कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Paryāyaśabdaratna

पर्यायशब्दरत्न Paryāyaśabdaratna

981 verses · 5,697 words tagged · 1,066 marked doubtful (dashed)

मध्यमलोकसर्गः (5/7)

पीयूषश्चापि पेयूषो नवगोक्षीर इत्युभौ ।स्यान्मयूराण्डसदृशे कवले ग्रास इष्यते ॥ ४८१ ॥
2.481 · p. 87
अनुष्टुप्
एकपङ्क्तिकमानुष्यपाने पीतिरितीष्यते ।तेषां भुजिक्रियायां तु स जग्धिरिति कथ्यते ॥ ४८२ ॥
2.482 · p. 87
अनुष्टुप्
स्यादम्बुपानतात्पर्ये तूदन्या तर्पणं च तृट् ।भोजने जेमनं न्यादो निघसो लेपनं तरिः ॥ ४८३ ॥
2.483 · p. 87
अनुष्टुप्
भुजिक्रियाफले तृप्तिः सौहित्यं तर्पणं तथा ।भुक्तोज्झितान्ने तु पला पलालीति पदद्वयम् ॥ ४८४ ॥
2.484 · p. 88
अनुष्टुप्
गोपालके तु गोसंख्यगोधुगाभीरबल्लवाः ।गोमहिष्यादिके पादबन्धनं यादवं धनम् ॥ ४८५ ॥
2.485 · p. 88
अनुष्टुप्
गोधनं गोनिवासे स्याद्गोमी गोमान्गवेश्वरे ।पूर्वं गोस्थानघासाङ्कस्थले त्वाशितमिष्यते ॥ ४८६ ॥
2.486 · p. 88
अनुष्टुप्
गवीनं चाथ वृषभे तूक्षा गौः सौरभेयकः ।गव्या गोत्रा चौक्षकं च गोवृन्दे वात्सकं त्विह ॥ ४८७ ॥
2.487 · p. 88
अनुष्टुप्
वत्सवृन्दे धैनुकं तु धेनुवृन्दे जरद्गवः ।वृद्धोक्षे चाथ जातोक्षः समुत्पन्नोक्षके मतः ॥ ४८८ ॥
2.488 · p. 88
अनुष्टुप्
सद्योजाते तर्णकः स्याद्दशाहे तु शकृत्करी ।वत्सोऽथ दम्यः प्रथमः स्यात्तु वत्सतरो युवा ॥ ४८९ ॥
2.489 · p. 88
अनुष्टुप्
इड्वरश्चेट्चरः षण्ड इत्वरो ढङ्कगोपती ।वृषस्कन्धे वहश्चाथ नस्योतो नस्तितोऽपि च ॥ ४९० ॥
2.490 · p. 88
अनुष्टुप्
नासिकायां कृतच्छिद्रबलीवर्देऽथ पष्ठवाट् ।तत्संख्याकबलीवर्देऽथ युग्यः शाकटोऽपि च ॥ ४९१ ॥
2.491 · p. 89
अनुष्टुप्
प्रासङ्ग्यश्चापि युग्यादिवाहकेषु प्रकीर्तिताः ।खनके वाहके सम्बन्धिनि वाहे च सम्मताः ॥ ४९२ ॥
2.492 · p. 89
अनुष्टुप्
हारिकः सैरिकः सैरी सैरिभः सैरिरित्यति ।भारवाहवहो धुर्यो धौरेयो धूर्वहोऽपि च ॥ ४९३ ॥
2.493 · p. 89
अनुष्टुप्
धुरी धुरीणधुरपौ धुरंधरयुगंधरौ ।एकभारवहे ढाकी चैकीकश्चैकधूरिणः ॥ ४९४ ॥
2.494 · p. 89
अनुष्टुप्
स्यादेकधुर इत्यादि चाथ सवाक्तवाहके ।स्यात्सर्वधुरिणश्चट्टः पिष्ट इत्यपि कथ्यते ॥ ४९५ ॥
