All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
चतुरक्षरकाण्डः (8/9)
जृम्भणेऽथ द्वयोः सर्पे विषन्धर इति ध्वनिः ।ना तु मेघे विकसुकः परिस्रोतोरये पुमान् ॥ ५७५ ॥
6.575 · p. 75
अनुष्टुप्
गुणवादिनि तु त्रि स्यात् पुमांस्तु स्याद्विकर्तनः ।रवौ ना कर्तने तु क्ली तत्प्रयुक्तौ तु नो पुमान् ॥ ५७६ ॥
6.576 · p. 76
अनुष्टुप्
विटकान्ता हरिद्रायां स्त्री समासादि पूर्ववत् ।विवृत्ताक्षः पुनर्द्वे स्यात् कुक्कुटे सादि पूर्ववत् ॥ ५७७ ॥
6.577 · p. 76
अनुष्टुप्
विभावसुस्तु ना सूर्ये चन्द्रे वह्नौ द्वयोः पुनः ।शतपत्रेऽथ गन्धर्वभेदे विश्वावसुः पुमान् ॥ ५७८ ॥
6.578 · p. 76
अनुष्टुप्
शर्वर्यां तु स्त्रियामुक्ता विषघाती पुनर्द्वयोः ।आखुजातिविशेषे स्यात् समासादीनि पूर्ववत् ॥ ५७९ ॥
6.579 · p. 76
अनुष्टुप्
वृश्चिकाली स्त्रियामुष्ट्रधूम इत्यादिभिः पदैः ।प्रसिद्ध ओषधीभेदे वृश्चिकालं पुनर्नपि ॥ ५८० ॥
6.580 · p. 76
अनुष्टुप्
वृश्चिकस्य भवेत् पुच्छकण्टके स्त्री तु वेश्मनः ।द्वारस्याधःस्थकाष्ठस्य वृकवाला च पार्श्वके ॥ ५८१ ॥
6.581 · p. 76
अनुष्टुप्
अत्रापि पूर्ववत् सादि वृथाजातस्तु ना द्विजे ।यज्ञत्यागिनि तत्र त्रिर्निष्फलं जन्म यस्य वै ॥ ५८२ ॥
6.582 · p. 76
अनुष्टुप्
वृषलण्डी पुनः स्त्री स्यात् पिप्पल्यां नृनपोः पुनः ।वृषलण्डो वृषस्य स्याद् गूढे राजियुते दृढे ॥ ५८३ ॥
6.583 · p. 76
अनुष्टुप्
वृषाकपिस्तु पुंसि स्यादग्नौ सूर्ये हरे हरौ ।सूक्तस्य विहिसोतोरित्यस्य द्रष्टरि चाप्यृषौ ॥ ५८४ ॥
6.584 · p. 76
अनुष्टुप्
स चेन्द्रपुत्रस्तेनापि दृष्टे सूक्तेऽत्र मन्वते ।द्वयोस्तु वृषदंशे श्रीगौरीस्वाहासु तु स्त्रियाम् ॥ ५८५ ॥
6.585 · p. 76
अनुष्टुप्
वृषाकपायी स्त्रीलिङ्गा पुनः कस्तूरिकाह्वये ।गन्धद्रव्ये वेधमुख्या ना तु कर्च्चूरकेऽत्र च ॥ ५८६ ॥
6.586 · p. 76
अनुष्टुप्
पूर्ववत् स्यात् समासादि वैजयन्ती पुनः स्त्रियाम् ।पताकायां च तर्कारीसंज्ञद्रौ केशवस्रजि ॥ ५८७ ॥
6.587 · p. 77
अनुष्टुप्
वैजयन्तः पुनः पुंसि प्रासादे स्याच्छचीपतेः ।तस्य ध्वजे च देवे च देवदेवसुते गुहे ॥ ५८८ ॥
6.588 · p. 77
अनुष्टुप्
इमं पठन्ति द्वे तु स्याद् वैश्यायां शूद्रसम्भवे ।वैदेहको मर्त्यजातिभेदे वणिजि चाप्यथ ॥ ५८९ ॥
