कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

विष्णुचक्र

viṣṇucakraक्ली · neut.

In 3 kośas: 1 synonym verse, 2 as a meaning of another word.

परमानन्दीयनाममाला Paramānandīyanāmamālā · मकरन्ददास द्वितीयः परिच्छेदः Paramānandīyanāmamālā 2.15 · p. 7
सुदर्शनो विष्णुचक्रं वाहनं वज्रजित्पुनः ।पाञ्चजन्योऽस्य कम्बुः स्यादङ्कः श्रीवत्स एव हि ॥ १५ ॥
अनुष्टुप्
genderक्लीneut.

विष्णुचक्र as a meaning in nānārtha verses

  • नानार्थार्णवसंक्षेप सुदर्शनपुनः पुंसीक्ष्वाकुवंशप्रभवे क्षत्त्रियान्तरे । शङ्खणस्य सुते विष्णुचक्रे चान्यस्तु तन्नपि ॥ ६७६ ॥ Nānārthārṇavasaṃkṣepa 6.676
  • शब्दरत्नावली सुदर्शनसदादानो गन्धहस्तिन्यैरावतगणेशयोः । सम्बदनं वशीकारे क्लीबमालोचनेऽपि च ॥ समादानं समीचीनग्रहे बौद्धाह्णिकेऽपि च । सम्वाहनन्तु भारादिवाहने चाङ्गमर्दने ॥ समापनं परिच्छेदप्रमापनसमाप्तिषु । सनातनो हरे विष्णौ नित्यपित्रतिथिष्वपि ॥ सनातनी भवान्यान्तु वाण्यब्धिसुतयोः स्त्रियाम् । स्तनयित्नुर्जलधरे विद्युति स्तनिते स्त्रियाम् ॥ सरोजिनी तु कमलाकरपङ्कजयोः स्त्रियाम् । समापन्नं वधे क्लिष्टे समाप्तप्राप्तयोरपि ॥ संयमनं व्रते बन्धे यमपूर्यामपि स्त्रियाम् । भवेत्सारसनं काञ्च्यामुरस्तेन तनुत्रिणाम्(?) ॥ सामयोनिर्ग्रजब्रह्मसामोत्थेषु भवेत्पुमान् । सुदर्शनो विष्णुचक्रे जम्बूवृक्षे सुरलाये ॥ क्लीबं महेन्द्रनगरे प्रज्ञौषधिभिदोः स्त्रियाम् । सुयामुनोऽच्युते मेघे प्रासादवत्सराजयोः ॥ सुकर्मा योगभेदे स्यात्सत्कर्मविधिकर्मणोः । सुधन्वा वीरभेदे स्याद्धानुष्के विश्वकर्मणि ॥ सुपर्वा पुंसि वंशे तु धूमपर्वामरेषु च ॥ Śabdaratnāvalī 7.20.127