अङ्क
aṅkaपुं · masc.In 18 kośas: 38 synonym verses, 13 as a nānārtha head word, 25 as a meaning of another word.
षोडशोंऽशः कला चिह्नं लक्षणं लक्ष्म लाञ्छनम् ।अङ्कः कलङ्कोऽभिज्ञानं चन्द्रिका चन्द्रगोलिका ॥ १०६ ॥चन्द्रातपः कौमुदी च ज्योत्स्ना बिम्बं तु मण्डलम् ।
अनुष्टुप्
genderपुंmasc.
स्यान्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवकारो विथ्यङ्केहामृगा इति ॥ २८४ ॥अभिनेयप्रकाराः स्युर्भाषाः षट्संस्कृतादिकाः ।
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 व (wrong syllable)
genderपुंmasc.
genderपुंmasc.
कलङ्काङ्कौ लाञ्छनं च चिह्नं लक्ष्म च लक्षणम् ।
अनुष्टुप्
genderपुंmasc.
अङ्कश्चिह्नमभिज्ञानं लाञ्छनं लक्ष्म लक्षणम् ।कलङ्कश्चेति विज्ञेया नातिनानार्थवाचकाः ॥ ४५ ॥
अनुष्टुप्
genderपुंmasc.
क्रोडमङ्कस्तथोत्सङ्गः प्राग्भागो वपुषः स्मृतः ।पृष्ठं स्यात्पश्चिमो भागः कटौ च कटिशीर्षकौ ॥ ५२८ ॥
अनुष्टुप्
genderपुंmasc.
गोनन्दाङ्कनवानां च ग्रहखेटा खगास्तथा ।शून्याभ्रगगनं व्योम खमंबर नभो वियत् ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
अङ्कः पुंस्यथ कान्तिः स्यात् कान्त्यपि स्यात् द्युतिश्छविः ।अभिख्या परमा शोभा सुषमापि द्युतीच्छवी ॥ १८० ॥
अनुष्टुप्
genderपुंmasc.
ईहामृगोऽङ्क इत्येते भेदा नाटकजा दश ।स्याद्वेददेवयोर्वाणी संस्कृतं प्रकृतिः स्त्रियाम् ॥ ५४ ॥
अनुष्टुप्
genderपुंmasc.
सर्गो वर्गः परिच्छेदो द्योताध्यायाङ्कसंग्रहाः ।उल्लासः परिवर्त्तश्च पटलः काण्डमस्त्रियाम् ॥ ६२ ॥
अनुष्टुप्
genderपुंmasc.
तथावप्राछवर्हाणामनुवाकाङ्करक्तकैः ।सनक्तवैः पुंखरङ्गसमुद्गानां भगस्य च ॥ ५१ ॥
अनुष्टुप्
genderपुंmasc.
अभिज्ञानं चिह्नमङ्कः कलङ्कोऽथ प्रसन्नता ।प्रसत्तिः स्त्री प्रसादो नाऽथो शोभा लवणा छविः ॥ ६६ ॥
अनुष्टुप्
genderपुंmasc.
आवर्षं द्व्यहतो निबद्धचरितः संलग्नबिन्दुः क्वचिन्नातिश्लोकयुतो रसादिबहुलश्चासन्नसन्नायकः ।अन्ते निर्गतपात्रकस्त्रिचतुरैः पात्रैर्युतो बीजवान्साक्षाद्युद्धवधादिभिर्विरहितः स्पष्टोक्तिरङ्को मतः ॥ ९३ ॥
शार्दूलविक्रीडितम्
genderपुंmasc.
