत्यपि सा पीता हेम स्यात् हेमपुष्पिका ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश सिंहादिवर्गप्रकाशः Śabdaratnāvalī 3.5.154 · p. 93
रूपाजीवा वारवाणिर्गणिका भण्डहासिनी ।सा वेश्या वारमुख्या स्यादनेकजनसत्कृता ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वनाध्यायः Śabdaratnākara 2.3.544 · p. 70
गणिका यूथिकाम्बष्ठा शीतभीरुस्तु मल्लिका ।भूपदी ना विचकिलस्तृणशूल्यं नपुंसकम् ॥ ५४४ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण चतुष्पदाध्यायः Śabdaratnākara 2.4.709 · p. 91
वाशिता गणिका रोगे गजानां कूटपाकलः ।मदविभ्रमजं तेजः करिणो हस्तिवर्चसम् ॥ ७०९ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण मनुष्याध्यायः Śabdaratnākara 3.1.1045 · p. 130
प्रजाता च प्रसूता च गार्भिणं गर्भिणीगणः ।रूपाजीवा तु गणिका वेश्या वारविलासिनी ॥ १०४५ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दार्णव Śabdārṇava · वाचस्पति Śabdārṇava 138 · p. 538
वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी ॥ १३८ ॥
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश क्षत्रियाध्यायः Vaijayantī 3.7.33 · p. 106
अनूढास्तु प्रिया राज्ञः कलाज्ञा गणिकाः स्मृताः ।गणिका सा प्रगणिका यानाप्तपरिचारिका ॥ ३३ ॥
अनुष्टुप्
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश भूताध्यायः Vaijayantī 4.4.24 · p. 175
पण्यस्त्री गणिका वेश्या वारस्त्री रूपजीवना ।वारमुख्या सत्कृतासौ दूती संचारिणी समे ॥ २४ ॥
अनुष्टुप्
genderस्त्रीfem.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह नानार्थवर्गः Amarakośa 3.3.34
करिण्यां चापि गणिका दारकौ बालभेदकौ ।
अनुष्टुप्
हलायुधकोशः (अभिधानरत्नमाला) Abhidhānaratnamālā (Halāyudha) · हलायुध अनेकार्थकाण्डम् Abhidhānaratnamālā (Halāyudha) 5.799 · p. 92
कर्मविपाकेऽपि दशागती स्मृते काननेऽपि दवदावौ ।चूडाशिखे शिरस्यपि हस्तिन्यां धेनुकागणिके ॥ ७९९ ॥
आर्या
meanings
धरणिकोश Dharaṇikośa · धरणिदास कार्धश्लोकः Dharaṇikośa 1.2.43 · p. 11
गोधूमचूर्णे कणिकः कणिका गणिकारिका ।गणिका चाग्निमन्थे स्याद्यूथीवेश्याकरेणुषु ॥
अनुष्टुप्
कोषकल्पतरु Koṣakalpataru · विश्वनाथ कान्ताः Koṣakalpataru 6.1.12 · p. 151
गोधूमपिष्टे कणिका कणे चा-थ स्यात्करिण्यां गणिका च यूथ्याम् ।वाराङ्गनायामरणिद्रुमेऽथस्याद्ग्रामकूटेऽपि च धीवरे च ॥ १२ ॥
इन्द्रवज्रा
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 4.660 · p. 104
गणिका तु स्त्रियामेषा वेश्यायां किञ्च भूपतेः ।अनूढायां कलाज्ञायां प्रियायां पुंस्त्रियोः पुनः ॥ ६६० ॥
अनुष्टुप्
शिवकोष Śivakoṣa · शिवदत्तमिश्र कत्रिः Śivakoṣa 1.3.25 · p. 3
