All kośas › Koṣakalpataru
कोषकल्पतरु Koṣakalpataru
6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)
स्वर्गकाण्डः · स्वर्गवर्गः (1/2)
॥ इति परमात्मवर्गः ॥ श्री ॥ श्री ॥
स्वर्गोर्गौस्तविषवरो हताविषोर्ध्व-लोकाः स्युः सुरनिलयः सुपर्वलोकः ।पुंसि स्याद्रमति भुतिर्युतोऽप्यृभुक्षोनाकोऽस्त्री त्रिदिवयुतो दिवा सह द्यौः ॥ १ ॥
1.2.1 · p. 7
प्रहर्षिणी
स्त्रीलिङ्गाऽथ दिवसुखत्रिविष्टपानिक्लीबे स्वर्वदिह स्वरव्ययोऽस्ति ।स्वर्ग्यं स्वः फलमथ तद्भवे च दिव्यम्सौवर्ग्गं भवति [6a] सौवमन्यलिङ्गम् ॥ २ ॥
1.2.2 · p. 7
metre not recognised
दिवं प्रति प्रतिदिवं समीपेऽनुदिवं तथा ।यथादिवं दिवस्तुल्ये दिविष्ठः स्वर्गसंस्थितः ॥ ३ ॥
1.2.3 · p. 8
अनुष्टुप्
देवा निर्जरसः सुराः सुमनसोऽस्वप्ना अमर्त्त्या बुधाःगीर्वाणा मरुतोऽमरा मखभुजः स्वाहाभुजो नाकिनः ।आदित्या द्युषदस्तथा दिविषदो लेखाश्च बर्हिर्मुखाःस्युर्वृन्दारकपूजितावपि सुपर्वा----र्भवः ॥ ४ ॥
1.2.4 · p. 8
शार्दूलविक्रीडितम्metre not read in every line
त्रिदशादितेयविबुधान्धसःसदिवोकसो मरभिदो दिवौकसः ।नरि दैवतं क्वचन देवता स्त्रियाम्आधिदैवजे परवदाधिदैविकम् ॥ ५ ॥
1.2.5 · p. 8
metre not recognised
देवापत्ये दैवदैव्यौ देव्या दैवी स्त्रियामुभे ।भवेत्सुमनसो गोत्रापत्ये सौमनसायनिः ॥ ६ ॥
1.2.6 · p. 8
अनुष्टुप्
सौपर्वं देवकीयं स्यादिदमर्थे सुपर्वणाम् ।वृन्दिष्ठश्चापि वृन्दीया नाधिक्ये वाच्यलिङ्गता ॥ ७ ॥
1.2.7 · p. 8
अनुष्टुप्
वृन्दारकाणां भावे तु वृन्दिमा स्यान्नृलिङ्गकः ।देवासुरं देवदैत्यविरोधे स्यान्नपुंसकम् ॥ ८ ॥
1.2.8 · p. 8
अनुष्टुप्
देववर्गीय[6b]वद्देववर्गीणो देववर्ग्यकः ।देवान्देवेषु चेत्यर्थे देवत्रादिकमव्ययम् ।एवं बहुत्राऽशेषा स्त्री निर्माल्यं स्याद्दिविस्पृशाम् ॥ ९ ॥
1.2.9 · p. 8
अनुष्टुप्metre not read in every line
पिता तार्क्ष्यः कश्यपश्च मारीचिरदितीपतिः ।बहुदन्त्यदितिश्च स्याद्विकुण्ठा च तथादिती ॥ १० ॥
1.2.10 · p. 8
अनुष्टुप्
सूर्या विश्वे वसवस्तुषिता आभास्वरा हरा मरुतः ।स-महाराजिकसाध्या गणदेवाः साधिकारकथिताः ॥ ११ ॥
1.2.11 · p. 9
आर्याmetre not read in every line
विद्याधराः किंपुरुषाः पिशाचारक्षांसि यक्षाः सुरगाथकाश्च ।कद्रूसुता गुह्यकसिद्धभूताःकान्ता दिवो दैवतयोनयः स्युः ॥ १२ ॥
1.2.12 · p. 9
इन्द्रवज्रा
विष्णौ कृष्ण-जनार्द्दनाऽच्युत-हरि-श्रीवत्सलक्ष्माऽजित-श्रीवत्स-क्रतुपूरुषाऽसुररिपु-श्रीश-स्वभू-माधवाः ।वैकुण्ठः पुरुषोत्तमो मुरभिदो विश्वंभरः श्रीधरोगोविन्दो गरुडध्वजो गिरिधरः पीताम्बरः केशवः ॥ १३ ॥