रीढकः पृष्ठवंशः स्यात्पृष्ठं तु चरमं तनोः ।पूर्वभाग उपस्थोऽङ्कः क्रोड उत्सङ्ग इत्यपि ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
एतेषां तृतीयाप्रकृतिः तृतीया स्थाने नपुंसकस्य दृष्टत्वात् पातालादीनि तृतीयाप्रकृतीनि विद्धि जानीहि । यथा इदं पातालं रसातलम् । जालं मत्स्यबन्धनं गवाक्षश्च । मलं पापम् । खलं मर्दनस्थानं व्रीहीणाम् । कपालं मस्तकास्थि खण्डं च । शैवालं जलसम्भवम् । शीलं विनयः[य] । नालं पद्मादीनाम् । चीरं जीर्णवस्त्रम् । चीवरं भिक्षाप्रावरणम् । वियदाकाशम् ।मुण्डनितम्बक्षपगुल्मसान्वङ्कवंशपूगशङ्खरथाश्च पुंसि स्युः ।जघनाम्बरफलमूलाङ्गानि तु विमुच्य ॥ ३८ ॥
metre not recognised
genderपुंmasc.
विदग्धश्चतुरः धूर्तश्चाटुकृत् कितवः शठः ।क्वापि नागरिको ज्ञेयः गोत्रसंज्ञाङ्कनाम तत् ॥ १६५ ॥
अनुष्टुप्
genderपुंmasc.
सुदर्शनो विष्णुचक्रं वाहनं वज्रजित्पुनः ।पाञ्चजन्योऽस्य कम्बुः स्यादङ्कः श्रीवत्स एव हि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
अभिज्ञानकलङ्काङ्काः लक्षणं लक्ष्म लाञ्छनम् ।चन्द्रिका कौमुदी चन्द्रगोलिका ज्योत्स्नया सह ॥ १०१ ॥
अनुष्टुप्
genderपुंmasc.
उत्सङ्गाङ्कावपि क्रोड उरो वक्षो भुजान्तरम् ।हृदयं हृत्तथा क्रोडो वक्षोजान्तरमेव तत् ॥ २६१ ॥
अनुष्टुप्
genderपुंmasc.doubtful
वाकोत्तरपदाः शब्दाः सूक्तवाकादयो नरे ।नक्तको रल्लकाङ्कौ च तरङ्गो रङ्ग इत्यपि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.doubtful
त्रिवलिस्तूदरे रेखा नाभिः स्यात्तुन्दकूपिका ।अङ्कस्तु क्रोड उत्सङ्गः पृष्ठं वंशस्त्रिकं तथा ॥ ३९ ॥
अनुष्टुप्
genderपुंmasc.
दृप्तोऽभिमानी गर्विष्ठो गर्वितः स्तब्ध उन्नतः ।कलङ्को लाञ्छनं लक्ष्म चिह्नमङ्कश्च लक्षणम् ॥ ७५ ॥
अनुष्टुप्
genderपुंmasc.
षोडशोंऽशः कला ज्ञेया लाञ्छनं लक्ष्म लक्षणम् ।चिह्नमङ्कः कलङ्कश्चाऽभिज्ञानं तदनन्तरम् ॥ ९० ॥
अनुष्टुप्
genderपुंmasc.
अध्यायोऽङ्कस्तथोच्छवासः सर्गः प्रमुखमत्र स्यात् ।ग्रन्थस्यावयवाः प्रोक्ताः काव्यादौ यत्र कुत्रचित् ॥ ३७२ ॥
अनुष्टुप्metre not read in every line
genderपुंmasc.
अङ्कः प्रकुरणं चैव व्यायोगेहामृगौ तथा ।वीथ्यसमवकारश्च नाटकादौ प्रयुज्यते ॥ ४११ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 स (wrong syllable)
genderपुंmasc.
अङ्कः क्रोड उपस्थश्च पुनरुत्सङ्ग इत्यपि ।देहस्य पूर्वभागो हि कथ्यते पण्डितैः किल ॥ ९६८ ॥
अनुष्टुप्
genderपुंmasc.
कलङ्काङ्कौ कलङ्कस्य पर्यायः समुदाहृतः ।अथ सर्वोत्तमा शोभा सुषमा परिकीर्तिता ।शोभा शुभा द्युतिः कान्तिश्च्छविर्दीप्तिश्च भा द्वयोः ॥
अनुष्टुप्
genderपुंmasc.
