कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Suśīlanāmamālā

सुशीलनाममाला Suśīlanāmamālā

3,712 verses · 16,502 words tagged · 1,236 marked doubtful (dashed)

देवविभागः (2/4)

उदीचीनमुदग्जातं प्राक् प्राचीनं तथा भवेत् ।स्यात् प्रत्यक् तु प्रतीचीनं तिर्यग्दिशां तु नाथकाः ॥ १७७ ॥
3.177 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग्दि (wrong syllable)
इन्द्रश्चाग्निर्यमश्चैव नैर्ऋतो वरुणस्तथा ।वायुस्तया कुबेरः स्याद् ईशानश्च यथाक्रमम् ॥ १७८ ॥
3.178 · p. 25
अनुष्टुप्
अथैन्द्री तत्समाऽग्नेयी याम्या च नैऋती तथा ।वारुणी चापि वायव्या कौबेरी तदनन्तरम् ॥ १७९ ॥
3.179 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
ऐशानी चेति नामानि कथ्यन्ते पण्डितैरिह ।
3.124 · p. 25
अनुष्टुप्

* दिग्गजाः *

ऐरावतो दिग्गजोऽस्ति पुण्डरीकश्च वामनः ॥ १८० ॥
3.180 · p. 25
अनुष्टुप्
कुमुदश्वाऽञ्जनश्चैव पुष्पदन्तस्तदन्तरम् ।सप्तमः सार्वभौमोऽस्ति सुप्रतीकोऽष्टमस्तथा ॥ १८१ ॥
3.181 · p. 25
अनुष्टुप्
इत्यष्टौ दिग्गजाः श्रेष्ठाः कथ्यन्ते ज्ञानिभिः किल ।
3.127 · p. 25
अनुष्टुप्

