कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Abhidhānacintāmaṇi

अभिधानचिन्तामणि Abhidhānacintāmaṇi

1,988 verses · 12,741 words tagged · 2,473 marked doubtful (dashed)

देवकाण्डः (2/3)

पिनाकं स्यादाजगवमजकावं च तद्धनुः ।
2.121 · p. 12
अनुष्टुप्
ब्राह्म्याद्या मातरः सप्त प्रमथाः पार्षदा गणाः ॥ २०१ ॥
2.201 · p. 12
अनुष्टुप्
लघिमा वशितेशित्वं प्राकाम्यं महिमाणिमा ।यत्र कामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ॥ २०२ ॥
2.202 · p. 12
अनुष्टुप्
गौरी काली पार्वती मातृमातापर्णा रुद्राण्यम्बिका त्र्यम्बकोमा ।दुर्गा चण्डी सिंहयाना मृडानीकात्यायन्यौ दक्षजार्या कुमारी ॥ २०३ ॥सती शिवा महादेवी शर्वाणी सर्वमङ्गला ।भवानी कृष्णमैनाकस्वसा मेनाद्रिजेश्वरा ॥ २०४ ॥निशुम्भशुम्भमहिषमर्दिनी भूतनायिका ।
2.124 · p. 12
शालिनी
तस्याः सिंहो मनस्तालः सख्यौ तु विजया जया ॥ २०५ ॥
2.205 · p. 12
अनुष्टुप्
चामुण्डा चर्चिका चर्ममुण्डा मार्जारकर्णिका ।कर्णमोटी महागन्धा भैरवी च कपालिनी ॥ २०६ ॥
2.206 · p. 12
अनुष्टुप्
हेरम्बो गणविघ्नेशः पर्शुपाणिर्विनायकः ।द्वैमातुरो गजास्यैकदन्तौ लम्बोदराखुगौ ॥ २०७ ॥
2.207 · p. 12
अनुष्टुप्
स्कन्दः स्वामी महासेनः सेनानीः शिखिवाहनः ।षाण्मातुरो ब्रह्मचारी गङ्गोमाकृत्तिकासुतः ॥ २०८ ॥द्वादशाक्षो महातेजाः कुमारः षण्मुखो गुहः ।विशाखः शक्तिभृत्क्रौञ्चतारकारिः शराग्निभूः ॥ २०९ ॥
2.209 · p. 12
अनुष्टुप्
भृङ्गी भृङ्गिरिटिर्भृङ्गिरीटिर्नाड्यस्थिविग्रहः ।
2.129 · p. 13
अनुष्टुप्
कुष्माण्डके केलिकिलो नन्दीशे तण्डुनन्दिनौ ॥ २१० ॥
2.210 · p. 13
अनुष्टुप्
द्रुहिणो विरिञ्चिर्द्रुघणो विरिञ्चः परमेष्ठ्यजोऽष्टश्रवणः स्वयंभूः ।कमनः कविः सात्त्विकवेदगर्भौ स्थविरः शतानन्दपितामहौ कः ॥ २११ ॥धाता विधाता विधिवेधसौ ध्रुवः पुराणगो हंसगविश्वरेतसौ ।प्रजापतिर्ब्रह्मचतुर्मुखौ भवान्तकृज्जगत्कर्तृसरोरुहासनौ ॥ २१२ ॥शंभुः शतधृतिः स्रष्टा सुरज्येष्ठो विरिञ्चनः ।हिरण्यगर्भो लोकेशो नाभिपद्मात्मभूरपि ॥ २१३ ॥
2.213 · p. 13
metre not recognised