1.2.13 · p. 9
शार्दूलविक्रीडितम्
विष्वक्सेन-पुराणपूरुष-जगन्नाथाऽजयेन्द्रानुजो-पेन्द्राऽधोक्षज-नन्दनन्दन-हृषीकेशा[7a] भरुः केशिहृत् ।षड्बिन्दुः शतबिन्दु-मैन्ददमनौ शार्ङ्गी बलिध्वंसनश्-चक्री कौस्तुभभूषणो नरकभित् कंसान्तकः साल्वहृत् ॥ १४ ॥
1.2.14 · p. 9
शार्दूलविक्रीडितम्metre not read in every line
गदाग्रज-गदाधराऽज-विधुपुण्डरीकेक्षणानरायण-चतुर्भुजाम्बुनिधिशायि-नारायणाः ।त्रिविक्रम-सनातनौ स्मरकृदेधनू विट्ठलोमुकुन्द-वनमालिनौ कमलनाभ-दामोदरौ ॥ १५ ॥
1.2.15 · p. 9
पृथ्वी
पृश्निगर्भ-शतधाम-बभ्रवोदैवकेय-यदुनाथ-वेधसः ।वासुदेव-जलशायि-वासवःकैटभारि-मधुवैरि-जिष्णवः ॥ १६ ॥
1.2.16 · p. 9
रथोद्धता
पाञ्चजन्यधर-विष्टरश्रवो-विश्वरूप-यमलार्जुनान्तकः ।राहुभेदि-शिशुपालहृद्धय-ग्रीवहृच्छकटहृद्बलानुजाः ॥ १७ ॥
1.2.17 · p. 9
रथोद्धता
शम्भु-वृषाकपि-शौरि-व्रजनाथाः पूतनारि-दाशार्हौ ।पाण्डवपाता-पोता धृत्वा बाणान्तकः शतावर्त्तः ॥ १८ ॥
1.2.18 · p. 10
गीतिः
कुमोदकः स्वर्णबिन्दुः सोमसिन्धुः पुनर्वसुः ।जह्नुर्भूमिधरो धेनुकारिश्चाणूरमर्दनः ॥ १९ ॥
1.2.19 · p. 10
अनुष्टुप्
अपराजितगोपेन्द्रमायकोकाम्बुजेशयाः ।कालीयदमनस्तद्वन्मुञ्जकेशी सु[7b]यामुनः ॥ २० ॥
1.2.20 · p. 10
अनुष्टुप्metre not read in every line
वसुदेवोऽस्य जनको दुन्दुरानकदुन्दुभिः ।भूकश्यपोऽथ देवक्या वैकुण्ठा दैवकीत्यपि ॥ २१ ॥
1.2.21 · p. 10
अनुष्टुप्
स्यमन्तको हस्तमणिः कौस्तुभोऽस्योरसि स्थितः ।आपादलम्बिनी माला वनमाला गले स्थिता ॥ २२ ॥
1.2.22 · p. 10
अनुष्टुप्
चक्रं सुदर्शनोऽस्त्री स्यान्नन्दयन्तस्तु नन्दकः ।अस्यासिरथ शारङ्गं शार्ङ्गं च धनुरीरितम् ॥ २३ ॥
1.2.23 · p. 10
अनुष्टुप्
शङ्खो हरेः पाञ्चजन्यो गदा कौमोदकी तथा ।श्रीवत्सोऽङ्को भृगुपदं पुरं वैकुण्ठमुच्यते ॥ २४ ॥
1.2.24 · p. 10
अनुष्टुप्
सौपर्णेय-सुपर्ण-सर्पभुगहिद्विट्-तार्क्ष्य-वज्रानन-स्वर्गङ्गामृतहारि-काश्यपि-गरुत्मत्-सूरसूतानुजाः ॥ २५ ॥
1.2.25 · p. 10
शार्दूलविक्रीडितम्
तद्वच्छाल्मलि-वज्रजेतृगरुडा वीन्द्रः शिलौका विराट्कामायुर्हरिवाह उन्नतिपतिः स्याद्वैनतेयस्तथा ॥ २६ ॥
1.2.26 · p. 10
शार्दूलविक्रीडितम्
हरिप्रियाऽम्भोनिधिजा…श्रीःलक्ष्मीन्दिरा पङ्कजमन्दिरा श्रीः ।लक्ष्मीश्च लक्षी तरला रमानाम्आलोकमाता कमलाह्वया सा ॥ २७ ॥
1.2.27 · p. 10
इन्द्रवज्राmetre not read in every line
इन्द्री वृषाकपायी ई श्रायं [8a] श्रीदैवते त्रिषु ।वैदर्भी रुक्मिणी कृष्णभार्या प्रद्युम्नसूरपि ॥ २८ ॥
1.2.28 · p. 10
अनुष्टुप्metre not read in every line
सत्या तु सत्यभामाऽन्या मुरली तु पुरंदरा ॥ २९ ॥
