कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

क्रय्य

krayyaवि · adj.

In 10 kośas: 10 synonym verses, 1 as a meaning of another word.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.720 · p. 35
क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ।
अनुष्टुप्
genderविadj.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.81
क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥
अनुष्टुप्
genderविadj.
कल्पद्रुकोशः Kalpadrukośa · केशव वैश्यादिप्रकाण्डः Kalpadrukośa 1.7.484 · p. 186
प्रतिदानं प्रतीदानं परिदानमतः परम् ।परीदानमथ क्रय्यं त्रिषु पण्ये प्रसारितम् ॥ ४८४ ॥
अनुष्टुप्
genderविadj.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.69 · p. 288
वैलाभ्यं तु विलाभत्वं स्त्रियां भावे विलाभता ।विलाभिमा पुंसि च स्याद्विलाभो मूलसंक्षयम् ॥उपधानं तूपनिधिर्न्यासोऽनाख्याय भाण्डगम् ।वस्तु न्यस्तं परकरे स्थापितं तु प्रकाश्य यत् ॥स निक्षेपोऽथ तद्दानं प्रतिदानमुदीरितम् ।क्रेतव्यमात्रके क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ॥ ६९ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 तू (wrong syllable)
genderविadj.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.216 · p. 35
क्रयकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुके ।क्रेये प्रसारितं क्रय्यं विक्रेयं पणितव्यकम् ॥ २१६ ॥
अनुष्टुप्
genderविadj.
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.518 · p. 92
क्रय्यं क्रयार्हं यत्पण्यं विक्रयार्थं गृहे स्थितम् ।तत्पण्ये तु क्रयं प्रोक्तं चाथ पण्यं पणार्हणम् ॥ ५१८ ॥
अनुष्टुप्
genderक्लीneut.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1454 · p. 231
क्रेतव्ये कथ्यते क्रेयं क्रय्यं न्यस्तं क्रयाय यत् ॥ १४५४ ॥
अनुष्टुप्metre not read in every line
genderविadj.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.159 · p. 148
क्रेयं क्रेतव्यमात्रे स्यात् क्रय्यं प्रसारितं क्रये ।पणितव्यञ्च विक्रेयं पण्यं क्रेयादयस्त्रिषु ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
genderविadj.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1505 · p. 182
क्रयिकः क्रायिकः क्रेता तद्वद्विक्रयिकादयः ।क्रये प्रसारितं क्रय्यं क्रेतव्ये क्रेयमित्यदः ॥ १५०५ ॥
अनुष्टुप्
genderविadj.
वैजयन्ती Vaijayantī · यादवप्रकाश वैश्याध्यायः Vaijayantī 3.8.68 · p. 128
क्रायिकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुदे ।क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रकम् ॥ ६८ ॥
अनुष्टुप्
genderविadj.

क्रय्य as a meaning in nānārtha verses

  • शब्दरत्नावली पणक्लीबे घ्राणं नासिकायां घ्राते स्यादभिधेयवत् । चूर्णो धूल्यां क्षारभेदे चूणं स्यात्पटयुक्तिषु ॥ जिष्णुर्महेन्द्रार्जुनयोर्जित्वरे वाच्यलिङ्गकः । झूणि गुवाकभेदे स्याद्दुटदैवश्रुतौ स्त्रियाम् ॥ त्राणं स्यात्त्रायमाणायां रक्षिते रक्षणेऽपि च । तीक्ष्णं स्याद्विषलौहाजिमुष्ककलवणेषु च ॥ आत्मत्यागिनि तीव्रे च त्रिषु क्लीबं यवाग्रके । द्रोणोऽस्त्रियामाढके तु भवेदाढाचतुष्टये ॥ देशभेदे भारद्वाजे दग्धकाके स्त्रियां क्वचित् । तथा काष्ठाम्बुवाहिन्यां गवादन्यामपि स्त्रियाम् ॥ पणो वराटर्के मूल्ये गृहे कार्षापणेऽपि च । क्रय्ये द्यूते भृतौ वित्ते व्यवहारेऽपि पुंस्ययम् ॥ पार्ष्णि द्वयोः सैन्यपृष्ठे पादग्रन्थ्यधरेऽपि च । स्त्रियामुन्मत्तकान्तायां पार्ष्णी पार्ष्णिरिति द्विधा ॥ प्राणोऽनिले बले काव्यजीवे हृदयमारुते ॥ Śabdaratnāvalī 7.15.9