All kośas › Nānārthārṇavasaṃkṣepa
नानार्थार्णवसंक्षेप Nānārthārṇavasaṃkṣepa
5,800 verses · 33,357 words tagged · 12,179 marked doubtful (dashed)
द्व्यक्षरकाण्डः · नानालिङ्गाध्यायः (13/14)
माहात्म्ये पौरुषे त्वस्त्री पिशाचादौ च जन्तुषु ।प्राणे चाथ समं तुल्ये साधौ च त्रिषु स त्वयम् ॥ १४४१ ॥
2.5.1441 · p. 165
अनुष्टुप्
सर्वशब्दस्य पर्यायः सर्वनामसु सा त्वियम् ।स्त्री समा वत्सरे केचित् स्त्रीभूम्न्यर्थेऽत्र मन्वते ॥ १४४२ ॥
2.5.1442 · p. 165
अनुष्टुप्
सभा सभ्येषु सङ्घाते द्यूते सदसि मन्दिरे ।स्त्री त्रिस्तु तत्र यद्वस्तु व्योमाद्यं भेन संयुतम् ॥ १४४३ ॥
2.5.1443 · p. 165
अनुष्टुप्
सहा तु पुष्पस्तम्बेषु त्रिषु स्त्री तरणौ तथा ।नीलझिण्ट्यां पीतझिण्ट्यामित्यप्यतिवलाह्वये ॥ १४४४ ॥
2.5.1444 · p. 165
अनुष्टुप्
बलासंज्ञे च भैषज्यस्तम्बयोरोषधावपि ।मुद्गपर्ण्यभिधानायां भेद्यलिङ्गं तु सोढरि ॥ १४४५ ॥
2.5.1445 · p. 166
अनुष्टुप्
सङ्ख्यमस्त्री रणे स्त्री तु सङ्ख्या स्याद्गणने तथा ।एकत्वादौ विचारे च सव्यं तु त्रिषु दक्षिणे ॥ १४४६ ॥
2.5.1446 · p. 166
अनुष्टुप्
शरीरभागे वामे च सोतव्यसवितव्ययोः ।तथा प्रेरयितव्ये च मृतके त्वनले पुमान् ॥ १४४७ ॥
2.5.1447 · p. 166
अनुष्टुप्
सभ्यस्तु त्रिः सभासाधौ तथा सामाजिकेऽपि च ।सज्जनेऽप्यथ यागस्थे पूर्वेऽप्याहवनीयतः ॥ १४४८ ॥
2.5.1448 · p. 166
अनुष्टुप्
अग्निभेदे पुमान् सह्यः पुनर्ना पर्वतान्तरे ।पश्चिमार्णवपार्श्वस्थे सोढव्ये तु त्रि नप् पुनः ॥ १४४९ ॥
2.5.1449 · p. 166
अनुष्टुप्
आरोग्ये क्ली तु सत्यं स्याच्छपथे तथ्य एव च ।त्रि तु तद्वति सत्या तु सत्यभामाह्वये स्त्रियाम् ॥ १४५० ॥
2.5.1450 · p. 166
अनुष्टुप्
पत्न्यन्तरे केशवस्य स्पशस्तु नरि संयुगे ।चारेऽथ यजमानस्य पत्न्याः सन्नहने स्पशा ॥ १४५१ ॥
2.5.1451 · p. 166
अनुष्टुप्
योक्त्त्रेण स्त्र्यथ ना स्पर्श उपतापप्रदानयोः ।स्पर्शने कादिवर्णेषु मावसानेषु सज्जनः ॥ १४५२ ॥
2.5.1452 · p. 166
अनुष्टुप्
पुनर्जारेऽवदद्द्वे तु स एवाब्रूत किङ्करे ।त्रि तु स्प्रष्टरि सिंहस्तु पठति स्मोपतप्तरि ॥ १४५३ ॥
2.5.1453 · p. 166
अनुष्टुप्
स्वरः षड्जाद्युदात्ताद्योरज्चर्णे कण्ठजस्वने ।अरे च शोभने पुंसि त्रि तु स्थाच्छोभनारके ॥ १४५४ ॥
2.5.1454 · p. 166
अनुष्टुप्
अतिशीघ्रेऽप्यथो सामस्वेयज्जादिषु षट्सु नप् ।स्वन्नं पुनर्बहुव्रीहौ सुजग्धे रुचिते त्रिषु ॥ १४५५ ॥