2.495 · p. 89
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 स (wrong syllable)
गोजातीयस्त्रियां प्रोक्ता माहेयी शृङ्गिणी च गौः ।अघ्न्या माहा रोहिणी च सौरभेयापि(य्यपि?) चार्जुनी ॥ ४९६ ॥
2.496 · p. 89
अनुष्टुप्
उस्रा करौटी घाटी च कमला मोदकारिणी ।बहुक्षीरादिसुगुणयुक्तायां नैचिकी मता ॥ ४९७ ॥
2.497 · p. 89
अनुष्टुप्
अवतोका स्रवद्गर्भा स्यादवस्रुतगर्भिणी ।वृषाकान्ता तु माहेयी सन्धिनी हादिनीति च ॥ ४९८ ॥
2.498 · p. 90
अनुष्टुप्
वेहद्गर्भा गर्भहन्तृगवि स्यादुपसर्यका ।उपसर्या चिरप्राप्तयौवना परिकीर्तिता ॥ ४९९ ॥
2.499 · p. 90
अनुष्टुप्
स्याद्बालगर्भिणी गौस्तु पष्ठौही पञ्चहीति च ।स्यादकोपनगोभेदे सूकरा सुकरापि च ॥ ५०० ॥
2.500 · p. 90
अनुष्टुप्
स्याद्बह्वपत्यगोभेदे बहुसा(सू?)तिः परेषु(ष्टु?) का ।बष्काय(ष्कयि?)णी बष्कयणी बहुकालप्रसूतिका ॥ ५०१ ॥
2.501 · p. 90
अनुष्टुप्
सुगुणायां सुब्रता स्याद्धेनुस्तु नवसूतिका ।स्थूलोधसि स्यात्पीनोध्नी धेनुष्या धनिकालया ॥ ५०२ ॥
2.502 · p. 90
अनुष्टुप्
समांसमीना संप्रोक्ता प्रतिवर्षप्रसूतिका ।द्रोणदोग्ध्री द्रोणदुघा निक्षीरा स्रग्विणी मता ॥ ५०३ ॥
2.503 · p. 90
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्रो (wrong syllable)
आपीनं चोध उन्धश्च (ऊधश्च?) गोपयोधरमण्डले ।पश्वादिबन्धकीले तु कीलकः शिवकोऽपि च ॥ ५०४ ॥
2.504 · p. 90
अनुष्टुप्
वत्सादिबन्धरज्ज्वां तु दाम संदानमित्यपि ।अनेकपशुबन्धार्थं निर्मिते दीर्घदामनि ॥ ५०५ ॥
2.505 · p. 91
अनुष्टुप्
दामनीति स्त्रियां चाथ वैशाखो मन्थनं तथा ।मन्थाश्च मन्थनं(नो?) मन्था मन्थानो दधिमन्थने ॥ ५०६ ॥
2.506 · p. 91
अनुष्टुप्
कुटरी(रो?) मन्थदण्डाग्रस्थितचन्द्राभदारुणि ।प्रोक्ता तु गर्गरी मन्थघटे किंचापि मन्थनी ॥ ५०७ ॥
2.507 · p. 91
अनुष्टुप्
उष्ट्रे महाङ्गो मयटो मयः शुन्धी क्रमेलकः ।करभे स्याच्छृङ्खलको बन्धिते स तु बालकः ॥ ५०८ ॥
2.508 · p. 91
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 च्छृ (wrong syllable)
छागे तु स्तबको वस्तः छा(छ?)गः छागलकोऽपि च ।उरभ्र उरणो मेषो मेढ्रो वृष्टि(ष्णि?)श्च एडके ॥ ५०९ ॥
2.509 · p. 91
अनुष्टुप्
