कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nāmamālikā

नाममालिका Nāmamālikā

314 verses · 2,274 words tagged · 502 marked doubtful (dashed)

भूम्यादिनामधेयप्रकरणम् (2/3)

क्षणः पर्व च कल्याणं मधुपर्कं तु निष्टकम् ।यज्ञाध्ययनदानानि याजनाध्यापनग्रहाः ॥ १२१ ॥
3.121 · p. 23
अनुष्टुप्
षट्कर्माणि महायज्ञो ब्रह्मयज्ञादिपञ्चकम् ।यष्टा तु यजुरादेष्टा यजमानश्च होत्रवित् ॥ १२२ ॥
3.122 · p. 23
अनुष्टुप्
सोमे तु दीक्षितः सोम्यो यज्वा स्यादिष्टवानसौ ।सर्ववेदाः स यो यागो दत्तसर्वस्वदक्षिणः ॥ १२३ ॥
3.123 · p. 24
अनुष्टुप्
यज्ञत्यागी वृथाजातोऽपञ्चयज्ञो मलिम्लुचः ।याजका भारता यज्ञालिहः कुरव ऋत्विजः ॥ १२४ ॥
3.124 · p. 24
अनुष्टुप्
पाकयज्ञाः पार्वणाद्या हविर्यज्ञास्त्वसोमकाः ।पशुबन्धास्तु पशवः सोमसौम्याश्च सोमिनः ॥ १२५ ॥
3.125 · p. 24
अनुष्टुप्
सवनैस्त्रिभिरेकाहास्तैरावृतैरहर्गणाः ।ते दीक्षितैः कृताः सत्राण्यहीना याजकैः कृताः ॥ १२६ ॥
3.126 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 वृ (wrong syllable)
अहीना द्वादशाहान्वान्सत्रादूर्ध्वं स तु द्वयम् ।सर्वेऽमी यज्ञक्रतवस्त एवैन्द्राः प्रजागमाः ॥ १२७ ॥
3.127 · p. 24
अनुष्टुप्
अग्निष्टोमश्चतुष्टोमो ज्योतिरानृण्यमित्यपि ।अथ यज्ञोपकरणं यजत्रं यजनं च तत् ॥ १२८ ॥
3.128 · p. 24
अनुष्टुप्
होमधेनुस्त्वग्निहोत्री होमकाष्ठी तु नालिका ।होमधूमस्तु निगणो होमभस्म तु वैष्णुतम् ॥ १२९ ॥
3.129 · p. 24
अनुष्टुप्
होमेन्धनं स्यादिध्मोऽस्त्री पुमानेधः समित्स्त्रियाम् ।पुरोडाशस्तु तृप्रको होमपात्रं हविश्चरुः ॥ १३० ॥
3.130 · p. 24
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 प्र (wrong syllable)
वृत्तस्याध्ययनस्यापि संपत्तिर्ब्रह्मवर्चसम् ।त्यागो दानं वितरणं विश्राणनविसर्जने ॥ १३१ ॥
3.131 · p. 25
अनुष्टुप्
विहापनं निर्वपणं स्पर्शनं प्रतिपादनम् ।उत्सर्जनं प्रदेशनमपसर्जनमंहतिः ॥ १३२ ॥
3.132 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 7 श (wrong syllable)
अतोयं सात्त्विकं दानमुदपूर्वं तु पौष्टिकम् ।आशिषा शान्तिकं दानं वरणं कामदं भवेत् ॥ १३३ ॥
3.133 · p. 25
अनुष्टुप्
आशासनेऽर्थना याच्ञा याचनाध्येषणार्दना ।भिक्षार्चा सनिरक्ली स्यान्मार्गणा तु गवेषणा ॥ १३४ ॥
3.134 · p. 25
अनुष्टुप्
पर्येषणा परीच्छा च मृगतान्वेषणा मृगः ।चान्द्रायणं च चन्द्रव्रतं प्राजापत्यं तु कृच्छ्रकम् ॥ १३५ ॥
3.135 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
