कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Kalpadrukośa

कल्पद्रुकोशः Kalpadrukośa

4,306 verses · 27,819 words tagged · 4,643 marked doubtful (dashed)

भुवःस्कन्धः · नभःस्थदेवप्रकाण्डः (2/2)

सिंहपर्यायकेलिः स्यादथ स्याच्छशिशेखरः ।हेरम्बो देहको वत्सो निकुम्भी वक्रसञ्चरः ॥ १२१ ॥
2.3.121 · p. 393
अनुष्टुप्
देवो वज्रकपाली च वज्रटी चाथ गौर्यपि ।उमा कात्यायनी गोला सिनीवाली दृषद्वती ॥ १२२ ॥
2.3.122 · p. 393
अनुष्टुप्
गौरा कालञ्जरी चण्डा चण्डाका चण्डकापि च ।सिंहार्थाद्वाहनार्था स्यात्काली हिण्डीश्वरीश्वरा ॥ १२३ ॥
2.3.123 · p. 393
अनुष्टुप्
हिमाद्रिदक्षनन्दानां पर्यायेभ्यः सुतार्थका ।चण्डिश्च बाभ्रवी माता चर्या शिखरवासिनी ॥ १२४ ॥
2.3.124 · p. 393
अनुष्टुप्
शूलभृत् कर्बुरी भ्रामर्यनन्ता विजयाऽपि च ।जयन्ती मालिनी तुङ्गी दुर्वाराजवरा च सा ॥ १२८ ॥
2.3.128 · p. 394
अनुष्टुप्
कालञ्जरी भद्रकाली नारायण्यपराजिता ।वृषाकपायी षष्ठी स्यात्तामस्यपि च लम्बिका ॥ १२९ ॥
2.3.129 · p. 394
अनुष्टुप्
स्याद्बर्हिध्वजपर्याया बाभ्रवी नकुली तथा ।निशुम्भशुम्भमहिषमथनी भूतनायिका ॥ १३० ॥
2.3.130 · p. 394
अनुष्टुप्
नन्दिनी कौशिकी कृष्णा भ्रामरी रेवती वरा ।कालरात्रिर्महामाया विशालाक्ष्येकपाटला ॥ १३१ ॥
2.3.131 · p. 394
अनुष्टुप्
महाविद्या सिनीवाली परमब्रह्मचारिणी ।गण्डिनी योगिनी भीमाऽमोघा विन्ध्यनिवासिनी ॥ १३२ ॥
2.3.132 · p. 394
अनुष्टुप्
वरदा वदरीवासा प्रगल्भा कृष्णपिङ्गला ।कृष्णेन्द्रयोश्च पर्यायभगिन्यर्था च जाङ्गली ॥ १३३ ॥
2.3.133 · p. 394
अनुष्टुप्
हिमा बहुभुजा स्कन्दमाता च श्रीर्धनाञ्जनी ।सावित्री मन्दरावासा कर्वरी च महाजया ॥ १३४ ॥
2.3.134 · p. 394
अनुष्टुप्
कोटिः कलापिनी गङ्गी रक्तदन्ता च वारुणी ।हासानन्ता च कूष्माण्डी मानस्तोका किरात्यपि ॥ १३५ ॥
2.3.135 · p. 394
अनुष्टुप्
मलयाद्रिनिवासार्था जयन्ती गोकुलोद्भवा ।अष्टादशभुजा पोत्री नीलवस्त्रोग्रवारिणी ॥ १३६ ॥
2.3.136 · p. 394
अनुष्टुप्
नन्दयन्ती शतमुखी रौद्री नन्दा निरञ्जना ।बलदेवस्वसा पुण्या महारौद्रा महानिशा ॥ १३८ ॥
2.3.138 · p. 395
अनुष्टुप्
कुण्डा कालङ्गमीहा च दर्दुरी कुलदेवता ।कालपर्यायदमनी पुनः शिखरवासिनी ॥ १३९ ॥
