कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paramānandīyanāmamālā

परमानन्दीयनाममाला Paramānandīyanāmamālā

1,849 verses · 15,356 words tagged · 1,353 marked doubtful (dashed)

द्वितीयः परिच्छेदः (1/4)

इति श्रीकायस्थचिरवारीयमाथुरवंशभूषणमणिश्रीगढमलपुत्रश्रीमत्परमा-

नन्दनन्दनविरचितायां परमानंदीयनाममालायां प्रथमः काण्डः

(परिच्छेदः) समाप्तः ॥

द्वितीयः परिच्छेदः

कृष्णो नारायणो विष्णुजिष्णुश्रीपतिकेशवाः ।नरायणाजपुरुषतार्क्ष्यध्वजसनातनाः ॥ १ ॥
2.1 · p. 6
अनुष्टुप्
जनार्दनो जलशायो वासुदेवोऽप्यधोक्षजः ।दामोदरः शौरिविधुपीताम्बरजिना हरिः ॥ २ ॥
2.2 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ल (wrong syllable)
मुकुन्दाच्युतदाशार्हगोविन्दपुरुषोत्तमाः ।इन्द्रानुजो जह्नुविष्वक्सेनश्रीधरवेधसः ॥ ३ ॥
2.3 · p. 6
अनुष्टुप्
देवकीनन्दनः सोमसिन्धुश्रीवत्समाधवाः ।पद्मनाभः पद्मशयो वनमाली पुनर्वसुः ॥ ४ ॥
2.4 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प (wrong syllable)
मूञ्जकेशी ह्यषीकेशवृषाकपिगदाग्रजाः ।त्रिविक्रमः शतावर्तयदुनाथचतुर्भजाः ॥ ५ ॥
2.5 · p. 6
अनुष्टुप्
मार्जविश्वम्भरी विश्वरूपः पृष्णिधरो हि यः ।कुमोदकजलेशायिशङ्खभृद्धरणीधराः ॥ ६ ॥
2.6 · p. 6
अनुष्टुप्
जगन्नाथश्च गोपेन्द्रविष्टरश्रवसौ स्वभूः ।वध्याद्धेनुकचाणूरकालनेमिमुरादितः ॥ ७ ॥
2.7 · p. 7
अनुष्टुप्
वधकस्य च नामानि भवन्ति विपुलान्यपि ।इति श्रीपरमानन्दः कृष्णनामान्यदर्शयत् ॥ ८ ॥
2.8 · p. 7
अनुष्टुप्
लक्ष्मीः क्षीरोदधिसुता श्रीः पद्मा कमला रमा ।पद्मवासा हरेः कान्ता ता सा या मेन्दिरापि च ॥ ९ ॥
2.9 · p. 7
अनुष्टुप्
कामः कन्तुः खरुर्मारः श्रीसुतो विषमायुधः ।कन्दर्पहृच्छयानङ्गजराभीरुरतिप्रियाः ॥ १० ॥
2.10 · p. 7
अनुष्टुप्
प्रद्युम्नः कमनः पुष्पकेतनो मकरध्वजः ।शम्बरारिः स्मरः पुष्पधन्वा दर्पकमन्मथौ ॥ ११ ॥
2.11 · p. 7
अनुष्टुप्
मधुदीपमनोजन्मानन्यजा मधुसारथिः ।तिथाङ्गजौ प्रिया चास्य [5] रतिः पुत्रोऽनिरुद्धकः ॥ १२ ॥
2.12 · p. 7
अनुष्टुप्
ब्रह्मसूषेशऋष्याङ्का शृङ्गारात्ममनोमुखा ।योनिरस्याहितौ प्रोक्तौ शम्बरः शूर्पकोऽपि च ॥ १३ ॥
2.13 · p. 7
अनुष्टुप्
अस्त्रचापेषवश्चास्य पुष्पाणि जगदुर्बुधाः ।इति श्रीपरमानन्दः कामवर्गमभाषत ॥ १४ ॥
2.14 · p. 7
अनुष्टुप्
सुदर्शनो विष्णुचक्रं वाहनं वज्रजित्पुनः ।पाञ्चजन्योऽस्य कम्बुः स्यादङ्कः श्रीवत्स एव हि ॥ १५ ॥
2.15 · p. 7
अनुष्टुप्