औष्ट्रकं चाजकं चौरभ्रकस्तद्गण इष्यते ।चक्रीवांश्चापि बालेयो रासभो गर्दभः खरे ॥ ५१० ॥
2.510 · p. 91
अनुष्टुप्
वैदेहको वामधने तद्वाहे वहनः स्मृतः ।वाणिज्यवृत्तिजीवे तु सार्थवाहो वणिक्तथा ॥ ५११ ॥
2.511 · p. 91
अनुष्टुप्
पण्याजीवश्चापणिको नैगमो वाणिजोऽपि च ।क्रयविक्रयिकः कर्ता चाथ विक्रयकारिणि ॥ ५१२ ॥
2.512 · p. 91
अनुष्टुप्
प्रोक्तो विक्रयिको विक्री विक्रेता इति च क्वचित् ।स्यात्पण्यकर्तृमानुष्ये क्रायिकः क्रयिकोऽपि च ॥ ५१३ ॥
2.513 · p. 92
अनुष्टुप्
वाणिज्यवृत्तौ वाणिज्यं वणिज्या वणिजा तथा ।मूल्यद्रव्ये तु वस्नः स्यादवक्रय इति द्वयम् ॥ ५१४ ॥
2.514 · p. 92
अनुष्टुप्
स्याल्लाभार्थं प्रयुक्ते तु धने परिपणं तथा ।लाभे फलं विनिमये परिदानं च नीगमम् ॥ ५१५ ॥
2.515 · p. 92
अनुष्टुप्
नैमेयो निमयश्चापि परिवर्त इतीष्यते ।स्यान्निक्षेपविशेषे तु न्यासश्चोपनिधिस्तथा ॥ ५१६ ॥
2.516 · p. 92
अनुष्टुप्
न्यासप्रत्यर्पणे प्रोक्तं प्रतिदानं प्रयच्छनम् ।विक्रेत्रा विक्रयार्थायापणे त्यक्तपणे स्मृतम् ॥ ५१७ ॥
2.517 · p. 92
अनुष्टुप्
क्रय्यं क्रयार्हं यत्पण्यं विक्रयार्थं गृहे स्थितम् ।तत्पण्ये तु क्रयं प्रोक्तं चाथ पण्यं पणार्हणम् ॥ ५१८ ॥
2.518 · p. 92
अनुष्टुप्
पणितव्यं पणिश्चापि पण्यमात्रे प्रकीर्तितम् ।सत्यकं सत्यकरणं सत्यंकारस्तथापि च ॥ ५१९ ॥
2.519 · p. 92
अनुष्टुप्
सत्यापनं सत्यकृतिः सत्यीकरणमित्यपि ।मूल्यं गृहीत्वा पण्यस्यार्पणे विपणविक्रयौ ॥ ५२० ॥
2.520 · p. 92
अनुष्टुप्
एकाद्याश्चाष्टादशान्ताः संख्याः संख्येयवाचकाः ।सरतः संख्येयानुसारास्त्रिषु लिङ्गेषु सम्मताः ॥ ५२१ ॥
2.521 · p. 92
metre not recognisednearly अनुष्टुप्
एकोनविंशत्याद्याश्च नवत्यन्ताश्च सर्वदा ।संख्यावाचकशब्दा ये तेषां चायं हि निर्णयः ॥ ५२२ ॥
2.522 · p. 92
अनुष्टुप्
एकोनविंशत्यादीनां संख्यामात्रार्थवादिनाम् ।स्यादेकद्वित्रिवचनता संख्येये तु चैकता ॥ ५२३ ॥
2.523 · p. 93
अनुष्टुप्
संख्येयेषु च संख्यायां नित्य(त्यं?)स्त्रीलिङ्गता मता ।पङ्क्तिस्तु दशसंख्या स्याच्छतं दशगुणोत्तरम् ॥ ५२४ ॥
2.524 · p. 93
अनुष्टुप्
एवं सहस्रमयुतं प्रयुतादिकमुन्नयेत् ।स्याद्धान्यादिकमाने तु प्रपाय्यं हि(यौ?)तवं तथा ॥ ५२५ ॥