1.2.29 · p. 10
कन्दर्प-दर्पक-रतीश्वर-शूर्पकारि-प्रद्युम्न-मन्मथ-मनोज-खरु-स्वजा इः ।पञ्चेषु-पुष्पशर-हृच्छय-शम्बरारि-मीनाङ्क-मार-मकरध्वज-रौक्मिणेयाः ॥ ३० ॥
1.2.30 · p. 11
वसन्ततिलका
मधुसारथि-र्मधुसखो मधुदीपोमदनः स्मरो मनसिजः कमनश्च ।विषमाशुगः कुसुमकेतन-कन्तू-रमकश्च काम-कमलासुत-गृत्साः ॥ ३१ ॥
1.2.31 · p. 11
metre not recognised
इध्मः संकल्पजोऽनङ्गो-रागरज्जुरनन्यजः ।कलाकेलिर्जराभीर्वङ्गजौ शृङ्गारजो गवः ॥ ३२ ॥
1.2.32 · p. 11
अनुष्टुप्
उन्मादनः शोषणश्च तापनः स्तम्भनस्तथा ।सम्मोहनश्च कामस्य पञ्च बाणाः प्रकीर्तिताः ॥ ३३ ॥
1.2.33 · p. 11
अनुष्टुप्
केलिर्नीचरतिः प्रीतिरेव स्यात्सम्बरो रिपुः ।शूर्पकः सूर्पकश्चान्यो नन्दनो रिश्यकेतनः ॥ ३४ ॥
1.2.34 · p. 11
अनुष्टुप्
ऋष्यकेतु-र्विश्वकेतुरनिरुद्ध उषापतिः ।आयायनो ब्रह्मसूः स्यादूषा तूषा च [8b] बाणजा ॥ ३५ ॥
1.2.35 · p. 11
metre not recognised
मत्स्यादयस्तु हर्य्यंशा आदिमीनस्तु शङ्खहृत् ।वेदोद्धारकरश्चैव परिवर्त्तस्तु कूर्मराट् ॥ ३६ ॥
1.2.36 · p. 11
अनुष्टुप्
स्थिरदंष्ट्रो हिरण्याक्षच्छेदी श्वेतवराहकः ।हिरण्यकशिपुच्छेदी प्रह्लादाह्लादकारकः ॥ ३७ ॥
1.2.37 · p. 11
अनुष्टुप्
नरसिंहः स्तम्भजन्मा वामनो बलिराज्यहृत् ।उरुक्रमो भार्गवे तु रैणुकेयकुठारिणौ ॥ ३८ ॥
1.2.38 · p. 11
अनुष्टुप्
जामदग्न्यः क्षत्रकालः शम्भुशिष्योऽर्जुनान्तकः ।तक्षः परशुरामश्च रामः स्यात्पर्शुरामवत् ॥ ३९ ॥
1.2.39 · p. 11
अनुष्टुप्
कौसल्यासुत-रामचन्द्र-रघुपाऽहिल्याघहृन्मैथिली-नाथा दाशरथिर्दशास्यदमनो वाल्यन्तको राघवः ।रक्षोरिर्भरताग्रजोऽथ भरतः स्यात्केकयीनन्दनःसौमित्रिस्त्विह लक्ष्मणो निगदितस्त्रैमातुरो लक्षणः ॥ ४० ॥
1.2.40 · p. 11
शार्दूलविक्रीडितम्
शत्रुघ्नो लवणारिः स्याच्चत्वारश्चारवा अमी ।तातो दशरथः पङ्क्तिरथ इन्दुमतीसुतः ॥ ४१ ॥
1.2.41 · p. 12
अनुष्टुप्
कौशल्या रामजननी कैकेयी केकयी तथा ।[9a]पार्थिवा पार्थिवी सीता शीता जनकनन्दिनी ।वैदेही मैथिला च स्यादस्याः पुत्रः कुशो लवः ॥ ४२ ॥
1.2.42 · p. 12
अनुष्टुप्
बलि-बल-बलभद्र-कामपाल-प्रियमधु-सात्वत-राम-रेवतीशाः ।मधुमथन-पुरोज-नीलवासो-मुसलि-हलायुध-सीरपाण्यनन्ताः ॥ ४४ ॥
1.2.44 · p. 12
पुष्पिताग्रा
तालाङ्क-संकर्षण-रौहिणेयाःसौनन्दि-रुक्मिघ्न-कदम्बराश्च ।प्रलम्बनाशी यमुनीविभेदीसितासितैकश्रुतिभूषणौ च ॥ ४५ ॥
1.2.45 · p. 12
उपजातिः
मुसलं त्वस्य सौनन्दं हलं संवर्त्तकं स्मृतम् ।बुद्धोऽर्हन् सुगतोऽर्हन्तो मारजिल्लोकजिज्जिनः ॥ ४६ ॥
1.2.46 · p. 12
अनुष्टुप्