प्राजापत्यं तु गोकृच्छ्रं कृतं गोमूत्रयावकैः ।उपवासस्तूपवस्तं संन्यासः स्यादनाशनम् ॥ १३६ ॥
3.136 · p. 25
अनुष्टुप्
द्वादशाहे तु पराकं षोडशाहे तुरायणम् ।तुरायणद्वयं सौम्यं चातुर्मास्ये परायणम् ॥ १३७ ॥
3.137 · p. 25
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 प (wrong syllable)
पञ्चरात्रं पयःपानं संगमं संगमश्च सः ।योगपट्टस्तु गीता स्यात्पर्यस्तिरवसक्थिका ॥ १३८ ॥
3.138 · p. 25
अनुष्टुप्
ऋषिस्त्रिकालदर्शः स्यान्मौनी वाचंयमी मुनिः ।तपनः कुम्भपुत्रः स्यादगस्त्यः पीतसागरः ॥ १३९ ॥
3.139 · p. 25
अनुष्टुप्
और्वशेयः कुम्भयोनिरगस्तिर्विन्ध्यकूटकः ।मैत्रावरुणिराग्नेयो मुनिर्वातापिसूदनः ॥ १४० ॥
3.140 · p. 26
अनुष्टुप्
दक्षिणाशारतः क्वाथिरनसत्याग्निमारुतौ ।अस्य कौषितकी भार्या लोपामुद्रा वरप्रदा ॥ १४१ ॥
3.141 · p. 26
अनुष्टुप्
तस्य ज्येष्ठस्तु सन्मौनी जन्मनक्षत्रनामकः ।प्राचेतसस्तु वाल्मीकिर्वल्मीकश्च कुशी कविः ॥ १४२ ॥
3.142 · p. 26
अनुष्टुप्
शालातुरीयको दाक्षिपुत्रः पाणिनिराहिकः ।हलभूतिस्तूपवर्षः कृतकोटिकविश्च सः ॥ १४३ ॥
3.143 · p. 26
अनुष्टुप्
योगज्ञो याज्ञवल्के च वसिष्ठे ह्यायवः स्मृतः ।पराशरे तु यज्ञास्यः शतानन्दस्तु गौतमे ॥ १४४ ॥
3.144 · p. 26
अनुष्टुप्
यवक्रीतो रोहिते स्याज्जरत्कारुर्ययावरः ।कुशारणिस्तु दुर्वासा ह्यष्टावक्रस्तु गर्भजः ॥ १४५ ॥
3.145 · p. 26
अनुष्टुप्
च्यवनो मत्स्यगुच्छश्च गोनर्दीयः पतञ्जलिः ।अथ व्याडिर्विन्ध्यवासी नन्दनीनन्दनोऽपि च ॥ १४६ ॥
3.146 · p. 26
अनुष्टुप्
कात्यायनो वररुचिर्मेघजिच्च पुनर्वसुः ।वात्स्यायनस्तु कौटिल्यो विष्णुगुप्तो वराणकः ॥ १४७ ॥
3.147 · p. 26
अनुष्टुप्
द्राविलः पक्षिलः स्वामी मल्लनागोऽङ्गुलोऽपि च ।विद्वान्सन्कोविदः सूरिर्मेधावी पण्डितो बुधः ॥ १४८ ॥
3.148 · p. 27
अनुष्टुप्
सुधीर्विपश्चित्संख्यावान्प्राज्ञो धीमान्विचक्षणः ।दीर्घदर्शी दूरदर्शी लब्धवर्णः पलंहतिः ॥ १४९ ॥
3.149 · p. 27
अनुष्टुप्
ब्रह्मभूयं ब्रह्मभावे देवभूयादिकं तथा ।अमृतत्वं तु कैवल्यं मुक्तिर्मोक्षो[ऽपुनर्]भवः ॥ १५० ॥
3.150 · p. 27
अनुष्टुप्
मोक्षावलम्बिनः प्रायः पाषण्डा बाह्यलिङ्गिनः ।ते च हेरुकशोभाद्या प्रोक्ताः षण्णवतिः क्वचित् ॥ १५१ ॥
3.151 · p. 27
अनुष्टुप्
दशोत्तरशतं कैश्चित्पाषण्डानां प्रदर्शितम् ।शतत्रयं षष्ठ्यधिकमुक्तं चीनेशसंसदि ॥ १५२ ॥
3.152 · p. 27
अनुष्टुप्
वेषजीवकृतान्ताद्यैस्तेषां भेदाः परः शतम् ।क्षत्रं बाहुजरादन्यौ भूशक्रः क्षत्रियो विराट् ॥ १५३ ॥
3.153 · p. 27
अनुष्टुप्
राजा तु पार्थिवो भूभृद्भूपो नरपतिर्नृपः ।सार्वभौमश्चक्रवर्ती नृपोऽन्यो मण्डलेश्वरः ॥ १५४ ॥