* इन्द्रनामानि *

इन्द्रो हरिरुपेन्द्रश्च वज्री दुश्च्यवनो वृषाः ॥ १८२ ॥
3.182 · p. 25
अनुष्टुप्
बिडौजा मधवान् शक्रः पुरन्दरश्च वासवः ।आखण्डलः सहस्राक्षः सुत्रामा च सुरर्षभः ॥ १८३ ॥
3.183 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्द (wrong syllable)
शुनासीरः सुनासीरः शतक्रतुर्वरक्रतुः ।वास्तोष्पतिस्तथा दल्मिः कौशिको मेघवाहनः ॥ १८४ ॥
3.184 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 क्र (wrong syllable)
तुराषाट् यामनेमिश्च तपस्तक्षोऽच्युताग्रजः ।पृतनाषाट् मरुत्वान् पर्जन्यः पूर्वदिक्पतिः ॥ १८५ ॥
3.185 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
पौलोमीशः सुखाकाङ्क्षी सचीपतिः स्वर्गपतिः ।सुरेशश्च सुरस्त्रीशः नाकेशोऽसन्महा तथा ॥ १८६ ॥
3.186 · p. 26
अनुष्टुप्metre not read in every line
शचीशश्च शपीविश्च वराणो वज्रदक्षिणः ।नेरी सहसनेत्रश्च वन्दीकः देवदुन्दुभिः ॥ १८७ ॥
3.187 · p. 26
अनुष्टुप्
उग्रधन्वा जयो जिष्णुः पुरुहूतोऽप्परःपति ।खदिरोऽपि किणालातः खिदिरो मिहिरस्तथा ॥ १८८ ॥
3.188 · p. 26
अनुष्टुप्
ऋभुक्षाः बाहुदन्तेयः त्रायस्त्रिंशपतिस्तथा ।वयुनो गौरवास्कन्दी हर्यश्वो हरिमान् तथा ॥ १८९ ॥
3.189 · p. 26
अनुष्टुप्
नरी प्राचीनबर्हिश्च वृद्धश्रवास्तथैव च ।प्राचीशः पूर्वदिक्स्वामी संक्रन्दनस्तथैव च ॥ १९० ॥
3.190 · p. 26
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 3 श्र (wrong syllable); pāda 4, syllable 3 न्द (wrong syllable)
इन्द्रवाचकनामानि ज्ञातव्यानि बुधैर्जनैः ।इन्द्रस्य तु द्विषः पाकः पुलोमा नमुचिस्तथा ॥ १९१ ॥
3.191 · p. 26
अनुष्टुप्
वृत्रो बलोऽद्रयो जम्भो विख्याता इन्द्र शत्रवः ।इन्द्रस्य तु प्रियेन्द्राणी पौलोमी जयवाहिनी ॥ १९२ ॥
3.192 · p. 26
अनुष्टुप्
शतावरी महेन्द्राणी चारुधारा शची तथा ।शक्राणी चापि ज्ञातव्या तनयस्तु जयस्तथा ॥ १९३ ॥
3.193 · p. 26
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
जयन्तो जयदत्तश्च सुता तु तविषी पुनः ।जयन्ती तविषी तिस्रो हय उच्चैःश्रवा महान् ॥ १९४ ॥
3.194 · p. 26
अनुष्टुप्
मातलिः सारथिस्तस्य द्वितीयोऽस्ति हयंकषः ।द्वाःस्थस्तु देवनन्दी वै ऐरावणो गजः पुनः ॥ १९५ ॥
3.195 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 व (wrong syllable)
ऐरावतोऽभ्रमातङ्गो हस्तिमल्लोऽभ्रमुप्रियः ।श्वेतगजश्चतुर्दन्तः तथाऽर्कसोदरो गजः ॥ १९६ ॥
3.196 · p. 27
अनुष्टुप्metre not read in every line
वैजयन्तस्तु प्रासादः वैजयन्तो ध्वजस्तथा ।पुर्यमरावती ज्ञेया नामापरं सुदर्शनम् ॥ १९७ ॥
3.197 · p. 27
metre not recognised
सरो नन्दीसरस्तस्य सुधर्मा तु सभा भवेत् ।वनं तु नन्दनं ज्ञेयं वृक्षाश्च हरिचन्दनः ॥ १९८ ॥
3.198 · p. 27
अनुष्टुप्
मन्दारः पारिजातश्च सन्तानश्चापि कल्पकः ।धनुर्देवायुधं ज्ञेयं तदृजु रोहितं तथा ॥ १९९ ॥
3.199 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 जु (wrong syllable)
दीर्घर्ज्वैरावतं चैव स्याद्वज्रं त्वशनिः स्वरुः ।दम्भोलिर्ह्रादिनी शंविः शतकोटिस्तथा पविः ॥ २०० ॥
3.200 · p. 27
अनुष्टुप्
शतारः शतधारश्च व्याधामः कुलिशस्तथा ।भिदुश्च भिदुरं वज्रज्वाला तु अतिभीर्भवेत् ॥ २०१ ॥
3.201 · p. 27
अनुष्टुप्
स्फुर्जथुर्वज्रनिर्घोषः पण्डितेन निगद्यते ।स्वर्वैद्यावश्विनौ दस्रौ नासिक्यौ वडवासुतौ ॥ २०२ ॥
3.202 · p. 27
अनुष्टुप्
नासत्यावाश्विनीपुत्रौ तथा प्रवरवाहनौ ।यमौ नासत्यदस्त्रौ वै गदान्तकौ तथाऽर्कजो ॥ २०३ ॥
3.203 · p. 27
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्त (wrong syllable)
अब्धिजौ आश्विनेयौ च ज्ञेयौ यज्ञवहौ तथा ।त्वष्टा तु विश्वकर्मा च विश्वकृद्देववर्द्धकिः ॥ २०४ ॥
3.204 · p. 27
अनुष्टुप्
स्वर्गिवध्वस्तु स्वर्वध्वः स्वर्गस्त्रियः सुरस्त्रियः ।अप्सरसोऽप्सराश्चापि स्वर्वेश्या उर्वशीमुखाः ॥ २०५ ॥
3.205 · p. 28
metre not recognised
हाहादयस्तु गान्धर्वा गन्धर्वा देवगायनाः ।
3.152 · p. 28
अनुष्टुप्