2.525 · p. 93
अनुष्टुप्
मानं तुलाङ्गुलिप्रस्थैस्त्रिविधं परिकीर्तितम् ।रजतादतिरिक्तादौ पञ्जगुञ्जापरीमिते ॥ ५२६ ॥
2.526 · p. 93
अनुष्टुप्
स्वर्णादावाद्यमाषः स्यादाद्यमाषक इत्यपि ।स्यात्षोडशाद्यमाषादिपरीमितेऽक्ष इष्यते ॥ ५२७ ॥
2.527 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 मि (wrong syllable)
कर्षोऽथ पलमित्युक्तं तच्चतुर्गुणिते स्मृतम् ।विस्तः सुवर्णः कनकनिकुञ्चनविकर्षणे ॥ ५२८ ॥
2.528 · p. 93
अनुष्टुप्
स्यात्सुवर्णपले विस्तो कुरुविस्त इति द्वयम् ।तुलाभरं तुलाभारं स्वर्णे तत्तत्परीमिते ॥ ५२९ ॥
2.529 · p. 93
अनुष्टुप्
कार्षापणः कार्षिकश्च पणश्चाचित इत्यपि ।चतुःप्रस्थपरीमाणे त्वाढको द्रोण इष्यते ॥ ५३० ॥
2.530 · p. 94
अनुष्टुप्
अष्टाढकप्रमाणे स्यादथ खारी तु कथ्यते ।चतुर्विंशतितद्द्रोणपरिमाणेऽथ वाहकः ॥ ५३१ ॥
2.531 · p. 94
अनुष्टुप्
वाहोऽष्टद्रोणकः सूनाष्टखारीकपरीणतौ ।कुड्ड(ड?)पस्य चतुर्थेंऽशे निकुञ्चश्चापि कुञ्चनः ॥ ५३२ ॥
2.532 · p. 94
अनुष्टुप्
कुडका(वा?)दिकमुन्नेयाः संख्यासारानुमोदकैः ।माषादीनामेकदेशे वण्टको भाग अंशकः ॥ ५३३ ॥
2.533 · p. 94
अनुष्टुप्
द्रव्ये वित्तं स्वापतेयं ऋक्षं(क्थं?) रिक्षं(क्थं?) हिरण्यकम् ।धनं वसु हिरण्यं च द्युम्नं रा विभवो धनम् (मघम्?) ॥ ५३४ ॥
2.534 · p. 94
अनुष्टुप्
हेमरूप्य(प्यं?)घनीभूतमग्नितापादनन्तरम् ।हिरण्यकोशे वाच्ये ते इति मीमांसका विदुः ॥ ५३५ ॥
2.535 · p. 94
अनुष्टुप्
अंशरूपपरित्यागात्कृतं तदभिधीयते ।कटकादिकरूपादेराप्राप्तेरकृतं स्मृतम् ॥ ५३६ ॥
2.536 · p. 94
अनुष्टुप्
कनकं रजतं चापि पिण्डीभूतं कृताकृतम् ।स्याद्धेमरूप्ययोरन्यं कांस्यादिः कुप्यमिष्यते ॥ ५३७ ॥
2.537 · p. 94
अनुष्टुप्
राममुद्राङ्किते रूप्ये हेम्नि रूप्यं तदिष्यते ।गारुत्मतं मरकतमश्मगर्भं हरिन्मणौ ॥ ५३८ ॥
2.538 · p. 95
अनुष्टुप्
पद्मरागे लोहितकं कुरुविन्दं च लोहितम् ।मुक्ताफले मौक्तिकं स्यान्मुक्ता मुक्तोऽपि दृश्यते ॥ ५३९ ॥
2.539 · p. 95
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
कनके तपनीयं स्याद्गाङ्गेयं भर्म हेम च ।कर्बुरं जातरूपं च रुक्मं कार्तस्वरं तथा ॥ ५४० ॥