6.589 · p. 77
अनुष्टुप्
स्त्रियां वैषयिकी या स्त्री गता वेश्यात्वमात्मनः ।भोगाय तत्र विषयभवादौ तु त्रिषु स्मृता ॥ ५९० ॥
6.590 · p. 77
अनुष्टुप्
वैहायसं तु धानुष्कस्थितिभेदे नपुंसकम् ।प्रत्यालीढाह्वये त्रिस्तु सम्बन्धिनि विहायसः ॥ ५९१ ॥
6.591 · p. 77
अनुष्टुप्
वैखानसस्तु ना वानप्रस्थेऽप्यृषिषु केषुचित् ।सामभेदे पुनः क्ली स्याच्छतमानं तु पुन्नपोः ॥ ५९२ ॥
6.592 · p. 77
अनुष्टुप्
शतोन्मिते तण्डुलानां व्रीहेः कर्षद्वये परे ।आढके त्वाह कश्चिद्वै शतपत्त्रं तु पङ्कजे ॥ ५९३ ॥
6.593 · p. 77
अनुष्टुप्
क्ली दार्वाघाटशकुनौ पुनर्द्वे अजयः पुनः ।मयूरे सारसेऽप्याह समासाद्यत्र पूर्ववत् ॥ ५९४ ॥
6.594 · p. 77
अनुष्टुप्
शतवीर्या स्त्रियां श्वेतदूर्वायां सादि पूर्ववत् ।शतहृदा तडिद्भेदे तडित्यप्यत्र पूर्ववत् ॥ ५९५ ॥
6.595 · p. 77
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 3 हृ (wrong syllable)
शतानन्दस्तु ना विष्णौ विरिञ्चे गोमये तथा ।अत्रापि पूर्ववत् तर्क्यौ समासार्थो सलिङ्गकौ ॥ ५९६ ॥
6.596 · p. 77
अनुष्टुप्
शतावर्ता तु तडिति स्त्रियां विष्णौ तु पुंस्ययम् ।अत्रापि पूर्ववत् सादि ज्ञेया शतमुखी स्त्रियाम् ॥ ५९७ ॥
6.597 · p. 77
अनुष्टुप्
पार्वत्यां पूर्ववत् सादि नक्रे शङ्कुमुखो द्वयोः ।अर्थलिङ्गसमासास्तु ज्ञेयाः पूर्ववदत्र च ॥ ५९८ ॥
6.598 · p. 78
अनुष्टुप्
शङ्कुकर्णस्तु पुंसि स्यात् पुराणप्रथिते मुनौ ।विज्ञेयस्तु द्वयोरुष्ट्रे गर्दभेऽपि स्त्रियां पुनः ॥ ५९९ ॥
6.599 · p. 78
अनुष्टुप्
शङ्कुकर्णी प्रतोल्यां स्यात् परिवे लोहकीलिनि ।शङ्खपालः पुनर्द्वे स्याद् दर्वीकरफणाभृताम् ॥ ६०० ॥
6.600 · p. 78
अनुष्टुप्
षड्विंशतेरेकभेदे समासाद्यत्र पूर्ववत् ।शश्शरीकस्तु पुष्पाख्ये द्वयोर्लाबाख्यपक्षिणि ॥ ६०१ ॥
6.601 · p. 78
अनुष्टुप्
क्रिमौ च भेद्यलिङ्गस्तु विकलेन्द्रियजन्तुषु ।शरीरजो ना मदने द्वे पुत्रे सादि पूर्ववत् ॥ ६०२ ॥
6.602 · p. 78
अनुष्टुप्
शयानकस्तु ना शैले द्वयोस्त्वजगरे तथा ।कृकलासे शतधृतिः पुनः पुंसि विरिञ्चने ॥ ६०३ ॥
6.603 · p. 78
अनुष्टुप्
पूर्ववत् स्यात् समासाद्यमथो शतभिषक् पुमान् ।(गुदे ?) दैवतनक्षत्रे तद्युक्ते काल एव च ॥ ६०४ ॥
