All kośas › Trikāṇḍaśeṣa
त्रिकाण्डशेष Trikāṇḍaśeṣa
1,058 verses · 9,515 words tagged · 1,059 marked doubtful (dashed)
प्रथमः काण्डः · स्वर्गवर्गः
स्वर्लोको देवलोकः स्यादवरोहः फलोदयः ।मन्दरः सैरिभः शक्रभवनं खं दिवं नभः ॥ ४ ॥
1.1.4 · p. 3
अनुष्टुप्
स्वाहाभुजस्तु वसुलाः पूजिताश्च चिरायुषः ।शौभा निलिम्पा द्युषदः स्वर्गिणश्च नभःसदः ॥ ५ ॥
1.1.5 · p. 3
अनुष्टुप्
ऋनामा त्वदितिर्देवमाता स्यादथ पूर्बजाः ।पितरश्चन्द्रगोलस्था न्यस्तशस्त्राः स्वधाभुजः ॥ ६ ॥
1.1.6 · p. 4
अनुष्टुप्
कव्यवालादयस्ते च दैत्यास्तु प्रघसाः खराः ।क्रतुद्विषश्चेष्टिमुषो दैत्यमाता दितिर्दनुः ॥ ७ ॥
1.1.7 · p. 4
अनुष्टुप्
बुद्धोऽकनिष्ठगमहामुनिधर्मचक्रारागाशनिस्त्रिशरणः खसमो दशार्हः ।तापी गुणाकरमहासुखवज्रिणश्चमैत्रीबलासमजितारिसमन्तभद्राः ॥ ८ ॥
1.1.8 · p. 4
वसन्ततिलका
महाबोधिर्धर्मधातुः श्वेतकेतुर्जिनः स्वजित् ।त्रिमूर्तिर्दशभूमीशः पञ्चज्ञानो बहुक्षमः ॥ ९ ॥
1.1.9 · p. 4
अनुष्टुप्
सम्बुद्धः करुणाकूर्चः सर्वदर्शी महाबलः ।विश्वबोधो धर्मकायः संगुप्तोऽर्हन्सुनिश्चितः ॥ १० ॥
1.1.10 · p. 4
अनुष्टुप्
व्यामाभो द्वादशाख्यश्च वीतरागः सुभाषितः ।सर्वार्थसिद्धस्तु महाश्रमणः कलिशासनः ॥ ११ ॥
1.1.11 · p. 5
अनुष्टुप्
गोपेशश्चाथाऽस्य यशोधरेयो राहुलः सुतः ।देवदत्तोऽनुजोऽथ स्युः श्रावकाः शिष्यसंज्ञिनः ॥ १२ ॥
1.1.12 · p. 5
अनुष्टुप्
प्रत्येकबुद्धाः खड्गाः स्युः सुदान्ताश्चैकचारिणः ।स्वयम्भुवोऽथ मारीची त्रिमुखा वज्रकालिका ॥ १३ ॥
1.1.13 · p. 5
अनुष्टुप्
विकटा वज्रवाराही गौरी पौत्रिरथा च सा ।लोकनाथस्तु लोकेशः सरोजो गुणसागरः ॥ १४ ॥
1.1.14 · p. 5
अनुष्टुप्
लोकेश्वरः कृपाद्वैतः सुधावर्षी हलाहलः ।सुखावतीश्वरः कन्यारामोऽसिताभ्रशेखरः ॥ १५ ॥
1.1.15 · p. 5
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 सि (wrong syllable)
चिन्तामणिः पद्मपाणिर्बहुरूपः खसर्पणः ।अनीचदर्शी कारण्डव्यूहः पोतलकप्रियः ॥ १६ ॥
1.1.16 · p. 5
अनुष्टुप्
जटाधरो महावीर्यो वक्रसूर्योऽवलोकितः ।तारा महाश्रीरोङ्कारा स्वाहाश्रीश्च मनोरमा ॥ १७ ॥
1.1.17 · p. 6
अनुष्टुप्
तारिणी च जयाऽनन्ता शिवा लोकेश्वरात्मजा ।खदूरवासिनी भद्रा वेश्याली च सरस्वती ॥ १८ ॥
1.1.18 · p. 6
अनुष्टुप्