विष्णुर्जिष्णुजनार्दनौ हरिहृषीकेशाच्युताः केशवोदाशार्हः पुरुषोत्तमोऽब्धिशयनोपेन्द्रावजेन्द्रानुजौ ।विष्वक्सेननरायणौ जलशयो नारायणः श्रीपति-र्दैत्यारिश्च पुराणयज्ञपुरुषस्तार्क्ष्यध्वजोऽधोक्षजः ॥ २१४ ॥गोविन्दषड्बिन्दुमुकुन्दकृष्णा वैकुण्ठपद्मेशयपद्मनाभाः ।वृषाकपिर्माधववासुदेवौ विश्वंभरः श्रीधरविश्वरूपौ ॥ २१५ ॥दामोदरः शौरिसनातनौ विधुः पीताम्बरो मार्जजिनौ कुमोदकः ।त्रिविक्रमो जह्नुचतुर्भुजौ पुनर्वसुः शतावर्तगदाग्रजौ स्वभूः ॥ २१६ ॥मुञ्जकेशिवनमालिपुण्डरीकाक्षबभ्रुशशबिन्दुवेधसः ।पृश्निशृङ्गधरणीधरात्मभूः पाण्डवायनसुवर्णबिन्दवः ॥ २१७ ॥श्रीवत्सो देवकीसूनुर्गोपेन्द्रो विष्टरश्रवाः ।सोमसिन्धुर्जगन्नाथो गोवर्धनधरोऽपि च ॥ २१८ ॥यदुनाथो गदाशार्ङ्गचक्रश्रीवत्सशङ्खभृत् ।
2.132 · p. 13
शार्दूलविक्रीडितम्
विष्णुपुंजिष्णुपुंजनार्दनपुंहरिपुंहृषीकेशपुंअच्युतपुंकेशवपुंदाशार्हपुंपुरुषोत्तमपुंअब्धिशयनपुंउपेन्द्रपुंअजपुंइन्द्रानुजपुंविष्वक्सेनपुंनरायणपुंजलशयपुंनारायणपुंश्रीपतिपुंदैत्यारिपुंपुराणपुरुषपुंयज्ञपुरुषपुंतार्क्ष्यध्वजपुंअधोक्षजपुंगोविन्दपुंषड्बिन्दुपुंमुकुन्दपुंकृष्णपुंवैकुण्ठपुंपद्मेशयपुंपद्मनाभपुंवृषाकपिपुंमाधवपुंवासुदेवपुंविश्वंभरपुंश्रीधरपुंविश्वरूपपुंदामोदरपुंशौरिपुंसनातनपुंविधुपुंपीताम्बरपुंमार्जपुंजिनपुंकुमोदकपुंत्रिविक्रमपुंजह्नुपुंचतुर्भुजपुंपुनर्वसुपुंशतावर्तपुंगदाग्रजपुंस्वभूपुंमुञ्जकेशिन्पुंवनमालिन्पुंपुण्डरीकाक्षपुंबभ्रुपुंशशबिन्दुपुंवेधस्पुंपृश्निशृङ्गपुंधरणीधरपुंआत्मभूपुंपाण्डवायनपुंसुवर्णबिन्दुपुंश्रीवत्सपुंदेवकीसूनुपुंगोपेन्द्रपुंविष्टरश्रवस्पुंसोमसिन्धुपुंजगन्नाथपुंगोवर्धनधरपुंयदुनाथपुंगदाभृत्पुंशार्ङ्गभृत्पुंचक्रभृत्पुंश्रीवत्सभृत्पुंशङ्खभृत्पुं
मधुधेनुकचाणूरपूतनायमलार्जुनाः ॥ २१९ ॥कालनेमिहयग्रीवशकटारिष्टकैटभाः ।कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः ॥ २२० ॥हिरण्यकशिपुर्वाणः कालियो नरको बलिः ।शिशुपालश्चास्य वध्या वैनतेयस्तु वाहनम् ॥ २२१ ॥
2.221 · p. 13
अनुष्टुप्
शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तु नन्दकः ।
2.134 · p. 13
अनुष्टुप्
गदा कौमोदकी चापं शार्ङ्गं चक्रं सुदर्शनः ॥ २२२ ॥
2.222 · p. 13
अनुष्टुप्
मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ।
2.136 · p. 13
अनुष्टुप्metre not read in every line
वसुदेवो भूकश्यपो दुन्दुरानकदुन्दुभिः ॥ २२३ ॥
2.223 · p. 13
अनुष्टुप्metre not read in every line
रामो हली मुसलिसात्त्वतकामपालाः संकर्षणः प्रियमधुर्बलरौहिणेयौ ।रुक्मिप्रलम्बयमुनाभिदनन्तताललक्ष्मैककुण्डलसितासितरेवतीशाः ॥ २२४ ॥बलदेवो बलभद्रो नीलवस्त्रोऽच्युताग्रजः ।
2.138 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
