चतुरब्दा चतुर्हायण्येवं त्र्यब्दा त्रिहायणी ॥ ६८ ॥
2.9.68
अनुष्टुप्
वशा वन्ध्यावतोका तु स्रवद्गर्भाथ सन्धिनी ।आक्रान्ता वृषभेणाथ वेहद्गर्भोपघातिनी ॥ ६९ ॥
2.9.69
अनुष्टुप्
काल्योपसर्या प्रजने प्रष्ठौही बालगर्भिणी ।
2.9.123
अनुष्टुप्
स्यादचण्डी तु सुकरा बहुसूतिः परेष्टुका ॥ ७० ॥
2.9.70
अनुष्टुप्
चिरप्रसूता बष्कयणी धेनुः स्यान्नवसूतिका ।
2.9.125
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सुव्रता सुखसंदोह्या पीनोध्नी पीवरस्तनी ॥ ७१ ॥
2.9.71
अनुष्टुप्metre not read in every line
द्रोणक्षीरा द्रोणदुग्धा धेनुष्या बन्धके स्थिता ।
2.9.127
अनुष्टुप्
समांसमीना सा यैव प्रतिवर्षं प्रसूयते ॥ ७२ ॥
2.9.72
अनुष्टुप्
ऊधस्तु क्लीबमापीनं समौ शिवककीलकौ ।
2.9.129
अनुष्टुप्
न पुंसि दाम सन्दानं पशुरज्जुस्तु दामनी ॥ ७३ ॥
2.9.73
अनुष्टुप्
वैशाखमन्थमन्थान मन्थानो मन्थदण्डके ।
2.9.131
अनुष्टुप्
कुठरो दण्डविष्कम्भो मन्थनी गर्गरी समे ॥ ७४ ॥
2.9.74
अनुष्टुप्
उष्ट्रे क्रमेलकमयमहाङ्गाः करभः शिशुः ।करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥
2.9.75
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृ (wrong syllable)
अजा छागी शुभच्छागबस्तच्छगलका अजे ।
2.9.134
अनुष्टुप्
मेढ्रोरभ्रोरणोर्णायु मेष वृष्णय एडके ॥ ७६ ॥
2.9.76
अनुष्टुप्
उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम् ।
2.9.136
अनुष्टुप्
चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः ॥ ७७ ॥
2.9.77
अनुष्टुप्
वैदेहकः सार्थवाहो नैगमो वाणिजो वणिक् ।पण्याजीवो ह्यापणिकः क्रयविक्रयिकश्च सः ॥ ७८ ॥
2.9.78
अनुष्टुप्
विक्रेता स्याद्विक्रयिकः क्रायकक्रयिकौ समौ ।
2.9.139
अनुष्टुप्
वाणिज्यं तु वणिज्या स्यान्मूल्यं वस्नोऽप्यवक्रयः ॥ ७९ ॥
2.9.79
अनुष्टुप्
नीवी परिपणो मूलधनं लाभोऽधिकं फलम् ।
2.9.141
अनुष्टुप्
परिदानं परीवर्तो नैमेयनियमावपि ॥ ८० ॥
2.9.80
अनुष्टुप्
पुमानुपनिधिर्न्यासः प्रतिदानं तदर्पणम् ।
2.9.143
अनुष्टुप्
क्रये प्रसारितं क्रय्यं क्रेयं क्रेतव्यमात्रके ॥ ८१ ॥
2.9.81
अनुष्टुप्
विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु ।
2.9.145
अनुष्टुप्
क्लीबे सत्यापनं सत्यङ्कारः सत्याकृतिः स्त्रियाम् ॥ ८२ ॥
2.9.82
अनुष्टुप्
विपणो विक्रयः संख्याः संख्येये ह्यादश त्रिषु ।विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ॥ ८३ ॥संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः ।पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरम् ॥ ८४ ॥
2.9.84
अनुष्टुप्
यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ।मानं तुलाङ्गुलिप्रस्थैर्गुञ्जाः पञ्जाद्यमाषकः ॥ ८५ ॥
2.9.85
अनुष्टुप्
ते षोडशाक्षः कर्षोऽस्त्री पलं कर्षचतुष्टयम् ।
2.9.149
अनुष्टुप्
सुवर्णबिस्तौ हेम्नोऽक्षे कुरुबिस्तस्तु तत्पले ॥ ८६ ॥
2.9.86
अनुष्टुप्
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।आचितो दश भाराः स्युः शाकटो भार आचितः ॥ ८७ ॥
2.9.87
अनुष्टुप्
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः ।
2.9.152
अनुष्टुप्
अस्त्रियामाढकद्रोणौ खारी वाहो निकुञ्चकः ॥ ८८ ॥कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।
2.9.153
अनुष्टुप्