6.604 · p. 78
अनुष्टुप्metre not read in every line
जाते तु तत्र त्रिर्लिङ्गसमासाद्यत्र पूर्ववत् ।शतपर्वा तु ना वेणौ स्त्री दूर्वावचयोरपि ॥ ६०५ ॥
6.605 · p. 78
अनुष्टुप्
कलम्ब्यां च बिसे तु क्ली स्थौणेयाख्ये च भेषजे ।पूर्ववत् स्यात् समासादि शतमूर्धा पुनः पुमान् ॥ ६०६ ॥
6.606 · p. 78
अनुष्टुप्
वल्मीके पूर्ववत् सादि पुमांस्तु स्याच्छिवप्रियः ।वसुभट्ट इति ख्याते स्थावरे सादि पूर्ववत् ॥ ६०७ ॥
6.607 · p. 78
अनुष्टुप्
शिशुप्रियं तु कल्हारे सौगन्धिकमिति श्रुते ।क्ली पूर्ववत् समासादि ना तु खड्गे शिवङ्करः ॥ ६०८ ॥
6.608 · p. 78
अनुष्टुप्
शिवकारिणि तु त्रि स्याच्छिपिविष्टः पुनः पुमान् ।ईश्वरे खलतौ तु त्रिर्दुश्चर्मणि च निर्धने ॥ ६०९ ॥
6.609 · p. 78
अनुष्टुप्
रश्मिभिर्वेष्टिते चाथ पुल्लिँङ्गः स्याच्छिलीमुखः ।शरे मधुकरे तु द्वे शिंशुमारः पुनः पुमान् ॥ ६१० ॥
6.610 · p. 79
अनुष्टुप्
तारामयाच्युते द्वे तु जलजन्त्वन्तरेऽथ सः ।शिंशुमारो जलकपौ द्वे समासादि पूर्ववत् ॥ ६११ ॥
6.611 · p. 79
अनुष्टुप्
शिश्विदानः पुनर्द्वे स्यात् कृकलासे त्रिषु त्वयम् ।कृष्णकर्मणि विज्ञेयः शिल्पाचार्या पुनः स्त्रियाम् ॥ ६१२ ॥
6.612 · p. 79
अनुष्टुप्
ज्ञेया वपनशालायां समासादीनि पूर्ववत् ।शिरोरुहा तु स्त्री काकनासासंज्ञलतान्तरे ॥ ६१३ ॥
6.613 · p. 79
अनुष्टुप्
केशे तु ना सुवर्णे तु क्लीबलिङ्गं शिलोद्भवम् ।पूर्ववत् स्यात् समासादि श्रीवत्साङ्कः पुनः पुमान् ॥ ६१४ ॥
6.614 · p. 79
अनुष्टुप्
वासुदेवे वृके तु द्वे समासादीनि पूर्ववत् ।सैन्धवे क्ली शीतशिवं ना तु शालेयसंज्ञके ॥ ६१५ ॥
6.615 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 शी (wrong syllable)
भेषजे शीतकुम्भस्तु करवीरे नृलिङ्गकः ।क्ली तु तत्प्रसवेऽत्रापि समासादीनि पूर्ववत् ॥ ६१६ ॥
6.616 · p. 79
अनुष्टुप्
शीतपङ्कस्तु ना शीथौ समासादीनि पूर्ववत् ।शुक्लपत्त्रस्तु ना कुन्दे तथा कुरवकेऽपि च ॥ ६१७ ॥
6.617 · p. 79
अनुष्टुप्
पूर्ववत् स्यात् समासादि शुकपत्रः पुनर्द्वयोः ।एकस्मिन्निर्विषाणां स्याद् द्वादशानां फणाभृताम् ॥ ६१८ ॥
6.618 · p. 79
अनुष्टुप्
अत्रापि पूर्ववत् सादि शुक्लपुष्पः पुनः पुमान् ।(कुन्दे कुरवके चापि समासाद्यत्र पूर्ववत् ) ॥ ६१९ ॥