2.5.1455 · p. 166
अनुष्टुप्
शोभनत्वादिसंयुक्ते त्वन्ने तत् स्यान्नपुंसकम् ।स्वर्णं तु हेम्नि क्ली रक्तनालिकेरे तु पुंस्ययम् ॥ १४५६ ॥
2.5.1456 · p. 166
अनुष्टुप्
स्वक्षस्तु त्रिषु यस्याक्षशब्दार्थः शोभनोऽक्षि वा ।तत्र तत्रापि च स्त्र्यर्थे स्वक्षा पूर्वे परत्र तु ॥ १४५७ ॥
2.5.1457 · p. 167
अनुष्टुप्
स्वक्षी स्थाच्छोभने त्वक्षे परवल्लिङ्गतां स्मरत् ।स्वजस्तु शोभने छागे द्वयोरौरसपुत्रयोः ॥ १४५८ ॥
2.5.1458 · p. 167
अनुष्टुप्
प्राणिजात्यन्तरे त्रिस्तु स्वशब्दार्थसमुद्भवे ।प्रशस्ताजार्थयुक्ते च प्रशस्ते त्वजवस्तुनि ॥ १४५९ ॥
2.5.1459 · p. 167
अनुष्टुप्
परवल्लिङ्गतां विद्यादथ स्तनभवे त्रिषु ।स्तन्यं क्षीरे तु तत् क्लीबं सरस्तु नरि मारुते ॥ १४६० ॥
2.5.1460 · p. 167
अनुष्टुप्
क्षीरे तु क्ली द्वयोस्त्वेष निषादशनकीसुते ।मर्त्यजात्यन्तरे त्रिस्तु स्थिरस्य प्रतियोगिनि ॥ १४६१ ॥
2.5.1461 · p. 167
अनुष्टुप्
सलस्तु देवदेवस्य भृत्ये भृङ्गिरिटाह्वये ।पुमान् पत्राङ्गशब्देन प्रसिद्धे तु नपुंसकम् ॥ १४६२ ॥
2.5.1462 · p. 167
अनुष्टुप्
भेषजेऽथ सटा च स्त्री जटायां व्रतिनामथ ।सिंहस्य केसरे न(प्)स्त्री मर्त्यजात्यन्तरे पुनः ॥ १४६३ ॥
2.5.1463 · p. 167
अनुष्टुप्
द्वे भटीविप्रजेऽथ स्युर्नीवृद्भेदे(ऽथ ? नृ)भूमनि ।सल्वाः सल्वा पुनः स्त्रीत्वे क्षत्त्रियाभेद ईरिता ॥ १४६४ ॥
2.5.1464 · p. 167
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सङ्गो ना सङ्गमे युद्धे लवणे तु नपुंसकम् ।सैन्धवाख्येऽथ नप्स्त्रीत्वे स्थली स्थलमिति द्वयम् ॥ १४६५ ॥
2.5.1465 · p. 167
अनुष्टुप्
विद्यादुन्नतभूभागे टाबन्ता तु स्थला स्त्रियाम् ।क्षेत्रादिनिम्नभूमिष्ठसलिलस्य निवारणे ॥ १४६६ ॥
2.5.1466 · p. 167
अनुष्टुप्
कृत्रिमे मृन्मये सन्नं त्वनुदात्तविशीर्णयोः ।अल्पे चाप्यवसन्ने च भेद्यलिङ्गं समामनन् ॥ १४६७ ॥
2.5.1467 · p. 167
अनुष्टुप्
गते च वृद्धाः सत्तौ तु क्ली सखा तु त्रिषु स्मृतः ।सहायसुहृदोः स्त्र्यर्थे यदा वृत्तिस्तदा सखी ॥ १४६८ ॥
2.5.1468 · p. 168
अनुष्टुप्
इति भाषाप्रयोगे स्याद् रूपं बन्धौ तु केचन ।पुमानिति प्रब्रुवते सनिस्तु पथियाच्ञयोः ॥ १४६९ ॥
2.5.1469 · p. 168
अनुष्टुप्
दाने नदीतटे नृस्त्री द्वे तु म्लेच्छे पुमान् पुनः ।सनतौ च सनोतौ च धात्वोः स्त्री तु स्थविः (फ?च)ले ॥ १४७० ॥