शंखिनी च महातारा वसुधारा धनन्ददा ।त्रिलोचना लोचना स्यान्मणिभद्रस्तु जम्भलः ॥ १९ ॥
1.1.19 · p. 6
अनुष्टुप्
पूर्वयक्षो जलेन्द्रोऽथ मञ्जुश्रीर्ज्ञानदर्पणः ।मञ्जुभद्रो मञ्जुघोषः कुमारोऽष्टारचक्रवान् ॥ २० ॥
1.1.20 · p. 6
अनुष्टुप्
स्थिरचक्रो वज्रधरः प्रज्ञाकार्यश्च वादिराट् ।नीलोत्पली महाराजो नीलः शार्दूलवाहनः ॥ २१ ॥
1.1.21 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
धियांपतिः पूर्वजिनः खड्गी दण्डी विभूषणः ।बालव्रतः पञ्चवीरः सिंहकेलिः शिखाधरः ॥ २२ ॥
1.1.22 · p. 6
अनुष्टुप्
वागीश्वरोऽथ हेवक्रो हेरुश्चक्रसंवरः ।देवो वज्रकपाली च निशम्भः शशिशेखरः ॥ २३ ॥
1.1.23 · p. 6
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
वज्रकीटोऽथ मैत्रेयो युवराज्ञोऽजितश्च सः ।चीवरी श्रमणो भिक्षुर्बल्यश्चैत्रोऽथ चेलुकः ॥ २४ ॥
1.1.24 · p. 6
अनुष्टुप्
श्रामणेरः प्रव्रजितो महापासकगोमिनौ ।अथ हंसरथो ब्रह्मा विरिञ्चोऽष्टश्रवः सनत् ॥ २५ ॥
1.1.25 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्र (wrong syllable)
कञ्जः प्राणश्च वेदीशवेदगर्भौ पुराणगीः ।अब्जजो विश्वरेताश्च कमलः प्रपितामहः ॥ २६ ॥
1.1.26 · p. 7
अनुष्टुप्
नाभिजन्मा शतधृतिर्बाह्मी तु ब्रह्मकन्यका ।वाग्देवी शारदा शुक्ला महाधता सरस्वती ॥ २७ ॥
1.1.27 · p. 7
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ध (wrong syllable)
अथ हरितबिन्दुश्रीकरश्रीवराहा-जितपरपुरुषश्रीगर्भषड्बिन्द्वनन्ताः ।नरकजिदृतधामा केशवो जन्मकीलः ऋतुपुरुषनृसिंहश्रन्थजह्नूच्चदेवाः ॥ २८ ॥
1.1.28 · p. 7
मालिनीmetre not read in every linenearly मालिनी
कोकः पुराणपुरुषो नलिनेशयश्चवासुनेर्नरायणपुनर्वसुविश्वरूपाः ।अः श्रीनिवासधरणीधरवामनैक-शृङ्गाश्च वृष्णिवृषशत्रुदशावताराः ॥ २९ ॥
1.1.29 · p. 7
वसन्ततिलकाmetre not read in every linenearly वसन्ततिलका
रन्तिदेवशिवकीर्तनौ त्रिपात्सोमसिन्धुरपि राहुमूर्धछित् ।कालनेमियवनारिपाण्डवाभीलसिन्धुवृषकृष्णकेशिनः ॥ ३१ ॥
1.1.31 · p. 8
रथोद्धताmetre not read in every line
हेमशंखः शतावर्ती मनुसात्वतवारिशाः ।वर्द्धमानः सतानन्दो जगन्नाथः सुयामुनः ॥ ३२ ॥
1.1.32 · p. 8
अनुष्टुप्
पूतनाधेनुकारिष्टकेशिचाणूरसूदनः ।भूकश्यपस्त्वस्य पिता दुन्दुक्षित्यदितिः प्रसूः ॥ ३३ ॥
1.1.33 · p. 8
अनुष्टुप्