नन्दकोऽसिर्गदा कौमोदकी कौपोदकी च सा ।शार्ङ्ग धनुर्मणिः स्यमन्तको हस्तेऽथ कौस्तुभः ॥ १६ ॥
2.16 · p. 8
अनुष्टुप्metre not read in every line
भुजमध्ये पिता वास्य दुन्दुर्भूकश्यपोऽपि च ।वसुदेवस्तथा पूर्वानको दुन्दुभिरेव सः ॥ १७ ॥
2.17 · p. 8
अनुष्टुप्
रौहिणेयो बलो रामो रेवतीरमणो हली ।मुशली सात्वतः कामपालः प्रियमधुश्च सः ॥ १८ ॥
2.18 · p. 8
अनुष्टुप्
रुक्मिभिद्यमुनाभिच्च प्रलम्बभिदपि स्मृतः ।संकर्षणो नीलवस्त्रो बलभद्रोऽच्युताग्रजः ॥ १९ ॥
2.19 · p. 8
अनुष्टुप्
ताललक्ष्मानन्तलक्ष्मा बलदेवः सितासितः ।मुशलं त्वस्य सौनन्दं हलं संवर्तकाभिधम् ॥ २० ॥
2.20 · p. 8
अनुष्टुप्
गरुडः काश्यपिस्तार्क्ष्यः स्वर्णकायश्च शाल्मली ।सौपर्णेयः सुपर्णोऽपि कामायुर्विष्णुवाहनम् ॥ २१ ॥
2.21 · p. 8
अनुष्टुप्
वज्रतुण्डः सर्पशत्रुररुणावरजो विराट् ।वज्रजिद्वैनतेयौ च गरुत्मांश्च सुधाहरः ॥ २२ ॥
2.22 · p. 8
अनुष्टुप्
ब्रह्मा प्रजापतिर्धाता विधाता विधिवेधसौ ।द्रुघणाजौ शतानन्दस्थविरौ कमनः कविः ॥ २३ ॥
2.23 · p. 8
अनुष्टुप्
परमेष्ठी जगत्कर्ता पद्मभूरात्मभूरपि ।नाभिभूरष्टकर्णोऽपि पद्मासनचतुर्मुखौ ॥ २४ ॥
2.24 · p. 8
अनुष्टुप्
स्वयंभूर्द्रुहिणो विश्वरेता हंसगसात्त्विकौ ।ध्रुवः पुराणगः शंभुर्वेदगर्भः पितामहः ॥ २५ ॥
2.25 · p. 9
अनुष्टुप्
… सुरज्येष्ठो विरञ्चश्च भवान्तकृत् ।हिरण्यगर्भलोकेशौ विरञ्चिश्च शतधृतिः ॥ २६ ॥
2.26 · p. 9
metre not recognised
सरस्वती श्रुतदेवी ब्राह्मी गौर्गीश्च भारती ।भाषा वाणी तु वाग्वाक्यं व्याहारवचने वचः ॥ २७ ॥
2.27 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 त (wrong syllable)
[6] ईश्वरः शंभुरीशानो महादेवो महानटः ।महेश्वरमृडौ शर्वः स्थाणुः शंकरधूर्जटी ॥ २८ ॥
2.28 · p. 9
अनुष्टुप्
गिरीशो गिरिशो मृत्युंजयः षण्ढोग्रभैरवाः ।एकदृग्भालदृग्नीललोहिताः शूलभृद्धरः ॥ २९ ॥
2.29 · p. 9
अनुष्टुप्
अहिर्बुध्नो विरूपाक्षो नीलकण्ठोऽष्टमूर्तिरुः ।भर्गो भीमो वृषाङ्कोऽपि कपर्दी घनवाहनः ॥ ३० ॥
2.30 · p. 9
अनुष्टुप्
भूतपतिः पशुपतिः खण्डपर्शुः पिनाकभृत् ।अट्टहासी त्रिनेत्रोऽपि श्रीकण्ठेशौ पुरासुहृत् ॥ ३१ ॥
2.31 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 प (wrong syllable)
गंगाधरो व्योमकेशो महाव्रतिकपालिनौ ।कृत्तिवासा दिशावासाश्चन्द्रमौलिर्विषान्तकः ॥ ३२ ॥
2.32 · p. 9
अनुष्टुप्
नाट्यप्रियोऽस्थिधन्वापि हर्ता पिङ्गेक्षणः शिवः ।शिपिविष्टोऽपि सर्वज्ञभवौ पञ्चमुखोऽपि च ॥ ३३ ॥
2.33 · p. 10