2.5.1470 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कुष्ठी(?)मांसे द्वयोस्तु स्यात् तुन्नवाये त्रि कुष्ठिनि ।स्तरिर्धूमे पुमान् स्त्री तु तृणे सर्जूः पुनः स्त्रियाम् ॥ १४७१ ॥
2.5.1471 · p. 168
अनुष्टुप्
वनस्पतौ विद्युति च कश्चिद्वणिजि तु द्वयोः ।स्रष्टा तु सृष्टिकृन्मात्रे त्रिर्ना हरिविरिञ्चयोः ॥ १४७२ ॥
2.5.1472 · p. 168
अनुष्टुप्
सम्राट् तु पुंसि विष्ण्वर्कहुताशेन्द्रेषु राज्ञि तु ।येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः ॥ १४७३ ॥
2.5.1473 · p. 168
अनुष्टुप्
शास्ति यश्चाज्ञया राज्ञस्तत्र स्यादथ सा स्त्रियाम् ।षड्विंशत्यक्षरेऽन्तःस्थाछन्दोभेदे स्वराट् पुनः ॥ १४७४ ॥
2.5.1474 · p. 168
अनुष्टुप्
चतुस्त्रिंशत्स्वरेऽन्तःस्थाछन्दोभेदे स्त्रियां पुमान् ।विष्णावैश्वर्यवद्भेदे स्वस्य राजि च ना पुनः ॥ १४७५ ॥
2.5.1475 · p. 168
अनुष्टुप्
स(रः?राः) सान्तष्टान्तमन्ये वायौ मेघे द्रुमान्तरे ।सरीसृपपतत्र्योस्तु द्वे संश्चत् तु नृलिङ्गकः ॥ १४७६ ॥
2.5.1476 · p. 168
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
अध्वर्यो कुहके तु त्रि स्रवत् तु स्रावके त्रिषु ।स्रवन्ती तु स्त्रियां नद्यां स्रज्वा पुनरसौ त्रिषु ॥ १४७७ ॥
2.5.1477 · p. 168
अनुष्टुप्
मालाकारे परस्त्वाह मत्स्यघाते पुमान् पुनः ।पदसङ्घात इत्येकः सत्री पुनरसौ पुमान् ॥ १४७८ ॥
2.5.1478 · p. 168
अनुष्टुप्
सञ्चारचारमेदे स्थाच्छद्मना यस्य वर्तनम् ।भेद्यलिङ्गस्तु विपिनयज्ञभेदादिमत्ययम् ॥ १४७९ ॥
2.5.1479 · p. 169
अनुष्टुप्
सदो य…?…?…न्द्वयस्य यः ।पश्चाद्देशस्तत्र शण्डो गोष्ठ्यां तु स्त्रीनपुंसकम् ॥ १४८० ॥
2.5.1480 · p. 169
metre not recognised
द्यावापृथिव्योस्तु क्लीबे द्वित्ववत् सदसी इति ।सरस्तु सलिले क्लीबं तटाके तु नपि स्त्रियाम् ॥ १४८१ ॥
2.5.1481 · p. 169
अनुष्टुप्
तत्रापि स्त्र्यर्थवृत्तित्वे सरसीति स्त्रियां पुनः ।महासरःसु सरसी दाक्षिणात्याः प्रयुञ्जते ॥ १४८२ ॥
2.5.1482 · p. 169
अनुष्टुप्
सहो जले बले च क्ली हेमन्ते तु पुमानयम् ।मार्गशीर्षे तु मासि स्यात् पुन्नपुंसकयोरयम् ॥ १४८३ ॥
2.5.1483 · p. 169
अनुष्टुप्
सध्रिस्तु नपि संयोगे ना त्वग्नावनडुह्यपि ।सहिष्णौ त्रिषु सारस्तु तरोर्मज्ज्ञि घने बले ॥ १४८४ ॥
2.5.1484 · p. 169
अनुष्टुप्
स्थिराङ्गे रेतसि व्योम्नि सरणे च नरि त्रि तु ।सुन्दरोत्कृष्टयोर्दत्तस्तूत्कृष्टे नरमभ्यधात् ॥ १४८५ ॥