2.3.139 · p. 395
अनुष्टुप्
जया च विजया सख्यौ मनस्तालस्तु वाहनम् ।सिंहोऽस्याः कर्णमोटी तु चर्ममुण्डा च चर्चिका ॥ १४० ॥
2.3.140 · p. 395
अनुष्टुप्
चामुण्डा च महागन्धा भैरवी च कपालिनी ।मार्जारकर्णिका देव्योऽनन्ताः सर्वाधिपा इमाः ॥ १४१ ॥
2.3.141 · p. 395
अनुष्टुप्
बालचर्यो महासेनः पर्यायः शरजन्मनः ।षडाननार्थः सेनानीर्गुहः शिख्यर्थवाहनः ॥ १४२ ॥
2.3.142 · p. 395
अनुष्टुप्
गौरीगङ्गाकृत्तिकाग्निपर्यायेभ्यः सुतार्थकः ।द्वादशाक्षो जयन्तोऽपि महातेजाश्च शक्तिभृत् ॥ १४३ ॥
2.3.143 · p. 395
अनुष्टुप्
क्रौञ्चतारकवैर्यर्थो देवसेनापतिश्च सः ।कामजित्कामदः कान्तः स्कन्दः शीघ्रः शुचिः शिशुः ॥ १४४ ॥
2.3.144 · p. 395
अनुष्टुप्
मयूरकेतुः स्वाहेयो भूतेशो महिषार्दनः ।षष्ठीप्रियो रेवतीजः पवित्रो मातृवत्सलः ॥ १४५ ॥
2.3.145 · p. 395
अनुष्टुप्
विश्वामित्रप्रियश्चण्डो दीप्तः शरवणोद्भवः ।वासुदेवप्रियश्चापि स च द्वादशबाहुकः ॥ १४६ ॥
2.3.146 · p. 396
अनुष्टुप्
प्रियाऽस्य देवसेना स्याच्छस्त्रं शक्तिश्च वाहनम् ।मयूरस्तनयौ शाखविशाखावथ तद्गणाः ॥ १४७ ॥
2.3.147 · p. 396
अनुष्टुप्
बालग्रहाः पूतनाद्या अथ मेघो बलाहकः ।जलपर्यायतो वाहधरमुग्दभृतः पुनः ॥ १४८ ॥
2.3.148 · p. 396
अनुष्टुप्
दर्दुरः खतमालः स्यान्नभःपर्यायहस्त्यपि ।व्योमधूमो वायुदारुर्मदपीलुर्मदाम्बरः ॥ १४९ ॥
2.3.149 · p. 396
अनुष्टुप्
अन्नं क्लीबे क्षरः कोशो भेको देवो घनोऽपि च ।धाराधरो धूमयोनिस्तडित्वानपि वारिदः ॥ १५० ॥
2.3.150 · p. 396
अनुष्टुप्
जीमूतः शम्बरो वातरथोऽपि स्याद्वराहकः ।गडेरोऽब्दो गदयित्नुर्नभसोऽर्थाद्ध्वजार्थकः ॥ १५१ ॥
2.3.151 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
मुदिरः स्त्री वारिमसिर्नभ्राडब्दे तु वर्षुके ।शब्दान्विते च पर्जन्यपर्यन्यौ वर्षुके घने ॥ १५२ ॥
2.3.152 · p. 396
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वा (wrong syllable)
घनाघनो वर्षमस्त्री स्त्री वृष्टिर्वर्षणं च षण् ।वर्षं तस्य प्रतीघाते वग्राहावग्रहौ तडित् ॥ १५३ ॥
2.3.153 · p. 396
अनुष्टुप्
शम्पा सौदामिनी विद्युच्चञ्चला च शतह्रदा ।सौदामनी च सौदाम्नी ह्रादिनी चाशनिर्द्वयोः ॥ १५४ ॥
