All kośas › Śabdaratnāvalī
शब्दरत्नावली Śabdaratnāvalī
4,306 verses · 34,698 words tagged · 6,000 marked doubtful (dashed)
भूमिकाण्डः · वैश्यवर्गप्रकाशः (2/2)
उक्ष्नां बृन्दे चौक्षकं स्याद् गव्या गोत्रा गवां स्त्रियाम् ।वत्सबृन्दे वात्सकन्तु धेनुवृन्दे च धैनुकम् ॥
3.7.121 · p. 145
अनुष्टुप्
जरद्गवस्तु वृद्धोक्षः महोक्षस्तु महावृषः ।जातउक्षा तु जातोक्षः दस्ये वत्सरोऽपि च ॥
3.7.122 · p. 145
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
षण्टता योग्यवृषभे आर्षभ्यः समुदाहृतः ।षण्टुः षण्टश्च शण्टश्च शण्डो गोपति रिट्चरः ॥
3.7.123 · p. 146
अनुष्टुप्
वहः स्कन्धप्रदेशे स्यात् सास्ना स्त्री गलगम्बले ।अथ नस्यितनस्योतनस्तिताः नसितोऽपि च ॥
3.7.124 · p. 146
अनुष्टुप्
शिक्षार्थं योगपार्श्वे तु योजितो यो वृषो भवेत् ।अग्रगं वहतीत्यर्थे प्रष्टवाट् युगपार्श्वगः ॥
3.7.125 · p. 146
अनुष्टुप्
अथ युग्याश्च प्रासङ्ग्याः शाकटाश्च क्रमादिमे ।युगप्रासङ्गशकटवोटारो वृषभास्तु ये ॥
3.7.126 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्च (wrong syllable)
वत्सः शकृत्करिः दोग्धा दोधको दोध इत्यपि ।अथ हम्बारेभणञ्च हाम्बा च गोध्वनौ त्रयम् ॥
3.7.127 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
इदं खनति येनैव सीरेण च हलेन वा ।तयोर्वोटा सैरिकः स्यात् हालिकश्च यथाक्रमम् ॥
3.7.128 · p. 146
अनुष्टुप्
धुरन्धरो धुरीणश्च धौरेयधूर्यधूर्वहाः ।य एकस्य रथस्यापि लाङ्गलस्यापि वा धुरम् ॥
3.7.129 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 य (wrong syllable)
वहत्येकधुरीणः स्यात्तथा चैकधुरोऽपि सः ।स तु सर्वधुरीणः स्यात् सर्वां वहति यो धुरम् ॥
3.7.130 · p. 146
अनुष्टुप्
गवी गौः सुरभिर्माता माहेयी शृङ्गिनी महा ।उस्रा निलिम्पा सुरभी सौरभेयी च रोहिनी ॥
3.7.131 · p. 146
अनुष्टुप्
अनड्वाही चानडुही त्विज्या चाघ्न्याऽर्जुनीत्यपि ।नैचिकी निचिकी सा स्यादुत्तमा गोषु या भवेत् ॥
3.7.132 · p. 146
अनुष्टुप्
एवं कृष्णादयो ज्ञेया एकाब्दा त्वेकहायनी ।द्विहायनी द्विवर्षा च त्रिवर्षा च त्रिहायनी ।वश्या बन्ध्या सैव गवी वेहद्गर्भोपधातिनी ॥
3.7.134 · p. 146
अनुष्टुप्
स्रवद्गर्भा वतोका स्याद् वृषाक्रान्ता तु सन्धिनी ।कालप्राप्ता वृषरते उपसर्याभिधीयते ॥
3.7.135 · p. 146
अनुष्टुप्
बाला गर्भवती या स्यात् प्रौष्टौही सा समीरिता ।सुविनीता तु सुकरा भूरिसूतिः परेष्टुका ॥
3.7.136 · p. 146
अनुष्टुप्
चिरात्सूता वष्कयनी तथा वष्कयिनीति च ।नवप्रसूतिका धेनुः सुखदोह्या च सुव्रता ॥
3.7.137 · p. 146
अनुष्टुप्
विशालोधसी या स्यात् सा पीनोध्नी पीवरस्तनी ।द्रोणक्षीरा द्रोणदुघा द्रोणमानपयस्विनी ॥
3.7.138 · p. 146
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सी (wrong syllable)