स्यन्दनस्तु शतानन्दः सारथिश्चास्य दारुकः ।तुरङ्गाः शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥ ३४ ॥
1.1.34 · p. 8
अनुष्टुप्
ध्वजो भुजङ्गहा मन्त्री पवनव्याधिरुद्धवः ।शैनेयस्तु शिनेर्नप्ता युयुधानश्च सात्यकिः ॥ ३५ ॥
1.1.35 · p. 8
अनुष्टुप्
बलभद्रस्तु हालः स्यात्सौनन्दी हलतालभृत् ।संवर्तकी गुप्तचरो रुक्मिदार्य्येककुण्डलः ॥ ३६ ॥
1.1.36 · p. 8
अनुष्टुप्
मधुप्रियोऽथ प्रद्युम्नो जराभीरुः शमातकः ।प्रसूनानिपञ्चेषू कञ्जनो मधुसारथिः ।रागरज्जुः कलाकेलिमधुदीपरवीषवः ॥ ३७ ॥
1.1.37 · p. 9
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
इः केतुर्मकराङ्कः सङ्कल्पभवोऽङ्गजश्च रूपास्त्रः ।रणरणको रतिरमणः संसारगुरुर्मनोजन्मा ॥ ३८ ॥
1.1.38 · p. 9
आर्या
कार्ष्णिश्चाऽस्य प्रिया रागलता केलिकला रतिः ।सेः केलती चाऽस्य बाणा मोहनोन्मादनौ तथा ॥ ३९ ॥
1.1.39 · p. 9
अनुष्टुप्
सन्तापनः शोषणश्च निश्चेष्टीकरणोऽपि च ।सुतोऽनिरुद्धः स्याद्विश्वकेतुः प्रीतितृषौ सुते ॥ ४० ॥
1.1.40 · p. 9
अनुष्टुप्
श्री च लक्ष्मी चला सा मा रमाजलधिजेऽन्दिरा ।मणिः स्यमन्तको हस्ते विष्णोरुरसि कौस्तुभः ॥ ४१ ॥
1.1.41 · p. 9
अनुष्टुप्
तार्क्ष्यः शिलौकः कामायुररुणो वरजश्चिरात् ।पक्षिसिंह उलूतीशो वज्रतुण्डः सुधाहरः ।स्वर्णपक्षः सुमुखसूः शाल्मली भुजगाशनः ॥ ४२ ॥
1.1.42 · p. 9
अनुष्टुप्
शम्भुर्भगाली कपिशाञ्जनश्च हीरः कटप्रूर्भरुरेरिहाणौ ।पुरारिपञ्चाननभैरवाट्टहासप्रहासाश्च खकुन्तलश्च ॥ ४३ ॥
1.1.43 · p. 10
उपजातिः
कण्ठेकालजयन्तगुह्यगुरवो जोतिङ्गगोपालकौपिङ्गाक्षः कटमर्दरेवतजटाटङ्काव्ययाः कूटकृत् ।चन्द्रापीडमहानटौ च शमिरो हः शैलधन्वा जटा-चीरोऽथर्वणनन्दिवर्धनगुडाकेशाग्रकालञ्जराः ॥ ४४ ॥
1.1.44 · p. 10
शार्दूलविक्रीडितम्
मिहिराणो जगद्योनिष्टङ्कटीकोऽब्जवाहनः ।कृतङ्करो वरो बुद्धः सुप्रतापोऽकुतश्चलः ॥ ४५ ॥
1.1.45 · p. 10
अनुष्टुप्
उः स्थाणुः शिपिविष्टश्च मः कीलो धर्मवाहनः ।विरूपविषमत्र्यक्षाः सन्ध्यानटी वृषाञ्जनः ॥ ४६ ॥
1.1.46 · p. 10
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न (wrong syllable)
एकपाद्भौतिको भद्रोर्वरेताः पांशुचन्दनः ।अस्थिमाली शिवश्चाऽस्य खट्वाङ्गतु सुखंघुणः ॥ ४७ ॥
1.1.47 · p. 10
अनुष्टुप्
अजगवोऽजगावश्च वृषो भृङ्गी रिटिस्त्वसौ ।भृङ्गरिटः शलो भृङ्गी नाडीदेहोऽस्थिविग्रहः ॥ ४८ ॥