बोधिसत्त्वो महाबोधिर्धर्मराजस्त्रिकालवित् ।पञ्चज्ञानो दशबलः षडभिज्ञस्तथागतः ॥ ४७ ॥
1.2.47 · p. 12
अनुष्टुप्
समन्तभद्रः शास्तार्य्यो दशार्हो दशभूमिगः ।चतुस्त्रिंशज्जातकज्ञो दशमादमिताननः ॥ ४८ ॥
1.2.48 · p. 12
अनुष्टुप्
द्वादशाक्षो दयाकूरर्च्चस्त्रिकायः श्रीघनाकयौ ।मुनिर्मुनीन्द्रः संगुप्तो धर्मधातुर्विनायकः ॥ ४९ ॥
1.2.49 · p. 12
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अद्वै[9b]तवादी भगवान् खजिद्विज्ञानमातृकः ।तायी गुणाकरो विश्वबोधः स्यात्कलिशासनः ॥ ५० ॥
1.2.50 · p. 13
अनुष्टुप्metre not read in every line
जितारिश्चार्कबन्धुस्तु शाक्यसिंहोऽपि धीप्रजः ।शौद्धोदनिः शाक्यमुनिः शाक्यो राहुलसूरपि ॥ ५१ ॥
1.2.51 · p. 13
अनुष्टुप्
मायासुतो देवदत्तो गोतमान्वयसंभवः ।सर्वार्थसिद्धो वन्द्यस्तु श्रमणो भिक्षुरुच्यते ॥ ५२ ॥
1.2.52 · p. 13
अनुष्टुप्
साधन्तश्च भदन्तश्च भग्नाटश्च दिगम्बरः ।आजीवो मलधारी च निर्ग्रन्थः क्षपणस्तथा ॥ ५३ ॥
1.2.53 · p. 13
अनुष्टुप्
स एव जीवको जैनः श्रामणेयस्तु चेलुकः ।खिङ्खरः स स्वनामष्टीः पैशुन्यं भैक्षजीविका ॥ ५४ ॥
1.2.54 · p. 13
अनुष्टुप्
स्यादार्हतो वादवादी शून्यवादी तु सौगतः ।बार्हस्पत्यः पुनर्लौकायतिको वेदनिन्दकः ॥ ५५ ॥
1.2.55 · p. 13
अनुष्टुप्
अर्हतो भाव आर्हत्यमार्हन्ती तु स्त्रियां भवेत् ।कुण्डकीटस्तु चार्वाकवचनाभीज्ञपूरुषः ।कल्की यवनसंहर्त्तेत्यवतारा हरेर्दश ॥ ५६ ॥
1.2.56 · p. 13
अनुष्टुप्
ब्रह्माब्जात-सरोजसंभव-सुरज्येष्ठात्मभू-नाभिजाःशुभ्रि-स्रष्टृ-हिरण्यगर्भ[10a]विधिकाः शम्भू-स्वयंभू-भुवः ।लोकेशश्चतुराननः शतधृति-र्धाता-विधाता कविश्-चित्राटीर-विरञ्चि-हंसगमनाः सत्वाज-पद्मासनाः ॥ ५६ ॥
1.2.56 · p. 13
शार्दूलविक्रीडितम्metre not read in every line
कमनः स्थविरः पितामहोद्रुहिणोऽष्टश्रवणः पुराणगः ।द्रुघणो भवहृद्विरञ्चनःस विरिञ्चः श्रुतिगर्भ-वेधसौ ॥ ५७ ॥
1.2.57 · p. 13
वियोगिनी
परमेष्ठि-शतानन्द-विश्वसृड्विश्वरेतसः ।सात्विको लाभभूरिष्णुर्धरुणः प्रपितामहः ॥ ५८ ॥
1.2.58 · p. 14
अनुष्टुप्
प्रजापतिर्जगत्कर्त्ता धिषणश्चिषुणः सनात् ।अजातौ त्वथ कुब्रह्मा कुब्रह्मः कुत्सिते विधौ ॥ ५९ ॥
1.2.59 · p. 14
अनुष्टुप्
महाब्रह्मो महाब्रह्मा देशनाम पुनर्यदि ।सुराष्ट्रब्रह्मसौवीरब्रह्मौ स्यातां तदेति दिक् ॥ ६० ॥
1.2.60 · p. 14
अनुष्टुप्
कायं कदेवताकं स्यात्प्राजापत्यं भवादिषु ।स्वायंभुवं च दक्षस्तु मारिषेयश्च वैधसः ॥ ६१ ॥
1.2.61 · p. 14
अनुष्टुप्
मनोवती समाधातुः स्त्री सावित्री सरस्वती ।सनत्कुमारस्तु सनात्कुमारश्च विधातृजः ॥ ६२ ॥
1.2.62 · p. 14