2.540 · p. 95
अनुष्टुप्
सुवर्णं रजतं ताम्रं रितिः कांस्यं तथा त्रपु ।सीसं नदीवरं चैव अष्टौ लोहानि चक्षते ॥ ५४१ ॥
2.541 · p. 95
अनुष्टुप्
स्मृतं हि शृङ्गीकनकमलंकारस्य योग्यके ।खर्जूरश्वेतदुर्वर्णरूप्य(प?)रूप्याणि राजि(ज?)ते ॥ ५४२ ॥
2.542 · p. 95
अनुष्टुप्
ताम्रे त्वौदुम्बरं शुल्बं दृ(ह्य?)ष्टं म्लेच्छमुखं रितिः(री?) ।वरिष्ठमथ तीक्ष्णं च शस्त्रकं पिण्ड इत्यपि ॥ ५४३ ॥
2.543 · p. 95
अनुष्टुप्
कालायसमयश्चाश्मसारश्चायसि संस्मृतम् ।अयोमयो(ले?) तु मण्डूरं सिंहाणं सिंहणं तथा ॥ ५४४ ॥
2.544 · p. 95
अनुष्टुप्
क्षारस्तु काचेऽथ स्यात्तु पारदे पारतोऽपि च ।रसः सूतश्च चपलं गवलं त्वथ इष्यते ॥ ५४५ ॥
2.545 · p. 95
अनुष्टुप्
स्याच्छृङ्गिमहिषादीनामभ्रके(कं?) गिरिजामले ।स्त्रोतोञ्जनं च सौवीरं कपोताञ्जनयामुने ॥ ५४६ ॥
2.546 · p. 95
अनुष्टुप्
तुत्थाञ्जनं शिखिग्रीवं कर्पूराञ्जनमित्यपि ।मयूरकं च मायूरं कर्परीति वितुन्नकम् ॥ ५४७ ॥
2.547 · p. 96
अनुष्टुप्
दार्वीकाक्वाथोद्भवं च तुत्थं चापि रसाञ्जनम् ।रसगर्भं तार्क्ष्यशैलं गन्धिको गन्धिरेव च ॥ ५४८ ॥
2.548 · p. 96
अनुष्टुप्
सौगन्धिकश्च चक्षुष्या कुलाली च कुलत्थिका ।पुष्पकेतुश्च हेतुश्च रि(री?)तिपुष्पं च पौष्पकम् ॥ ५४९ ॥
2.549 · p. 96
अनुष्टुप्
तत्स्रोता(तो?)ञ्जनमारभ्यः स्युरञ्जनविभेदकाः ।हरिताले तु पीतं स्यात्पीतनं पीतकं तथा ॥ ५५० ॥
2.550 · p. 96
अनुष्टुप्
हरितालमलं तालं हरितालकमित्यपि ।शिलोत्थलाक्षायां प्रोक्ता शिलाजेतु(जतु?) शिलापि च ॥ ५५१ ॥
2.551 · p. 96
अनुष्टुप्
गैरेयं गिरिजं चार्थ(र्थ्य?)मश्मजं चाश्मकं तथा ।बोले तु स्याद्गन्धरसः प्राणः पिण्डोऽपि गोपनः ॥ ५५२ ॥
2.552 · p. 96
अनुष्टुप्
रसो गोपश्चाथ रम्यं डिण्डीरो डिण्डिरोऽपि च ।फेनश्चाब्धिकफश्चाब्धिफेने चाथ तु सिन्दुरम् ॥ ५५३ ॥
2.553 · p. 96
अनुष्टुप्
सिन्धूरं नागरं नागो नागसंभवमित्यपि ।सीसे तु नागं वप्रं च योगं सीसकमित्यपि ॥ ५५४ ॥
2.554 · p. 97
अनुष्टुप्
त्रपुसंज्ञकलोहे तु रङ्गं वङ्गं च पिच्चटम् ।निर्बीजकार्पासभेदे तूलः पिचुल इत्यपि ॥ ५५५ ॥
2.555 · p. 97
अनुष्टुप्
कुसुम्भाख्यौषधीपुष्पे कुसुम्भं कमलोत्तरम् ।स्याद्वह्निशिखमच्छाभं महारजनमित्यपि ॥ ५५६ ॥