6.619 · p. 79
अनुष्टुप्
शुक्लापाङ्गो मयूरे द्वे समासादीनि पूर्ववत् ।शुकनासस्तु ना टुण्टुवृक्षेऽगस्त्याख्यपादपे ॥ ६२० ॥
6.620 · p. 79
अनुष्टुप्
अत्रापि पूर्ववत् सादि श्रुतकर्मा शनैश्चरे ।पुमानर्थसमासादि पूर्ववत् तर्कयेदिह ॥ ६२१ ॥
6.621 · p. 80
अनुष्टुप्
शूर्पकर्णस्तु मातङ्गे द्वे समासादि पूर्ववत् ।श्रोत्रकान्ता पुनः स्त्री स्याद् वृद्धिसंज्ञकभेषजे ॥ ६२२ ॥
6.622 · p. 80
अनुष्टुप्
अत्रापि पूर्ववत् साद्यमथो षोडशिका न ना ।पलमाने द्वये त्वस्य पुन्नपुंसकयोर्भवेत् ॥ ६२३ ॥
6.623 · p. 80
अनुष्टुप्
समाहारस्तु संक्षेपेऽप्येकत्र करणे च ना ।समानाहारकादौ तु लिङ्गाद्यं पूर्ववत् स्मरेत् ॥ ६२४ ॥
6.624 · p. 80
अनुष्टुप्
समाघातस्तु ना युद्धे वधेऽप्यर्थादि पूर्ववत् ।समाह्वयस्तु ना प्राणिद्यूते नाम्नि च यादवः ॥ ६२५ ॥
6.625 · p. 80
अनुष्टुप्
युद्धेऽप्याह समासादि पूर्ववन्ना सनातनः ।विष्णौ विरिञ्चे च त्रिस्तु ज्ञातव्योऽयं सनातने ॥ ६२६ ॥
6.626 · p. 80
अनुष्टुप्
समापना तु न पुमान् वधे चाप्यवसायने ।क्लीबलिङ्ग समाप्तौ स्यादथ पुंसि समीरणः ॥ ६२७ ॥
6.627 · p. 80
अनुष्टुप्
वायौ फणिर्जकाख्ये च स्तम्बेऽप्याहरणे त्वना ।सरीसृपस्तु द्वे सर्पे तथैवोदरसर्पिषु ॥ ६२८ ॥
6.628 · p. 80
अनुष्टुप्
संवर्तकस्तु बडबानले ना क्ली तु सीरिणः ।सीरे संवर्तिका तु स्त्री पद्मिन्या नवपल्लवे ॥ ६२९ ॥
6.629 · p. 80
अनुष्टुप्
वेष्टितेऽथ द्वादशाहश्राद्धे सम्प्रेषणी स्त्रियाम् ।सम्यक् तु प्रेषणे क्लीबं तत्प्रयुक्तौ पुनर्न ना ॥ ६३० ॥
6.630 · p. 80
अनुष्टुप्
सम्प्रेषणा वितर्के तु न ना सम्भावना तथा ।उत्पादने च सम्माने पात्रस्यान्तश्च मापने(?) ॥ ६३१ ॥
6.631 · p. 80
अनुष्टुप्
तत्प्रयुक्तौ च विज्ञेयः पुनः सङ्कसुकः पुमान् ।श्रद्धाग्नौ(?) त्रि तु सङ्कीर्णे व्यक्ताव्यक्तेऽपि चास्थिरे ॥ ६३२ ॥
6.632 · p. 80
अनुष्टुप्
तथापवादशीले च स्यात् तु सञ्चारिका स्त्रियाम् ।या स्त्री नियुक्ता भूपस्य कथायां द्रविणादिषु ॥ ६३३ ॥
6.633 · p. 81
अनुष्टुप्
महाकार्ये च तस्यां स्याद् दूत्यां च त्रिषु तु स्मृतः ।सञ्चारकः सञ्चरितर्यथ सञ्चारितो द्वयोः ॥ ६३४ ॥
6.634 · p. 81
अनुष्टुप्