मुसलं त्वस्य सौनन्दं हलं संवर्तकाह्वयम् ॥ २२५ ॥
2.225 · p. 14
अनुष्टुप्metre not read in every line
मदनो जराभीररुनङ्गमन्मथौ कमनः कलाकेलिरनन्यजोऽङ्गजः ।मधुदीपमारौ मधुसारथिः स्मरो विषमायुधो दर्पककामहृच्छयाः ॥ २२७ ॥प्रद्युम्नः श्रीनन्दनश्च कंदर्पः पुष्पकेतनः ।पुष्पाण्यस्येषुचापास्त्राण्यरी शंवरशूर्पको ॥ २२८ ॥केतनं मीनमकरौ बाणाः पञ्च रतिः प्रिया ।मनःशृङ्गारसंकल्पात्मानो योनिः सुहृन्मधुः ॥ २२९ ॥
2.229 · p. 14
metre not recognised
सुतोऽनिरुद्धो ऋष्याङ्क उषेशो ब्रह्मसूश्च सः ।
2.142 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ल्म (wrong syllable)
गरुडः शाल्मल्यरुणावरजो विष्णुवाहनः ॥ २३० ॥सौपर्णेयो वैनतेयः सुपर्णसर्पारातिर्वज्रजिद्वज्रतुण्डः ।पक्षिस्वामी काश्यपिः स्वर्णकायस्तार्क्ष्यः कामायुर्गरुत्मान्सुधाहृत् ॥ २३१ ॥
2.231 · p. 14
अनुष्टुप्metre not read in every line
बुद्धस्तु सुगतो धर्मधातुस्त्रिकालविज्जिनः ।बोधिसत्त्वो महाबोधिरार्यः शास्ता तथागतः ॥ २३२ ॥पञ्चज्ञानो षडभिज्ञो दशार्हो दशभूमिगः ।चतुस्त्रिंशज्जातकज्ञो दशपारमिताधरः ॥ २३३ ॥द्वादशाक्षौ दशबलस्त्रिकायः श्रीघनाद्वयौ ।समन्तभद्रः संगुप्तो दयाकूर्चो विनायकः ॥ २३४ ॥मारलोकखजिद्धर्मराजो विज्ञानमातृकः ।महामैत्रो मुनीन्द्रश्च बुद्धाः स्युः सप्त ते त्वमी ॥ २३५ ॥विपश्यी शिखी विश्वभूः क्रकुच्छन्दश्च काञ्चनः ।काश्यपश्च सप्तमस्तु शाक्यसिंहोऽर्कबान्धवः ॥ २३६ ॥तथा राहुलसूः सर्वार्थसिद्धो गौतमान्वयः ।मायाशुद्धोदनसुतो देवदत्ताप्रजश्च सः ॥ २३७ ॥
2.237 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 स्त्रि (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 6 ड (wrong syllable)
असुरा दितिदनुजाः पातालौकःसुरारयः ।पूर्वदेवाः शुक्रशिष्या विद्यादेव्यस्तु षोडश ॥ २३८ ॥
2.238 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 दि (wrong syllable)
रोहिणी प्रज्ञप्तिर्वज्रशृङ्खला कुलिशाङ्कुशा ।चक्रेश्वरी नरदत्ता काल्यथासौ महापरा ॥ २३९ ॥गौरी गान्धारी सर्वास्त्रमहाज्वाला च मानवी ।वैरोट्याछुप्ता मानसी महामानसिकेति ताः ॥ २४० ॥
2.240 · p. 14
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 ज्ञ (wrong syllable); pāda 3, syllable 6 र (wrong syllable)nearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable); pāda 3, syllable 6 मा (wrong syllable)
