मनस्ताल
manastālaपुं · masc.In 6 kośas: 6 synonym verses.
genderपुंmasc.
जया च विजया सख्यौ मनस्तालस्तु वाहनम् ।सिंहोऽस्याः कर्णमोटी तु चर्ममुण्डा च चर्चिका ॥ १४० ॥
अनुष्टुप्
genderपुंmasc.
अस्याः सिंहो मनस्तालः सख्यौ तु विजयाजये ।चामुण्डा चर्चिका चर्ममुण्डा मार्ज्जारकर्णिका ।कर्णमोटी महामुण्डा भैरवी तु कपालिनी ॥ ८६ ॥
अनुष्टुप्
genderपुंmasc.
उमा निशुम्भमथनी महिषासुरनाशिनी ।सिंहस्तस्या मनस्तालः सख्यौ च विजया जया ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
मातृमाता च मैनाकस्वसा कृष्णस्वसा स्मृता ।वाहनं तु मनस्तालः पार्वत्या कथ्यते बुधैः ॥ २५८ ॥
अनुष्टुप्
genderपुंmasc.
गौतमी तामसी षष्ठी जयन्ती शूलधृक् सती ।सिंहस्तस्या मनस्तालः सख्यौ च विजयाजये ॥ ५३ ॥
अनुष्टुप्
genderपुंmasc.