3.154 · p. 27
अनुष्टुप्
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च ।राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥ १५५ ॥
3.155 · p. 27
अनुष्टुप्
षट्कं कामो मदो मानो मोहोऽमर्षो रुषापि च ।मृगयाक्षाः स्त्रियः पानं वाक्पारुष्यार्थदूषणे ॥ १५६ ॥
3.156 · p. 27
अनुष्टुप्
दण्डपारुष्यमित्येतन्महाव्यसनसप्तकम् ।देवी राजकुलोत्था चेत्परिवृत्ती तु पूजिता ॥ १५७ ॥
3.157 · p. 28
अनुष्टुप्
वावाता तु प्रियतमा स्वाधीनी तु नृपात्मजा ।पालागली युद्धजिता नृपस्योढाः प्रिया इमाः ॥ १५८ ॥
3.158 · p. 28
अनुष्टुप्
अनूढा तु प्रिया राज्ञः कालज्ञा गणिका स्मृता ।गणिका सा प्रगणिका यानाप्तपरिहारिका ॥ १५९ ॥
3.159 · p. 28
अनुष्टुप्
अथालगणिकाप्याज्ञागणिका कुलसंभवा ।शय्यास्रग्भूषणादौ तु नियुक्ता परिचारिका ॥ १६० ॥
3.160 · p. 28
अनुष्टुप्
शत्रुर्दस्युरमित्रोऽरिररातिरहितो द्विषत् ।द्वेषणः प्रत्यनीको द्विड्जिघांसुर्हिंसनो रिपुः ॥ १६१ ॥
3.161 · p. 28
अनुष्टुप्
सैन्यं चक्रं बलं सेना पृतना ध्वजिनी चमूः ।अनीकिनीपताकिन्यौ वाहिनी च वरूथिनी ॥ १६२ ॥
3.162 · p. 28
अनुष्टुप्
सैन्यं तु भिन्नकूटं तन्नष्टावान्तरनायकम् ।शून्यमूलं तदस्थानमन्तःशल्यं सदोषकम् ॥ १६३ ॥
3.163 · p. 28
अनुष्टुप्
हस्त्यश्वरथपादातं बलं स्याच्चतुरङ्गकम् ।कुम्भो मतङ्गजो हस्ती दन्ती कुम्भी करी रदी ॥ १६४ ॥
3.164 · p. 28
अनुष्टुप्
स्तम्बेरमो गजो गर्जो द्विरदोऽनेकपो द्विपः ।दन्तावलो महाकायो वारणः कुञ्जरोऽसुरः ॥ १६५ ॥
3.165 · p. 29
अनुष्टुप्
महामृगः शूर्पकर्णः सामाजः सिन्दुरः कपिः ।मन्दबृन्दः कुली कम्बुः शुण्डालः षष्टिहायनः ॥ १६६ ॥
3.166 · p. 29
अनुष्टुप्
वेगदण्डश्च वेदण्डो हस्तनासश्च पेचकी ।भद्रो मन्द्रो मृग इति गजाः संस्कारजास्तथा ॥ १६७ ॥
3.167 · p. 29
अनुष्टुप्
बिम्बकस्तु शिरोमध्यं पाकलौ तस्य पार्श्वयोः ।विताने तद्बहिःपार्श्वौ कुम्भमध्ये विदुः पुमान् ॥ १६८ ॥
3.168 · p. 29
अनुष्टुप्
कर्णमूले वितलिका चूलिका पिप्पलीति च ।विञ्जूषः कर्णपार्श्वेऽस्मिन्नारक्षौ कुम्भयोरधः ॥ १६९ ॥
3.169 · p. 29
अनुष्टुप्
उरःपार्श्वे तु विक्षोभौ दर्दुरौ गलपार्श्वकौ ।तल्पलं त्विभमध्याङ्गं स्कन्धदेशेऽग्र्यमासनम् ॥ १७० ॥
3.170 · p. 29
अनुष्टुप्
कटस्तु करटो गण्डो गात्रं पूर्वोऽङ्घ्रिरस्य तु ।मू रोधः प्रतीकाशः क्षयश्च पलपादकः । ॥ १७१ ॥
3.171 · p. 29
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 1 मू (syllables merged)
कूर्मः संदानभागश्च प्रोह उत्सङ्ग इत्यपि ।विशेषभागो वैशाखी तद्गात्रेषु च पाकलः ॥ १७२ ॥