अनुष्टुप्
कृते स्तो ब्रह्मरुद्राभ्यां नाम्नि ब्राह्मक-रौद्रके ।अजगोत्रापत्यमाज्यो द्वयोराजं भवेत्त्रिषु ॥ ६३ ॥
1.2.63 · p. 14
अनुष्टुप्
[10b] शंभुः शूली भगाली गिरिश-पशुपति-स्थाणु-सर्वज्ञ-सर्व-श्रीकण्ठ-श्यामकण्ठ-स्मरहर-मखभिद्-भर्ग-भालेक्षणेशाः ।कण्ठेकालः कपर्द्दि-त्रिपुरहर-हरेशान-शर्वाम्बिकेशाभूतेश-व्योमकेशान्धकरिपु-शमिर-त्र्यक्ष-गङ्गाधराह्वः ॥ ६४ ॥
1.2.64 · p. 14
स्रग्धरा
पञ्चास्येश्वर-शंकर-प्रमथपा-भालाङ्क-उड्डीश्वरो-ऽप्युग्रो धूर्जटिरिन्दुशेखर-जटाटीरौ कपाली मृडः ।रुद्र-त्र्यम्बक-वामदेव-शिपिविष्टा अष्टमूर्त्तिर्महा-देवो दिग्वसनः श्मशानसदनो भीमो गिरीशः शिवः ॥ ६५ ॥
1.2.65 · p. 14
शार्दूलविक्रीडितम्
मृत्युंजयः पिङ्गजटोऽट्टहासीकैलासवासी च तथास्थिधन्वा ।कालान्तकः स्याद्भुजगेन्द्रभूषोमहामहाभैरव उर्वृषाङ्कः ॥ ६६ ॥
1.2.66 · p. 14
उपजातिः
हिण्डीश-खट्वाङ्गधरोर्ध्वलिङ्गाःपिङ्गाक्ष-पूषारि-विषान्तकाः स्युः ।विरूपदृग्धीरहिरण्यरेतः-कृशानुरेतः-प्रियताण्डवाश्च ॥ ६७ ॥
1.2.67 · p. 15
उपजातिः
भवः संभवः कृत्तिवासाः पिनाकीमहाकाल-कालंजरौ वाहिर्बुध्न्यौ ।पुरारि-र्गजाराति-भीष्मैकपादःकटाटङ्कवद्-रेरिहा-[11a]णोऽस्थिभूषः ॥ ६८ ॥
1.2.68 · p. 15
metre not recognised
शैवं पाशुपतं रौद्रं तद्भवादौ विशेष्यवत् ।शतं रुद्रा देवन्तीति तस्य तच्छतरुद्रियम् ॥ ७० ॥
1.2.70 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
शतरुद्रीयमप्यस्य धनुष्यजगवं विदुः ।अजकावं चाजगवं तथाजकवमीरितम् ॥ ७२ ॥
1.2.72 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 चा (wrong syllable)
अजीतकं च युग्यं च पिनाको न स्त्रियां भवेत् ।कपर्द्दस्तु जटाजूटः खट्वाङ्गोऽस्त्री सुखं गुणाः ॥ ७३ ॥
1.2.73 · p. 15
अनुष्टुप्
शूलं तु त्रिशिखं पारिषद्याः स्युः प्रमथा गणाः ।कुष्माण्डकः केलिकिलो नन्दितं… ॥ ७४ ॥
1.2.74 · p. 15
अनुष्टुप्metre not read in every line
भृङ्गी भृङ्गिरीटि-र्भृङ्गरीटी नाडी शरीरकः ।अस्थिकायोऽथ कैलासः सिताद्री रजताचलः ॥ ७५ ॥
1.2.75 · p. 15
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 री (wrong syllable)
वाराणसी वारणसी वाणारस्यपि काशिका ।अविमुक्तं शिवपुरं दिवोदासपुरं च तत् ॥ ७७ ॥
1.2.77 · p. 15
अनुष्टुप्
महाश्मशानमानन्दवनं वाराणसेयवत् ।त्रिषु शैवपुरं तत्र ब्राह्म्याद्याः सप्तमातरः ॥ ७८ ॥
1.2.78 · p. 15
अनुष्टुप्
ऐश्वर्यं भगमस्त्री स्याद्विभूतिरणिमादिका ।लिङ्गं तु तस्य मूर्त्तिर्या पा[11b]षाणादिविनिर्मिता ॥ ८० ॥
1.2.80 · p. 15
अनुष्टुप्metre not read in every line