* यमराजनामानि *

यमराजो यमः कालो यमराट् यमुनाग्रजः ॥ २०६ ॥
3.206 · p. 28
अनुष्टुप्
दक्षिणाशापतिर्मृत्युः कालकूटस्तथाऽन्तकः ।श्राद्धदेवोऽर्कसूनुश्च कालिन्दीसोदरस्तथा ॥ २०७ ॥
3.207 · p. 28
अनुष्टुप्
धर्मराजो महासत्यः शमनो महिषध्वजः ।कीनाशो वै कृतान्तश्च हरिर्दण्डधरस्तथा ॥ २०८ ॥
3.208 · p. 28
अनुष्टुप्
शीर्णांहिश्चापि शीर्णाङ्घ्रिः पुराणान्तस्तथैव च ।समवर्ती यमश्चापि धूमोर्णा तु यमप्रिया ॥ २०९ ॥
3.209 · p. 28
अनुष्टुप्
पुरी संयमिनी तस्य प्रतीहारस्तु वैध्यतः ।दासस्तस्य महाचण्डः चण्डस्तथा यमस्य वै ॥ २१० ॥
3.210 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स्त (wrong syllable)
लेखकस्तु पुनर्ज्ञेयः चित्रगुप्ताभिधः किल ।
3.158 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)

* राक्षसनामानि *

राक्षस आक्षरो रक्षः कीनाशः कौणपस्तथा ॥ २११ ॥
3.211 · p. 28
अनुष्टुप्metre not read in every line
क्रव्यादः कर्बरः क्रव्यात् रक्तग्रीवश्च नैऋतः ।पुण्यजनः पलादश्च हनुषो निकसात्मजः ॥ २१२ ॥
3.212 · p. 28
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ज (wrong syllable)
नैकसेयः खसापुत्रः यातुधानः पलप्रियः ।त्रिशिराः स्तब्धसंभारः रात्रिबलः प्रवाहिकः ॥ २१३ ॥
3.213 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ब (wrong syllable)
यातुः संध्याबलः शङ्कुः उद्धरो जललोहितः ।रात्रिञ्चरो नृचक्षाश्च विथुरः समितीपदः ॥ २१४ ॥
3.214 · p. 29
अनुष्टुप्
रात्रिचरस्तथाऽसृक्पः स्यादिति नरविष्वणः ।
3.163 · p. 29
अनुष्टुप्metre not read in every line

* वरुणदेवनामानि *

वरुणो जलकान्तारः प्रचेताश्च परञ्जनः ॥ २१५ ॥
3.215 · p. 29
अनुष्टुप्metre not read in every line
अर्णवमन्दिरः पाशी प्रतीचीशश्च संवृतः ।उद्दामो जलकान्तारः मेघनादश्च दुन्दुभिः ॥ २१६ ॥
3.216 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
यादःपतिरपांनाथः ज्ञेयाः जलपतिस्तथा ।
3.166 · p. 29
अनुष्टुप्

* कुबेरनामानि *

कुबेरो धनदः श्रीदः नृधर्मा नरवाहनः ॥ २१७ ॥
3.217 · p. 29
अनुष्टुप्
कैलासौका निधानेशः किंनरेशो निधीश्वरः ।राजराजो महासत्त्वः धनकेलिः धनेश्वरः ॥ २१८ ॥
3.218 · p. 29
अनुष्टुप्
वैश्रवणश्च वित्तेशः हर्यक्षः सत्यसङ्गरः ।पौलस्त्यः परिविद्धश्च कुहः किंपुरुषेश्वरः ॥ २१९ ॥
3.219 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 व (wrong syllable)
तथा मनुष्यधर्मा वै रत्नगर्भः सितोदरः ।त्रिशिराः सुप्रसन्नश्च यक्षो यक्षेश्वरस्तथा ॥ २२० ॥
3.220 · p. 29
अनुष्टुप्
गुह्यकेशश्च गुह्येशः प्रमोदितः सितोदरः ।ऐलविलैकपिङ्गौ वै रत्नकरः पिशाचकी ॥ २२१ ॥
3.221 · p. 30
metre not recognised
इच्छावसुरीशसखः सन्ति नामानि शास्त्रके ।विमानं पुष्पकं तस्य वनं चैत्ररथं तथा ॥ २२२ ॥
3.222 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 सु (wrong syllable)
पुरी वस्वौकसारा च वसुप्रभाऽलका तथा ।वसुसारा प्रभा चोक्ता पुत्रोऽस्ति नलकूबरः ॥ २२३ ॥
3.223 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
ज्ञेयः कुबेरदेवस्य इत्येवं कथितं बुधैः ।
3.174 · p. 30
अनुष्टुप्