वाग्ब्राह्मी भारती गौर्गीर्वाणी भाषा सरस्वती ।श्रुतदेवी वचनं तु व्याहारो भाषितं वचः ॥ २४१ ॥
2.241 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 च (wrong syllable)
सविशेषणमाख्यातं वाक्यं स्याद्यन्तकं पदम् ।
2.148 · p. 14
अनुष्टुप्
राद्धसिद्धकृतेभ्योऽन्त आप्तोप्तिः समयागमौ ॥ २४२ ॥
2.242 · p. 14
अनुष्टुप्
आचाराङ्गं सूत्रकृतं स्थानाङ्गं समवाययुक् ।पञ्चमं भगवत्यङ्गं ज्ञातधर्मकथापि च ॥ २४३ ॥उपासकान्तकृदनुत्तरोपपातिकाद्दशाः ।प्रश्नव्याकरणं चैव विपाकश्रुतमेव च ॥ २४४ ॥इत्येकादश सोपाङ्गान्यङ्गानि द्वादशं पुनः ।दृष्टिवादो द्वादशाङ्गी स्याद्गणिपिटकाह्वया ॥ २४५ ॥
2.245 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प (wrong syllable)nearly अनुष्टुप्: pāda 2, syllable 2 द्ग (wrong syllable)
परिकर्मसूत्रपूर्वानुयोगपूर्वगतचूलिकाः पञ्च ।स्युर्दृष्टिवादभेदाः पूर्वाणि चतुर्दशापि पूर्वगते ॥ २४६ ॥
2.246 · p. 14
गीतिः
उत्पादपूर्वमग्रायणीयमथ वीर्यतः प्रवादं स्यात् ।अस्तेर्ज्ञानात्सत्यात्तदात्मनः कर्मणश्च परम् ॥ २४७ ॥प्रत्याख्यानं विद्याप्रवादकल्याणनामधेये च ।प्राणावायं च क्रियाविशालमथ लोकबिन्दुसारमिति ॥ २४८ ॥
2.248 · p. 14
गीतिःmetre not read in every line
स्वाध्यायः श्रुतिराम्नायश्छन्दो वेदस्त्रयी पुनः ।ऋग्यजुःसामवेदाः स्युरथर्वा तु तदुद्धृतिः ॥ २४९ ॥
2.249 · p. 15
अनुष्टुप्
वेदान्तः स्यादुपनिषदोङ्कारप्रणवौ समौ ।
2.154 · p. 15
अनुष्टुप्
शिक्षा कल्पो व्याकरणं छन्दो ज्योतिर्निरुक्तयः ॥ २५० ॥षडङ्गानि धर्मशास्त्रं स्यात्स्मृतिर्धर्मसंहिता ।
2.155 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 नि (wrong syllable)
आन्वीक्षिकी तर्कविद्या मीमांसा तु विचारणा ॥ २५१ ॥
2.251 · p. 15
metre not recognised
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च ।वंशानुवंशचरितं पुराणं पञ्चलक्षणम् ॥ २५२ ॥
2.252 · p. 15
अनुष्टुप्
षडङ्गा वेदाश्चत्वारो मीमांसान्वीक्षिकी तथा ।धर्मशास्त्रं पुराणं च विद्या एताश्चतुर्दश ॥ २५३ ॥
2.253 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
सूत्रं सूचनकृद्भाष्यं सूत्रोक्तार्थप्रपञ्चकम् ।
2.159 · p. 15
अनुष्टुप्
प्रस्तावस्तु प्रकरणं निरुक्तं पदभञ्जनम् ॥ २५४ ॥
2.254 · p. 15
अनुष्टुप्
अवान्तरप्रकरणविश्रामे शीघ्रपाठतः ।आह्निकमधिकरणं त्वेकन्यायोपपादनम् ॥ २५५ ॥
2.255 · p. 15
अनुष्टुप्metre not read in every line