दासे सङ्क्रमिते तु त्रिरथ सङ्घातिका स्त्रियाम् ।अरणौ सङ्घातकस्तु सङ्घातयितरि त्रिषु ॥ ६३५ ॥
6.635 · p. 81
अनुष्टुप्
संहन्तरि च भूपाले पुनः संयद्वरः पुमान् ।नपुंसकं तु सङ्ग्रामे त्रि तु स्यादभयप्रदे ॥ ६३६ ॥
6.636 · p. 81
अनुष्टुप्
कश्चित् त्वनूप इत्याह स्यात् तु संवासनं नपि ।इत्याहुः कर्मशालायामना तु सहवासने ॥ ६३७ ॥
6.637 · p. 81
अनुष्टुप्
स्त्रियां तु मुखशालायां विद्यात् संवेशनीपदम् ।संवेशनं तु शयने क्लीबं संवेशना न ना ॥ ६३८ ॥
6.638 · p. 81
अनुष्टुप्
सम्मार्जनी स्त्री शोधन्यां स्त्रियां सम्मार्जना पुनः ।संशोधनायां सम्मृष्टौ तथा सङ्कुचितः पुनः ॥ ६३९ ॥
6.639 · p. 81
अनुष्टुप्
हंसे द्वयोरल्पीभूते पुनस्त्रिरथ पावके ।संस्पर्शनो ना चित्ते क्ली क्ली तु सन्निहितं रवेः ॥ ६४० ॥
6.640 · p. 81
अनुष्टुप्
ग्रहणे त्रिः समीपस्थे न तु पुंसि समर्थना ।स्यात् सम्प्रधारणायां च समर्थीकरणेऽपि च ॥ ६४१ ॥
6.641 · p. 81
अनुष्टुप्
आक्षिप्तस्य पुनश्चापि स्थापनायामथो नपि ।एलालवङ्गत्वक्पत्रनागकेसरसिल्हकाः ॥ ६४२ ॥
6.642 · p. 81
अनुष्टुप्
तक्कोलागरुकर्पूराः सर्वगन्धमिहाष्टके ।पूर्वत्रेव समासादि सर्वभक्षा पुनः स्त्रियाम् ॥ ६४३ ॥
6.643 · p. 81
अनुष्टुप्
अजायामर्थलिङ्गादि पूर्ववत् स्त्री स्वयंवरा ।पतिंवरायां ना तु स्यात् स्वयंवरणकर्मणि ॥ ६४४ ॥
6.644 · p. 81
अनुष्टुप्
अथानीहादिधानुष्कस्थितिभेदेषु पञ्चसु ।एकस्मिन स्यात् समपदं समासादीनि पूर्ववत् ॥ ६४५ ॥
6.645 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सहदेवा स्त्रियां स(त्त्व?त्त्वे) दण्डोत्पल इति श्रुते ।धर्मपुत्रकनिष्ठे तु ना समासादि पूर्ववत् ॥ ६४६ ॥
6.646 · p. 82
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
समूहनं तु क्लीबं स्यात् संहतीकरणे तथा ।शरस्य योजने मौर्व्या स्त्रियां तु स्यात् समूहनी ॥ ६४७ ॥
6.647 · p. 82
अनुष्टुप्
सम्मार्जन्यामना ण्यन्तसमूह्यर्थे समूहना ।स्त्रीपुंसयोः सहचरी पीतझिण्ट्याख्यझाटके ॥ ६४८ ॥
6.648 · p. 82
अनुष्टुप्
सहचारिणि तु त्रिः स्यात् सहसानः पुनर्द्वयोः ।मयूरे यजमाने तु त्रिर्दृढेऽथ सकृत्प्रजः ॥ ६४९ ॥
6.649 · p. 82
अनुष्टुप्
द्वे सिंहकाकयोर्न्याये पुनः क्लीबं समञ्जसम् ।अजयस्तु त्रिरभ्यस्तेऽप्युचितेऽप्याह ना पुनः ॥ ६५० ॥
