कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

स्रुवा

sruvāस्त्री · fem.

In 5 kośas: 3 synonym verses, 3 as a nānārtha head word.

कोषकल्पतरु Koṣakalpataru · विश्वनाथ वनौषधिवर्गः Koṣakalpataru 2.3.31 · p. 170
मुरङ्गिका सुरश्रेणी मधुश्रेणी च तेजनी ।देवी मधुरसा पीलुपर्णी गोकर्णिका स्रुवा ॥ ३१ ॥
अनुष्टुप्
genderस्त्रीfem.
शब्दरत्नाकर Śabdaratnākara · वाचनाचार्यश्रीसाधुसुन्दरगणि चतुर्थः काण्डः Śabdaratnākara 4.214 · p. 235
धन्वयवासको धन्वयासो रोदनी बोधनी ।मोरटायां मूर्वा मूर्वी स्रवा स्रुवाऽपामार्गके ॥ २१४ ॥
metre not recognised
genderस्त्रीfem.
वैजयन्ती Vaijayantī · यादवप्रकाश वनाध्यायः Vaijayantī 3.3.114 · p. 54
देव्यां मूर्वा धनुश्रेणी गोकर्णी पीलुपर्णिका ।मधूलिका तिक्तवल्का पीलुनी तेजनी स्रुवा ॥ ११४ ॥
अनुष्टुप्
genderस्त्रीfem.
कोषकल्पतरु Koṣakalpataru · विश्वनाथ वान्ताः Koṣakalpataru 6.29.94 · p. 357
मूर्वासु चान्त्ये * सुनिश्चितोहेस्थिरे तथा शाश्वतिकेऽन्यलिङ्गः ।स्रुवा तु मूर्वागजभ[76b]क्ष्ययोः स्या-त्स्रुगन्तरे पुंसि भवेत्स्त्रियां च ॥ ९४ ॥
metre not recognised
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa · केशवस्वामिन् नानालिङ्गाध्यायः Nānārthārṇavasaṃkṣepa 2.5.1531 · p. 173
सुप्ता जटायां शस्तायां क्ली तु स्वापे स्रुवा पुनः ।सल्लक्यामपि मूर्वायां पुमांस्त्वाधारणाह्वये ॥ १५३१ ॥
अनुष्टुप्
शब्दरत्नावली Śabdaratnāvalī · मथुरेश वान्ताः Śabdaratnāvalī 7.29.23 · p. 286
सवो यज्ञे च सन्ताने सान्त्वं साम्नि च दक्षिणे ।स्रुवा तु मूर्वा शल्लक्यां यज्ञपात्रे स्नुवः पुमान् ॥
अनुष्टुप्