अनुष्टुप्
कालासुहृन्मखानङ्गगजपूषान्धकासुहृत् ।उमापतिस्तथा पिङ्गजटः प्रमथनायकः ॥ ३४ ॥
2.34 · p. 10
अनुष्टुप्
जटाजूटः कपर्दोऽस्य पिनाकः शांकरं धनुः ।अजगावमजगवमजकावमपि क्वचित् ॥ ३५ ॥
2.35 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 व (wrong syllable)
ब्राह्मीप्रभृतयः सप्त मातरः प्रमथा गणाः ।सुखंसुणस्तु खट्वाङ्गो अथाष्टैश्वर्यमेव हि ॥ ३६ ॥
2.36 · p. 10
अनुष्टुप्
गरिमा महिमा चैव अणिमा लघिमा तथा ।ईशित्वं च वशित्वं च प्राप्तिः प्राकाम्यमित्यपि ॥ ३७ ॥
2.37 · p. 10
अनुष्टुप्
मेनाकभगिनी शुम्भमथनी पार्वतीश्वरी ।कात्यायनी कुमारी च चण्डी काली तथोच्यते ॥ ४० ॥
2.40 · p. 10
अनुष्टुप्
उमा निशुम्भमथनी महिषासुरनाशिनी ।सिंहस्तस्या मनस्तालः सख्यौ च विजया जया ॥ ४१ ॥
2.41 · p. 10
अनुष्टुप्
चामुण्डा कर्णमोटी च चर्चिका च कपालिनी ।मार्जारकर्णिका चैव महागन्धा च भैरवी ॥ ४२ ॥
2.42 · p. 11
अनुष्टुप्
भृङ्गरीटिर्भृङ्गरिटिर्भृङ्गी नाड्यस्थिविग्रहः ।[7] कूष्माण्डके केलिकिलो नन्दीशे तण्डुनन्दिनौ ॥ ४३ ॥
2.43 · p. 11
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्भृ (wrong syllable)
विनायकः पर्शुपाणिद्वैमातुरगजाननाः ।लम्बोदरैकदन्तौ च हैरम्बगणनायकौ ॥ ४४ ॥
2.44 · p. 11
अनुष्टुप्
आखुगो विघ्नराजश्च कार्तिकेयोऽथ षण्मुखः ।षाण्मातुरो महासेनः ब्रह्मचारी च शक्तिभृत् ॥ ४५ ॥
2.45 · p. 11
अनुष्टुप्
गंगासुतो महातेजाः कुमारोमासुतौ गुहः ।स्कन्दः स्वामी विशाखश्च सेनानीस्तारकान्तकृत् ॥ ४६ ॥
2.46 · p. 11
अनुष्टुप्
क्रौञ्चारिश्च महातेजा द्वादशाक्षः शराग्निभूः ।इत्थं माहेश्वरो वर्गः सविस्तरमुदाहृतः ॥ ४७ ॥
2.47 · p. 11
अनुष्टुप्
स्वर्गः फलोदयो मेरुपृष्ठं तविषताविषौ ।त्रिविष्टपं भुविर्गौः स्वः द्योदिवौ त्रिदिवं मतम् ॥ ४८ ॥
2.48 · p. 11
अनुष्टुप्
नाकोर्ध्वलोकौ दिदिविर्दीदिविश्च सुरालयः ।देवा लेखाः सुपर्वाणः सुरनिर्जरनाकिनः ॥ ४९ ॥
2.49 · p. 11
अनुष्टुप्
अमर्त्यत्रिदशास्वप्ना दैवतर्भुसुधाभुजः ।बहिर्मुखामरस्वाहाभुग्गीर्वाणस्वधाभुजः ॥ ५० ॥
2.50 · p. 12
अनुष्टुप्
वृन्दारका निलिम्पाश्च आदितेयाश्च पूजिलाः ।विबुधा मरुतो दानवारयोऽनिमिषा अपि ॥ ५१ ॥
2.51 · p. 12
अनुष्टुप्
तेषामन्धोऽमृतं पेयूषं पीयूषमपि स्मृतम् ।समुद्रनवनीतं च सुधा यानमथोच्यते ॥ ५२ ॥
2.52 · p. 12
अनुष्टुप्
व्योमयानमपि प्रोक्तं विमानं बुधसत्तमैः ।स्वर्गिवध्वोऽप्सरोरम्भाः स्वःकान्ताश्चोर्वशीमुखाः ॥ ५३ ॥
2.53 · p. 12
अनुष्टुप्
