शल्लकी
śallakīस्त्री · fem.In 9 kośas: 8 synonym verses, 3 as a nānārtha head word, 24 as a meaning of another word.
सोः पुष्परूपो नीलद्रुरथ सिञ्चन्तिका स्त्रियाम् ।सल्लकी शल्लकी सल्ली सुगन्धा सुरभिस्रवा ॥ १३६ ॥
अनुष्टुप्
genderस्त्रीfem.
शल्लकी ह्रादिनी ह्रादा ह्लादिनी सुरभी रसा ।गजभक्षा मुखामोदा सुश्रीका जलतिक्तिका ॥ १३७ ॥
अनुष्टुप्
genderस्त्रीfem.
शल्लकी सल्लकी चापि सिल्लकी सुवहा रसा ।सुरभी सुरभिश्चापि ह्लादिनो ह्रादिनी तथा ॥ २०६३ ॥
अनुष्टुप्
genderस्त्रीfem.
मुरा गन्धकुटी दैत्या लालपर्णी च गन्धिनी ।स्यात् शल्लकी मल्लकी च सुरभिः सुरभी रसा ॥
अनुष्टुप्
genderस्त्रीfem.
अरण्यानी स्नुही शाखा शर्कराशल्लकीशटी ।इङ्गदीपिच्छिला घोण्टा कुम्भीदार्वी वचा मिसी ॥
अनुष्टुप्
genderस्त्रीfem.
केतकः केतकी कोविदारे कुद्दालवत् स्मृतः ।कुदारो गजप्रियायां शल्लकी सल्लकीति च ॥ १८८ ॥
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 ग (wrong syllable)
genderस्त्रीfem.
शल्लको वृश्चिकः कीटः शारस्तूणो घटः कटः ।शफरो वेतसश्चामी स्त्रियां ङ्यन्ताः प्रकीर्त्तिताः ॥ १८ ॥
अनुष्टुप्
genderस्त्रीfem.
कलंबी शल्लकी मल्ली वरटा जाटलिः कुटी ।शाटी रेणुहरेणूरुजलूकाकोलिधूलयः ॥ २६ ॥
अनुष्टुप्
genderस्त्रीfem.
शल्लकी as a meaning in nānārtha verses
- धरणिकोश कमठकमठः कच्छपे प्रोक्तः शल्लकीभाण्डभेदयोः । जरठः कठिने ख्यातो जरठी पाण्डुका च गौः ॥ Dharaṇikośa 11.2.6
- धरणिकोश श्रुबाश्रुबः श्रुबा च श्रुग्भेदे मूर्वायां शल्लकी श्रुबा । हेरम्बो महिषः ख्यातो हेरम्बो विघ्ननायकः ॥ Dharaṇikośa 22.2.6
- धरणिकोश सुरभिसुरभिरयमुदीर्णश्चैत्रमासे वसन्ते सति च सुरभिरुक्तो धीरविख्यातयोश्च । सुरभि गदितमेतत्सुन्दरे साधुगन्धे सुरभिरियमुदीर्णा गौः सुरा शल्लकी च ॥ Dharaṇikośa 23.3.2
- धरणिकोश रसारसः शृङ्गारादौ द्रवगरलरागेष्वपि रसो रसस्तिक्तादौ च…तनुधात्वोरपि रसः । रसो वीर्ये सूते चपलजलस्वादेष्वपि रसा [106] रसा पाठाशल्लक्यवनिरपि धीरैर्निगदिता ॥ Dharaṇikośa 31.3.2
- कोषकल्पतरु पालङ्कसस्ये तथोत्तमाङ्गे- ऽथाक्षेपेऽङ्के मलेऽप्ययसः । प्रथमे कलङ्क उक्तः पालङ्कः शाकशल्लक्योः ॥ ५ ॥ Koṣakalpataru 6.1.5
- कोषकल्पतरु सुरभिआरम्भः सुरभिः पुमानृतुपतौ गन्धे च गन्धोपले चाम्पेये सुमनःफले च कनके स्त्री शल्लकी गोगतः । सद्गन्धे रुचिरे च वाच्यवदथ ज्ञातौ सनाभिः[30a] समे वर्षाभूर्नरि भेककिंचुलुकयोर्वृश्चीकभेक्योः स्त्रियाम् ॥ ५२ ॥ Koṣakalpataru 6.24.52
- कोषकल्पतरु सुवहागृष्ट्यौषधेऽपि मातृप्रभेद उक्ता च वाराही । एलापर्ण्यां सुवहा गोधापद्यां च शल्लक्याम् ॥ ५४ ॥ Koṣakalpataru 6.32.54
- शिवकोष पालङ्कपालङ्कः शल्लकी शाकभेदयोरथ पावकः । भल्लातके विडङ्गे च वह्निमन्थे च चित्रके ॥ ३३ ॥ Śivakoṣa 1.3.33
- शिवकोष मोचाचोचो माणवके मोचः पिच्छायां च घनच्छदे । मोचा तु शल्लकीरम्भानीलपुष्पीचिरायुषि ॥ १०० ॥ Śivakoṣa 5.1.100