2.556 · p. 97
अनुष्टुप्
ऊर्णायुः स्यान्मेषलोमकृतकम्बलभेदके ।शशोर्णं शशलोमोत्थकम्बले परिकीर्तितः ॥ ५५७ ॥
2.557 · p. 97
अनुष्टुप्
चतुर्विधं मधु प्रोक्तं माक्षिकं च कपोतिकम् ।भ्रामकं(रं?) सीसमिति च तेषु क्षौद्रं प्रयुज्यते ॥ ५५८ ॥
2.558 · p. 97
अनुष्टुप्
सिक्थकं तु मधूच्छिष्टे प्रोक्तं चाथ मनःशिला ।मनोगुप्ता मनोह्वा च मनोज्ञा नागजिह्विका ॥ ५५९ ॥
2.559 · p. 97
अनुष्टुप्
नेपालदेशकायामः? स्यात्तु नैपालिका तथा ।कुनटी कुत्सिता गौ(गो?)ला यवक्षारे यवाग्रजः ॥ ५६० ॥
2.560 · p. 98
अनुष्टुप्
पाक्योऽथ सर्ज(र्जि?)काक्षारे क(का?)पोतः सुखवर्चकः ।शिग्रुजं श्वेतमरिचं त्वक्क्षीरावंशरोचना ॥ ५६१ ॥
2.561 · p. 98
अनुष्टुप्
ग्रन्थिकं पिप्पलीमूले चटकाशिर इत्यपि ।गोलोभ्यां भूतकेशः स्यादिक्षुमूले तु मोरजः(टः?) ॥ ५६२ ॥
2.562 · p. 98
अनुष्टुप्
मरीचपिप्पलीशुण्ठीत्रयचूर्णे तु चूर्णकम् ।व्यू(त्र्यु?)षणं त्र्यूषणं चैव किं च त्रिकटुकं तथा ॥ ५६३ ॥
2.563 · p. 98
अनुष्टुप्
हरीतकीविभीतक्यामलकी त्रिफला मता ।शूद्रे स्यादवरवर्णो वृषलश्च जघन्यजः ॥ ५६४ ॥
2.564 · p. 98
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 र (wrong syllable)
शूद्रायां वैश्यपुरुषाज्जाते करण इष्यते ।वैश्यायां विप्रपुरुषाज्जातेऽम्बष्ठ इतीष्यते ॥ ५६५ ॥
2.565 · p. 98
अनुष्टुप्
शूद्रायां क्षत्रियाज्जातश्चोग्र इत्यभिधीयते ।क्षत्रियायां वैश्यजातो मगधो मागधोऽपि च ॥ ५६६ ॥
2.566 · p. 98
अनुष्टुप्
वैश्यायां क्षत्रियाज्जातो म(मा?)हिष्य इति कथ्यते ।आ(अ?)र्यायां शूद्रजः क्षत्ता क्षतकोऽपि च दृश्यते ॥ ५६७ ॥
2.567 · p. 98
अनुष्टुप्
क्षत्रियाद्ब्राह्मणीजाते सूत इत्यभिधीयते ।ब्राह्मण्यां वैश्यसंभूतो वैदेहिक इतीष्यते ॥ ५६८ ॥
2.568 · p. 99
अनुष्टुप्
म(मा?)हिष्यजः करण्यां तु रथकार इतीष्यते ।ब्राह्मण्यां शूद्रजः प्रोक्तश्चण्डाल इति पण्डितैः ॥ ५६९ ॥
2.569 · p. 99
अनुष्टुप्
तन्तुवाये नापितके रजके चर्मकारके ।गृहकारादिके कर्मकारुः शिल्पीति च द्वयम् ॥ ५७० ॥
2.570 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ना (wrong syllable)