6.650 · p. 82
अनुष्टुप्
स्वप्ने निशात्ययोद्भूते सद्यःपाकोऽत्र पूर्ववत् ।सर्पदंष्ट्री पुनः स्त्रीत्वे वृश्चिकालीति विश्रुते ॥ ६५१ ॥
6.651 · p. 82
अनुष्टुप्
जानीयादेाषधीभेदे समासादीनि पूर्ववत् ।सर्पराजः पुनः पुंन्त्वे वासुको द्वे तु भोगिनाम् ॥ ६५२ ॥
6.652 · p. 82
अनुष्टुप्metre not read in every lineimpossible sign sequence: जानीयादेाषधीभेदnearly अनुष्टुप्
त्रयोदशानां राजीलनाम्नामन्यतमेऽथ ना ।उदुम्बरद्रुमे नालिकेरे च स्यात् सदाफलः ॥ ६५३ ॥
6.653 · p. 82
अनुष्टुप्
अत्रापि पूर्ववत् सादि पुमांस्तु स्यात् सदागतिः ।वायौ सूर्ये च सादीनि पूर्ववद्व्रुवते पुनः ॥ ६५४ ॥
6.654 · p. 82
अनुष्टुप्
सहसानुर्मयूरे च सर्पे चेत्यपरे द्वयोः ।स्तब्धरोमा पुनर्द्वे स्याद् वराहे सादि पूर्ववत् ॥ ६५५ ॥
6.655 · p. 82
अनुष्टुप्
सङ्घचारी द्वयोर्मत्स्ये समासादीनि पूर्ववत् ।समवर्ती तु ना वैवस्वते सादीनि पूर्ववत् ॥ ६५६ ॥
6.656 · p. 82
अनुष्टुप्
सहरक्षा दवाग्नौ ना दैत्यानामपि पावके ।सरक्षसि पुनस्त्रिः स्यात् सार्वभौमः पुनः पुमान् ॥ ६५७ ॥
6.657 · p. 83
अनुष्टुप्
चक्रवर्तिनि कौबेरदिग्गजे विदिते पुनः ।वाच्यलिङ्गाः सार्वभौमा अथ सालावृको द्वयोः ॥ ६५८ ॥
6.658 · p. 83
अनुष्टुप्
श्ववृकक्रोष्टुषु ज्ञेयः सारमेयः पुनर्द्वयोः ।शुनके मूषिकायां च समासादीनि पूर्ववत् ॥ ६५९ ॥
6.659 · p. 83
अनुष्टुप्
सारस्वतः पुनः पुंसि वैल्वे दण्डे नपि त्वदः ।सत्रयागविशेषेषु सम्बन्धिनि पुनस्त्रिषु ॥ ६६० ॥
6.660 · p. 83
अनुष्टुप्
स्यात् सरस्वत्सरस्यत्योरथ सांयात्रिकं नपि ।प्रभाते पोतवणिजि ना (तु ? थ) साव्वँत्सरस्त्रिषु ॥ ६६१ ॥
6.661 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
संवत्सरभवादौ स्याद् विज्ञेयः फलपर्वणोः ।विद्याज्ज्यौतिषिके चैनं कृष्णशालौ पुनः पुमान् ॥ ६६२ ॥
6.662 · p. 83
अनुष्टुप्
स्त्री तु साव्वँत्सरी श्राद्धे कर्तव्ये वत्सरात्यये ।स्त्री तु स्वादुरसा द्राक्षाकाकोलीमदिरासु च ॥ ६६३ ॥
6.663 · p. 83
अनुष्टुप्
स्वादौ तु स्याद्रसे पुंसि बहुव्रीहौ तु भेद्यवत् ।साधारणं तु सामान्ये त्रिस्तत्रापि यदा स्त्रियाम् ॥ ६६४ ॥
6.664 · p. 83
अनुष्टुप्