2.3.154 · p. 396
अनुष्टुप्
क्षणस्याणोश्च पर्यायाद्भापर्याया हरिस्वसा ।चपलार्था च चिलिचिम्यशन्यैरावती समे ॥ १५५ ॥
2.3.155 · p. 397
अनुष्टुप्
स्फूर्जथुश्चापि विस्फूर्जथुश्च विस्फुर्जथुः समाः ।आकालिकी च क्षणिका सैवोक्ता जलवालिका ॥ १५६ ॥
2.3.156 · p. 397
अनुष्टुप्
तच्चाञ्चल्ये चाकचिक्यं क्लीबे स्यादथ तद्धतौ ।स्फूर्जथुर्वज्रपर्यायाद्घोषपर्यायको नरि ॥ १५७ ॥
2.3.157 · p. 397
अनुष्टुप्
अम्भोबीजस्य पर्यायः स्याद्द्वयोः करकः करः ।क्लीबे बीजोदकं वर्षा बीजपर्यायमित्यपि ॥ १५८ ॥
2.3.158 · p. 397
अनुष्टुप्
अम्ब्वर्थाद्घनपर्यायो मेघपर्यायतः कफः ।तोयपर्यायडिम्भो ना स्त्रियां मेघास्थिपुञ्जिका ॥ १५९ ॥
2.3.159 · p. 397
अनुष्टुप्
मेघास्थि वर्षणं तु स्याद्गोघृतं च परामृतम् ।कादम्बिनी मेघमाला सर्वं मेघभवं त्रिषु ॥ १६० ॥
2.3.160 · p. 397
अनुष्टुप्
अभ्रियाद्यं च तद्घोषे गर्जितं स्तनितं च षण् ।रसितं मेघपर्यायाज्ज्योतिषोऽर्थ इरंमदः ॥ १६१ ॥
2.3.161 · p. 397
अनुष्टुप्
आयुधं त्विन्द्रपर्यायाद्धनुरैरावतं पुनः ।तदेव स्याद्वातरुषं वायुपर्यायतः फलम् ॥ १६२ ॥
2.3.162 · p. 397
अनुष्टुप्
वल्मीकपर्यायभवं भिन्नं वा ऋजुरोहितम् ।दीर्घर्जु चाप्यथासारो धारासम्पात इत्यपि ॥ १६३ ॥
2.3.163 · p. 397
अनुष्टुप्
वायूद्धताम्बुलेशाः स्युः सीकराः शीकरा अपि ।सीभरः शीभरास्ते स्युरथ स्यादपवारणम् ॥ १६४ ॥
2.3.164 · p. 398
अनुष्टुप्
अन्तर्द्धा व्यवधा स्त्रीत्वेऽप्यन्तर्द्धिर्व्यवधिः पुमान् ।अन्तर्द्धानतिरोधाने च्छदनाच्छादने अपि ॥ १६५ ॥
2.3.165 · p. 398
अनुष्टुप्
अपिधानपिधाने च व्यवधानं ततोऽप्यथ ।अभ्रादिधूममहिषीसंवृतेऽहनि दुर्दिनम् ॥ १६६ ॥
2.3.166 · p. 398
अनुष्टुप्
चन्द्रमाश्चन्दिरः सोमः क्लेदुः पैद्वश्च पक्षजः ।सृप्रः पर्वविपद्गौरः परिज्ञश्च विरोचनः ॥ १६७ ॥
2.3.167 · p. 398
अनुष्टुप्
तिथिप्रणीश्च विश्वप्सा भुवन्युर्विकुसो हरिः ।ग्रहनेमिर्जयन्तोऽपि राजपर्यायको विधुः ॥ १६८ ॥
2.3.168 · p. 398
अनुष्टुप्
ऋक्षपर्यायनेम्यर्थश्चित्राटीरो विभावसुः ।दशश्वेताश्वपर्यायः सुधापर्यायसूरपि ॥ १६९ ॥
2.3.169 · p. 398
अनुष्टुप्