1.1.48 · p. 10
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 3 ग (wrong syllable); pāda 3, syllable 3 रि (wrong syllable)
महाकाली महाभीमो महाकायो वृषाणकः ।द्वाःस्थस्तु नन्दीशालङ्कायनस्ताण्डवतालिकाः ॥ ४९ ॥
1.1.49 · p. 10
अनुष्टुप्
स्यान्नन्दिकेश्वरोऽथाऽर्था हिण्डी शिखरवासिनी ।शक्तिः सिंहरथा गोला सिनीवाली दृषद्वती ॥ ५० ॥
1.1.50 · p. 11
अनुष्टुप्
सौः कृष्णपिङ्गला लम्बा शैलेयी गणनायिका ।वारालिकैकानंशा च शिवदूती यमस्वसा ॥ ५१ ॥
1.1.51 · p. 11
अनुष्टुप्
कोटवी बाभ्रवी कैटभी कैटभा यादवी कर्बुरी चेश्वरी चेश्वरा ।भ्रामरी दक्षकन्या च बर्हिध्वजी नन्दपुत्री च मारी च कालञ्जरी ॥ ५२ ॥
1.1.52 · p. 11
स्रग्विणी
गौतमी तामसी षष्ठी जयन्ती शूलधृक् सती ।सिंहस्तस्या मनस्तालः सख्यौ च विजयाजये ॥ ५३ ॥
1.1.53 · p. 11
अनुष्टुप्
वज्रशुण्डः करिमुखः पृष्णिशृङ्गो गणाग्रणीः ।त्रिधातुरेकदन्तश्च द्विदेहो मूषिकाञ्चनः ॥ ५४ ॥
1.1.54 · p. 11
अनुष्टुप्
विघ्नहारी कुमारस्तु स्वामी द्वादशलोचनः ।बालचर्यः सिद्धसेनः कृकवाकुध्वजश्च सः ॥ ५५ ॥
1.1.55 · p. 11
अनुष्टुप्
देवराजरस्तु लः कौशिकोऽसन्महा-बाहुदन्तेयदल्मीवाणोऽद्रिभित् ।वज्रपाणिर्महेन्द्रः सुग्रामणी-र्ग्रामनेमिर्वृषा नाकनाथो हरिः ॥ ५६ ॥
1.1.56 · p. 11
metre not recognised
प्राचीनबर्हिः खदिरः कपिलाश्वो वरक्रतुः ।प्राचीपतिस्तपस्तङ्कः पुलोमारिश्च माहिरः ॥ ५७ ॥
1.1.57 · p. 11
अनुष्टुप्
पृतनाषाट् प्रियात्वस्य चारुधारा शतावरी ।शची सुती देवसेना मातलिस्तु हयङ्कषः ॥ ५८ ॥
1.1.58 · p. 12
अनुष्टुप्
उच्चैःश्रवाः श्वेतहयो वृषणाश्वोऽमरावती ।वृषभासा सुरपुरी वनमैन्द्रं वृषण्वसु ॥ ५९ ॥
1.1.59 · p. 12
अनुष्टुप्
नन्दनं कन्दसारं स्यान्मिश्रकावनमित्यपि ।हस्तिमल्लश्चतुर्दन्तो भद्ररेणुर्मदांवरः ॥ ६० ॥
1.1.60 · p. 12
अनुष्टुप्
श्वेतद्विपः सुदामाऽथ वज्रोऽस्त्री गिरिकण्टकः ।वज्राशनिर्भिदुर्भिद्रो जम्भारिस्त्रिदशायुधम् ॥ ६१ ॥
1.1.61 · p. 12
अनुष्टुप्
शत्रधारं शतारं चाभ्रोत्थं भिदिरमम्बुजम् ।मार्जारकर्णी चामुण्डा कर्णमोटिश्च चर्चिका ॥ ६२ ॥
1.1.62 · p. 12
अनुष्टुप्
विद्याधरः कामरूपी खेचरः स्थिरयौवनः ।स्पर्शानन्दा रतिमदाऽप्सरसः सुमदात्मजा ॥ ६३ ॥
1.1.63 · p. 12
अनुष्टुप्