3.172 · p. 29
अनुष्टुप्
पुष्पवंशोऽपदंशः स्यान्निष्कोशः कुक्षिमध्यकम् ।अत्यूहः कुकुदं मेढ्रे करिका चूचुकान्तरम् ॥ १७३ ॥
3.173 · p. 30
अनुष्टुप्
अथ पुच्छे स्थिताः किल्ली संवालो वालपुष्करम् ।दन्तभागः पुरोभागः पक्षभागस्तु पार्श्वकः ॥ १७४ ॥
3.174 · p. 30
अनुष्टुप्
मुखे पृषन्ति पद्मानि वमथुः करशीकरः ।चूला कक्ष्या वरत्रा स्यादङ्कुशोऽस्त्री शृणिः षणि ॥ १७५ ॥
3.175 · p. 30
अनुष्टुप्
अश्वस्तुरङ्गस्तुरगो हयः सप्तिस्तुरङ्गमः ।शालिहोत्री व्रती कुण्डी प्रोथी वारुः प्रकीर्णकः ॥ १७६ ॥
3.176 · p. 30
अनुष्टुप्
कुदुरो णेटकस्तार्क्ष्यः क्रमणो ग्रहभोजनः ।पालकः पुरुलः पीतो माषाशी सिंहविक्रमः ॥ १७७ ॥
3.177 · p. 30
अनुष्टुप्
श्रीवृक्षकी प्रक्षिणी चेद्रोमावर्तो मुखेऽपि च ।अश्वत्थपत्रसदृशपुण्ड्रः श्रीवत्सकी स्मृतः ॥ १७८ ॥
3.178 · p. 30
अनुष्टुप्
मल्लिकाक्षः सितैर्नेत्रैर्विष्णोरिन्द्रायुधो हयः ।पञ्चभद्रस्तु हृत्पृष्ठमुखपार्श्वेषु पुष्पितः ॥ १७९ ॥
3.179 · p. 30
अनुष्टुप्
निहीनास्त्वब्जकारट्टशम्बला दोषिणः परे ।तत्र शृङ्गी शृङ्गपदे मांसबुद्बुदवान्हयः ॥ १८० ॥
3.180 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शृ (wrong syllable)
अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा ।आस्कन्दितं धौरितकं रेचितं वल्लितं प्लुतम् ॥ १८१ ॥
3.181 · p. 31
अनुष्टुप्
इत्येत्येषां तु पञ्चानां नामैकं बहुभेदकम् ।गत्यर्थास्तद्वदर्था हि सर्वे ते वाच्यलिङ्गकाः ॥ १८२ ॥
3.182 · p. 31
अनुष्टुप्
स तु वल्लभः पालेयो राजेष्टः परिवर्धकः ।अमृताद्बाष्पतो वह्नेर्देवेभ्यः क्रोधतः फलात् ॥ १८३ ॥
3.183 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भः (wrong syllable)
साम्ना लक्ष्म्या हयोत्पत्तिः सप्तधेति प्रकीर्तिता ।वाहनं यानं संयुग्यं वाह्यं धोरणमित्यपि ॥ १८४ ॥
3.184 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 नं (wrong syllable)
अस्मिंश्चक्रयुते गन्धः शताङ्गः स्यन्दनो रथः ।वहित्रं वाहनं चास्मिंश्चतुरस्रे सकूबरे ॥ १८५ ॥
3.185 · p. 31
अनुष्टुप्
दीर्घद्विपक्षवहनमनः क्ली शकटोऽस्त्रियाम् ।प्रवाहिर्ना वृत्तमध्ये पक्षकूबरवर्जिते ॥ १८६ ॥
3.186 · p. 31
अनुष्टुप्
देवतार्थो देवरथो युद्धार्थः साम्परायिकः ।क्रीडार्थः स्यात्पुष्यरथः कृतः कर्णिरथो मृदा ॥ १८७ ॥
3.187 · p. 31
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दे (wrong syllable)
युगो द्वितीयः प्रासङ्गः पताका तु ध्वजोऽस्त्रियाम् ।सेवका युधि योद्धॄणां भटा योधाश्च योधकाः ॥ १८८ ॥