2.5.1485 · p. 169
अनुष्टुप्
न्याय्ये तु सिंहस्त्रिरिति दत्तस्तु क्लीति सा पुनः ।सारी स्त्री भ्रुकुटौ सालः पुनर्नान्ये तु नप्यपि ॥ १४८६ ॥
2.5.1486 · p. 169
अनुष्टुप्
प्राकारे ना तु विटपिमात्रे वृक्षान्तरे तथा ।अश्वकर्णाह्वये गत्यां मत्स्यभेदे तु स द्वयोः ॥ १४८७ ॥
2.5.1487 · p. 169
अनुष्टुप्
स्थालं भोजनपात्रे क्ली स्यादुखायां तु सा स्त्रियाम् ।स्थाली ना तु महादेवे स्थितिकर्मणि चाप्यथ ॥ १४८८ ॥
2.5.1488 · p. 169
अनुष्टुप्
स्थानं क्लीबं नरेऽप्यन्ये प्राहुर्गेहावकाशयोः ।सम्बन्धभेदे जन्तूनां स्यान्निवृत्तिप्रसङ्गयोः ॥ १४८९ ॥
2.5.1489 · p. 169
अनुष्टुप्
अपकर्षे च सादृश्ये क्लीबं तु स्थितिकर्मणि ।एकारान्तं पुनः केचित् स्थाने इत्यव्ययं विदुः ॥ १४९० ॥
2.5.1490 · p. 169
अनुष्टुप्
युक्तार्थे कारणार्थे च तन्नेह ब्रूमहे वयम् ।शब्दभेदाद(व ? थ) स्थायः स्थाने ना भुवि तु स्त्रियाम् ॥ १४९१ ॥
2.5.1491 · p. 170
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 दा (syllables merged)
स्थाया स्थातरि तु त्रि स्यात् स्थाप्यं तु स्थापनीयके ।त्रिर्निक्षेपे तु ना क्ली तु ह्रीबेरे स्यालवाक् पुनः ॥ १४९२ ॥
2.5.1492 · p. 170
अनुष्टुप्
ना पत्नीभ्रातरि स्त्री तु स्याली पत्न्याः स्वसर्यसौ ।वैजयन्त्यां तु निर्मूलं पत्न्या अनुजयोर्द्वयोः ॥ १४९३ ॥
2.5.1493 · p. 170
अनुष्टुप्
इत्युक्तमथ सान्त्वं क्ली सान्त्वने भेद्यवत् पुनः ।मन्वते मधुरे वाक्ये सार्थस्त्वर्थवति त्रिषु ॥ १४९४ ॥
2.5.1494 · p. 170
अनुष्टुप्
समूहभेदे तु पुमान् प्राणिनां साध्यवाक् तु ना ।गणदेवप्रभेदेषु रश्मौ च त्रिषु तु स्मृतः ॥ १४९५ ॥
2.5.1495 · p. 170
अनुष्टुप्
साधनीये त्रि तु स्फारं प्रभूते स्फुरणे तु ना ।मौर्व्यां तु सह चापस्य लाञ्छने स्यान्नपुंसकम् ॥ १४९६ ॥
2.5.1496 · p. 170
अनुष्टुप्
सातं तु क्ली सुखे त्रिस्तु क्षीणेऽपि सतयोगिनि ।एतयोरर्थयोः पूर्वे स्त्र्यर्थे साता परत्र तु ॥ १४९७ ॥
2.5.1497 · p. 170
अनुष्टुप्
साती साज्यं तु नप् श्राद्धभेद एकादशेऽहनि ।त्रिस्त्वाज्यसहिते साल्वाः पुनः पुंभूम्नि नीवृति ॥ १४९८ ॥
2.5.1498 · p. 170
अनुष्टुप्
मध्यदेशस्थिते कारुकुत्सीयाख्ये तथा पुनः ।प्राच्यां नीवृद्विशेषे च तयो राज्ञोः पुमानयम् ॥ १४९९ ॥
2.5.1499 · p. 170
अनुष्टुप्
द्वयोस्तु तदपत्येषु स्थाणुस्तु गिरिशे पुमान् ।कुरुदेशे चाथ न स्त्री ध्रुवके साधु तु त्रिषु ॥ १५०० ॥