उक्तानुक्तदुरुक्तार्थचिन्ताकारि तु वार्तिकम् ।
2.162 · p. 15
अनुष्टुप्
टीका निरन्तरव्याख्या पञ्जिका पदभञ्जिका ॥ २५६ ॥
2.256 · p. 15
अनुष्टुप्
निबन्धवृत्ती अन्वर्थे संग्रहस्तु समाहृतिः ।
2.164 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
परिशिष्टपद्धत्यादीन्पथानेन समुन्नयेत् ॥ २५७ ॥
2.257 · p. 15
अनुष्टुप्metre not read in every line
कारिका तु स्वल्पवृत्तौ बहोरर्थस्य सूचनी ।
2.166 · p. 15
अनुष्टुप्
कलन्दिका सर्वविद्या निघण्टुर्नामसंग्रहः ॥ २५८ ॥
2.258 · p. 15
अनुष्टुप्
इतिहासः पुरावृत्तं प्रवह्लिका प्रहेलिका ।
2.168 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 ह्लि (wrong syllable)
जनश्रुतिः किंवदन्ती वार्तैतिह्यं पुरातनी ॥ २५९ ॥
2.259 · p. 15
metre not recognised
वार्ता प्रवृत्तिर्वृत्तान्त उदन्तोऽथाह्वयोऽभिधा ।गोत्रसंज्ञानामधेयाख्याह्वाभिख्याश्च नाम च ॥ २६० ॥
2.260 · p. 15
अनुष्टुप्
संबोधनमामन्त्रणमाह्वानं त्वभिमन्त्रणम् ।आकारणं हवो हूतिः संहूतिर्बहुभिः कृता ॥ २६१ ॥
2.261 · p. 15
अनुष्टुप्metre not read in every line
उदाहार उपोद्धात उपन्यासश्च वाङ्मुखम् ।
2.172 · p. 15
अनुष्टुप्
व्यवहारो विवादः स्याच्छपथः शपनं शपः ॥ २६२ ॥
2.262 · p. 15
अनुष्टुप्
उत्तरं तु प्रतिवचः प्रश्नः प्रच्छानुयोजनम् ।कथंकथिकता चाथ देवप्रश्न उपश्रुतिः ॥ २६३ ॥
2.263 · p. 15
अनुष्टुप्
चटु चाटु प्रियप्रायं प्रियसत्यं तु सूनृतम् ।
2.175 · p. 15
अनुष्टुप्
सत्यं सम्यक्समीचीनमृतं तथ्यं यथातथम् ॥ २६४ ॥यथास्थितं च सद्भूतेऽलीके तु वितथानृते ।
2.176 · p. 15
अनुष्टुप्
अथ क्लिष्टं संकुलं च परस्परपराहतम् ॥ २६५ ॥
2.265 · p. 15
अनुष्टुप्
सान्त्वं सुमधुरं ग्राम्यमश्लीलं म्लिष्टमस्फुटम् ।
2.178 · p. 15
अनुष्टुप्
लुप्तवर्णपदं ग्रस्तमवाच्यं स्यादनक्षरम् ॥ २६६ ॥
2.266 · p. 15
अनुष्टुप्
अम्बूकृतं सथूत्कारं निरस्तं त्वरयोदितम् ।
2.180 · p. 15
अनुष्टुप्
आम्रेडितं द्विस्त्रिरुक्तमबद्धं तु निरर्थकम् ॥ २६७ ॥
2.267 · p. 15
अनुष्टुप्
पृष्ठमांसादनं तद्यत्परोक्षे दोषकीर्तनम् ।
2.182 · p. 15
अनुष्टुप्
मिथ्याभियोगोऽभ्याख्यानं सगतं हृदयंगमम् ॥ २६८ ॥
2.268 · p. 15
अनुष्टुप्
परुषं निष्ठुरं रूक्षं विक्रुष्टमथ घोषणा ।उच्चैर्घुष्टं वर्णनेडा स्तवः स्तोत्रं स्तुतिर्नुतिः ॥ २६९ ॥श्लाघा प्रशंसार्थवादः सा तु मिथ्या विकत्थनम् ।
2.184 · p. 15