साधारणा साधारणी चेति रूपद्वयं भवेत् ।कवाटबन्धमोक्षार्थकुञ्चिकायां पुनः स्त्रियाम् ॥ ६६५ ॥
6.665 · p. 83
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 धा (wrong syllable)
साधारणी स्वादुगन्धा पुनः स्त्री मधुशिग्रुके ।पूर्ववत् स्यात् समासादि स्यालीविल्यस्तु तण्डुले ॥ ६६६ ॥
6.666 · p. 83
अनुष्टुप्
पुमान् स्यालीविलार्हे त्रिः सितापाङ्गः पुनर्दयोः ।मयूरे पूर्ववत् साद्यमथो पुंसि सितासितः ॥ ६६७ ॥
6.667 · p. 83
अनुष्टुप्
बलभद्रे पुमान् सादि पूर्ववत् स्यात् सितच्छदः ।द्वे हंसे पूर्ववत् सादि द्वयोस्तु स्यात् सितायुधः ॥ ६६८ ॥
6.668 · p. 83
अनुष्टुप्
एत्थालाख्ये मत्स्यभेदे समासादीनि पूर्ववत् ।स्थिरजिह्वस्तु मत्स्ये द्वे समासादीनि पूर्ववत् ॥ ६६९ ॥
6.669 · p. 84
अनुष्टुप्
स्थिरदंष्ट्रस्तु ना विष्णौ वराहाकृतिधारिणि ।भुजङ्गमे तु द्वे अत्र समासादीनि पूर्ववत् ॥ ६७० ॥
6.670 · p. 84
अनुष्टुप्
सिंहपुच्छी पुनः स्त्रीत्वे पृश्निपर्णीति विश्रुते ।ज्ञेया स्यादोषधीभेदे माषपर्ण्यां तु गादवः ॥ ६७१ ॥
6.671 · p. 84
अनुष्टुप्
अत्रापि पूर्ववत् साद्यमथो सिंहमलं नपि ।नीलिकासंज्ञलोहे स्यात् समासादीनि पूर्ववत् ॥ ६७२ ॥
6.672 · p. 84
अनुष्टुप्
अथ सिद्धरसः पुंसि पारदे भेद्यवत् पुनः ।रससिद्धे समासार्थलिङ्गान्यत्रापि पूर्ववत् ॥ ६७३ ॥
6.673 · p. 84
अनुष्टुप्
अथ सिन्धूद्भवं क्लीबे सैन्धवे सादि पूर्ववत् ।सुब्रह्मण्यस्तु ना स्कन्द ऋत्विग्भेदे तु नृस्त्रियोः ॥ ६७४ ॥
6.674 · p. 84
अनुष्टुप्
निगदाख्ययजुर्वेद विशेषे तु स्त्रियामियम् ।सुब्रह्मण्यात्र सादीनि पूर्ववत् स्यात् सुदर्शनः ॥ ६७५ ॥
6.675 · p. 84
अनुष्टुप्
पुनः पुंसीक्ष्वाकुवंशप्रभवे क्षत्त्रियान्तरे ।शङ्खणस्य सुते विष्णुचक्रे चान्यस्तु तन्नपि ॥ ६७६ ॥
6.676 · p. 84
अनुष्टुप्
तदप्रमाणमाप्तानां कृत्तिभिर्हि विरुध्यते ।क्लीबमेवामरावत्यां स्त्रियां तु स्यात् सुदर्शना ॥ ६७७ ॥
6.677 · p. 84
अनुष्टुप्
दध्यालीसंज्ञके वल्लीजातिभेदे द्वयोः पुनः ।गृध्राह्वये पक्षिभेदे समासादीनि पूर्ववत् ॥ ६७८ ॥
6.678 · p. 84
अनुष्टुप्
सुचरित्रा पुनः स्त्रीत्वे कुस्तुम्बुर्यामिहापि च ।पूर्ववत् स्यात् समासादि सुप्रतीकः पुनः पुमान् ॥ ६७९ ॥
6.679 · p. 84
अनुष्टुप्