2.5.1500 · p. 170
अनुष्टुप्
चारौ व्याकृतशब्दे च सज्जनेऽप्युचितेऽपि च ।केचित् तु धर्मशीलेऽन्ये पुनः संयत ऊचिरे ॥ १५०१ ॥
2.5.1501 · p. 170
अनुष्टुप्
ना तु वार्धुविके कैश्चित् पठितस्तदसद्यतः ।स्यादौपाधिकशब्दत्वादस्य लिङ्गं विशेषकम् ॥ १५०२ ॥
2.5.1502 · p. 170
अनुष्टुप्
पतिव्रतायां तु स्त्री स्यात् साध्वी स्वादुस्तु पुंस्ययम् ।मधुराख्यरसे त्रिस्तु तद्युक्ते प्रियमृष्टयोः ॥ १५०३ ॥
2.5.1503 · p. 171
अनुष्टुप्
मनोज्ञे च जले तु क्ली द्राक्षायां तु स्त्रियामियम् ।स्वाद्वी क्लीबं तु पठितं शाकटायनसूरिणा ॥ १५०४ ॥
2.5.1504 · p. 171
अनुष्टुप्
लिङ्गानुशासने तस्य चिन्त्योऽर्थः स्याद्विचक्षणैः ।सात्मा ना प्रकृतावात्मसहिते तु त्रिषु स्मृतः ॥ १५०५ ॥
2.5.1505 · p. 171
अनुष्टुप्
अत्यन्ताभ्यस्तताहेतोः प्रकृतित्वं गते परे ।ऊर्णायां तु कदल्यादेः स्नावः स्नायुनि चाथ नप् ॥ १५०६ ॥
2.5.1506 · p. 171
अनुष्टुप्
शाकटायन आह स्म हर्षनन्दी च पुंस्यमुम् ।स्वामी तु स्कन्ददेवे ना त्रि तु नाथे स्त्रियां पुनः ॥ १५०७ ॥
2.5.1507 · p. 171
अनुष्टुप्
स्वामिन्यनृपवंशोत्थराजपत्न्यां तथा पुनः ।नाट्योक्तिराजपत्न्यां च जीरकोशनसोस्तु ना ॥ १५०८ ॥
2.5.1508 · p. 171
अनुष्टुप्
सितः शौक्ल्ये च तद्युक्ते पुनस्त्रिर्बद्ध एव च ।प्राप्तावसाने च स्त्री तु शर्करायां सिता स्मृता ॥ १५०९ ॥
2.5.1509 · p. 171
अनुष्टुप्
स्थिरं त्रिर्निश्चले ना तु शनौ स्त्री तु स्थिरा भुवि ।सालपर्ण्याख्यभैषज्येऽप्यथ स्थित इति त्रिषु ॥ १५१० ॥
2.5.1510 · p. 171
अनुष्टुप्
सप्रतिज्ञे निवृत्ते च गतेः स्यादूर्ध्वतां गते ।स्थितौ तु क्ली मृगेन्द्रे तु सिंहो द्वे स्त्री तु सिंह्यसौ ॥ १५११ ॥
2.5.1511 · p. 171
अनुष्टुप्
वार्ताकीकण्टकार्योश्च वाशायां च पुमान् पुनः ।वेङ्कटाख्यगिरौ स्निग्धः पुनः स्याद्भेद्यलिङ्गकः ॥ १५१२ ॥
2.5.1512 · p. 171
अनुष्टुप्
वयस्येऽपि ससौहार्दे कृतस्नेहनकर्मणि ।पुमांस्तु गुग्गुलौ मन्त्रिजने ( तु? ) स्नेहने तु नप् ॥ १५१३ ॥
2.5.1513 · p. 171
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
स्मितं तु त्रिषु फुल्ले स्यात् स्मितवत्यपि नप् पुनः ।अदृष्टदशने हासे विकासे कुसुमस्य च ॥ १५१४ ॥
2.5.1514 · p. 171
अनुष्टुप्
सिद्धस्तु सनकादौ ना देवजात्यन्तरे द्वयोः ।निष्पन्ने तु त्रिषु क्ली तु सिद्धौ गत्यादिकेष्वपि ॥ १५१५ ॥