श्रेणिः स्वजातीयशिल्पिसङ्घे तु परिकीर्तितम् ।कुलकः कुलिकश्चापि कुलश्रेष्ठे प्रकीर्तितौ ॥ ५७१ ॥
2.571 · p. 99
अनुष्टुप्
कुलालः कुम्भकारे स्यान्मालाकारस्तु मालिकः ।लेपोपजीविनि प्रोक्तः पलगण्डश्च लेपकः ॥ ५७२ ॥
2.572 · p. 99
अनुष्टुप्
कुविन्दस्तन्तुवाये स्यात्तुन्नवायस्तु सूचिके ।रङ्गाजीवश्चित्रकारे स्वर्णकारे तु चोरकः ॥ ५७३ ॥
2.573 · p. 99
अनुष्टुप्
रुक्मकारो महाजाली शस्त्रमार्जोऽसिधावकः ।सर्वमायी चर्मिनीचः कपटः पश्यतोहरः ॥ ५७४ ॥
2.574 · p. 99
अनुष्टुप्
शाङ्खिकः स्यात्काम्बविकः शौल्बिकस्ताम्रकुट्टकः ।तक्षा त्वष्टा वर्धकी च रथकारश्च काष्ठतट् ॥ ५७५ ॥
2.575 · p. 100
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable)
ग्रामाधीने ग्रामतक्षा(क्षः) कौटतक्षा(क्षो?) गृहालये ।नापिते तु क्षुरी मुण्डी दिवाकीर्तिर्विसारितः ॥ ५७६ ॥
2.576 · p. 100
अनुष्टुप्
अन्ते(न्ता?)वसायी नापितको नापितोऽपि च दृश्यते ।निर्णेजकस्तु रजके तत्र धीमान्विशेषकः ॥ ५७७ ॥
2.577 · p. 100
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
शौण्डी(ण्डि?)को मु(म?)ण्डहारश्च स्यात्सुरापण्यजीविनि ।अजाजीविनि जाबालो देवलो देवपूजके ॥ ५७८ ॥
2.578 · p. 100
अनुष्टुप्
माया च शाम्बरी चैव कुहरे(के?) संप्रकीर्तिता ।स्यादिन्द्रजालिके मायाकारश्च प्रतिहारकः ॥ ५७९ ॥
2.579 · p. 100
अनुष्टुप्
नटे कुशीलवो जायाजीवश्चारण इत्यपि ।कृशाश्वी चापि शैलाली शैलूषो नट इत्यपि ॥ ५८० ॥
2.580 · p. 100
अनुष्टुप्
मार्दङ्गिको मौरजिको मृदङ्गेनोपजीविनि ।वेणुध्मा स्याद्वैणविकः पाणिघः पाणिवादके ॥ ५८१ ॥
2.581 · p. 100
अनुष्टुप्
वीणावादे वैणिकः स्याद् ढक्कावादे तु ढैकितः ।स्याद्बन्धको वागुरिको जालिको मृगबन्धके ॥ ५८२ ॥
2.582 · p. 101
अनुष्टुप्
वैतंसिकः कौटिकश्च कुटिकश्च कुटङ्कणः ।मांसिको मांसमायी च मांसविक्रयजीवनि ॥ ५८३ ॥
2.583 · p. 101
अनुष्टुप्
नियुक्तकर्मकारे स्याद्भृतको भृतिभुक्तथा ।कर्मकारो वैतनिकः कर्मी निर्भाग्य इत्यपि ॥ ५८४ ॥
2.584 · p. 101
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 वै (wrong syllable)
जीवान्तके शाकुनिकस्त्वथ वैवधिकोऽपि च ।वार्तावहश्च पर्याहारवतोर्नाम्नि कीर्तिताः ॥ ५८५ ॥