देवोद्यानानि वैभ्राजं मिश्रकं सिध्रकावणम् ।चैत्ररथं च नासिक्यौ युजौ दस्रौ गदागदौ ॥ ६४ ॥
1.1.64 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 र (wrong syllable)
शुष्मघासिधसवोऽञ्चतिर्जुहूर्बाण ईषिरतुषग्रहाशिराः ।छागवाहनपृदाकुबर्हिषः स्वर्णसप्तघृतमन्त्रदीधितिः ॥ ६५ ॥
1.1.65 · p. 12
रथोद्धता
पर्परीकहवनात्मनिपीथाः सप्तजिह्वसमिधावसितार्चिः ।नाचिकेतभुजिभारतविश्वप्साः शुचिः पचिसमन्तभुजौ च ॥ ६६ ॥
1.1.66 · p. 13
स्वागता
वडवाग्निस्तु सलिलेन्धनः स्याद्वडवामुखम् ।काकध्वजो वाणिजश्च स्कन्धाग्निः स्थूलकाष्ठधृक् ॥ ६७ ॥
1.1.67 · p. 13
अनुष्टुप्
छागणस्तु करीषाग्निस्तुणाग्निः स्यात्तरत्समः ।तुषानलः कुकूलः स्यान्मुर्मुरोऽथाग्निकुक्कुटः ॥ ६८ ॥
1.1.68 · p. 13
अनुष्टुप्
सङ्किलो दहनोल्का स्यादङ्गारः कोकिलाज्झुलौं ।धूमोऽम्भसूर्मरुद्वाहखतमालशिखिध्वजाः ॥ ६९ ॥
1.1.69 · p. 13
अनुष्टुप्
अग्निवाहस्तरीः स्वाहा त्वऽग्नायी दहनप्रिया ।जीवितेशो यमः शीर्णपादश्च महिषध्वजः ॥ ७० ॥
1.1.70 · p. 13
अनुष्टुप्
मन्दोऽस्य कान्ता धूमोर्णा चित्रगुप्तस्तु लेखकः ।भृत्यौ चण्डमहाचण्डौ कालीमी तु विचारभूः ॥ ७१ ॥
1.1.71 · p. 13
अनुष्टुप्
पञ्जिका त्वग्रसन्धानी नृचक्षास्तु खसात्मजः ।कीलालपः पलाशी च क्षपाटो नरविश्वणः ॥ ७२ ॥
1.1.72 · p. 13
अनुष्टुप्
सन्ध्याबलो रात्रिमठो हनूषः शमनीषदः ।पलाशो विखुरः शंकुः कापीशेयस्तु पिण्डकः ॥ ७३ ॥
1.1.73 · p. 14
अनुष्टुप्
पिशाचो मेघनादस्तु वरुणो वः परञ्जयः ।दैत्यदेवश्च वातिस्तु नभःप्राणो जगद्बलः ॥ ७४ ॥
1.1.74 · p. 14
अनुष्टुप्
भोगिकान्तः कम्पलक्ष्मायश्च धारावलिश्च वाः ।खश्वासः क्षिपणुर्धूलिध्वजः सरयुरङ्कतिः ॥ ७५ ॥
1.1.75 · p. 14
अनुष्टुप्
वातुलो वातगुल्मः स्याच्चरवायुर्निदाघजः ।झञ्झानिलः प्रावृषिजो वासन्तो मलयानिलः ॥ ७६ ॥
1.1.76 · p. 14
अनुष्टुप्
श्रीदधनकेलिमयुराट्श्वेतोदररत्नगर्भनिधिनाथाः ।कुतनुकुहेच्छावसवः पिशाचकी सत्यसङ्गस्त्रिशिराः ॥ ७७ ॥
1.1.77 · p. 14
गीतिःmetre not read in every line
अस्त्री पद्मो महापद्मः शंखो मकरकच्छपौ ।मुकुन्दकुन्दनीलाश्च खर्वाः स्युर्निधयो नव ॥ ७८ ॥
1.1.78 · p. 14
अनुष्टुप्
सुतोऽस्य मायुराजः स्यात्तथा वर्णकविर्निधौ ।आसङ्गिनी च वाताली स्याद्वात्या वातमण्डली ॥ ७९ ॥
1.1.79 · p. 14
अनुष्टुप्