हूहूहाहामुखा देवगायनाः कथिता बुधैः ।इन्द्रोऽच्युताग्रजो वज्रो विडौजा मधवान् हरिः ॥ ५४ ॥
2.54 · p. 12
अनुष्टुप्
सूत्रामा वासवो मेघवाहनोऽपि शतक्रतुः ।वास्तोष्पतिर्वृषा दल्मिजिष्णू वरक्रतुः पुनः ॥ ५५ ॥
2.55 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
कौशिकः शक्रपर्जन्यहर्यश्वकसुरर्षभाः ।शचीपतिः स्वर्गपतिपुरुहूतपुरंदराः ॥ ५६ ॥
2.56 · p. 12
अनुष्टुप्
आखण्डलः सहस्त्राक्षस्तुराषाण्मघवा पुनः ।शुनासीरोग्रधन्वानौ सुत्रामा पूर्वदिक्पतिः ॥ ५७ ॥
2.57 · p. 12
अनुष्टुप्
संक्रन्दनस्तपस्तक्षो ऋभुक्षो देवनायकः ।वृत्रहा बाहुदन्तेयो द्विषः पाकादयः पुनः ॥ ५८ ॥
2.58 · p. 13
अनुष्टुप्
तेभ्यो जिद्धोदिकैः शब्दैः नामानि [8] स्युः शचीपतेः ।जम्भपाकपुलोमाद्रिवृत्राश्च नमुचिर्बलः ॥ ५९ ॥
2.59 · p. 13
अनुष्टुप्
एते शक्रद्विषोऽथ स्यादिन्द्राणी जयवाहिनी ।पौलोमी च शची सुनुर्जयदत्तो जयः पुनः ॥ ६० ॥
2.60 · p. 13
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 सु (wrong syllable)
जयन्तोऽथ सुता तस्य जयन्ती ताविषी च सा ।हयश्चोच्चैःश्रवा द्वाःस्थो नन्दी सारथिरप्यथ ॥ ६१ ॥
2.61 · p. 13
अनुष्टुप्
मातलिः सामजश्चास्य हस्तिमल्लोऽभ्रवारणः ।ऐरावतश्चतुर्दन्तः श्वेतहस्त्यर्कसोदरः ॥ ६२ ॥
2.62 · p. 13
अनुष्टुप्
ऐरावणोऽभ्रमोः कान्तः पुरी तस्यामरावती ।सुधर्मा शक्रसदसि नन्दनं वनमीक्ष्यते ॥ ६३ ॥
2.63 · p. 13
अनुष्टुप्
नन्दीसरः सरश्चापमृजु रोहितनामकम् ।कल्पवृक्षश्च संतानः पारिजातः सुरद्रुमः ॥ ६४ ॥
2.64 · p. 13
अनुष्टुप्
हरिचन्दनमन्दारौ देववृक्षा भवन्त्यमी ।वज्रं स्वरुः पविः शम्बः शतधाराशनी भिदुः ॥ ६५ ॥
2.65 · p. 13
अनुष्टुप्
शतारः कुलिशो दीर्घज्वैरावतमपीरितम् ।शतकोटिश्च दम्भोलिर्व्याधामो ह्रादिनी स्त्रियाम् ॥ ६६ ॥
2.66 · p. 13
अनुष्टुप्
शम्बार्चिरतिभीरुक्तः स्फूर्जथुर्वज्रनिःस्वेनः ।विश्वकृद्विश्वकर्मापि त्वष्टा स्याद्देववर्धकिः ॥ ६७ ॥
2.67 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 7 स्वे (wrong syllable)
अश्विनौ देववैद्यौ च नासिक्यौ वडवासुतौ ।नासत्यावश्विनीपुत्रावर्कजावब्धिजौ यमौ ॥ ६८ ॥
2.68 · p. 14
अनुष्टुप्
दस्त्रौ चैतावता साङ्ग इन्द्रवर्गः समर्थितः ।वरुणो जलपतिः पाशी प्रचेताश्चार्णवगृहः ॥ ६९ ॥
2.69 · p. 14
अनुष्टुप्metre not read in every line
यादःपतिस्तथा मेघनादः पश्चिमदिक्पतिः ।परञ्जनोऽथ धनदः कुबेरो नरवाहनः ॥ ७० ॥
2.70 · p. 14
अनुष्टुप्