अनुष्टुप्
जनप्रवादः कौलीनं विगानं वचनीयता ॥ २७० ॥
2.270 · p. 15
अनुष्टुप्
स्यादवर्ण उपक्रोशे वादो निःपर्यपात्परः ।गर्हणा धिक्क्रिया निन्दा कुत्सा क्षेपो जुगुप्सनम् ॥ २७१ ॥
2.271 · p. 15
अनुष्टुप्
आक्रोशाभीषङ्गाक्षेपाः शाप स क्षारणा रते ।
2.187 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष (wrong syllable)
विरुद्धशंसनं गालिराशीर्मङ्गलशंसनम् ॥ २७२ ॥
2.272 · p. 15
अनुष्टुप्metre not read in every line
श्लोकः कीर्तिर्यशोऽभिख्या समाज्ञा रुशती पुनः ।अशुभा वाक्शुभा कल्या चर्चरी चर्भटी समे ॥ २७३ ॥
2.273 · p. 15
अनुष्टुप्
यः सनिन्द उपालम्भस्तत्र स्यात्परिभाषणम् ।
2.190 · p. 15
अनुष्टुप्
आपृच्छाऽऽलाप संभाषोनुलापः स्यान्मुहुर्वचः ॥ २७४ ॥
2.274 · p. 15
अनुष्टुप्
अनर्थकं तु प्रलापो विलापः परिदेवनम् ।
2.192 · p. 15
अनुष्टुप्
उल्लापः काकुवागन्योन्योक्तिः संलापसंकथे ॥ २७५ ॥
2.275 · p. 15
अनुष्टुप्
विप्रलापो विरुद्धोक्तिरपलापस्तु निह्नवः ।
2.194 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
सुप्रलापः सुवचनं संदेशवाक्तु वाचिकम् ॥ २७६ ॥
2.276 · p. 15
अनुष्टुप्metre not read in every line
आज्ञा शिष्टिर्निराङ्निभ्यो देशो नियोगशासने ।अववादोऽप्यथाहूय प्रेषणं प्रतिशासनम् ॥ २७७ ॥
2.277 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 नि (wrong syllable)
संवित्संधाऽऽस्थाऽभ्युपायः संप्रत्याङ्भ्यः परः श्रवः ।अङ्गीकारोऽभ्युपगमः प्रतिज्ञागूश्च संगरः ॥ २७८ ॥
2.278 · p. 16
अनुष्टुप्
गीतनृत्तवाद्यत्रयं नाट्यं तौर्यत्रिकं च तत् ।
2.198 · p. 16
अनुष्टुप्metre not read in every line
संगीतं प्रेक्षणार्थेऽस्मिञ्शास्त्रोक्ते नाट्यधर्मिका ॥ २७९ ॥
2.279 · p. 16
अनुष्टुप्metre not read in every line
गीतं गानं गेयं गीतिर्गान्धर्वमथ नर्तनम् ।नटनं नृत्यं नृत्तं च लास्यं नाट्यं च ताण्डवम् ॥ २८० ॥
2.280 · p. 16
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 गे (wrong syllable); pāda 3, syllable 5 त्यं (wrong syllable)
मण्डलेन तु यन्नृत्यं स्त्रीणां हल्लीसकं तु तत् ।
2.201 · p. 16
अनुष्टुप्
पानगोष्ठ्यामुच्चतालं रणे वीरजयन्तिका ॥ २८१ ॥
2.281 · p. 16
अनुष्टुप्
स्थानं नाट्यस्य रङ्गः स्यात्पूर्वरङ्ग उपक्रमः ।
2.203 · p. 16
अनुष्टुप्
अङ्गहारोऽङ्गविक्षेपो व्यञ्जकोऽभिनयः समौ ॥ २८२ ॥
2.282 · p. 16
अनुष्टुप्
