पाञ्चजन्य
pāñcajanyaपुं · masc.In 13 kośas: 16 synonym verses, 3 as a nānārtha head word.
genderपुंmasc.
शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम् ।कौमोदकी गदा खड्गो नन्दकः कौस्तुभो मणिः ॥चापः शार्ङ्गं मुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम् ।अश्वाश्च शैब्यसुग्रीवमेघपुष्पबलाहकाः ॥सारथिर्दारुको मन्त्री ह्युद्धवश्चानुजो गदः ॥ २८ ॥
अनुष्टुप्
genderपुंmasc.
चक्रं सुदर्शनं चापं शार्ङ्गं कौमोदकी गदा ।खड्गोऽस्य नन्दकः शङ्खः पाञ्चजन्यः प्रकीर्तितः ॥ २६ ॥
अनुष्टुप्
genderपुंmasc.
गदोऽनुजः पाञ्चजन्यो दक्षिर्णावर्त्त इत्यपि ।शङ्खो माला वैजयन्ती चक्रमस्त्री सुदर्शनः ॥ ३० ॥
अनुष्टुप्
genderपुंmasc.
स्याच्छन्दतिष्यपुष्याणां पाञ्चजन्यनिकाय्ययोः ।सिचयामित्रमित्राणां तद्वद्वृत्रकटत्रयोः ॥ ५९ ॥
अनुष्टुप्
genderपुंmasc.
शङ्खो हरेः पाञ्चजन्यो गदा कौमोदकी तथा ।श्रीवत्सोऽङ्को भृगुपदं पुरं वैकुण्ठमुच्यते ॥ २४ ॥
अनुष्टुप्
genderपुंmasc.
कृमिर्निकाय्यः कणपश्च तिष्यःस्यात्पाञ्चजन्यः सिचयः कटप्रूः ।गिरिर्गुडेरः क्षुरकेदराराअमित्र-मित्रावपि वृत्र-पुण्ड्रौ ॥ २० ॥
उपजातिः
genderपुंmasc.
सुदर्शनो विष्णुचक्रं वाहनं वज्रजित्पुनः ।पाञ्चजन्योऽस्य कम्बुः स्यादङ्कः श्रीवत्स एव हि ॥ १५ ॥
अनुष्टुप्
genderपुंmasc.
चक्रे सुदर्शनं शङ्खे पाञ्चजन्यः शिखामणौ ।नन्दकी स्याद्गदायां तु मोदी कौमोदकी तथा ॥ ४१ ॥
अनुष्टुप्
genderपुंmasc.
मनुष्यो मानुषो मर्त्यो मनुजो मानवो नरः ।ना पुमान् पुरुषो गोध्मः पाञ्चजन्यजपूरुषौ? ॥ १३ ॥
अनुष्टुप्
genderपुंmasc.
अस्य शङ्खः पाञ्चजन्यः चक्रञ्चास्य सुदर्शनः ।गदा कौमोदकी चास्य कौमोदीत्यपि सा मता ॥
अनुष्टुप्
genderपुंmasc.
उपेन्द्र इन्द्रावरजो ब्रह्मनाभो वृषाकपिः ।तस्य शङ्खश्च चक्रं च पाञ्चजन्यसुदर्शने ॥ २३ ॥
अनुष्टुप्
genderपुंmasc.
माधवः सूक्ष्मसंज्ञश्च विद्या दक्षिणलोचनम् ।गन्धर्वः पाञ्चजन्यश्च इ-कारश्च मखाङ्कुरः(न्तकः) ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
दक्षाक्षो माधवः सूक्ष्मः पाञ्चजन्यो मखांकुरः ।विड्बिन्दुः परमेशश्च गन्धर्वः परमः स्मृतः ॥ ४ ॥
अनुष्टुप्
genderपुंmasc.
माधवः सूक्ष्मविद्याऽग्निर्द्विबिन्दुर्दक्षलोचनः ।गन्धर्वः पाञ्चजन्यस्तु इकारस्तु मखाङ्कुरः ॥ ५ ॥
अनुष्टुप्
genderपुंmasc.
कौस्तुभोऽस्य मणिर्लक्ष्म श्रीवत्सो नन्दकुस्त्वसिः ।चापः शार्ङ्गं पाञ्चजन्यः शंखश्चक्रं सुदर्शनम् ॥ १७ ॥
अनुष्टुप्
genderपुंmasc.
आश्रये सदसि स्थाने प्रसिद्धे च प्रतिश्रयः ।हुताशने विष्णुशङ्खे पाञ्चजन्यः समीरितः ॥पुंसा कृते तद्विकारे पौरुषेयो भवेत्त्रिषु ।पुंसि बृन्दे वधे चापि पुरुषस्य पदान्तरे ॥प्रावृज्जे त्रिषु नीपे ना प्रावृषेण्यो निगद्यते ।लाभे सुरालये हर्षे भवेत्पुंसि फलोदयः ॥परमात्मनि तीर्थे च विहारे च महालयः ।अपवर्गे चाधिपत्ये कान्यकुब्जे महोदयः ॥शुद्धौ तु कायशोधे स्यान्मार्जनीयो भवेत्पुमान् ।बलरामे बुधे पुंसि रौहिणेयो भवेदिवृ ॥कर्कटे मूषिके सर्गे पुंलिङ्गे स्याद्विलेशयः ।युद्धेऽप्यायदुत्तरे स्यात्सम्परायः पुमानयम् ॥पशुपक्षियुधि द्यूते चाह्वाने च समाह्वयः ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 य (wrong syllable)