कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विक्रेतृ

vikretṛपुं · masc.

In 4 kośas: 4 synonym verses.

नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.139
विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ ।
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.216 · p. 35
क्रयकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुके ।क्रेये प्रसारितं क्रय्यं विक्रेयं पणितव्यकम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.513 · p. 92
प्रोक्तो विक्रयिको विक्री विक्रेता इति च क्वचित् ।स्यात्पण्यकर्तृमानुष्ये क्रायिकः क्रयिकोऽपि च ॥ ५१३ ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.154 · p. 148
विक्रयी स्यात्तु विक्रेता तथा विक्रयिकोऽपि च ।क्रयिकः क्रायकः क्रेता क्रायिकोऽपि च कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.