सर्गोद्यतपरिच्छेदपटलाध्यायसंग्रहाः ।उल्लासः परिवर्तश्च वर्गाङ्ककाण्डमस्त्रियाम् ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 ङ्क (wrong syllable)
genderपुंmasc.
वियामः पृष्ठवंशे तु रीढको रीढयुग्मतः ।पृष्ठं वर्गद्वितीयाप्तमुत्सङ्गेऽङ्को नपुंसके ॥ १७७ ॥
अनुष्टुप्
genderक्लीneut.doubtful
सान्तमङ्कोऽप्यदन्तो नाऽथोरोजोरसिजौ स्तने ।कुच-कूचौ, जठरे तु स्यात् पिचण्डः पिचिण्डयुक् ॥ १७८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 ठ (wrong syllable)
genderपुंmasc.
अभिज्ञानं कलङ्काङ्कौ प्रसादः स्यात्प्रसन्नता ।भित्तमर्धः पुमान् खण्डमस्त्रियां शकलं त्रिषु ॥ १७८ ॥
अनुष्टुप्
genderपुंmasc.
पताका वैजयन्ती द्वे ध्वजे तद्वसनेऽपि च ।केतुरङ्को ध्वजोऽस्त्री स्यात् केतनं चाथ कूर्चकौ ॥ १३५४ ॥
अनुष्टुप्
genderपुंmasc.
स्युर्नाटकं प्रकरणं भाणः प्रहसनं डिमः ।व्यायोगः समवाकारौ वीथ्यङ्केहामृगा इति ॥ १८१८ ॥
अनुष्टुप्
genderपुंmasc.
लध्वी त्वाष्ट्री रथी कालवलनं त्वङ्कवर्मणी ।मेठो मेण्डो हस्तिपके जङ्घात्राणं तु मङ्खुणम् ॥ ४९ ॥
अनुष्टुप्
genderपुंmasc.
सन्दानमनिरुद्धं च प्रकीर्णं गुत्सकस्तथा ।सर्गो वर्गः परिच्छेदोद्घाताध्यायाङ्कसङ्ग्रहाः ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
अंकश्चिह्नमभिज्ञानं लांछनं लक्ष्म लक्षणम् ।पुष्पवन्तौ सहैवोक्त्यां सूर्याचन्द्रमसावुभौ ॥ २९ ॥
अनुष्टुप्
genderपुंmasc.doubtful
नाटकं नाटिका भाणो वीथिः प्रहसनं डिमः ।ईहामृगः प्रकरणमंकः समवकारकः ॥ १०० ॥
अनुष्टुप्
genderपुंmasc.doubtful
अंकस्तूपस्थ उत्संगः पीठीवं त्वण्डमूलकम् ।पायुस्तु ना गुदापाने त्रिवलीकं बुलिश्च्युतिः ॥ ६० ॥
अनुष्टुप्
genderपुंmasc.doubtful
अङ्कः क्रोडे च चिह्ने च चित्रयुद्धसमीपयोः ।नाटकग्रन्थविच्छेदे स्थानभूषणयोः क्वचित् ॥
अनुष्टुप्
उरस्यर्घस्तु पूजायां मूल्येऽप्यब्दस्तु वारिदे ।वत्सरे मुस्तकेऽथाब्दः(?) पुरोडाशर्षिभेदयोः ॥ ७ ॥
अनुष्टुप्
meaningsउरस्
doubtful
अनोऽन्ने शकटे सान्त ओदने सलिलेऽपि च ।अर्शो दुर्नामनि व्याधिमात्रेऽप्यङ्कस्तु संयुगे ॥ ८ ॥
अनुष्टुप्
meaningsसंयुग
स्वाङ्गभेदेऽपि चाब्जस्तु रूपे कश्चित् सरोरुहे ।अप्नस्तु रूपेऽपत्ये च क्रियायामप्यथो अयः ॥ ९ ॥