* धननामानि *

धनं वित्तं तथा द्रव्यं द्रविणं विभवो वसु ॥ २२४ ॥
3.224 · p. 30
अनुष्टुप्
पृक्थमृक्थं च रिक्थं स्वं स्वापतेयं च रास्तथा ।ऋक्णमर्थो हिरण्यं स्याद् सारं द्युम्नं तथोच्यते ॥ २२५ ॥
3.225 · p. 30
अनुष्टुप्

* निधाननामानि *

निधानं तु कुनाभिश्च शेवधिर्निधिरित्यपि ।
3.177 · p. 30
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 ङ्ख (wrong syllable)

* निधिभेदाः *

महापद्मस्तथा पद्मः शङ्खमकरकच्छपाः ॥ २२६ ॥
3.226 · p. 30
अनुष्टुप्metre not read in every line
मुकुन्दः कुन्दनीलौ च चर्चाश्च निधयो नव ।
3.179 · p. 30
अनुष्टुप्

* जैनमतानुसारं निधिनाम *

नैसर्पः पाण्डुकश्चैव पिङ्गलः सर्वरत्नकः ॥ २२७ ॥
3.227 · p. 30
अनुष्टुप्
महापद्मस्तथा कालो महाकालश्च माणवः ।शङ्खकश्चेति नामानि निधयो नव संख्यया ॥ २२८ ॥
3.228 · p. 31
अनुष्टुप्
जैनमतानुसारेण कथ्यते ज्ञानिभिः किल ।
3.182 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)

* यक्षनामानि *

राजा पुण्यजनो यक्षः वटवासी च गुह्यकः ॥ २२९ ॥
3.229 · p. 31
अनुष्टुप्metre not read in every line

* किन्नरनामानि *

किन्नरस्तु किम्पुरुषः तुरङ्गवदनो मयुः ।
3.184 · p. 31
अनुष्टुप्metre not read in every line