पादस्तुरीयो भागः स्यादंशभागौ तु वण्टके ॥ ८९ ॥
2.9.89
अनुष्टुप्
द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु ।हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि ॥ ९० ॥
2.9.90
अनुष्टुप्
स्यात्कोशश्च हिरण्यं च हेमरूप्ये कृताकृते ।ताभ्यां यदन्यत्तत्कुप्यं रूप्यं तद्द्वयमाहतम् ॥ ९१ ॥
2.9.91
अनुष्टुप्
गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ।
2.9.157
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
शोणरत्नं लोहितकः पद्मरागोऽथ मौक्तिकम् ॥ ९२ ॥मुक्ताथ विद्रुमः पुंसि प्रवालं पुन्नपुंसकम् ।
2.9.158
अनुष्टुप्metre not read in every line
रत्नं मणिर्द्वयोरश्मजातौ मुक्तादिकेऽपि च ॥ ९३ ॥
2.9.93
अनुष्टुप्
स्वर्णं सुवर्णं कनकं हिरण्यं हेमकाटकम् ।तपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४ ॥चामीकरं जातरूपं महारजतकाञ्चने ।रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ॥ ९५ ॥
2.9.95
अनुष्टुप्
अलङ्कारसुवर्णं यच्छृङ्गीकनकमित्यदः ।
2.9.161
अनुष्टुप्
दुर्वर्णं रजतं रूप्यं खर्जूरं श्वेतमित्यपि ॥ ९६ ॥
2.9.96
अनुष्टुप्
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम् ।शुल्बं म्लेच्छमुखं द्व्यष्टवरिष्टोदुम्बराणि च ॥ ९७ ॥
2.9.97
अनुष्टुप्
लोहोऽस्त्री शस्त्रकं तीक्ष्णं पिण्डं कालायसायसी ।अश्मसारोऽथ मण्डूरं सिंहाणमपि तन्मले ॥ ९८ ॥
2.9.98
अनुष्टुप्
सर्वं च तैजसं लौहं विकारस्त्वयसः कुशी ।
2.9.165
अनुष्टुप्
क्षारः काचोऽथ चपलो रसः सूतश्च पारदे ॥ ९९ ॥
2.9.99
अनुष्टुप्
गवलं माहिषं शृङ्गमभ्रकं गिरिजामले ।
2.9.167
अनुष्टुप्
स्रोतोञ्जनं तु सौवीरं कापोताञ्जनयामुने ॥ १०० ॥
2.9.100
अनुष्टुप्
तुत्थाञ्जनं शिखिग्रीवं वितुन्नकमयूरके ।
2.9.169
अनुष्टुप्
कर्परी दार्विकाक्वाथोद्भवं तुत्थं रसाञ्जनम् ॥ १०१ ॥
2.9.101
अनुष्टुप्
रसगर्भं तार्क्ष्यशैलं गन्धाश्मनि तु गन्धिकः ।
2.9.171
अनुष्टुप्
सौगन्धिकश्च चक्षुष्याकुलाल्यौ तु कुलत्थिका ॥ १०२ ॥
2.9.102
अनुष्टुप्
रीतिपुष्पं पुष्पकेतु पुष्पकं कुसुमाञ्जनम् ।
2.9.173
अनुष्टुप्
पिञ्जरं पीतनं तालमालं च हरितालके ॥ १०३ ॥
2.9.103
अनुष्टुप्
गैरेयमर्थ्यं गिरिजमश्मजं च शिलाजतु ।
2.9.175
अनुष्टुप्
वोलगन्धरसप्राणपिण्डगोपरसाः समाः ॥ १०४ ॥
2.9.104
अनुष्टुप्
डिण्डीरोऽब्धिकफः फेनः सिन्दूरं नागसंभवम् ।
2.9.177
अनुष्टुप्
नागसीसकयोगेष्टवप्राणि त्रपु पिञ्चटम् ॥ १०५ ॥
2.9.105
अनुष्टुप्
रङ्गवङ्गे अथ पिचुस्तूलोऽथ कमलोत्तरम् ।स्यात्कुसुम्भं वह्निशिखं महारजनमित्यपि ॥ १०६ ॥
2.9.106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
मेषकम्बल ऊर्णायुः शशोर्णं शशलोमनि ।
2.9.180
अनुष्टुप्
मधु क्षौद्रं माक्षिकादि मधूच्छिष्टं तु सिक्थकम् ॥ १०७ ॥
2.9.107
अनुष्टुप्
मनःशिला मनोगुप्ता मनोह्वा नागजिह्विका ।नैपाली कुनटी गोला यवक्षारो यवाग्रजः ॥ १०८ ॥पाक्योऽथ सर्जिकाक्षारः कापोतः सुखवर्चकः ।सौवर्चलं स्याद्रुचकं त्वक्क्षीरी वंशरोचना ॥ १०९ ॥
2.9.109
अनुष्टुप्
शिग्रुजं श्वेतमरिचं मोरटं मूलमैक्षवम् ।
2.9.183
अनुष्टुप्
ग्रन्थिकं पिप्पलीमूलं चटकाशिर इत्यपि ॥ ११० ॥
2.9.110
अनुष्टुप्
गोलोमी भूतकेशो ना पत्राङ्गं रक्तचन्दनम् ।
2.9.185
अनुष्टुप्
त्रिकटु त्र्यूषणं व्योषं त्रिफला तु फलत्रिकम् ॥ १११ ॥
2.9.111
अनुष्टुप्