गौर्यामार्याम्बिकोमा-महिषविमथनी स्याद्भवानी मृडानीरुद्राणी मातृमाता भवति भगवती विष्णुमाया शिवा च ।दुर्गा शर्वाण्यपर्णा गणपतिजननी चण्डिका सिंहयानामेनापुत्रीश्वरी चाऽसुररिपुभगिनी पार्वतीशेश्वरा च ॥ ८१ ॥
1.2.81 · p. 16
स्रग्धरा
गौरीस्त्रीआर्यास्त्रीअम्बिकास्त्रीउमास्त्रीमहिषविमथनीस्त्रीभवानीस्त्रीमृडानीस्त्रीरुद्राणीस्त्रीमातृमातृस्त्रीभगवतीस्त्रीविष्णुमायास्त्रीशिवास्त्रीदुर्गास्त्रीशर्वाणीस्त्रीअपर्णास्त्रीगणपतिजननीस्त्रीचण्डिकास्त्रीसिंहयानास्त्रीमेनापुत्रीस्त्रीईश्वरीस्त्रीअसुररिपुभगिनीस्त्रीपार्वतीस्त्रीईशेश्वरास्त्री
शिवशक्तिर्हैमवती मैनाकभगिनी सती ।काली काला शिवा शैली दाक्षी कालजरा तथा ॥ ८२ ॥
1.2.82 · p. 16
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र्है (wrong syllable)
दाक्षायणी हरिवृषा महादेवी कुमारिका ।हिण्डी वृषाकपायी स्यान्मङ्गला सर्वमङ्गला ॥ ८३ ॥
1.2.83 · p. 16
अनुष्टुप्
कात्यायनी शुम्भहन्त्री शक्तिः कुण्डलिनी च सा ।कूष्माण्डी भूतनाथा च त्र्यम्बका च जयन्त्यपि ॥ ८४ ॥
1.2.84 · p. 16
अनुष्टुप्
अस्याः सिंहो मनस्तालः सख्यौ तु विजयाजये ।चामुण्डा चर्चिका चर्ममुण्डा मार्ज्जारकर्णिका ।कर्णमोटी महामुण्डा भैरवी तु कपालिनी ॥ ८६ ॥
1.2.86 · p. 16
अनुष्टुप्
हेरम्ब-लम्बोदर-पर्शुपाणि-द्वैमातुरेभानन-विघ्नराजाः ।शैवैकदन्ताखुग-वक्त्रशुण्ड-चण्डीसुताः पुत्र-विनायकश्च ॥ ८७ ॥
1.2.87 · p. 16
इन्द्रवज्रा
मङ्गलमूर्त्ति-[12a]र्गणराट् सिद्धीशो बुद्धिदाता च ।अङ्कुशधारी धूम्रध्वज-ढुण्ढीशौ सदादानः ॥ ८८ ॥
1.2.88 · p. 16
metre not recognised
यद्दैवतं गणपतिस्तत्र गाणपतं त्रिषु ।गाणपत्यं तु तत्स्वार्थ एवं क्षैत्रपतादयः ॥ ८९ ॥
1.2.89 · p. 16
अनुष्टुप्
स्कन्द-द्वादशदृग्-विशाख-शिवज-क्रौञ्चारि-षाण्मातुराःस्वामी षा-षडाननौ शरभवः सेनापतिः शक्तिभृत् ।सेनानीः शिखिवाहनः शिखिभवः स्यात्कार्त्तिकेयो महा-सेनस्तारकजित्कुमार-गिरिजाभू-बाहुलेया गुहः ॥ ९० ॥
1.2.90 · p. 16
शार्दूलविक्रीडितम्metre not read in every linenearly शार्दूलविक्रीडितम्
महातेजा ब्रह्मचारी गाङ्गेयः क्रौञ्चदारणः ।सैनापत्यं तु तद्भावे [स्कान्दः] स्कन्दसमेऽन्यवत् ॥ ९२ ॥
1.2.92 · p. 17
अनुष्टुप्
इन्द्रे शक्र-शचीश-देवऋषभ-स्वाराट्-स्वराधीश्वराजम्भाराति-पुलोमजिन्-नमुचिभित्-सुत्राम-गोत्रारयः ।सुत्रामा बलभित् सहस्रनयनो वास्तोष्पतिर्वासवःस्युर्मेघंकर-मेघवाहन-हरि-प्राचीश-संक्रन्दनाः ॥ ९३ ॥
1.2.93 · p. 17
शार्दूलविक्रीडितम्
ऋजीको वृषा वृत्रहा स्यात्तुराषाण्-मरुत्वान्-ऋभुक्षा विडौजा बिडौजाः ।सुनासीर-जिष्णू शुनाशीर-वि[12b]ष्ण्व-ग्रजौ वज्रभृत्स्यात्तपस्तक्षकश्च ॥ ९४ ॥