स्तृर्दक्षजारोहिणीनिडोषधीनां द्विजन्मनाम् ।कुमुदिन्याश्च कौमुद्या ग्रहाणां चार्थतः पतिः ॥ १७० ॥
2.3.170 · p. 398
अनुष्टुप्
कलाशशैणच्छायानां पर्यायेभ्यो भृदर्थकः ।जैवातृकोऽब्ज इन्दुर्ग्लौर्विधुश्चन्द्रोऽत्रिनेत्रभूः ॥ १७१ ॥
2.3.171 · p. 398
अनुष्टुप्
नभःपर्यायचमसो निशापर्यायतो मणिः ।स्याच्छीतकरपर्यायो निशापर्यायतः करः ॥ १७२ ॥
2.3.172 · p. 398
अनुष्टुप्
हिमश्वेतद्युतिः शम्भुपर्यायेभ्यः शिरोमणिः ।छायामृगसुधार्थेभ्यः पिद्मुः सिन्धुः सुधाऽर्थतः ॥ १७३ ॥
2.3.173 · p. 399
अनुष्टुप्
तन्वर्थो यजतः सप्रो जरणो द्रुस्तपः पुनः ।कुमुदार्थाच्च बन्ध्वर्थो राजराजः सुधांशुकः ॥ १७४ ॥
2.3.174 · p. 399
अनुष्टुप्
कृत्तिकासंभवार्थः स्यात्तापसः शपितोऽपि च ।क्रुष्टो मा विक्लिदः स्यन्दः सिन्धूत्थो बुध एकभूः ॥ १७५ ॥
2.3.175 · p. 399
अनुष्टुप्
परिच्छो वयुनाः स्नेहूः पुंसि नेमिः स्त्रियां पुनः ।समुद्रार्थान्नवनीतं तारापीडोऽथ तत्कलाः ॥ १७६ ॥
2.3.176 · p. 399
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
पूर्णा पूर्णामृता चेति षोडश स्युरथास्त्रियाम् ।बिम्बः खण्डं च वा पुंसि पुंस्यर्द्धोऽर्द्धं समेंशके ॥ १७८ ॥
2.3.178 · p. 399
अनुष्टुप्
स्यात् क्लीबे शकलं भित्तं शल्कं च मण्डलं त्रिषु ।कलङ्कोऽस्त्री लाञ्छनं च चिह्नं लक्ष्म च लक्ष्मणम् ॥ १७९ ॥
2.3.179 · p. 399
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
अङ्कः पुंस्यथ कान्तिः स्यात् कान्त्यपि स्यात् द्युतिश्छविः ।अभिख्या परमा शोभा सुषमापि द्युतीच्छवी ॥ १८० ॥
2.3.180 · p. 399
अनुष्टुप्
विह्वलार्थं तु नीहारो वश्योऽवश्याय इत्यपि ।नक्षत्रं तारका तारा न पुमानुडु वा स्त्रियाम् ॥ १८१ ॥
2.3.181 · p. 400
अनुष्टुप्
वा पुंसि ऋक्षं भं ज्योतिः स्तृ दिवाभीतमित्यपि ।रात्रिदृश्यं च भासन्तमथ चन्द्रमसः स्त्रियः ॥ १८२ ॥
2.3.182 · p. 400
अनुष्टुप्
एकोक्त्या दक्षपुत्र्यस्ताः क्रमात्स्युरथ न द्वयोः ।स्त्रियामश्विन्यश्विकिनी क्लीबे चाश्वयुगित्यपि ॥ १८३ ॥
2.3.183 · p. 400
अनुष्टुप्
दस्रपर्यायदेवत्यं वालिनी भरणी स्त्रियौ ।भरणिर्यमपर्यायदेवत्यमथ कृत्तिकाः ॥ १८४ ॥
2.3.184 · p. 400
अनुष्टुप्
स्त्रियां भूम्न्येव बहुला अग्न्यर्थाद्देवतं च तत् ।प्रजापत्यर्थदेवत्यं रोहिण्यथ मृगः पुमान् ॥ १८५ ॥