* शिवनामानि *

शिवः शम्भुः वृषाङ्कश्च रुद्रः शर्वश्च शङ्करः ॥ २३० ॥
3.230 · p. 31
अनुष्टुप्metre not read in every line
श्रीकण्ठो नीलकण्ठश्च गिरीशो गिरिशो हरः ।ईश ईश्वर ईशानः भीमो भर्गश्च धूर्जटिः ॥ २३१ ॥
3.231 · p. 31
अनुष्टुप्
अस्थिधन्वा जगत्स्रष्टा वह्निरेताः महाव्रती ।दिग्वासाः कृत्तिवासाश्च कपर्दो पांशुचन्दनः ॥ २३२ ॥
3.232 · p. 31
अनुष्टुप्
उड्डीशः ऊर्ध्वलिङ्गश्च विरूपाक्षो विषान्तकः ।महाकान्तो महानादः सिताङ्गस्त्रिपुरान्तकः ॥ २३३ ॥
3.233 · p. 31
अनुष्टुप्
शैलधन्वा विशालाक्षो महादेवो महेश्वरः ।शूल खट्वाङ्गगङ्गाऽहीन्दुकपालपिनाकभृत् ॥ २३४ ॥
3.234 · p. 31
अनुष्टुप्
गजाऽनङ्गापुरापूषाकालाऽन्धकामखासुहत् ।अर्धकालो जगद्रोणिः कोणवादी नृवेष्टनः ॥ २३५ ॥
3.235 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 न्ध (wrong syllable)
अन्धकारिः अहिर्बुध्नः समिरो धर्मवाहनः ।षण्ढः श्मशानवेश्मा वै सर्वज्ञो वृषलाञ्छनः ॥ २३६ ॥
3.236 · p. 32
अनुष्टुप्
क्षिपिविष्टोऽष्टमूर्तिश्च घनाऽब्दवाहनौ मृडः ।भालदृगेकपात् त्रिदृक् महानादो दशाव्ययः ॥ २३७ ॥
3.237 · p. 32
metre not recognised
अनेकलोचनो ध्रूमः नाट्यप्रियो महानटः ।खण्डपर्शुः नराधारः दिशांप्रियतमस्तथा ॥ २३८ ॥
3.238 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्रि (wrong syllable)
कटाटङ्कः कटप्रूश्च कूटकृत् कपिलाञ्जनः ।कण्ठेकालोऽहिपर्यङ्कः मिहिराणो महाम्बकः ॥ २३९ ॥
3.239 · p. 32
अनुष्टुप्
योगी जोटी च जोटीङ्गः भवो भूरिश्च भैरवः ।उग्रः कालः उलन्दश्च रेरिहाणो जटाधरः ॥ २४० ॥
3.240 · p. 32
अनुष्टुप्
प्रमथपशुभूतोमापतिः पिङ्गेक्षणस्तथा ।पशुगणभूतनाथः गोरीनाथस्तथाऽतलः ॥ २४१ ॥
3.241 · p. 32
metre not recognised
शैलधन्वाऽट्टहासी च कामध्वंसी च ह्रत्करः ।शङ्कुः पञ्चमुखः स्थाणुः यमजित् च मृत्युञ्जयः ॥ २४२ ॥
3.242 · p. 32
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable); pāda 4, syllable 5 मृ (wrong syllable)
हीरो हिरण्यरेताः वै तथा स्यादक्षतस्वनः ।कपर्दोऽस्य जटाजूटः खट्वाङ्गस्तु सुखंसुणः ॥ २४३ ॥
3.243 · p. 32
अनुष्टुप्
तद्धनुः स्यात् पिनाकं चाऽजकावाऽऽजगवौ तथा ।अजगावमपि प्रोक्तं ब्राह्म्याद्याः सप्त मातरः ॥ २४४ ॥
3.244 · p. 33
अनुष्टुप्
ब्राह्मी माहेश्वरी सिद्धी कौमारी वैष्णवी तथा ।वाराही चापि चामुण्डा ज्ञेयाः सदैव मातरः ॥ २४५ ॥
3.245 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
प्रमथाः पार्षदास्तस्य पारिषदाः गणाः स्मृताः ।
3.201 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ष (wrong syllable)

* अष्टसिद्धिनामानि *

प्राकाम्यं वशितेशित्वं लधिमा महिमाऽणिमा ॥ २४६ ॥
3.246 · p. 33
अनुष्टुप्metre not read in every line
यत्रकामावसायित्वं प्राप्तिरैश्वर्यमष्टधा ।
3.203 · p. 33
अनुष्टुप्