समांसमीना प्रत्यब्दप्रसूता या गवी भवेत् ।स्याद्बन्धके स्थिता धेनुर्धेनुष्या परिकीर्तिता ॥
3.7.139 · p. 147
अनुष्टुप्
वाणमूधः क्लीवलिङ्गं भवेदापीनमस्त्रियाम् ।अथ गोबन्धके द्वौ तु समौ शिवक-कीलकौ ॥
3.7.140 · p. 147
अनुष्टुप्
यत्रैकस्मिन्ननेकांस्तु वध्नन्ति निहतान् पशून् ।तद्दाम स्त्री तु दामा स्यात् क्लीबे सन्दानमित्यपि ॥
3.7.141 · p. 147
अनुष्टुप्
पशुरज्जुर्दामनी स्याद् बन्धनीत्यपि कुत्रचित् ।प्रग्राहः प्रग्रहोऽपि स्यात्तथा गवादिरज्जुषु ॥
3.7.142 · p. 147
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ग (wrong syllable)
मन्थान-मन्थ-मन्थानो वैशाखः करघर्षकः ।मन्थनोऽपि च तक्राट एते मन्थानदण्डके ॥
3.7.143 · p. 147
अनुष्टुप्
कुठरो दण्डविष्कम्भो गर्गरी मन्थनी समे ।सन्थनं मथनं माथो मथः स्यात् मन्थ इत्यपि ॥
3.7.144 · p. 147
अनुष्टुप्
उष्ट्रः क्रमेलशरभौ करभः कण्टकाशनः ।तोलिर्बहुकरो वक्रग्रीवो धकरुद्वीपाः(?) ॥मय-वासन्त-लम्बोष्ठमहाङ्गाश्च क्रमेलकः ।उष्ट्रस्य शिशवो ये स्युः करभाः करभाश्च ते ॥
3.7.145 · p. 147
अनुष्टुप्metre not read in every line
काष्ठमयैः पादवन्धैरेते शृङ्खलका अपि ।अजा छागी छलुष्या(?) च मञ्जा मुखविलुण्ठिका ॥
3.7.146 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 म (wrong syllable)
लम्बकर्णश्च मेनादो वुक्कोऽल्पायुः शिवाप्रियः ।मेषो रोमश ऊर्णायुरुरभ्रो भेड-भेडकौ ॥
3.7.148 · p. 147
अनुष्टुप्
मेण्टो वृष्णिरविर्मेट्रो हुडुर्हुलुहलावपि ।स्यादेडका जालकिनी मेषी च मेषिकेत्यपि ॥
3.7.149 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 च (wrong syllable)
गर्दभः स्मरस्मर्यः स्यात् चक्रीवान् रासभः खरः ।चिरमेही पशुचरिः चारुपुङ्खोऽपि चावटः(?) ॥
3.7.151 · p. 147
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 र (wrong syllable)
ग्राम्याश्चः शङ्कुकर्णः स्याद् बालेयो वनरूषितः (?) ।वणिग्वैदेहकः सार्थवाह-नैगमवाणिजाः ।वाणिजको वाणिजिको वाणिज्यकार इत्यपि ॥
3.7.152 · p. 147
अनुष्टुप्metre not read in every line
क्रयविक्रयिकः पण्याजीव आपणिकोऽपि च ।स्वाध्यायी पत्तनवणिक् द्वयं नगरवाणिजे ॥
3.7.153 · p. 148
अनुष्टुप्
विक्रयी स्यात्तु विक्रेता तथा विक्रयिकोऽपि च ।क्रयिकः क्रायकः क्रेता क्रायिकोऽपि च कुत्रचित् ॥
3.7.154 · p. 148
अनुष्टुप्
वाणिज्यं तु वणिज्या स्याद् वाणिज्या वणिगित्यपि ॥
3.7.155 · p. 148
मूल्यन्त्ववक्रयो वस्नो वस्नकोऽपि च कुत्रचित् ।निविर्निवी परिपणो भाण्डं मूलधनञ्च तत् ॥
3.7.156 · p. 148
अनुष्टुप्
अधिके तु फले लाभो लभ्यं स्याद्बृद्धिरित्यपि ।परिवर्तः परीवर्तो नैमेयो नियमोऽपि च ॥
3.7.157 · p. 148
अनुष्टुप्
प्रतिदानं विनिमयः परिदानमपि क्वचित् ।न्यासोपनिधिनिक्षेपाः प्रतिदानं तदर्पणम् ॥