2.585 · p. 101
अनुष्टुप्
नीचे विवर्णो जाल्मश्च प्राकृतः पामरो जडः ।पृथग्जनो निहीनश्चापशदः क्षुल्लकेतरौ ॥ ५८६ ॥
2.586 · p. 101
अनुष्टुप्
भृत्ये तु किंकरो दासो गोप(प्य?)कश्चेटकस्तथा ।पराजितः परिस्कन्द्यः परा(र?)जातश्च किंकरः ॥ ५८७ ॥
2.587 · p. 101
अनुष्टुप्
प्रेष्यो भुजिष्यश्चेतालो नियोज्यो दारकोऽपि च ।अलसे मन्दतुन्दौ च परः परिमृजोऽपि च ॥ ५८८ ॥
2.588 · p. 102
अनुष्टुप्
आलस्यः शीतकोऽनुष्णश्चतुरे पेशलः स्मृतः ।पटुः सूत्थान उष्णश्च चतुरो दक्ष एव च ॥ ५८९ ॥
2.589 · p. 102
अनुष्टुप्
चण्डाले श्वपचः पुष्कः पुलः पुल्क(क्क?)श इत्यपि ।चण्डालप्लवमातङ्गदिवाकीर्तिजनंगमाः ॥ ५९० ॥
2.590 · p. 102
अनुष्टुप्
किराताश्च पुलिन्दाश्च शबरा म्लेच्छजातयः ।किराते शबरो व्याधः पुलिन्दो मृगयुस्तथा ॥ ५९१ ॥
2.591 · p. 102
अनुष्टुप्
लुब्धो मृगवधाजीवो लुब्धको लौभ्य एव च ।शुनके श्वा शुनिः शौनो भषको मृगदंशकः ॥ ५९२ ॥
2.592 · p. 102
अनुष्टुप्
सारमेयः कुर्कुरश्च कौलेयश्च कडङ्गकः ।मृगयाचतुरे विश्वकद्रुर्बम्भण इत्यपि ॥ ५९३ ॥
2.593 · p. 102
अनुष्टुप्
सरमा करमा वाला शुनी वा शुनकस्त्रियाम् ।विट्चरो विट्प्रियो वेष्टी ग्रामसूकर इष्यते ॥ ५९४ ॥
2.594 · p. 102
अनुष्टुप्
बर्करः स्याद्यूपपशौ बर्करी बुर्करोऽपि च ।आच्छोदनं मृगव्यं च मृगयायां च खेटनम् ॥ ५९५ ॥
2.595 · p. 103
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्यू (wrong syllable)
व्याधेन दक्षिणे भागे हरिणस्य कृते व्रणे ।दक्षिणेर्मेति नान्तः स्यात्पुंसि स्त्रीलिंगता क्वचित् ॥ ५९६ ॥
2.596 · p. 103
अनुष्टुप्
चौरे तु दस्युः स्तेनश्च ए(ऐ?)कागारिक इत्यपि ।मोषकः प्रतिरोधी च परास्कन्दी च पाट्चरः ॥ ५९७ ॥
2.597 · p. 103
अनुष्टुप्
पाटच्चरस्तस्करश्च मलिम्लुच इतीष्यते ।चौर्ये तु चोरिका स्ते(स्तै?)न्यं स्तेयं चापि प्रकीर्तितम् ॥ ५९८ ॥
2.598 · p. 103
अनुष्टुप्
मृगपक्षिनिबन्धार्थसाधने लुप्त(लोप्त्रं?)मिष्यते ।वितंसश्चापि वीतंसस्तंसस्तंसीति च क्वचित् ॥ ५९९ ॥
2.599 · p. 103
अनुष्टुप्
उन्माथो मथनं चैव मथ(न्थ?)नं कूटयन्त्रकम् ।मृग्या च मृगवादी च वागुरा मृगबन्धनी ॥ ६०० ॥
2.600 · p. 103
अनुष्टुप्