3.188 · p. 32
अनुष्टुप्
पदातिपत्तिपादाताः पदातिकपदाजयः ।पादिकः पदकः पत्तो राथिको रथिको रथी ॥ १८९ ॥
3.189 · p. 32
अनुष्टुप्
सेनाधिपस्तु सेनानी साहस्रास्तु सहस्रिणः ।धन्वी धनुष्मान्धानुष्कः पुरोगमपुरःसरौ ॥ १९० ॥
3.190 · p. 32
अनुष्टुप्
शूरो वीरश्च विक्रान्तो भटश्चारभटोऽपि च ।अशूरो हतकः क्लीबो जिष्णौ तु जयजित्वरौ ॥ १९१ ॥
3.191 · p. 32
अनुष्टुप्
शिक्षितः कृतहस्ते तु सांयुगीनो रणेऽपि च ।जवने जवनिमा स्याज्जङ्घालोऽतिजवेति च ॥ १९२ ॥
3.192 · p. 32
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 नि (wrong syllable)
धीरो मन्दगतिः कुट्टी स्यादुरस्वानुरस्तिकः ।त्वक्त्रं तु दंसनं वर्म तनुत्रं कवचोऽस्त्रियाम् ॥ १९३ ॥
3.193 · p. 32
अनुष्टुप्
हिरिका स्यादयोवर्म जङ्घात्राणं तु मत्कुणम् ।पट्टस्तु लिपिसंनाहो बाहुलं बाहुरक्षकृत् ॥ १९४ ॥
3.194 · p. 32
अनुष्टुप्
मर्दनी पादरक्षा स्यादङ्गुलत्रे कपिः पुमान् ।शीर्षत्राणे तु शीर्षण्यमधिकाङ्गं तु कङ्कटे ॥ १९५ ॥
3.195 · p. 33
अनुष्टुप्
शस्त्रे स्यान्न क्लिको हेतीर्ऋष्टिः खङ्गे प्रचारकः ।चन्द्रहासोऽर्धचन्द्राग्रेऽप्युली तु करवालिका ॥ १९६ ॥
3.196 · p. 33
अनुष्टुप्
हरकस्तरवारिः स्त्री पुलकास्त्वणुराजयः ।अथासिपुत्रच्छुरिका सातिदीर्घासिधेनुका ॥ १९७ ॥
3.197 · p. 33
अनुष्टुप्
कार्मुकं धन्व कोदण्डं धर्ममस्त्रं शरासनम् ।कार्मुकं तु चतुर्हस्तं कोदण्डं त्र्यङ्गुलं विना ॥ १९८ ॥
3.198 · p. 33
अनुष्टुप्
कवटो लघुकाष्ठा स्यात्सयष्ठिर्यष्टिवारणः ।लोहाविहार उद्योगे राज्ञां नीराजनाविधिः ॥ १९९ ॥
3.199 · p. 33
अनुष्टुप्
यत्सेनायाभिनिर्याणं पत्यास्तदभिषेणनम् ।विरतं तु भटोद्योगोऽभ्याक्रमो यानमभ्यरीन् ॥ २०० ॥
3.200 · p. 33
अनुष्टुप्
मृध आस्कन्दनं युद्धं समिदायोधनं रणम् ।स्वक्षेत्रे सुकृतिकाङ्क्षी वीराङ्को वीरदर्शनः ॥ २०१ ॥
3.201 · p. 33
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ति (wrong syllable)
वीराणां यद्रणे नृत्तं तस्मिन्वीरजयन्तिका ।नाशस्त्वपक्रमोऽपायो विप्रयाणं पलायनम् ॥ २०२ ॥
3.202 · p. 34
अनुष्टुप्
पिञ्जस्तु घात उन्माथो विशरः प्रमथो वधः ।उद्वासनं प्रशसनं क्षणनं परिवर्जनम् ॥ २०३ ॥
3.203 · p. 34
अनुष्टुप्
रुण्डोऽशिराः कबन्धोऽस्त्री कुणपोऽरिशवोऽस्त्रियाम् ।शवयानं कटः कोटिश्चिता चित्या चिति स्त्रियाम् ॥ २०४ ॥
3.204 · p. 34
अनुष्टुप्
शिरो रूढं व्रणस्थाने व्रणशान्तिस्तु रोपणम् ।आस्फेटो रणसंनाहस्तुमुलं रणसङ्कुलम् ॥ २०५ ॥
3.205 · p. 34
अनुष्टुप्