3.7.158 · p. 148
अनुष्टुप्
क्रेयं क्रेतव्यमात्रे स्यात् क्रय्यं प्रसारितं क्रये ।पणितव्यञ्च विक्रेयं पण्यं क्रेयादयस्त्रिषु ॥
3.7.159 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 प्र (wrong syllable)
स्त्रियां सत्याकृतिः सत्यङ्कारः सत्यापनं न ना ।विक्रयः स्याद्विपणनं विपणः पणनञ्च तत् ॥
3.7.160 · p. 148
अनुष्टुप्
दशश्रुत्यवधिः संख्या द्रव्ये निगदिता त्रिषु ।अतः परन्तु या संख्या उक्तास्ता द्रव्यसंख्ययोः ॥
3.7.161 · p. 148
अनुष्टुप्
विंशत्याद्याः सदैकत्वे संख्यार्थे द्विबहुत्वयोः ॥
3.7.162 · p. 148
विंशत्याद्यास्तु नवतिपर्यन्ताः स्त्रियः एव हि ॥
3.7.163 · p. 148
विंशतिर्विंशती त्रिंशत् स्याच्च द्वाविंशदित्यपि ।पञ्चाशत् षष्ठी षष्टिश्च सप्ततिः सप्ततीत्यपि ॥
3.7.164 · p. 148
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ष्ठी (wrong syllable)
दशसंख्या हि पंक्तिस्तत् दशबृद्ध्या शतादिकम् ।शतं सहस्रमयुतं लक्षं नियुतमेव च ॥
3.7.166 · p. 148
अनुष्टुप्
अयुनं प्रयुतं कोटिरर्वुदो वृन्द इत्यपि ।अथ खर्वो निखर्वश्च शङ्खः पद्मश्च सागरः ।अन्त्यो मध्यः परार्धञ्च संख्या निगदिताः क्रमात् ॥
3.7.167 · p. 148
अनुष्टुप्
द्रुवयं मानमुन्मानं पाय्यं यौतव-पौतवे ।षट्कं मानार्थकं मानं प्रस्थाङ्गुलितुलादिभिः ॥
3.7.168 · p. 149
अनुष्टुप्
पञ्चकृष्णलको माषः माषकोऽपि च कुत्रचित् ।माषाः षोडशकर्षोऽस्त्री तत्रैवाक्षः पुमानपि ॥
3.7.169 · p. 149
अनुष्टुप्
पलं चतुष्कं स्यान्मुष्टिः… मृपाटिकेत्यपि ।हेम्नः कर्षे सुवर्णस्तु स एव विस्त इत्यपि ॥
3.7.170 · p. 149
metre not recognised
स्यात् सुवर्णपले ज्ञेयं कुरुविस्तं नपुंसकम् ।स्त्रियां तुला पलशते स्याद्भारः विंशतिस्तुलाः ॥
3.7.171 · p. 149
अनुष्टुप्
दशभाराः आचितः स्याद् भारः शाकट आचितः ।पणस्य तूर्यभागः स्यात् काकनी काकिनीति च ।काकणी काकणिर्वोड्री काकनिः काकिणीत्यपि ॥
3.7.172 · p. 149
अनुष्टुप्metre not read in every line
विंशतिगण्डकामूल्यताम्रिके कार्षिके पणः ।कार्षापणः पुराणोऽस्त्री कार्षिकास्ते तु षोडशः ॥
3.7.173 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 ति (wrong syllable)
अस्त्रियामाटकद्रोणौ खारी वाहो निकुञ्चकम् ।कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक् ।तुर्योभागन्तु पादः स्यादंशो भागश्च वण्टकः ॥
3.7.174 · p. 149
अनुष्टुप्
वित्तं द्युम्नं हिरण्यस्वद्रव्यानि द्रविणं वसु ।रिक्थमृक्थं स्वापतेयमर्थो रैर्विभवो धनम् ॥
3.7.175 · p. 149
अनुष्टुप्
हेमरूप्ये कृते कोषो हिरण्यञ्चाकृते तथा ।यदन्यत् हेमरूप्याभ्यां कुप्यमित्यभिधीयते ॥
3.7.176 · p. 149
अनुष्टुप्
आहतं तद्द्वयं रूप्यं तथा रौप्यकमित्यपि ।मरक्तं स्यान्मरकतं राजनीलं हरिन्मणिः ।गारुत्मतं चाश्मगर्भो गरुडाङ्कितमित्यपि ॥