स चतुर्विध आहार्यो रचितो भूषणादिना ।वचसा वाचिकोऽङ्गेनाङ्गिकः सत्त्वेन सात्त्विकः ॥ २८३ ॥
2.283 · p. 16
अनुष्टुप्
स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवकारो विथ्यङ्केहामृगा इति ॥ २८४ ॥अभिनेयप्रकाराः स्युर्भाषाः षट्संस्कृतादिकाः ।
2.206 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
भारती सात्त्वती कैशिक्यारभट्यौ च वृत्तयः ॥ २८५ ॥
2.285 · p. 16
अनुष्टुप्
वाद्यं वादित्रमातोद्यं तूर्यं तूरं स्मरध्वजः ।
2.208 · p. 16
अनुष्टुप्
ततं वीणाप्रभृतिकं तालप्रभृतिकं घनम् ॥ २८६ ॥
2.286 · p. 16
अनुष्टुप्
वंशादिकं तु शुषिरमानद्धं मुरजादिकम् ।
2.210 · p. 16
अनुष्टुप्
वीणा पुनर्घोषवती विपञ्ची कण्ठकूणिका ॥ २८७ ॥वल्लकी साथ तन्त्रीभिः सप्तभिः परिवादिनी ।
2.211 · p. 16
अनुष्टुप्
शिवस्य वीणाऽनालम्बी सरस्वत्यास्तु कच्छपी ॥ २८८ ॥
2.288 · p. 16
अनुष्टुप्
नारदस्य तु महती गणानां तु प्रभावती ।
2.213 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्य (wrong syllable)
विश्वावसोस्तु बृहती तुम्बुरोस्तु कलावती ॥ २८९ ॥
2.289 · p. 16
अनुष्टुप्metre not read in every line
चाण्डालानां तु कण्डोलवीणा चाण्डालिका च सा ।
2.215 · p. 16
अनुष्टुप्
कायः कोलम्बकस्तस्या उपनाहो निबन्धनम् ॥ २९० ॥
2.290 · p. 16
अनुष्टुप्
दण्डः पुनः प्रवालः स्यात्ककुभस्तु प्रसेवकः ।
2.217 · p. 16
अनुष्टुप्
मूले वंशशलाका स्यात्कलिका कूणिकापि च ॥ २९१ ॥
2.291 · p. 16
अनुष्टुप्
कालस्य क्रियया मानं तालः साम्यं पुनर्लयः ।
2.219 · p. 16
अनुष्टुप्
द्रुतं विलम्बितं मध्यमोघस्तत्त्वं घनं क्रमात् ॥ २९२ ॥
2.292 · p. 16
अनुष्टुप्
मृदङ्गो मुरजः सोङ्क्यालिङ्ग्यूर्ध्वक इति त्रिधा ।
2.221 · p. 16
अनुष्टुप्
स्याद्यशःपटहो ढक्का भेरी दुन्दुभिरानकः ॥ २९३ ॥पटहोऽथ शारिका स्यात्कोणो वीणादिवादनम् ।
2.222 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 थ (wrong syllable)
शृङ्गारहास्यकरुणारौद्रवीरभयानकाः ॥ २९४ ॥बीभत्साद्भुतशान्ताश्च रसा भावाः पुनस्त्रिधा ।
2.223 · p. 16
अनुष्टुप्metre not read in every line
स्थायिसात्त्विकसंचारिप्रभेदैः स्याद्रतिः पुनः ॥ २९५ ॥रागोऽनुरागोऽनुरतिर्हासस्तु हसनं हसः ।घर्घरो हासिका हास्यं तत्रादृष्टरदे स्मितम् ॥ २९६ ॥वक्रोष्ठिकाथ हसितं किंचिद्दृष्टरदाङ्कुरे ।
2.224 · p. 16
अनुष्टुप्
किंचिच्छ्रुते विहसितमट्टहासो महीयसि ॥ २९७ ॥
2.297 · p. 16
अनुष्टुप्