2.5.1515 · p. 172
अनुष्टुप्
सिद्धो ना वृक्षभेदे स्यादयं साधुजने त्रिषु ।सिंहस्तु द्वे किशोरे स्यात् पुमानेष वनस्पतौ ॥ १५१६ ॥
2.5.1516 · p. 172
अनुष्टुप्
मधूच्छिष्टे तु सिक्थोऽस्त्री पुलाकेऽन्नस्य पुंस्ययम् ।सिनमन्ने शरीरे च क्ली विल्वाख्यद्रुमे तु ना ॥ १५१७ ॥
2.5.1517 · p. 172
अनुष्टुप्
सिमोऽनुदात्तः सर्वार्थे सर्वनाम त्रिषु स्मृतः ।ग्रामगोचरभूमौ तु पुमान्नो सर्वनाम सः ॥ १५१८ ॥
2.5.1518 · p. 172
अनुष्टुप्
क्षेत्रस्य मर्यादायां च द्वयोस्तु स्यात् तुरङ्गमे ।सिमाः स्त्रियो महानाम्नीसंज्ञसामान्तरे तथा ॥ १५१९ ॥
2.5.1519 · p. 172
अनुष्टुप्
स्फिगुर्गुदे ना स्त्री त्वेषा शरीरावयवान्तरे ।सिन्धुस्तु नद्यां स्त्री ना तु समुद्रेऽपि नदान्तरे ॥ १५२० ॥
2.5.1520 · p. 172
अनुष्टुप्
अशीत्यक्षरकेच्छन्दोभेदे च कृतसंज्ञके ।गजानां दानतोये च कटनेत्रसमुद्भवे ॥ १५२१ ॥
2.5.1521 · p. 172
अनुष्टुप्
नीवृद्भेदे तु पुंभूम्नि सिन्धवो द्वे तु कुञ्जरे ।क्ली तु सैन्धवसंज्ञे स्याल्लवणे सीमवाक् तु ना ॥ १५२२ ॥
2.5.1522 · p. 172
अनुष्टुप्
क्षेत्रस्य मर्यादायां च ग्रामगोचरभुव्यपि ।अश्वे तु द्वे पुमान् सीर आदित्ये लाङ्गलेऽपि च ॥ १५२३ ॥
2.5.1523 · p. 172
अनुष्टुप्
लताङ्कुरे तु सीरी स्त्री लाङ्गलिक्यां च कश्चन ।नद्यां तु सीरा सीत्यं तु धान्ये क्ली भेद्यवत् पुनः ॥ १५२४ ॥
2.5.1524 · p. 172
अनुष्टुप्
सीतायामपि साधौ स्यात् कृष्टभूमितलेऽपि च ।अथ प्रख्यापने स्त्रीप्तिः स्त्री नभःपयसोः (भके ?) ॥ १५२५ ॥
2.5.1525 · p. 172
अनुष्टुप्metre not read in every line
तनौ च शोणिते चाथ स्यादजे द्वे सुखं तु नप् ।लग्नाद्राशौ चतुर्थेऽप्सु शस्तखे शर्मणि त्रि तु ॥ १५२६ ॥
2.5.1526 · p. 173
अनुष्टुप्
तत्साधने शोभनखयुक्तेऽप्यथ सुखा स्त्रियाम् ।शम्भोर्नवानां शक्तीनां शक्तावेकत्र ना पुनः ॥ १५२७ ॥
2.5.1527 · p. 173
अनुष्टुप्
सुतः सोमरसे भूपे लग्नाद्राशौ च पञ्चमे ।पुत्रयोस्तु द्वयोः स्त्री तु शाकवल्ल्यन्तरे सुता ॥ १५२८ ॥
2.5.1528 · p. 173
अनुष्टुप्
उपोदकाख्ये त्रिषु तु प्रसूतेऽभिपुतेऽपि च ।सुरस्तु देवे स्त्रीत्वे तु सुरा मद्ये जलेऽपि च ॥ १५२९ ॥
2.5.1529 · p. 173
अनुष्टुप्
सुप्तं तु त्रिषु निद्राणे प्रशस्तजटकेऽपि च ।खञ्जरीटे पुनः कृष्णवक्षसि द्वे स्त्रियां पुनः ॥ १५३० ॥
2.5.1530 · p. 173
अनुष्टुप्