वत्सके चाथ गणिका यूथिका वह्निमन्थयोः ।ग्रन्थिकं मागधे गूढच्छदनग्रन्थिपर्णयोः ॥ २५ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश कान्ताः Śabdaratnāvalī 7.1.65 · p. 180
खोलकः पूगवल्मीककोशपाकशिरस्त्र्रके ।गणिका यूथिवेश्येभीष्वपि स्त्रीगणके पुमान् ॥
अनुष्टुप्
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण अनेकार्थाधिकाराध्यायः Śabdaratnākara 4.1.2085 · p. 252
गणिका करिणी वेश्या यूथिका कूटकारिका ।गोपतिर्वृषभे प्राज्ञे सूर्ये भूभृति वज्रिणि ॥ २०८५ ॥
अनुष्टुप्
त्रिकाण्डशेष Trikāṇḍaśeṣa · पुरुषोत्तमदेव नानार्थवर्गः Trikāṇḍaśeṣa 3.3.19 · p. 98
गान्धिको लेखकेऽपि स्याद्गुह्यकश्छेकनिघ्नयोः ।वेश्यायूथ्योश्च गणिका चषकं सरकेऽपि च ॥ १९ ॥
अनुष्टुप्
वैजयन्ती Vaijayantī · यादवप्रकाश स्त्रीलिङ्गाध्यायः Vaijayantī 7.2.7 · p. 247
गृहिणी कांचिकं जाया देहली गृहकारिका ।वेश्याकरिण्योर्गणिका वेष्टनेऽपि च गोलका ॥ ७ ॥
अनुष्टुप्

गणिका as a meaning in nānārtha verses

  • धरणिकोश जयजया दुर्गा सखी चास्या जयन्ती च जया स्मृता । गणिकापि जया प्रोक्ता जयस्तु विजयः स्मृतः ॥ Dharaṇikośa 25.3.4
  • कोषकल्पतरु अम्बष्ठविप्राच्च वैश्यातनये स्त्रियां तु पाठाम्ललोणीगणिकौषधीषु । Koṣakalpataru 6.11.14
  • कोषकल्पतरु भुजिष्यत्रय्यां स्वतन्त्रे गणिकासु दास्यां स्त्रियामथो केतकवाचके ना । चक्षुष्य उ[42a]क्तोऽपि च पुण्डरीक- द्रुमे कुलत्थेऽथ भगे द्वयोनम् ॥ ७८ ॥ Koṣakalpataru 6.26.78
  • नानार्थार्णवसंक्षेप वेश्यामर्त्यजात्यन्तरे वेश्यं पुनः क्ली मल्लिकान्तरे । गणिकायां तु वेश्या स्त्री ना तु वे?स्त्रिविष्टपे ॥ १२८८ ॥ Nānārthārṇavasaṃkṣepa 2.5.1288
  • शब्दरत्नावली वेश्यावीक्ष्यन्तु विस्मये दृश्ये पुंसि लासकवाजिनोः । वेश्या स्त्री गणिकायान्तु वेश्यं वेश्यागृहे मतम् ॥ Śabdaratnāvalī 7.26.31
  • शब्दरत्नावली भुजिष्यापानीयं सलिले क्लीबं पातव्ये पुनरन्यवत् । पौलस्त्यो ना धनाधीशे दशकण्ठे विभीषणे ॥ वलयं कङ्कणे क्लीबं कण्ठरोगे पुमानयम् । वालेयं स्याद्वलिहिते मृदौ त्रिषु खरे पुमान् ॥ ब्राह्मण्यं ब्रह्मवृन्दे स्यात्ब्राह्मणत्वेऽपि न द्वयोः । भरण्युर्ना चण्डभानौ मृगाङ्के च विभावसौ ॥ भुजिष्यः पुंसि दासे स्यात्स्वन्त्रहस्तसूतत्रके । स्त्रियां दासीगणिकयोः स्वतन्त्रायामपि क्वचित् ॥ मलयो ना चलारामदेशेषु स्त्री तथौषधे । मङ्गल्यो ना त्रायमानामसूराश्वत्थबिल्वके ॥ स्त्रियात्तु रोचनाशुक्लवचाशमीमिमीषु च । अधःपुष्प्यां स्त्रियां दध्नि क्लीबं शिवकरे त्रिषु ॥ मृगयुर्ना शृगाले स्याद् व्याधे पितामहेऽपि च । रहस्या स्त्री सरिद्भदे गोपनीयेऽभिधेयवत् ॥ विजया पार्वतीसख्यां तिथिभेदेऽपि च स्त्रियाम् । विजयस्तु जये पुंसि तथा गाण्डीवधन्वनि ॥ विस्मयः पुंसि दर्ये स्यात्स्यन्देहाश्चर्ययोरपि । विषयो यस्य यो ज्ञातस्तत्रदेशे च गोचरे ॥ रूपादौ स्याज्जनपदे कान्तादौ च भवेत्पुमान् ॥ Śabdaratnāvalī 7.26.46