अनुष्टुप्
meaningsस्वाङ्गभेद
doubtful
भूषायां रूपकोत्सङ्गनाटकाद्यंशमन्तुषु ।अन्त्योऽधमेऽन्त्यजाते चाध्वा मार्गे समये स्मृतः ॥ ७ ॥
अनुष्टुप्
doubtful
शक्रार्कपर्णयोश्चार्कोऽभीकस्त्वभयकामिनोः ।रूपकान्तिकयोश्चाङ्कोऽलिमकौ भेककोकिलौ ॥ २ ॥
अनुष्टुप्
doubtful
अङ्क as a meaning in nānārtha verses
- नामलिङ्गानुशासनम् पालिशङ्कावपि द्वयोः कीलः पालिः स्त्र्यश्र्यङ्कपङ्क्तिषु । Amarakośa 3.3.371
- धरणिकोश कलङ्कअलीके त्वप्रियासत्ये सूतकौ जन्मपारदौ । अभीकौ कामुकात्रस्तौ कलङ्कोऽङ्कापवादयोः ॥ Dharaṇikośa 1.1.9
- धरणिकोश पालिपालिः कर्णलतायां स्यात्प्रदेशांशाङ्कपङ्क्तिषु । … ॥ Dharaṇikośa 27.3.9
- कल्पद्रुकोशः क्रोडशुक्तौ विश्वं च मधुकमौषधे लक्षमित्यपि । षष्ठेऽङ्कस्थानके कल्पं क्रोडोऽङ्के तिन्दुकं फले ॥ १२७ ॥ Kalpadrukośa 3.5.127
- कोषकल्पतरु कलङ्कसस्ये तथोत्तमाङ्गे- ऽथाक्षेपेऽङ्के मलेऽप्ययसः । प्रथमे कलङ्क उक्तः पालङ्कः शाकशल्लक्योः ॥ ५ ॥ Koṣakalpataru 6.1.5
- कोषकल्पतरु ध्वजछागे विधाविन्दुमतीधवेऽजो व्रजोऽध्वगोष्ठप्रकरेषु न स्त्री । निजं तु नित्ये त्रिषु तु स्वकीये ध्वजोऽङ्ककेत्वोरपि मेहनेऽस्त्री ॥ २१ ॥ Koṣakalpataru 6.7.21
- कोषकल्पतरु पदस्थानाङ्घ्रिचिह्नाङ्कगतं पदं स्या- च्छदोऽस्त्रि पत्रे[वि]गरुत्तमाले । स्याद्ग्रन्थिपर्णेऽपि रदस्तु दन्ते विलेखने चाथ शुभेऽपि भन्दम् ॥ २० ॥ Koṣakalpataru 6.19.20
- नानार्थार्णवसंक्षेप उत्सङ्गप्रसोमदेववर्गस्य चतुर्थे साम्नि चोन्नतौ । उत्सङ्गः पुनरङ्के स्याद् गजस्यावयवान्तरे ॥ ४० ॥ Nānārthārṇavasaṃkṣepa 3.2.40
- नानार्थार्णवसंक्षेप पलितकेशादौ जरसा शौक्ल्ये तद्वद्बलवतोस्त्रिषु । नपुंसकं तु शैलेये स्यादङ्के मरिचेऽथ ना ॥ १०६२ ॥ Nānārthārṇavasaṃkṣepa 4.1062
- परमानन्दीयनाममाला क्रोडक्रोडः कोले शनावङ्के कृष्णो विष्णौ पिकेऽर्जुने । काके वर्णे तथा व्यासे कृष्णं मरिचलोहयोः ॥ ९० ॥ Paramānandīyanāmamālā 5.7.90
- परमानन्दीयनाममाला कलङ्ककन्दलं तु नवाङ्कूरे कपाले कलहे ध्वनौ । कलङ्कस्त्वपवादेऽङ्के कमलं जलताम्रयोः ॥ ११७ ॥ Paramānandīyanāmamālā 5.7.117
- शब्दरत्नावली कलङ्ककलङ्कोऽङ्केऽपवादे स्यात् कालायसमलेऽपि च । कर्णिका करिहस्ताग्रे हस्तमध्याङ्गुलावपि ॥ Śabdaratnāvalī 7.1.43