2.3.185 · p. 400
अनुष्टुप्
मार्गो मृगशिरः षण् स्त्री मृगशीर्षं च षण् स्त्रियाम् ।चन्द्रपर्यायदेवत्यमिल्वलास्त्विल्वका अपि ॥ १८६ ॥
2.3.186 · p. 400
अनुष्टुप्
इन्धकास्तच्छिरस्था यास्तारकाः पञ्च ता अथ ।आर्द्रा स्त्री रुद्रपर्यायदेवत्यमथ पुंसि च ॥ १८७ ॥
2.3.187 · p. 400
अनुष्टुप्
द्वित्वे पुनर्वसू चापि देवत्यमदितेरथ ।द्वयोस्तिष्यश्च पुष्यश्च गुर्वर्थाद्देवतार्थकम् ॥ १८८ ॥
2.3.188 · p. 400
अनुष्टुप्
आश्लेषा सर्पदेवत्यमथ भूम्नि स्त्रियां पुनः ।स्यान्मघाः पितृदेवत्यमथ द्वित्वे स्त्रियामिमे ॥ १८९ ॥
2.3.189 · p. 400
अनुष्टुप्
ते स्यातां पूर्वफल्गुन्यौ भगदैवतमित्यपि ।तथैवोत्तरफल्गुन्यावार्यम्णं स्यादथ स्त्रियाम् ॥ १९० ॥
2.3.190 · p. 401
अनुष्टुप्
हस्तः सवितृदैवत्यं चित्रा पुंस्यपि च स्त्रियाम् ।त्वष्टृपर्यायदैवत्यमथ स्वातिस्तु पुंस्त्रियोः ॥ १९१ ॥
2.3.191 · p. 401
अनुष्टुप्
स्वाती स्त्रियां च वाय्वर्थाद्देवत्यमथ च स्त्रियाम् ।विशाखेन्द्राग्निपर्यायदेवत्यं चाप्यथ स्त्रियाम् ॥ १९२ ॥
2.3.192 · p. 401
अनुष्टुप्
अनुराधा तु मित्रार्थाद्देवत्यमप्यथास्त्रियाम् ।मूलं स्याद्रक्षःपर्यायदेवत्यमप्यथ स्त्रियाम् ॥ १९३ ॥
2.3.193 · p. 401
metre not recognised
पूर्वाषाढाम्बुपर्यायाद्देवत्यमथ च स्त्रियाम् ।स्यादेवमुत्तराषाढा वैश्वदेवमथ त्रिषु ॥ १९४ ॥
2.3.194 · p. 401
अनुष्टुप्
श्रवणं विष्णुपर्यायाद्देवत्यं स्यादथ स्त्रियाम् ।धनिष्ठा च श्रविष्ठा च वसुपर्यायदैवतम् ॥ १९५ ॥
2.3.195 · p. 401
अनुष्टुप्
अथ स्त्रियां शतभिषा पुंसि च स्याच्छताद्भिषक् ।शततारा स्त्रियां क्लीबे देवत्यं वरुणार्थतः ॥ १९६ ॥
2.3.196 · p. 401
अनुष्टुप्
अजैकपाददेवत्यं पूर्वभद्रपदा स्त्रियाम् ।अथाहिर्बुध्न्यदेवत्यं स्त्रियां प्रोष्ठपदाऽपि च ॥ १९७ ॥
2.3.197 · p. 401
अनुष्टुप्
तथोत्तरा भाद्रपदा रेवती तु स्त्रियां पुनः ।पौष्णं स्यादथ ऋक्षाणि तेषामन्तो न कर्हिचित् ॥ १९८ ॥
2.3.198 · p. 401
अनुष्टुप्
भूपर्यायसुतार्थस्तु वक्र आरोऽपि मङ्गलः ।रक्तार्थादङ्गपर्यायः शिवपर्यायवीर्यजः ॥ १९९ ॥
2.3.199 · p. 402
अनुष्टुप्