1.2.94 · p. 17
भुजङ्गप्रयातम्metre not read in every linenearly भुजङ्गप्रयातम्: pāda 1, syllable 11 वि (wrong syllable)
मघवा मघवान्पुरंदरःपृतनाषाट्-पुरुहूत-कौशिकाः ।विजयन्तक-पाकशासनौसह वृद्धश्रवसा दिवस्पतिश्च ॥ ९५ ॥
1.2.95 · p. 17
वियोगिनी
पुरुदंसा शतमन्युः शतमख-पूतक्रतू च दुश्च्यवनः ।प्राचीनबर्हिराखण्डल-पर्ज्जन्याश्च बाहुदन्तेयः ॥ ९६ ॥
1.2.96 · p. 17
गीतिः
वरक्रतुश्चोग्रधन्वा हर्यश्वो हरिवानपि ।विभ्राट् स्त्री वल्मिरैन्द्रं तु सुनासीरीयमित्यपि ॥ ९७ ॥
1.2.97 · p. 17
अनुष्टुप्
सुनासीर्यं मरुत्वत्यं वास्तोष्पत्यं च तादृशम् ।मरुत्वतीयं वास्तोष्पतीयं सौत्रामणं तथा ॥ ९८ ॥
1.2.98 · p. 17
अनुष्टुप्
महेन्द्रदेवताके स्यान्माहेन्द्रं च महेन्द्रियम् ।महेन्द्रीयं माघवतं तथा माघवनं विदुः ॥ ९९ ॥
1.2.99 · p. 17
अनुष्टुप्
वार्त्त्रघ्नं स्याद्वार्त्त्रहणं वृत्रहा यस्य देवता ।देवराजकृते दैवराजकं नाम चेद्भवेत् ॥ १०० ॥
1.2.100 · p. 18
अनुष्टुप्
अर्थेषु शैषिके तु स्यात्त्रितये दैवराजिकः ।स्याद्दैवराजिका दैवराजिकीति स्त्रियां द्वयम् ॥ १०१ ॥
1.2.101 · p. 18
अनुष्टुप्
पूतक्रतायी त्विह चारुधारे-न्द्राणी शची स्याज्जयवाहिनी च ।पुलोमजा सैव [13a] शतावरी स्याद्अस्यात्मजः स्याज्जयदन्त ऐन्द्रिः ॥ १०२ ॥
1.2.102 · p. 18
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 पु (wrong syllable)
पुमाञ्जयन्तश्च सुतानुताविषीस्याद्देवसेना तविषी जयन्ती ।कसोदरैरावण-मल्लनागास्-तथाऽभ्रनागोऽभ्रमुवल्लभश्च ॥ १०३ ॥
1.2.103 · p. 18
upajati mixed
चतुर्दन्तः श्वेतगजः सुदामैरावतः पुमान् ।प्रासादो वैजयन्तः स्याज्जम्भाद्यास्तपविद्विषः ॥ १०४ ॥
1.2.104 · p. 18
अनुष्टुप्
अश्वोरसं सप्तमुखो बिल उच्चैःश्रवा हयः ।सारथिर्मातलिर्ग्रीष्महासो वंशकफो ध्वजः ।मरुध्वजश्चेन्द्रतूलं जर्जरं वृद्धसूत्रकम् ॥ १०५ ॥
1.2.105 · p. 18
अनुष्टुप्metre not read in every line
इन्द्रायुधं मणिधनुर्दल्मिस्तत्त्वृजुरोहितम् ।दीर्घिकैरावतं पूस्तु पूषभासाऽमरावती ॥ १०६ ॥
1.2.106 · p. 18
अनुष्टुप्
सरो नन्दीसरस्तस्य देवनन्दी तु वेत्रभृत् ।न स्त्रियां वज्रकुलिशौ वज्राशन्यशनी द्वयोः ॥ १०७ ॥
1.2.107 · p. 19
अनुष्टुप्
भेदिर्भिदिश्च जसुरि-शम्ब-दम्भोलयः पविः ।स्तः स्वरु-स्वरुषौ लम्ब-व्याधाम-शतकोटयः ॥ १०८ ॥
1.2.108 · p. 19
अनुष्टुप्
भिदुरं चरमे भिद्रं गौः पेषिर्ह्रादिनी च सा ।भिदुर्ना कुलिशेन स्यान्निवृत्ते कौलिशायनिः ॥ १०९ ॥
1.2.109 · p. 19
अनुष्टुप्