- शिवकोष पार्वतीद्रवन्ती दन्तिकाभेदरुदन्तीरोदनीषु च । पार्वती जीवनीयायां शल्लक्यामपि योषिति ॥ १९३ ॥ Śivakoṣa 12.2.193
- शिवकोष कुञ्जराशनकिष्कुपर्वा पुमानिक्षौ वेणौ पोटगलेऽपि च । कुञ्जराशनशब्दस्तु शल्लक्यामपि पिप्पले ॥ २८२ ॥ Śivakoṣa 16.3.282
- शिवकोष सुरभिसुरभिश्चम्पके स्वर्णे नवमल्ल्यां हरिप्रिये । मुरासुराफलैलेये शल्लक्यां गन्धरास्नयोः ॥ ३२६ ॥ Śivakoṣa 19.2.326
- शिवकोष स्त्रुवाअथ स्त्रुवा स्याच्छल्लक्यां मूर्वाधूलिकदम्बयोः । Śivakoṣa 24.1.9
- शिवकोष रसास्त्री रास्नाशल्लकीपाठाद्राक्षामूर्वामुदीषु च । Śivakoṣa 27.1.3
- शब्दरत्नावली पालङ्कप्राणकः सत्त्वजातीये चोले च जीवकद्रुमे । पालङ्कः पक्षिभेदे स्यात् शल्लकीशाकभेदयोः ॥ Śabdaratnāvalī 7.1.100
- शब्दरत्नावली शलाकावैजिकः कारणे शिग्रूतैले सद्योऽङ्करे पुमान् । शलाका मदने शल्ये शारिका शल्लकीभिदोः ॥ Śabdaratnāvalī 7.1.143
- शब्दरत्नावली भीषणभरणं पोषणादौ च क्लीबं स्याद्वेतने भृतौ । भीषणो रसशल्लक्योः प्रघाढे दारुणे त्रिषु ॥ Śabdaratnāvalī 7.15.55
- शब्दरत्नावली कुन्तीकुन्ती पृथायां शल्लक्यां गुग्गुलौ बाणभेदके । कृतं स्यादलमर्थे च विहिते युगभेदके ॥ हिंसिते त्रिषु च क्लीबे कृत्तन्तु छिन्नचेष्टिते । स्यात्कृतिः करणे चैव हिंसायामपि च स्त्रियाम् ॥ कृत्तिश्चर्मणि भूर्जे च कृतिकायां त्वचि स्त्रियाम् । केतुः पुंसि पताकारुक्ग्रहोत्पातलक्षणेषु च ॥ गर्तोऽवटे त्रिगर्ते च रोगभेदे कुकुन्दरे । ग्रस्तं लुप्तवर्णपदे क्लीबं ग्रासीकृतेऽपि च ॥ Śabdaratnāvalī 7.16.9
- शब्दरत्नावली पार्वतीयोन्तैन्विङ्गे पौरवर्गे शक्तौ च योषिति स्त्रियाम् । पार्वती शल्लकी दुर्गा गोपालपुत्रिकासु च ॥ Śabdaratnāvalī 7.16.116
- शब्दरत्नावली सुरभिवल्लभोऽध्यक्षदयितशुभलक्षपावाजिषु । वर्षाभूः स्त्री तु शोथघ्न्या भूवल्ली भेकयोः पुमान् ॥ विष्कम्भः प्रतिबन्धे च विस्तारयोगभेदयोः । योगिबन्धभेदेऽर्गलारूपकाङ्गप्रभेदयोः ॥ विस्रम्भः प्रणये केलिकोपविश्वासयोरपि । विष्टभ्यो रोगभेदे स्यात्प्रतिबन्धे भवेत्पुमान् ॥ वैदर्भं वाक्यवक्तत्वे वेदर्भी रीतिभिद्यपि । शरभः पशुभेदे स्यात्करमे वानरेऽपि च ॥ सनाभिः सदृशे पुंसि ज्ञातौ स्नेहयुतेऽपि च । सुरभिः शल्लकीमातृसुरागोष्वपि च स्त्रियाम् ॥ वसन्ते चम्पके जातीफलगन्धफले पुमान् । क्लीबं गन्धाश्मनि स्वर्गे सुगन्धिकान्तयोस्त्रिषु ॥ Śabdaratnāvalī 7.24.13
- शब्दरत्नावली स्रुवासवो यज्ञे च सन्ताने सान्त्वं साम्नि च दक्षिणे । स्रुवा तु मूर्वा शल्लक्यां यज्ञपात्रे स्नुवः पुमान् ॥ Śabdaratnāvalī 7.29.23
- शब्दरत्नावली रसातिक्तादौ च गुणे पुंसि द्रवे क्लीबन्तु कुत्रचित् । रसा स्त्री रसना पाठाशल्लकीभूमिकङ्गुषु ॥ Śabdaratnāvalī 7.32.9
- शब्दरत्नावली सुवहासुवहा शल्लकीवीणारास्नागोधापदीषु च । शेफालिकैलापर्ण्योश्च सुवहः सुखबाह्यके ॥ Śabdaratnāvalī 7.33.27
- त्रिकाण्डशेष जिह्वाभूराजहंसो नृपाग्र्ये च जिह्वाभूः शल्लकी सा । जले शरीरधातौ च पारदस्वादयोः रसः ॥ ४४९ ॥ Trikāṇḍaśeṣa 3.3.449