अङ्गारः स्यादषाढाभूः खपर्यायोल्मुकार्थकः ।नवार्चिरथ पञ्चार्चिर्धनिष्ठाभूः प्रहर्षुलः ॥ २०० ॥
2.3.200 · p. 402
अनुष्टुप्
रोहिणीचन्द्रपर्यायपुत्रार्थः स्याददृक्पथः ।श्यामपर्यायगात्रार्थो वयुनश्चन्दिरो बुधः ॥ २०१ ॥
2.3.201 · p. 402
अनुष्टुप्
ज्ञः परिज्मैकदेहार्थः स च सूर्यसहाचरः ।स्यन्दः स्वःसिन्धुसिन्धूत्थः क्लेदुः खचमसोऽपि च ॥ २०२ ॥
2.3.202 · p. 402
अनुष्टुप्
नेम्यर्थोऽप्यरुणोऽथ स्यात्प्रचख्या तु महामतिः ।बृहस्पतिः साद्धिषणो गुरुः संवर्त्तपूर्वजः ॥ २०३ ॥
2.3.203 · p. 402
अनुष्टुप्
पाखण्डकर्त्ता गोविन्दो द्वादशार्चिश्च दीदिविः ।वाग्म्याङ्गिरसपारुष्याश्चक्षाश्चित्रशिखण्डजः ॥ २०४ ॥
2.3.204 · p. 402
अनुष्टुप्
जीवो गीष्पतिपर्यायो गीष्पर्यायरथार्थकः ।देवार्थाद्गुरुपर्याय उतथ्यस्यानुजार्थकः ॥ २०५ ॥
2.3.205 · p. 402
अनुष्टुप्
प्राक्फाल्गुनेयः प्रख्यावाक् नन्दिघोषस्तु तद्रथे ।शुक्रस्तु भार्गवः काव्यः कविः शुक्लो मघाभवः ॥ २०६ ॥
2.3.206 · p. 402
अनुष्टुप्
आस्फुजिद्भागवान्धिष्ण्य एकार्थान्नयनार्थकः ।दैत्यादिगुरुपर्यायो दिनदृश्यः सितो भगः ॥ २०७ ॥
2.3.207 · p. 402
अनुष्टुप्
इनो भृगुः षोडशार्चिः शतपर्वेश इत्यपि ।शनैश्चरस्तु लौहित्यः सप्तार्चिः क्रूरदृक्पथः ॥ २०८ ॥
2.3.208 · p. 403
अनुष्टुप्
नीलो मन्दः शनिः शौरिः शौरी सौरोऽव्ययं शनैः ।सौरिः क्रोडो रेवतीजो राहुस्तु सिंहिकासुतः ॥ २०९ ॥
2.3.209 · p. 403
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्तु (wrong syllable)
दैत्यग्रहः शीर्षदेहः सूर्याचन्द्रमसोररिः ।तमोऽस्त्री ग्रहकल्लोलो भरणीभूर्विधुंतुदः ॥ २१० ॥
2.3.210 · p. 403
अनुष्टुप्
अभ्रार्थाच्च पिशाचार्थः स्वर्भानुः स्यादथो शिखी ।आश्लेषाभूर्वारुणः स्यादहिः केतुश्च तद्गणाः ॥ २११ ॥
2.3.211 · p. 403
अनुष्टुप्
बहवो विविधाकारा धूमकेतुपुरःसराः ।गुरोःपुत्रः कचः शंयुः स्याद्भरद्वाज इत्यपि ॥ २१२ ॥
2.3.212 · p. 403
अनुष्टुप्
वसिष्ठश्च वशिष्ठोऽपि कश्यपः काश्यपः समौ ।मारीचोऽप्यनुसूयायाः पतिस्त्वत्रिरतः पुनः ॥ २१३ ॥
2.3.213 · p. 403
अनुष्टुप्
भार्गवो जमदग्निः स्याद्यमदग्निरपि स्मृतः ।राहूगणो गौतमः स्याद्गोतमोऽप्यथ गाधिजः ॥ २१४ ॥
2.3.214 · p. 403
अनुष्टुप्