- शब्दरत्नावली रुजारुजा भङ्गे च रोगे च तथाङ्केऽपि च कुत्रचित् । क्लीबे लाजमुषीरे तु लाजः स्यादार्द्रतण्डुले ॥ Śabdaratnāvalī 7.8.15
- शब्दरत्नावली क्रोडक्रोडोऽङ्कवक्षसोरस्त्री शनिशूकरयोः पुमान् । खण्डोऽस्त्री शकले पुंसि मणिदोषेक्षुपाकयोः ॥ Śabdaratnāvalī 7.13.8
- शब्दरत्नावली पदनिन्दा स्थियान्तु कुत्सायामपवादे च दुष्कृतौ । पदं वाक्ये व्यवसाये शब्दप्रदेशयोरपि ॥ पादे च पादचिह्णो च स्थाने त्राणे च वस्तुनि । अङ्के च श्लोकपादे च क्लीबं स्यात्किरणे पुमान् ॥ Śabdaratnāvalī 7.18.3
- शब्दरत्नावली पांशुचामरस्यात्पांशुचामरो दुर्वातटीभूर्य्याञ्चतेषु च । धूलिगुच्छप्रशंसाङ्कपूरोटिषु च न स्त्रियाम् ॥ Śabdaratnāvalī 7.27.148
- शब्दरत्नाकर केतुकोणोऽश्रौ लगुडे सौरौ केतुरङ्के ध्वजे ग्रहे । मुख्ये दुर्जात उत्पाते कणो लेशे कणौ(णो?)षणा ॥ १८८२ ॥ Śabdaratnākara 4.1.1882
- शब्दरत्नाकर चिह्नआलेख्याश्चर्ययोश्चित्रं चिह्नमङ्के ध्वजेऽपि च । स्तुतिवादे चटुश्चाटुरुभौ पशुपिचण्डके ॥ १९१८ ॥ Śabdaratnākara 4.1.1918
- शब्दरत्नाकर कलङ्ककलङ्कोऽङ्केऽपवादे च कलिङ्गः खगदेशयोः । करेणुर्ना गजे स्त्री तु करिण्यामथ कञ्चुकः ॥ २०५७ ॥ Śabdaratnākara 4.1.2057
- शब्दरत्नाकर ललामप्रभावे पौरुषेऽङ्केऽथ ललनं केलिशोभयोः । नीलिन्यां मांसपिण्डे च मणिभ्रुवि च लोचकः ॥ २१५९ ॥ Śabdaratnākara 4.1.2159
- वैजयन्ती केतुउत्पातेंऽके ध्वजे केतुः क्लेदौषधिशशांकयोः । कोणाः शब्दाश्रिलगुडाः कल्पो न्याये सुरद्रुमे ॥ १६ ॥ Vaijayantī 6.1.16
- वैजयन्ती पालिपालिरश्रिः प्रदेशोंऽकः सश्मश्रुः स्त्री त्सरुश्छदः । छन्दः संख्यावली पङ्क्तिः पक्तिर्गौरवपाकयोः ॥ २२ ॥ Vaijayantī 6.2.22
- वैजयन्ती चिह्नचैत्यं चितांके बुद्धाण्ड उद्देशेऽद्रौ मुरालये । चिह्नमंके पताकायां छद्म सद्मनि कैतवे ॥ ८ ॥ Vaijayantī 6.3.8
- वैजयन्ती ध्वजन्यायाचारयमाहिंसास्वस्त्री मेढ्रांकयोर्ध्वजः । धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने बले गृहे ॥ ४३ ॥ Vaijayantī 6.5.43
- वैजयन्ती कलङ्ककौशिको गुल्गुलूलूकशक्रर्षिष्वाहितुण्डिके । कलंकोंऽकेऽपवादे च कलहो द्वन्द्वयुद्धयोः ॥ १७ ॥ Vaijayantī 7.1.17