श्रीदः शितोदरो रत्नाकरः किंपुरुषेश्वरः ।एकपिङ्गश्चैलविलः कुहेश्वरसखौ पुनः ॥ ७१ ॥
2.71 · p. 14
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्चै (wrong syllable)
पौलस्त्येच्छावसू यक्षः कैलासौका निधीश्वरः ।पिशाचकी च त्रिशिरा हर्यक्षोऽपि धनाधिपः ॥ ७२ ॥
2.72 · p. 14
अनुष्टुप्
विमानं पुष्पकं चास्य वनं चैत्ररथं पुनः ।प्रभा वस्वोकसारा च अलका च पुरी तथा ॥ ७३ ॥
2.73 · p. 14
अनुष्टुप्
नलकूबरः स्मृतः [9] पुंसि धनदस्य सुतोऽत्र तु ।धनं वित्तं पृक्थमृक्णं स्वं द्रव्यं द्रविणं वसु ॥ ७४ ॥
2.74 · p. 14
metre not recognisednearly अनुष्टुप्
स्वापतेयं हिरण्यार्थौ रा निधाने तु शेवधिः ।निधिः कुनाभिरप्येवं नवसंख्या भवन्त्यमी ॥ ७५ ॥
2.75 · p. 15
अनुष्टुप्
महापद्मः पद्मनामा शङ्खो मकरकच्छपौ ।मुकुन्दो नीलकुन्दौ च चर्चाश्च नवमो मतः ॥ ७६ ॥
2.76 · p. 15
अनुष्टुप्
यक्षस्तु गुह्यकः पुण्यजनो राजा वटालयः ।किंनरोऽश्वमुखश्चैव किंपुरुषमयू समौ ॥ ७७ ॥
2.77 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 पु (wrong syllable)
असुराश्च शुक्रशिष्या दैत्या दनुसुता अपि ।सुरारयः पूर्वदेवाः पातालनिलया अपि ॥ ७८ ॥
2.78 · p. 15
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
रोहिणीप्रमुखाः सन्ति विद्यादेव्यस्तु षोडश ।यमः प्रेतपतिर्दण्डधरः कालोऽन्तकोऽर्कजः ॥ ७९ ॥
2.79 · p. 15
अनुष्टुप्
दक्षिणाशापतिः पितृपतिर्मृत्युहरी पुनः ।यमराजः कृतान्तश्च शीर्णाङ्घ्रिमहिषध्वजौ ॥ ८० ॥
2.80 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 पि (wrong syllable)
समवर्तिधर्मराजौ कालिन्दीसोदरोऽपि च ।श्राद्धदेवश्च शमनो धूमोर्णा त्वन्तकप्रिया ॥ ८१ ॥
2.81 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 र्ति (wrong syllable)
वैध्यतस्तु प्रतीहारो लेखकश्चित्रगुप्तकः ।महाचण्डश्व चण्डश्च भुजिष्यौ द्वौ पुरी पुनः ॥ ८२ ॥
2.82 · p. 15
अनुष्टुप्
संयमन्यन्तकस्य स्यादेष वर्ग उदाहृतः ।राक्षसः कौणपो रक्षो यातुधानः पलादनः ॥ ८३ ॥
2.83 · p. 15
अनुष्टुप्
नैर्ऋतः कर्बुरः क्रव्यात्कीनाशनिकसात्मजाः ।रात्रिंचरः पुण्यजनो नृचक्षाश्च निशाचरः ॥ ८४ ॥
2.84 · p. 16
अनुष्टुप्
यात्वाशरस्तथासृक्पः कटप्रूश्चोच्यते बुधैः ।सूर्योऽर्कः किरणः पूषा सविता तरणिः खगः ॥ ८५ ॥
2.85 · p. 16
अनुष्टुप्
मार्तण्डोऽहर्पतिर्भानुः पतंगश्चक्रबान्धवः ।अर्यमा तपनः सूरो भास्वान्खरकरोऽपि च ॥ ८६ ॥
2.86 · p. 16
अनुष्टुप्