सुप्ता जटायां शस्तायां क्ली तु स्वापे स्रुवा पुनः ।सल्लक्यामपि मूर्वायां पुमांस्त्वाधारणाह्वये ॥ १५३१ ॥
2.5.1531 · p. 173
अनुष्टुप्
यज्ञपात्रविशेषेऽथ स्थुलं दूप्ये नपुंसकम् ।गुल्फे तु ना सुहृत् तु त्रिर्मित्रे क्ली शोभने हृदि ॥ १५३२ ॥
2.5.1532 · p. 173
अनुष्टुप्
ना तु मन्त्रिण्यथ स्थूलं जडे बृहति पीवरे ।(क्ली तु ? त्रि क्ली) दध्नि त्रि तु स्थूरं पीवरेऽथ स्त्रियामियम् ॥ १५३३ ॥
2.5.1533 · p. 173
अनुष्टुप्metre not read in every line
पश्चाद्भागे च जङ्घायां गोधूमादितुषेषु च ।स्थूराथ सूक्ष्ममत्यल्पे त्रिरध्यात्मे तु तन्नपि ॥ १५३४ ॥
2.5.1534 · p. 173
अनुष्टुप्
शक्तौ त्वेकत्र शक्तीनां नवानां शार्ङ्गधन्वनः ।सूक्ष्मा स्त्री ना तु सूर्यः स्याद् भास्करे वाचि तु स्त्रियाम् ॥ १५३५ ॥
2.5.1535 · p. 173
अनुष्टुप्
सूर्या स्याद्गिरिकर्ण्यां च श्वेतायां स्यूतवाक् तु ना ।प्रसवेऽथ त्रिरूते स्थात् सूतस्तु नरि सारथौ ॥ १५३६ ॥
2.5.1536 · p. 173
अनुष्टुप्
पारदे द्वे तु तक्ष्णि स्याद् वन्दिन्यपि पठन्त्यमुम् ।ब्राह्मण्यां क्षत्त्रियाज्जाते जनिते तु त्रिषु स्मृतः ॥ १५३७ ॥
2.5.1537 · p. 173
अनुष्टुप्
प्रेरिते चाथ सूतौ च प्रेरणे च नपुंसकम् ।सूदो ना सूपकारे च सूपे रूपे च नप्स्रियोः ॥ १५३८ ॥
2.5.1538 · p. 174
अनुष्टुप्
सूदा स्यात् क्षरणे ना तु क्षारणे सूनवाक् तु ( ना ? नप् ) ।पुष्पे प्रसूते तु त्रि स्यात् पुष्पिते च स्त्रियां पुनः ॥ १५३९ ॥
2.5.1539 · p. 174
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
सूना वधे वधस्थाने स्याच्च दण्डार्पिताङ्कुशे ।अधःसिरायां जिह्वाया(स्तुधा ? स्तथा) दुहितरि स्मृता ॥ १५४० ॥
2.5.1540 · p. 174
अनुष्टुप्metre not read in every line
मुद्गादिकैस्तु सुकृते व्यञ्जने सूपमस्त्रियाम् ।सूपकारे तु ना सूर्पः पुनर्ना वायुसूर्ययोः ॥ १५४१ ॥
2.5.1541 · p. 174
अनुष्टुप्
द्वे मत्स्यजातौ सूर्मस्तु सूर्मीत्यपि च नृस्त्रियोः ।स्याल्लोहप्रतिमायां च शुष्ककाष्ठे च नप् पुनः ॥ १५४२ ॥
2.5.1542 · p. 174
अनुष्टुप्
सूत्रं पुंस्यपि मन्यन्ते लिङ्गशास्त्रकृतो बुधाः ।तन्तौ सङ्ग्रहवाक्ये च यज्ञसूत्रेऽप्यथ स्त्रियाम् ॥ १५४३ ॥
2.5.1543 · p. 174
अनुष्टुप्
सूचा सूचौ पुमांस्त्वेष सूचनेऽन्यस्त्ववोचत ।दर्भणे क्लीति सूमस्तु ना चन्द्रे श्वयथावपि ॥ १५४४ ॥
2.5.1544 · p. 174
अनुष्टुप्