* पार्वतीनामानि *

पार्वती तामसी चण्डी कुमारीरेवती जया ॥ २४७ ॥
3.247 · p. 33
अनुष्टुप्
सुनन्दा नन्दयन्ती वै नीलवस्त्रा घनाञ्जनी ।आर्या कात्यायनी दुर्गा प्रगल्भा कृष्णपिङ्गला ॥ २४९ ॥
3.249 · p. 33
अनुष्टुप्
प्रकूष्माण्डी च रुद्राणी भवानी सर्वमङ्गला ।अर्पणा त्र्यम्बका कृष्णा कौशिकी गौतमी शिवा ॥ २५० ॥
3.250 · p. 33
अनुष्टुप्
सती शिवी च शर्वाणी सावित्री सिंहवाहनी ।निशुम्भमथनी शुम्भमथनी भूतनायिका ॥ २५१ ॥
3.251 · p. 34
अनुष्टुप्
महिषमथनी भीमा गार्गी च गोकुलोद्भवा ।बर्हिध्वजा जयन्ती वै पुत्री क्षेमङ्करी प्रभा ॥ २५२ ॥
3.252 · p. 34
अनुष्टुप्metre not read in every line
हीरी हैमवती हासा विकराला यमस्वसा ।महानिशा महारौद्री कालङ्गमा करालिका ॥ २५३ ॥
3.253 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्ग (wrong syllable)
कालरात्रिः कुला लम्बा विलंका कुलदेवता ।भद्रकाली महाकाली परमब्रह्मचारिणी ॥ २५४ ॥
3.254 · p. 34
अनुष्टुप्
वरदा बदरीवासा दर्दुरा दक्षजा जया ।अनन्ता स्कन्दमाता च पितृगणाऽद्रिजा हिमा ॥ २५५ ॥
3.255 · p. 34
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ग (wrong syllable)
अमोघा च महाविद्या महामाया महाजया ।एकानसी विशालाक्षी उमा मलयवासिनी ॥ २५६ ॥
3.256 · p. 34
अनुष्टुप्
अष्टादशभुजा कुन्द्रा सिंहयाना कुहावती ।ईश्वरा चेश्वरी मारी गोला शिखरवासिनी ॥ २५७ ॥
3.257 · p. 34
अनुष्टुप्
मातृमाता च मैनाकस्वसा कृष्णस्वसा स्मृता ।वाहनं तु मनस्तालः पार्वत्या कथ्यते बुधैः ॥ २५८ ॥
3.258 · p. 34
अनुष्टुप्
जया च विजया तस्याः सख्या नाम द्वयं स्मृतम् ।
3.216 · p. 34
अनुष्टुप्

* चामुण्डानामानि *

चामुण्डा चर्ममुण्डा च चण्डमुण्डा च चर्चिका ॥ २५९ ॥
3.259 · p. 34
अनुष्टुप्
महाचण्डी महागन्धा तथा मार्जारकणिका ।भैरवी कर्णकोटी च प्रोक्ता बुधैः कपालिनी ॥ २६० ॥
3.260 · p. 35
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 6 क (wrong syllable); pāda 4, syllable 3 बु (wrong syllable)

* गणेशनामानि *

गणेशश्च गजास्यश्च विषाणान्तो विनायकः ।विघ्नेशो विघ्नराजश्च हेरम्बः प्रमथाधिपः ॥ २६१ ॥
3.261 · p. 35
अनुष्टुप्
एकदन्तो द्विशरीरो द्वैमातुरस्त्रिधातुकः ।पृश्निगर्भस्तथा पृश्निशृङ्गो लम्बोदराऽऽखुगौ ॥ २६२ ॥
3.262 · p. 35
अनुष्टुप्metre not read in every line
पर्शुपाणिस्तथा हस्तिमल्लश्चेति स्मृतं किल ।
3.221 · p. 35
अनुष्टुप्

* स्कन्दनामानि *

स्कन्दः स्वामी च सेनानी पार्वतीनन्दनस्तथा ॥ २६३ ॥
3.263 · p. 35
अनुष्टुप्
सिद्धसेनो महासेनः षण्मुखस्तारकान्तकः ।शक्तिभृत् शक्तिपाणिश्च क्रौञ्चारिः क्रौञ्चदारणः ॥ २६४ ॥
3.264 · p. 35
अनुष्टुप्
अग्निभूः अग्निजन्मा वै गङ्गोमाकृत्तिकासुतः ।शरभूः शरजन्मा च ब्रह्मचारी दिगम्बरः ॥ २६५ ॥
3.265 · p. 35
अनुष्टुप्
तारकारिः महातेजाः कुमारः करवीरकः ।गाङ्गेयो बालचर्यश्च वैजयन्तो दिवाकरः ॥ २६६ ॥
3.266 · p. 35
अनुष्टुप्
द्वादशाक्षस्तथा बाहुलेयश्च शिखिवाहनः ।षाण्मातुरो विशाखश्च स्यान्मयूररथो गुहः ॥ २६७ ॥
3.267 · p. 36
अनुष्टुप्