वाज्रे[13b]यश्चाथ कुलिशतुल्ये कौलिशिकं त्रिषु ।स्फूर्जथुर्वज्रनिष्पेषो वज्रार्च्चिरतिभीः स्त्रियाम् ॥ ११० ॥
1.2.110 · p. 19
अनुष्टुप्metre not read in every line
विमानोऽस्त्री व्योमयानं तत्र देवरथो भवेत् ।चरन्ति ये विमानेन त्रिषु वैमानिका अमी ॥ १११ ॥
1.2.111 · p. 19
अनुष्टुप्
देवद्रोणी देवयात्रा वैभ्राजं नन्दनं वनम् ॥ ११२ ॥
1.2.112 · p. 19
मन्दाकिनी सोमधारा स्वर्णदी सुरदीर्घिका ।रन्तुः कपिलधारा जूः सीतासीता च सा मता ॥ ११३ ॥
1.2.113 · p. 19
अनुष्टुप्
पेयूषोऽस्त्री च पीयूषममृतं स्यात्सुधा बुधा ।विश्वकर्मा सुकर्माऽथ त्वष्टा च सुरवर्द्धकिः ॥ ११४ ॥
1.2.114 · p. 19
अनुष्टुप्
महीमस्तको रत्नसानुः सुराद्रिःसुवर्णाचलः कर्णिकाभूधरश्च ।द्युशैलः सुमेरुस्तथैवात्र मेरुःसुधर्मा मघा चेन्द्रसंसत्प्रदिष्टा ॥ ११५ ॥
1.2.115 · p. 19
भुजङ्गप्रयातम्
मेरोः कदम्बो भद्रः स्याज्जम्ब्वां द्वंद्वे सुदर्शनः ।मेरौ जम्बूनदी प्रोक्ता देवालंकारफेनसूः ॥ ११६ ॥
1.2.116 · p. 19
अनुष्टुप्
देवब्रह्मा नारदः स्यात्पिशुनः कलहप्रियः ।देवलो वैष्णवश्रेष्ठो नारदाद्याः सुरर्षयः ॥ ११७ ॥
1.2.117 · p. 19
अनुष्टुप्
स्वर्वैद्यावश्विनौ दस्रावाश्विनेयौ समुद्रजौ ।नासत्यौ वडवापुत्रौ ना[14a]सिक्यौ रविजौ यमौ ॥ ११८ ॥
1.2.118 · p. 20
अनुष्टुप्metre not read in every line
कल्पवृक्षश्च संतानो मन्दारः पारिजातकः ।हरिचन्दनमस्त्री स्यात्पञ्चैते सुरपादपाः ॥ ११९ ॥
1.2.119 · p. 20
अनुष्टुप्
स्त्री कामधुक्कामदुघा स्वर्गव्युत्तानचारिणी ।हुहूर्हूहूर्हहाहाहाहहःप्रभृतयस्तथा ॥ १२० ॥
1.2.120 · p. 20
अनुष्टुप्
तुम्बर्वाद्याश्च गन्धर्व्वा गान्धर्वाः सुरगाथकाः ।गातवश्वाथ बहुषु प्रायशोऽप्सरसः स्त्रियाम् ॥ १२१ ॥
1.2.121 · p. 20
अनुष्टुप्
वह्निर्वैश्वानरो* ज्वलन-हुतभुजौ वीतिहोत्रोऽप्सुयोनिःशोचिष्केशः शिखावान्पवि-पचन-शुचि-ज्वाल-जिह्वानलाः स्युः ।सप्तार्च्चिः शुन्ध्यु-शुक्राद्यनि-वनि-दहनोदर्चिरर्चिष्मदग्नि-स्वाहानाथाश्रयाशानिलसख-शिखिनश्चित्रभानुः कृशानुः ॥ १२३ ॥
1.2.123 · p. 20
स्रग्धराmetre not read in every linenearly स्रग्धरा
विश्वप्सा नरि पावको हुतवहो हव्याशनो हव्यवाट्स्युः पीतूशिगुषर्बुधा दमुनसा तुल्यो दमूना भुजिः ।बर्हिःशुष्मणि बर्हिरुत्थ-धुवनौ ज्योतिश्च बर्हिः पुमान्शुष्मा धूमपताक-तुत्थ-तिमिरघ्नाः कृष्णवर्त्मोषपः ॥ १२४ ॥
1.2.124 · p. 20
शार्दूलविक्रीडितम्
आशुशुक्षणि-हिरण्यरेतसौस्युर्जिगृध्न-वसु-जातवेदसः ।प्लुक्षि-घासि बहुलास्त[14b]नूनपाज्-जागृविश्छगलगस्तनूनपाः ॥ १२५ ॥
1.2.125 · p. 20
रथोद्धताmetre not read in every line