विश्वामित्रः कौशिकः स्यादेते वैवस्वतेऽन्तरे ।एकयोक्त्यर्षयः सर्वे तेऽपि चित्रशिखण्डिनः ॥ २१५ ॥
2.3.215 · p. 403
अनुष्टुप्
ध्रुवो नक्षत्रनेमिः स्यादुत्तानचरणात्मजः ।ज्योतीरथो ग्रहाधारः सुनीतितनयार्थकः ॥ २१६ ॥
2.3.216 · p. 403
अनुष्टुप्
पितृदेवनभोमार्गपर्यायश्च नभः सरित् ।भचक्रमध्यसूत्रं तन्मूलान्मृगशिरावधि ॥ २१७ ॥
2.3.217 · p. 404
अनुष्टुप्
ग्रहपर्यायनेमिः स्यादथागस्त्यो घटोद्भवः ।दण्डयामश्च दीक्षाग्निरगस्तिश्चाग्निमारुतः ॥ २१८ ॥
2.3.218 · p. 404
अनुष्टुप्
दक्षिणर्षिर्वारुणिः स्यात्सत्याग्निर्मान्य इत्यपि ।मानसूनुश्च तपनो मैत्रावरुणिरित्यपि ॥ २१९ ॥
2.3.219 · p. 404
अनुष्टुप्
और्वशेयोऽश्विवातापील्वलारिर्विन्ध्यकूटकः ।नहुषेन्द्रत्वशत्र्वर्था मैत्रावरुण इत्यपि ॥ २२० ॥
2.3.220 · p. 404
अनुष्टुप्
प्रियास्य वरदा लोपामुद्रा (कौषीतकी तथा) ।(वरप्रदाऽपि सैवोक्ता) वैदर्भ्यथ च तत्सुतौ ॥ २२१ ॥
2.3.221 · p. 404
metre not recognised
दृढच्युदिध्मवाहश्चाथैकयोक्त्येन्दुभास्करौ ।पुष्पवन्तावदन्तौ च मतुबन्तौ च तावथ ॥ २२२ ॥
2.3.222 · p. 404
अनुष्टुप्
उपाद्रागः प्लवो रक्तो द्रवः सर्गस्तथाऽऽहितः ।उपरागः स्त्रियामीतिर्ग्रहो ना ग्रहणं च षण् ॥ २२३ ॥
2.3.223 · p. 404
अनुष्टुप्
अग्न्युत्पातोऽपि चोत्पातो रिष्टं चारिष्टमित्यपि ।पुंसि क्लीबेऽप्यजन्यं स्यात् क्लीबे भं लग्नमित्यपि ॥ २२४ ॥
2.3.224 · p. 404
अनुष्टुप्
ग्रहावर्त्तद्वादशोंशो राशिः पुंस्यथ ते क्रमात् ।मेषो वृषश्च मिथुनं क्लीबे कन्यातुले स्त्रियौ ॥ २२५ ॥
2.3.225 · p. 404
अनुष्टुप्
वृश्चिको ना धनुः क्लीबे मकरः कुम्भमीनकौ ।ते तत्तन्नामपर्याया मासं शुक्रबुधारुणाः ॥ २२६ ॥
2.3.226 · p. 405
अनुष्टुप्
मासांस्त्रयोदश गुरुः शनिस्त्रिंशत्ततस्तमः ।अष्टादश तथा केतुः प्रायो भौमस्त्रयस्ततः ॥ २२७ ॥
2.3.227 · p. 405
अनुष्टुप्
मासान्सप्तदशेज्योथ सहस्रं द्विशतोत्तरम् ।सप्तर्षयस्तथागस्त्यो भुनक्त्यब्दान्ध्रुवोऽपि तु ॥ २२८ ॥
2.3.228 · p. 405
अनुष्टुप्
सर्वदा सकलान् राशीन् भचक्रस्योपरिस्थितः ।कल्पद्रौ केशवकृते भुवः स्कन्धे द्वितीयके ।नभःस्थदेवकाण्डोऽयं तृतीयः सिद्धिमागतः ॥ २२९ ॥
2.3.229 · p. 405
अनुष्टुप्