3.7.177 · p. 149
अनुष्टुप्metre not read in every line
पद्मरागः शोणरत्नं लोहितं कुरुविन्दकम् ।मुक्ता मुक्ताफलं शुक्तिवीजं हारी च मौक्तिकम् ॥
3.7.178 · p. 149
अनुष्टुप्
प्रवालं विद्रुमं रत्नकन्दलः स्याल्लतामणिः ।शालिपिष्टो धौतशिला स्फाटिकं स्फाटिकाश्मनि ॥
3.7.179 · p. 149
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 धौ (wrong syllable)
इन्द्रनीलो मसारः स्यादुर्णाकापि(?) मसारकः ।वैदुर्यं वाणराजञ्च वाणसूर्यकमित्यपि ॥
3.7.180 · p. 149
अनुष्टुप्
वज्रोऽस्त्री हीरको हीरो दधीच्यस्थि च वज्रकम् ।कषायकन्तु कासायं राजपट्टो विराटजः ॥
3.7.181 · p. 149
अनुष्टुप्
अश्मजातौ च मुक्तादौ क्लीबे रत्नं मणिर्द्वयोः ।सुवर्णं काञ्चनं हेम हिरण्यं स्वर्णहाटकम् ।गाङ्गेयं कनकं भर्म शातकुम्भञ्च कर्वुरम् ॥
3.7.182 · p. 149
अनुष्टुप्
तपनीयं जातरूपं महारजतमभ्रकम् ।अग्निवीजं लोहवरं चाम्पेयमुरुषावकम् ॥
3.7.183 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 लो (wrong syllable)
रुक्मं जाम्बूनदं कार्तस्वरमष्टापदोऽस्त्रियाम् ।चामीकरं स्पर्शमणिप्रभवं मुख्यधातु च ॥
3.7.184 · p. 150
अनुष्टुप्
क्लीबे शृङ्गीकनकञ्च स्यादलङ्कारकाञ्चने ।आकषो निकषस्तु स्यात् कषो वकष इत्यपि ॥
3.7.185 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 न (wrong syllable)
रजतं रूप्यखर्जुरं दुर्वर्णश्वेतरौप्यकम् ।रङ्गवीजं राजरङ्गं लोहराजकमित्यपि ॥
3.7.186 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 7 र्जु (wrong syllable)
पित्तलन्त्वारकूटोऽस्त्री रीती रीतिः स्त्रियामपि ।स्यात् ताम्रं ताम्रकं शुल्वं वरिष्ठं मुनिपित्तलम् ॥
3.7.187 · p. 150
अनुष्टुप्
अर्कमुदुम्बरं द्व्यष्टं सूर्याङ्गं लोहितायसम् ।कांस्यं कंसन्तु कंसास्थि ताम्रार्धं कास्यमित्यपि ॥
3.7.188 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 मु (wrong syllable)
अस्त्रियौ लौहलोहौ च पिण्डं तीक्ष्नञ्च शास्त्रकम् ।कालायसायसी क्लीबे स्यादश्मसार इत्यपि ॥
3.7.189 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 श्म (wrong syllable)
सिंहानमपि सिङ्घासां मण्डूरं लौहजे मले ।अयसस्तु विकारः स्यात् फालादिस्तु कुशी स्त्रियाम् ॥
3.7.190 · p. 150
अनुष्टुप्
सुवर्णं रजतं ताम्रं रीतिरङ्गरसादि च ।सर्वं च तैजसं लौहं क्षारकाचौ समार्थको ॥
3.7.191 · p. 150
अनुष्टुप्
रसो रसेन्द्रश्चापलः सूतपारदसूतकाः ।हरवीजं सिद्धधातुः पारतोऽपि च कुत्रचित् ॥
3.7.192 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 6 श्चा (wrong syllable)
गिरिजामलञ्च गिरिजममलञ्च तथाभ्रकम् ।कपोताञ्जनसौवीरस्रोतोञ्जनानि यामुनम् ॥
3.7.194 · p. 150
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 3 ञ्ज (wrong syllable)