* शिवभृङ्गीगणादिनामानि *

भृङ्गिरिटी च भृङ्गी वै चर्मी भृङ्गीरिटिस्तथा ।नाड्यस्थिविग्रहौ चोक्तः पुनः कूष्माण्डकाभिधः ॥ २६८ ॥
3.268 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 रि (wrong syllable)
केलिकिलस्तथा प्रोक्तो नन्दिशस्तण्डुनन्दिनौ ।शङ्करस्य गणाश्चैते कथिताः पण्डितैः किल ॥ २६९ ॥
3.269 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 कि (wrong syllable)

* ब्रह्मणो नामानि *

ब्रह्मा चतुर्मुखः शम्भुः स्रष्टा शतधृतिर्ध्रुवः ।विश्वरेताः जगत्कर्ता पितामहः प्रजापतिः ॥ २७० ॥
3.270 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 म (wrong syllable)
विधिर्वेधा विधाता वै वेदगर्भः पुराणगः ।भवान्तकृत् स्वयम्भूश्च सनत् सरोरुहासनः ॥ २७१ ॥
3.271 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
स्थविरश्च शतानन्दः सात्त्विकः कमनः कविः ।द्रुहिणो द्रुधणो धाता नाभिजन्मा विरिञ्चनः ॥ २७२ ॥
3.272 · p. 36
अनुष्टुप्
कश्च कमलजन्मा च नाभिभूः पद्मभूस्तथा ।आत्मभूः आत्मयोनिश्च पुरुषः पुरुषासनः ॥ २७३ ॥
3.273 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 क (wrong syllable)
श्वेतपत्ररथश्चापि हिरण्यगर्भहंसगौ ।विरिञ्चश्च विरिञ्चिर्वै विरञ्चिश्चापि विश्वसृट् ॥ २७४ ॥
3.274 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ण्य (wrong syllable)
क्षेत्रज्ञश्चापि लोकेशः सुरज्येष्ठस्तथैव च ।अजोऽष्टश्रवणश्चेति सन्ति नामानि ब्रह्मणः ॥ २७५ ॥
3.275 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 नि (wrong syllable)

* विष्णुनामानि *

विष्णुर्जिष्णुर्जगन्नाथो जह्नुर्बभ्रुश्चतुर्भुजः ।अक्षजोऽधोक्षजो मार्जो विधुर्जिनो जनार्दनः ॥ २७६ ॥
3.276 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र्जि (wrong syllable)
तार्क्ष्यध्वजः शतावर्तो जलशयो जलेशयः ।धीरोऽब्धिशयनो धन्वी सुधन्वा विष्टरश्रवाः ॥ २७७ ॥
3.277 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श (wrong syllable)
उपेन्द्रः पुण्डरीकाक्षः पुरुषः पुरुषोत्तमः ।पीताम्बरः पराविद्धः पुराणपुरुषस्तथा ॥ २७८ ॥
3.278 · p. 37
अनुष्टुप्
श्रीपतिः पद्मनाभश्च पुण्यश्लोकोऽपराजितः ।एकपाद्द्विपदस्त्रिपाद् तीर्थपादः पराक्रमः ॥ २७९ ॥
3.279 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 स्त्रि (wrong syllable)
श्रीगर्भः श्रीधरः सोमः श्रीवत्सः श्रीकरस्तथा ।श्रीवराहो वृषोत्साहः श्रीवत्साङ्कः सरीसृपः ॥ २८० ॥
3.280 · p. 37
अनुष्टुप्
नवशक्तिर्नवव्यूहः चतुर्व्यूहः सुयामुनः ।आसन्दश्च शतानन्दः नारायणो नरायणः ॥ २८१ ॥
3.281 · p. 37
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)