द्वादशात्मा चित्रभानुर्ब्रध्नहंसविवस्वतः ।प्रज्ञोतनो ग्रहपुषः सहस्रांशू रविर्भगः ॥ ८७ ॥
2.87 · p. 16
अनुष्टुप्
कृतान्तजनको मित्रसप्तसप्ततिहेलयः ।ध्वान्तारातिर्जगत्कर्मसाक्षी ग्रहपतिर्हरिः ॥ ८८ ॥
2.88 · p. 16
अनुष्टुप्
हरिदश्वो जगच्चक्षुःप्रभाकरदिवाकराः ।विभावसुर्शुचीनौ च नभोमणिरहर्मणिः ॥ ८९ ॥
2.89 · p. 16
अनुष्टुप्
तीक्ष्णांशुररुणस्त्वष्टा [10] विकर्तननभोऽध्वगौ ।पीथस्त्रयीतनश्चैव विरोचनविभाकरौ ॥ ९० ॥
2.90 · p. 16
अनुष्टुप्
भास्करो मिहिरोष्णांशू आदित्यो यमुनापिता ।द्युपतिर्गोपतिश्चण्डभाः स्यादरुणसारथिः ॥ ९१ ॥
2.91 · p. 16
अनुष्टुप्
किरणः प्रग्रहो ज्योतिरर्चिर्धाम घृणिः करः ।पृश्निरशिमहःपाददीधितित्विषिदीप्तयः ॥ ९२ ॥
2.92 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
द्योतिरंशुः छविः केतुमरीचिरुचिरोचिषः ।अर्चिविरोकरुक्शोचिमयूखोस्रगभस्तयः ॥ ९३ ॥
2.93 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 वि (wrong syllable)
अभीशुः शुचिभाभानुवसूपधृतयो विभा ।प्रकाशो वर्च आलोकोद्योतावातपतेजसी ॥ ९४ ॥
2.94 · p. 17
अनुष्टुप्
परिवेषस्तु परिधिरुपसूर्यकमण्डले ।मरीचिका मृगतृष्णा काश्यपिः सूर्यसारथिः ॥ ९५ ॥
2.95 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ग (wrong syllable)
विनतासूनुररुणोऽप्यनूरुर्गरुडाग्रजः ।प्लवगस्त्वर्करेतोजो रेवन्तो हयवाहनः ॥ ९६ ॥
2.96 · p. 17
अनुष्टुप्
माठराद्यास्तथा भानोः पारिपार्श्विकनामकाः ।चन्द्रो निशापती राजा निशारत्नकलाभृतौ ॥ ९७ ॥
2.97 · p. 17
अनुष्टुप्
जर्णो जैवातृकः सोमः श्वेतवाजी हिमद्युतिः ।विधुरिन्दुः सुधासूश्च चन्द्रमा रोहिणीपतिः ॥ ९८ ॥
2.98 · p. 17
अनुष्टुप्
अत्रिदृग्जौषधीनाथदशवाजिनिशाकराः ।अब्जोडुपतिकुमुदबान्धवाश्च तिथिप्रणीः ॥ ९९ ॥
2.99 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 प (wrong syllable)
ग्लौर्मृगाङ्को द्विजपत्तिः शशभृत्कौमुदीपतिः ।छायाभृत्तारकानाथो निशानाथोऽपि कथ्यते ॥ १०० ॥
2.100 · p. 17
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ज (wrong syllable)
अभिज्ञानकलङ्काङ्काः लक्षणं लक्ष्म लाञ्छनम् ।चन्द्रिका कौमुदी चन्द्रगोलिका ज्योत्स्नया सह ॥ १०१ ॥
2.101 · p. 17
अनुष्टुप्
चन्द्रातपोऽथ तद्विम्बं मण्डलं परिकीर्तितम् ।स्त्रियां प्रसन्नता सादः प्रपूर्वो नरि दृश्यते ॥ १०२ ॥
2.102 · p. 18
अनुष्टुप्
कला च षोडशो भागस्तारकाभोडवः पुनः ।नक्षत्रज्योतिषी धिष्ण्यं ग्रहऋक्षेऽप्यथाश्विनी ॥ १०३ ॥
2.103 · p. 18
अनुष्टुप्