ईशानदिग्गजेऽत्रापि पूर्ववत् साद्यथो नपि ।सुविदत्रं कुटुम्बे च धनलाङ्गलयोरपि ॥ ६८० ॥
6.680 · p. 84
अनुष्टुप्
शुद्धज्ञाने सुविद्ये त्रिः सुनिषण्णं पुनर्नपि ।स्वस्तिकादिपदैः ख्याते शाकभेदेऽत्र पूर्ववत् ॥ ६८१ ॥
6.681 · p. 85
अनुष्टुप्
सुखोदयस्तु ना मद्यभेदे माध्वीकसंज्ञके ।अपक्वेक्षुरसैः सिद्धे समासादीनि पूर्ववत् ॥ ६८२ ॥
6.682 · p. 85
अनुष्टुप्
सुराष्ट्रजा पुनः स्त्रीत्व आढकीसंझभेषजे ।सौराष्ट्रमृद्विशेषस्तत् समासादीनि पूर्ववत् ॥ ६८३ ॥
6.683 · p. 85
अनुष्टुप्
स्त्रियां तु स्यात् सुलवणा गवीथुरिति विश्रुते ।क्षुद्रधान्यान्तरेऽत्रापि समासादीनि पूर्ववत् ॥ ६८४ ॥
6.684 · p. 85
अनुष्टुप्
स्थूलनासः पुनर्द्वे स्याद् वराहे सादि पूर्ववत् ।क्लीबं त्वासनभेदे स्यात् सूचीमुखमिति ध्वनिः ॥ ६८५ ॥
6.685 · p. 85
अनुष्टुप्
ऊर्ध्वज्ञोर्जानुनोर्बाहू प्रसार्य करयोस्तलौ ।संहत्य च स्थितिः स स्यात् समासाद्यत्र पूर्ववत् ॥ ६८६ ॥
6.686 · p. 85
अनुष्टुप्
स्पृहायामं (?) पुनः क्लीबे स्यादहस्तु तृणेषु च ।नर्मदायां पुनः सोमभवा स्त्री सादि पूर्ववत् ॥ ६८७ ॥
6.687 · p. 85
अनुष्टुप्
सोमयोनिर्द्वयोर्विप्रे सुरे चार्थादि पूर्ववत् ।सौगन्धिकं तु क्ली पद्मे कल्हारे ध्यामसंज्ञके ॥ ६८८ ॥
6.688 · p. 85
अनुष्टुप्
गन्धद्रव्ये गन्धकाख्ये वातौ तु स्यान पुमानसौ ।सौरभेयस्तु वृषभे ना स्त्री तु सुरभावियम् ॥ ६८९ ॥
6.689 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सौरभे(ये?यी) प्रसिद्धे तु धातुभेदे नपुंसकम् ।हरितालं स्त्रियां तु स्याद् दूर्वायां हरिताल्यसौ ॥ ६९० ॥
6.690 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
हलिप्रिया सुरायां स्त्री कदम्बाख्ये तु पादपे ।ना पूर्ववत् समासादि हस्तिचारः पुनः पुमान् ॥ ६९१ ॥
6.691 · p. 85
अनुष्टुप्
शरभाभे गजत्रासहेतौ यन्त्रेऽत्र पूर्ववत् ।हस्तिकर्णस्तु ना शस्त्रत्राणार्थफलकान्तरे ॥ ६९२ ॥
6.692 · p. 85
अनुष्टुप्
ज्ञेयः कम्बलभेदे च रोचकाख्येऽत्र पूर्ववत् ।ना तु हस्तिनखः पुर्या द्वारकूटेऽत्र पूर्ववत् ॥ ६९३ ॥
6.693 · p. 86
अनुष्टुप्
हर्षयित्नुः पुना रङ्गोपजीविन्यनुवर्तके ।प्रियंवदे च त्रिः क्ली तु हिरण्येऽथ हिरण्मयम् ॥ ६९४ ॥
6.694 · p. 86
अनुष्टुप्