अतिहासस्त्वनुस्यूतेऽपहासोऽकारणात्कृते ।
2.226 · p. 16
अनुष्टुप्
सोत्प्रासे त्वाच्छुरितकं हसनं स्फुरदोष्टके ॥ २९८ ॥
2.298 · p. 16
अनुष्टुप्
शोकः शुक्शोचनं खेदः क्रोधो मन्युः क्रुधा रुषा ।क्रुत्कोपः प्रतिघो रोषो रुट् चोत्साहः प्रगल्भता ॥ २९९ ॥अभियोगोद्यमौ प्रौढिरुद्योगः कियदेतिका ।अध्यवसाय ऊर्जोथ वीर्यं सोऽतिशयान्वितः ॥ ३०० ॥
2.300 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
भयं भीर्भीतिरातङ्क आशङ्का साध्वसं दरः ।भिया च तच्चाहिभयं भूपतीनां स्वपक्षजम् ॥ ३०१ ॥
2.301 · p. 16
अनुष्टुप्
अदृष्टं वह्नितोयादेर्दृष्टं स्वपरचक्रजम् ।
2.230 · p. 16
अनुष्टुप्
भयंकरं प्रतिभयं भीमं भीष्मं भयानकम् ॥ ३०२ ॥भीषणं भैरवं घोरं दारुणं च भयावहम् ।
2.231 · p. 16
अनुष्टुप्
जुगुप्सा तु घृणाथ स्याद्विस्मयश्चित्रमद्भुतम् ॥ ३०३ ॥चोद्याश्चर्ये शमः शान्तिः शमथोपशमावपि ।तृष्णाक्षयः स्थायिनोऽमी रसानां कारणं क्रमात् ॥ ३०४ ॥
2.304 · p. 16
अनुष्टुप्
स्तम्भो जाड्यं स्वेदो घर्मनिदाघौ पुलकः पुनः ।रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम् ॥ ३०५ ॥रोमोद्गम उद्धुषणमुल्लुकसनमित्यपि ।
2.233 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्वे (wrong syllable)
स्वरभेदस्तु कल्लत्वं स्वरे कम्पस्तु वेपथुः ॥ ३०६ ॥
2.306 · p. 16
अनुष्टुप्metre not read in every line
वैवर्ण्यं कालिकाथाश्रु बाष्पो नेत्राम्बु रोदनम् ।अस्रमस्रु प्रलयस्त्वचेष्टतेत्यष्ट सात्त्विकाः ॥ ३०७ ॥
2.307 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
धृतिः संतोषः स्वास्थ्यं स्यादाध्यानं स्मरणं स्मृतिः ।
2.236 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 षः (wrong syllable)
मतिर्मनीषा बुद्धिर्धीर्धिषणाज्ञप्तिचेतनाः ॥ ३०८ ॥प्रतिभाप्रतिपत्प्रज्ञाप्रेक्षाचिदुपलब्धयः ।संवित्तिः शेमुषी दृष्टिः सा मेधा धारणक्षमा ॥ ३०९ ॥
2.309 · p. 16
अनुष्टुप्metre not read in every line
पण्डा तत्त्वानुगा मोक्षे ज्ञानं विज्ञानमन्यतः ।
2.238 · p. 16
अनुष्टुप्
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा ॥ ३१० ॥ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ।
2.239 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 म (wrong syllable)
व्रीडा लज्जा मन्दाक्षं ह्रीस्त्रपा सापत्रपान्यतः ॥ ३११ ॥
2.311 · p. 17
अनुष्टुप्metre not read in every line