आर्या भूमिस्पृशो वैश्या ऊरव्या ऊरुजा विशः ।आजीवो जीवका वृत्तिर्वार्ता वर्तनजीवने ॥ २०६ ॥
3.206 · p. 34
अनुष्टुप्
व्रीहिस्तु रेणुको बीजो धान्यं सस्यं [ तु ] रीरिका ।व्रीहयस्तम्बकरयः शालेयाः श्वेततण्डुलाः ॥ २०७ ॥
3.207 · p. 34
अनुष्टुप्
सुगन्धिको महाशालिः षष्ठिकः सूक्ष्मतण्डुलः ।कलावकास्तु कलमाः प्रवराः शालषष्ठिकाः ॥ २०८ ॥
3.208 · p. 34
अनुष्टुप्
माषस्तु मलदो मांसं घरी बीजवरो बली ।मुद्गस्तु प्रथनो लोह्यो बलाङ्गो हरितो हरिः ॥ २०९ ॥
3.209 · p. 34
अनुष्टुप्
पीतेऽस्मिन्वसुखण्डीरप्रवालजयशारदाः ।वनमुद्गे तु कुट्टः स्यान्निगूढकुलिकाकुलाः ॥ २१० ॥
3.210 · p. 35
अनुष्टुप्
खण्डी च राजमुद्गे तु मरुष्टकमयष्टकौ ।जर्तिलोऽरण्यजतिलो जालकस्तूलकस्तिलः ॥ २११ ॥
3.211 · p. 35
अनुष्टुप्
तिलपुष्पं वज्रपुष्पं मसूरस्तु मसूरकः ।अलसान्द्रे राजमाषो निष्पावः श्वेतशिम्बिका ॥ २१२ ॥
3.212 · p. 35
अनुष्टुप्
आढकी तुवरी वल्गा सौराष्ट्री करवीरिका ।छत्रा कुस्तुम्बुरी धान्या धान्यकं च धनीयिका ॥ २१३ ॥
3.213 · p. 35
अनुष्टुप्
गोधूमस्तु म्लेच्छभोज्यः सुमनाः सुमनो गुरुः ।शतपर्वा बहवकः कोद्रवे कोरदूषकः ॥ २१४ ॥
3.214 · p. 35
अनुष्टुप्
ऋद्धमावसितं धान्यं बहुलीकृतं संस्कृतम् ।खलपूः स्याद्बहुकरश्छादितेयश्छदिस्तृणम् ॥ २१५ ॥
3.215 · p. 35
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 तं (wrong syllable)
क्रयकः क्रयिकः क्रेता विपूर्वाः क्रेयवस्तुके ।क्रेये प्रसारितं क्रय्यं विक्रेयं पणितव्यकम् ॥ २१६ ॥
3.216 · p. 35
अनुष्टुप्
परिवर्तो विनिमयो वैमेयो विमयोऽपि च ।सत्यंकारः पुनः सत्याकृतिः सत्यापनं च तत् ॥ २१७ ॥
3.217 · p. 35
अनुष्टुप्
पण्याजीवः सार्थवाहो नैगमो वणिजो वणिक् ।वैदेहिकः प्रापणिकः क्रयविक्रयिकोऽपि च ॥ २१८ ॥
3.218 · p. 36
अनुष्टुप्
कोशमस्त्री हिरण्यं च हेमरूप्यं कृताकृतम् ।ओषध्यो जातिमात्रं स्युरजातौ सर्वमौषधम् ॥ २१९ ॥
3.219 · p. 36
अनुष्टुप्
स्त्री शुण्ठिरूषणं विश्वभेषजं सिंहलं कटुः ।पिप्पली मागधी शौण्डी ग्रन्थिनी तीक्ष्णतण्डुला ॥ २२० ॥
3.220 · p. 36
अनुष्टुप्
कपिवल्ल्यां कोलवल्ली गण्डिनी हस्तिपिप्पली ।मरीचं च शिरावृत्ता भूषणं धर्मपत्तनम् ॥ २२१ ॥
3.221 · p. 36
अनुष्टुप्
लोभाख्यं श्यामवल्ली च त्र्यूषणं कटुकत्रयम् ।क्षारो गुडोऽस्य विकृतौ मत्स्या स्यात्खण्ड [ शर्करा ] ॥ २२२ ॥
3.222 · p. 36
अनुष्टुप्
फणितं क्षुद्रखण्डं च चत्कुलीखण्डमस्त्रियाम् ।मधूकं तु मधुरस्त्री मधुकं तत्पुरातनम् ॥ २२३ ॥
3.223 · p. 36
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धु (wrong syllable)