क्ली त्वन्तरिक्षे त्रिषु तु सदूमे सदुमेऽपि च ।स्यूमं तु क्ली जलेऽन्ये तु पुंसि पुंस्येव मङ्गले ॥ १५४५ ॥
2.5.1545 · p. 174
अनुष्टुप्
तन्तौ रश्मौ निशानाथे स्त्री तु दीर्घे स्त्रियां पुनः ।सूचिः स्यूतिशलाकायां कवाटस्यार्गलासु च ॥ १५४६ ॥
2.5.1546 · p. 174
अनुष्टुप्
अल्पासु द्वे तु वेश्यायां निषादोत्पन्नमानवे ।सूरिः पुनः पुंस्याचार्ये त्रि तु स्तोतरि पण्डिते ॥ १५४७ ॥
2.5.1547 · p. 174
अनुष्टुप्
सूनुस्तु पुंसि पुत्रे स्याद् भ्रातर्यप्यजयोऽब्रवीत् ।इयं दुहितरि स्त्री स्यादथ सृप्रं नपुंसकम् ॥ १५४८ ॥
2.5.1548 · p. 174
अनुष्टुप्
भवेत् सर्पिषि तैले वा ना तु चन्द्रे स्त्रियां पुनः ।सृपा ह्युज्जयिनीपार्श्ववाहिन्यां सरिति स्मृता ॥ १५४९ ॥
2.5.1549 · p. 175
अनुष्टुप्
सृकः पुंसि शरे वज्रे निरये द्वे पुनर्बके ।सृगाले चाथ सृष्टं क्ली सर्जने त्रि तु निश्चिते ॥ १५५० ॥
2.5.1550 · p. 175
अनुष्टुप्
बहुनिर्मितयोर्मुक्ते सृणिस्तु नरि पावके ।अङ्कुशे तु स्त्रियामेव केचिदन्ये तु पुंस्यपि ॥ १५५१ ॥
2.5.1551 · p. 175
अनुष्टुप्
सृपा तु द्वे शिशौ सर्पे यतिनि त्वेष भेद्यवत् ।सृत्वा प्रजापतौ वह्नौ पुंसि द्वे नीचजातिषु ॥ १५५२ ॥
2.5.1552 · p. 175
अनुष्टुप्
सृत्वरी तु स्त्रियां वाचि जननीवैश्ययोरपि ।सेव्यं तु सेवनीये त्रिर्वातव्येऽप्यथ नब्जले ॥ १५५३ ॥
2.5.1553 · p. 175
अनुष्टुप्
उशीरे नि शरे दध्नि पत्राङ्गाह्वयभेषजे ।अब्धिजे लवणे ना तु मध्वासव इति श्रुते ॥ १५५४ ॥
2.5.1554 · p. 175
अनुष्टुप्
मद्यभेदे स्त्रियां तु स्यात् सेव्या नीवारधान्यके ।वन्दाकेऽप्यज्झटासंज्ञस्तम्बेऽथ चटके द्वयोः ॥ १५५५ ॥
2.5.1555 · p. 175
अनुष्टुप्
स्यूतौ तु सेवो ना न क्ली भजने त्रि तु सेनवाक् ।इनेन सहिते स्त्री तु सेना चम्वामथास्त्रियाम् ॥ १५५६ ॥
2.5.1556 · p. 175
अनुष्टुप्
स्नेहस्तैलघृतादौ च प्रेम्णि चाह त्वतः पृथक् ।सौहार्दै शाश्वतः क्ली तु वैजयन्ती समामनत् ॥ १५५७ ॥
2.5.1557 · p. 175
अनुष्टुप्
जले स्थेयः पुनः सह्ये कैश्चिदुक्तोऽभिधेयवत् ।विवादपदनिर्णेतर्यन्ये स्थातव्यके तु नप् ॥ १५५८ ॥
2.5.1558 · p. 175
अनुष्टुप्
सेक्ता पुंसि धवे त्रिस्तु सेचके सैन्यवाक् तु नप् ।सेनाया समवेते तु सेनायां त्रिः पुमान् पुनः ॥ १५५९ ॥
2.5.1559 · p. 175
अनुष्टुप्
BAD SCAN
चतुर्वश्वेनु कृष्णस्य क्वचिदश्वे नृभूम्नि तु ।सैराः स्युर्मध्यदेशस्थनीवृद्भेदेऽथ रा त्रिषु ॥ १५६० ॥
2.5.1560 · p. 176
अनुष्टुप्