बालिनी चाश्वयुग्दस्रदेवताश्विकिनी तथा ।यमदेवा तु भरणी [11] कृत्तिका चाग्निदेवता ॥ १०४ ॥
2.104 · p. 18
अनुष्टुप्
बाहुला रोहिणी ब्राह्मी मृगशीर्षं मृगस्तथा ।मार्गो मृगशिरश्चान्द्रमसं चाथेल्वलाः पुनः ॥ १०५ ॥
2.105 · p. 18
अनुष्टुप्
इन्वकाश्च मृगशिरःशिरःस्थाः पञ्च तारकाः ।आर्द्रा च कालिनी रौद्री यामकौ च पुनर्वसू ॥ १०६ ॥
2.106 · p. 18
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 श्च (wrong syllable)
आदित्यावथ पुष्यः स्यात्तिष्यः सिध्यस्तथा मतः ।अश्लेषाप्यथ सार्पी स्यात्पित्र्याश्चैव तथा मघाः ॥ १०७ ॥
2.107 · p. 18
अनुष्टुप्
योनिभं फाल्गुनी पूर्वा अर्यम्णश्च तथोत्तरा ।हस्तः सवितृदेवस्तु चित्रा स्यात्त्वष्ट्टभं स्मृतम् ॥ १०८ ॥
2.108 · p. 18
अनुष्टुप्
स्वातिस्तु वायुभं ख्यातं विशाखेन्द्राग्निभं मतम् ।अनुराधाप्यनूराधा राधा ज्येष्ठा च मित्रभम् ॥ १०९ ॥
2.109 · p. 18
अनुष्टुप्
मूलः स्यादाश्रवः पूर्वाषाढापी सोत्तरा पुनः ।वैश्वी श्रवणनामाथ हरिदेवोऽपि कथ्यते ॥ ११० ॥
2.110 · p. 19
अनुष्टुप्
श्रविष्ठा तु धनिष्ठा स्याद्वसुभं चाथ वारुणी ।शतभिषक्च तथा पूर्वोत्तरा भद्रपदा अपि ॥ १११ ॥
2.111 · p. 19
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
द्वय्यः प्रोष्ठपदाः पौष्ण्यं रेवती [च] विधुप्रियाः ।मङ्गलो लोहिताङ्गारावाषाढाभूकुजावपि ॥ ११२ ॥
2.112 · p. 19
अनुष्टुप्
अङ्गारको नवार्चिश्च वक्रोऽपि कथितो बुधैः ।बुधः प्रहर्षुलः सौम्यो रोहिणीतनयोऽपि च ॥ ११३ ॥
2.113 · p. 19
अनुष्टुप्
ज्ञः श्यामाङ्गः श्रविष्ठाभूः पञ्चार्चिः स्यादिलाप्रियः ।बृहस्पतिर्गुरुर्जीवो धिषणद्वादशार्चिषौ ॥ ११४ ॥
2.114 · p. 19
अनुष्टुप्
सप्तर्षिजः सुराचार्यो गीष्पतिः फल्गुनीभवः ।वाचस्पतिरुतथ्यानुजोऽङ्गिरा बृहतीपतिः ॥ ११५ ॥
2.115 · p. 19
अनुष्टुप्
शुक्रो दैत्यगुरुः काव्यः षोडशार्चिर्मघाभवः ।भार्गवश्च कविर्ज्ञेय उशनाश्च शनैश्चरे ॥ ११६ ॥
2.116 · p. 19
अनुष्टुप्
धिष्ण्यश्छायासुतः सौरिरसितो रेवतीभवः ।नीलवासाः शनिर्मन्दः क्रोडसप्तार्चिषौ तथा ॥ ११७ ॥
2.117 · p. 19
अनुष्टुप्
राहुर्विधुन्तुदः सैंहिकेयः स्वर्भानुरेव सः ।तथैवाभ्रपिशाचोऽपि ग्रहकल्लोल इत्यपि ॥ ११८ ॥
2.118 · p. 20
अनुष्टुप्
भरणीभूस्तमोऽथ स्याच्छिखी केतुस्तथाहिकः ।अश्लेषाभूरथोत्तानपादजो ध्रुव इत्यपि ॥ ११९ ॥
2.119 · p. 20
अनुष्टुप्
सप्तर्षयो मरीच्यत्रिमुखाश्वित्रशिखण्डिनः ।अगस्तिः पीतसिन्धुः स्यादगस्त्यः कुम्भसम्भवः ॥ १२० ॥
2.120 · p. 20
अनुष्टुप्