कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विक्रयिक

vikrayikaपुं · masc.

In 8 kośas: 8 synonym verses.

अभिधानचिन्तामणि Abhidhānacintāmaṇi · हेमचन्द्राचार्य मर्त्यकाण्डः Abhidhānacintāmaṇi 3.868 · p. 35
सत्यानृतं तु वाणिज्यं वणिज्या वाणिजो वणिक् ।क्रयविक्रयिकपण्याजीवापणिकनैगमाः ॥ ८६७ ॥वैदेहः सार्थवाहश्च क्रायकः क्रयिकः क्रयी ।क्रेयदे तु विपूर्वास्ते मूल्ये वस्नार्घवक्रयाः ॥ ८६८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 क (wrong syllable)
genderपुंmasc.
नामलिङ्गानुशासनम् Amarakośa · अमरसिंह वैश्यवर्गः Amarakośa 2.9.139
विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ ।
अनुष्टुप्
genderपुंmasc.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.66 · p. 288
सर्जूः स्त्री वाणिजवणिक्तुलाधारश्च नीवरः ।क्रयिको नैगमः सार्थवाहो विक्रयिकश्च सः ॥पण्याजीवो ह्यापणिकः क्रयविक्रयिकोऽपि सः ।वैदेहिको वस्निकश्च क्रायिकः क्रयिकः क्रयी ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
नाममालिका Nāmamālikā · भोज भूम्यादिनामधेयप्रकरणम् Nāmamālikā 3.216 · p. 35
क्रयकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुके ।क्रेये प्रसारितं क्रय्यं विक्रेयं पणितव्यकम् ॥ २१६ ॥
अनुष्टुप्
genderपुंmasc.doubtful
पर्यायशब्दरत्न Paryāyaśabdaratna · धनञ्जयभट्ट मध्यमलोकसर्गः Paryāyaśabdaratna 2.513 · p. 92
प्रोक्तो विक्रयिको विक्री विक्रेता इति च क्वचित् ।स्यात्पण्यकर्तृमानुष्ये क्रायिकः क्रयिकोऽपि च ॥ ५१३ ॥
अनुष्टुप्
genderपुंmasc.
सुशीलनाममाला Suśīlanāmamālā · विजयसुशीलसूरि मर्त्यविभागः Suśīlanāmamālā 4.1450 · p. 230
विक्रयिको विक्रयी च विक्रायः कोऽपि ज्ञायताम् ॥ १४५० ॥
metre not recognised
genderपुंmasc.
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वैश्यवर्गप्रकाशः Śabdaratnāvalī 3.7.154 · p. 148
विक्रयी स्यात्तु विक्रेता तथा विक्रयिकोऽपि च ।क्रयिकः क्रायकः क्रेता क्रायिकोऽपि च कुत्रचित् ॥
अनुष्टुप्
genderपुंmasc.
शब्दरत्नाकर Śabdaratnākara · वामनभट्ट-बाण वैश्याध्यायः Śabdaratnākara 3.4.1505 · p. 182
क्रयिकः क्रायिकः क्रेता तद्वद्विक्रयिकादयः ।क्रये प्रसारितं क्रय्यं क्रेतव्ये क्रेयमित्यदः ॥ १५०५ ॥
अनुष्टुप्
genderपुंmasc.