वितुन्नकं शिखिग्रीवं तुत्थाञ्जनमयुरकम् ।तुत्थाञ्जने क्वाथभवे कर्परी दार्विकापि च ॥
3.7.195 · p. 150
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 6 यु (wrong syllable)
रसाञ्जनं तार्क्ष्यशैलं रसगर्भञ्च गर्भकम् ।गन्धको गन्धपाषाणो गन्धः सौगन्धिकोऽपि च ॥
3.7.196 · p. 150
अनुष्टुप्
कुलत्थिका कुलाली च चक्षुष्या चाक्षुषीत्यपि ।रीतिपुष्पं पौष्पिकञ्च पुष्पकं कुसुमाञ्जनम् ॥
3.7.197 · p. 151
अनुष्टुप्
रसगन्धो गन्धरसः प्राणः पिण्डो रसः शशः ।वोलो गोपो गोपरसो वोलजो गोपकोऽपि च ।हिण्डीरः स्यादब्धिकफः फेणो हिण्डिर इत्यपि ॥
3.7.199 · p. 151
अनुष्टुप्metre not read in every line
नागसम्भवसिन्दूरगान्धाररक्तवालुकम् ।समीवर्धनसीमन्तवरकं कामचन्द्रकम् ॥
3.7.200 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 र (wrong syllable)
सीसकं वप्रयोगेष्टनागवध्रानि पिच्चटम् ।सीसपत्रं सुवर्णारिः स्यात् त्रपु त्रपुरित्यपि ॥
3.7.201 · p. 151
अनुष्टुप्
पुरेतनागमृद्वङ्गरङ्गवङ्गत्रपूति च ।पिचुतूलस्तूलपिचुस्तूलश्च पिचुस्तूलकम् ॥
3.7.202 · p. 151
अनुष्टुप्metre not read in every line
कुसुम्भं स्याद्वह्निशिखं वह्निदीपकमित्यपि ।स्यान्महारजनं ग्राम्यकुङ्कुमं कमलोत्तरम् ॥
3.7.203 · p. 151
अनुष्टुप्
हिङ्गुलुर्हिङ्गुलोऽपि स्याद् रक्तपारद-पारदौ ।मेषलोमनिर्मिते स्यादुर्णायुर्मेषकम्बलः ।शशोर्णं शशलोम स्यात्तेनापि शशकम्बलः ॥
3.7.204 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 म (wrong syllable)
अथ क्लीबे मधु क्षौद्रं माक्षिकं भ्रामरादिकम् ।मधूच्छिष्टं सिक्थन्तु शिक्थकं शिक्थमित्यपि ॥
3.7.205 · p. 151
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ष्टं (syllables merged)
मनःशिला मनोह्वा च कुनटी नागजिह्विका ।नागजिह्वा शिलाह्वा ज गोलापि च मनः शिलम् ॥
3.7.206 · p. 151
अनुष्टुप्
यवनालो यवक्षारो यवशूको यवाग्रजः ।सारको रेचकः पाक्यो यवनक इत्यपि च ॥
3.7.208 · p. 151
अनुष्टुप्metre not read in every line
स्वर्जिकाक्षारकापोतस्वर्जिकाः सुखवर्चकः ।सौवर्चलं चरुचकं सर्जिका स्वर्जिकापि च ॥
3.7.209 · p. 151
अनुष्टुप्
त्वक्क्षीरा वंशजा वंशा क्षीरिका वंशलोचना ।शिग्रूजं शुक्लमरिचमिक्षुमूलन्तु मोरटम् ॥
3.7.210 · p. 152
अनुष्टुप्
अथ स्यात् पिप्पलीमूलं ग्रन्थिकं चटिकाशिरः ।चटिका च शिरश्चेति चटकाशिर इत्यपि ॥
3.7.211 · p. 152
अनुष्टुप्
भूतकेशो भूतकेशी गोलामी भूतकेशिका ।रक्तचन्दनपत्राङ्गं पत्राङ्कमपि कुत्रचित् ॥
3.7.212 · p. 152
अनुष्टुप्
मरिचं पिप्पली शुण्ठीयुतमेतत् कटुत्रिकम् ।त्रिकटु त्र्यूषणव्योषत्र्यषणञ्च कटुत्रयम् ॥
3.7.213 · p. 152
अनुष्टुप्
स्याद्विभीतक्यामलकी हरितकी फलत्रयम् ।फलंत्रिकञ्च त्रिफला तृफला त्रिफलीत्यपि ॥
3.7.214 · p. 152
अनुष्टुप्metre not read in every line