भ्रामरं तु भ्रामरीकं क्षौद्रं सारसमाक्षिके ।मदनं तु मधूच्छिष्टं मेणवं तु विलाकरम् ॥ २२४ ॥
3.224 · p. 36
अनुष्टुप्
स्नेहो तिलानां तैलं स्यादन्येषां नामपूर्वकम् ।घृतमाज्यं हविः सर्पिः कौम्भं त्वाज्यं दशाब्दकम् ॥ २२५ ॥
3.225 · p. 37
अनुष्टुप्
हैयंगवीनं तक्रेजं नवनीतं घृताकरम् ।दधि विप्रप्रियं हृद्यं श्रीघनं क्षीरजं शरः ॥ २२६ ॥
3.226 · p. 37
अनुष्टुप्
रक्षितं तूद्धृतं स्नेहान्मथितात्तु प्रमाथितम् ।पयो दुग्धं च पीतं च स्तन्यं पुंसवनं रसः ॥ २२७ ॥
3.227 · p. 37
अनुष्टुप्
गव्यं श्रेष्ठं मधु क्षीरं योग्यं सोमरसोद्भवम् ।तदेव मधु यत्सद्योद्धृतं गोदोहजं घृतम् ॥ २२८ ॥
3.228 · p. 37
अनुष्टुप्
बोलं तराग्रं मोरट्टं गोरसं तक्रमित्यपि ।शूद्रो जघन्यजोऽप्यन्त्यवर्णः संकरसंभवः ॥ २२९ ॥
3.229 · p. 37
अनुष्टुप्
परिस्कन्दः परैर्जातः परैधितनियोज्यकौ ।भरण्यं भरणं भर्म वैतनं निष्क्रयो भृतिः ॥ २३० ॥
3.230 · p. 37
अनुष्टुप्
कर्मण्या तु विधा भृत्या भारवाहस्तु भारिकः ।वार्ताहरो वैवधिको हारयष्टिर्विभाङ्गिका ॥ २३१ ॥
3.231 · p. 37
अनुष्टुप्
शिक्यं विल्लम्बि काचश्च पाथेयं शम्बलोऽस्त्रियाम् ।कारवः शिल्पिनः सर्वे कुलिकास्ते कुलोत्तमाः ॥ २३२ ॥
3.232 · p. 37
अनुष्टुप्
सौचिकस्तुन्नवायः स्यात्सूचिः सूचा च सीवनी ।सूचिसूत्रं पिप्पलकमोतं प्रोतमुभे त्रिषु ॥ २३३ ॥
3.233 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
सीवनं सेवनं सूती रङ्गाजीवस्तु चित्रकृत् ।लिखितं चित्तमालेख्यं पुस्तं लेख्यादिकर्मणि ॥ २३४ ॥
3.234 · p. 38
अनुष्टुप्
धातुलेप्यमयी नारी सा स्यादञ्जलिकारिका ।पाञ्चालिकादि वस्त्रादिपुत्रिका शालभञ्ज्यपि ॥ २३५ ॥
3.235 · p. 38
अनुष्टुप्
आर्या वृद्धा तु सा देवी या स्याद्गोमयपुत्रिका ।पलगड्गो लेपकारः कल्पाणिः समलेखनी ॥ २३६ ॥
3.236 · p. 38
अनुष्टुप्
सुधा विलेपा घटिका वालुका घटिकारसः ।संवाहकोऽङ्गमर्दः स्यादथ देहस्य रक्षके ॥ २३७ ॥
3.237 · p. 38
अनुष्टुप्
आरक्षकः कङ्कटी च शस्त्रमार्जोऽसिधावकः ।मणिकारो वैघटिकः शौल्बिकस्ताम्रकुट्टकः ॥ २३८ ॥
3.238 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 वै (wrong syllable)
नाडिंधमः स्वर्णकारः कलादो दोष्ठिकः समः ।कर्मकः स्यादयस्कारो वोकारो लोहकारकः ॥ २३९ ॥
3.239 · p. 38
अनुष्टुप्
शाङ्खिकः स्यात्काम्बिविको भस्रा चर्मप्रसेविकः ।धृतिः श्रुतिश्चोपध्मान्तः प्रसेवो दनायुधः ॥ २४० ॥
3.240 · p. 38
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 त्का (wrong syllable); pāda 3, syllable 4 ति (syllables merged)