कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Koṣakalpataru

कोषकल्पतरु Koṣakalpataru

6,194 verses · 52,591 words tagged · 11,257 marked doubtful (dashed)

नानार्थस्कन्धः · वान्ताः

॥ इति लान्ताः ॥

एकवाः ।

वाते प्रचेतस्यपि वोऽन्यवत्स्या-द्धिमेऽव्ययं स्यादिवतुल्यकार्थे ।षष्ठ्यादिकान्तस्य च युष्मदः स्या-त्तथा बहुत्वेऽप्यथ विः खगे स्यात् ॥ ८७ ॥
6.29.87 · p. 356
उपजातिः
अर्थान्तरे त्वव्ययकं स्वभाव-ज्ञात्यात्मसु स्वो नरि के स्वकेऽस्त्री ।आत्मीय उक्तः पर[76a]लिङ्गकोऽयं
6.29.2 · p. 356
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 2, syllable 1 भ (wrong syllable)

द्विवाः ।

भवस्तु शंभौ नरि संसृतौ च ॥ ८८ ॥
6.29.88 · p. 357
इन्द्रवज्राmetre not read in every line
श्रेयस्यपि स्याद्विभवे जनौ च ।दवस्तु दावोऽपि वने वनाग्नौ ॥
6.29.4 · p. 357
उपजातिः
द्रवो रसे नर्मणि ना गतौ चप्रद्राववाची च धवस्तु पत्यौ ॥ ८९ ॥
6.29.89 · p. 357
उपजातिः
धूर्ते नरे स्यादपि वृक्षभेदेजवो रये वेगिनि वाच्यलिङ्गः ।स्त्री त्वोड्रपुष्पेऽथ लवो विलासेलेशे छिदायामपि रामपुत्रे ॥ ९० ॥
6.29.90 · p. 357
उपजातिः
प्लवस्तु कारण्डव[भेक]भेल-प्लवंगचण्डालपटोलकेषु ।शशप्लुतौ स्यान्नरि तोयकाकेप्लक्षेऽन्तिमं गन्धतृणे च मुस्ते ॥ ९१ ॥
6.29.91 · p. 357
उपजातिः
हवो मखाह्वाननिदेशवाचीशवोऽस्त्रियां स्यान्मृतकेऽब्जलेऽन्त्ये ।सवस्तु संधानमखार्थकः स्यात्क्षवः क्षुते स्यान्नरि राजिकायाम् ॥ ९२ ॥
6.29.92 · p. 357
उपेन्द्रवज्रा
नवः स्तवे ना तरुणेऽन्यवत्स्याद्-ध्रुवः शिवे भान्तरयोगयोश्च ।मुनौ वसौ स्याद्वटशङ्कुकीलेस्त्री शालिपर्ण्यां स्रुचि गीतिभेदे ॥ ९३ ॥
6.29.93 · p. 357
उपजातिः
मूर्वासु चान्त्ये * सुनिश्चितोहेस्थिरे तथा शाश्वतिकेऽन्यलिङ्गः ।स्रुवा तु मूर्वागजभ[76b]क्ष्ययोः स्या-त्स्रुगन्तरे पुंसि भवेत्स्त्रियां च ॥ ९४ ॥
6.29.94 · p. 357
metre not recognised
शिवस्तु शंभौ नरि गुग्गुलौ चवेदे च योगान्तरके च कीले ।स्यात्पुण्डरीकद्रुमवालुके चस्त्रियां तु झाटामलकौषधौ स्यात् ॥ ९५ ॥
6.29.95 · p. 358
उपजातिः
शम्यामलक्योरभयाशृगाल्यो-र्गौर्यां द्वयोनस्तु शुभे सुखे च ।मोक्षे जले चाथ दिवं च नाकेजीवः पुमान्प्राणिनि वृक्षभेदे ॥ ९६ ॥
6.29.96 · p. 358
इन्द्रवज्रा
बृहस्पतौ प्राणभृति त्रिषु स्यात्स्त्रियां तु मौर्वीक्षितिजीवनीषु ।तथा वचायामपि शिञ्जितेऽथभावस्तु जन्तौ विबुधेऽथ शीले ॥ ९७ ॥
6.29.97 · p. 358
उपजातिः
आकूतचेष्टात्मजनुःषु भूतौसत्तासु चेष्टासु पदार्थकृत्योः ।लीलासु न स्त्री नृपतौ तु मेघेसुरे च देवोऽथ हृषीकगोऽन्त्ये ॥ ९८ ॥
6.29.98 · p. 358
उपजातिः
स्त्री तेजनीस्पृक्क्षितिपाङ्गनासुसत्त्वोऽस्त्रियां जन्तुपिशाचयोश्च ।गुणेऽसुषु क्लीबमिहात्मतायांद्रव्ये स्वभावे व्यवसायधाम्नोः ॥ ९९ ॥
6.29.99 · p. 358
उपजातिः
वित्तेऽपि सान्त्वं त्विह दक्षिणत्वेस्यात्साम्न्यथेशे नरि सर्व उक्तः ।समस्तवाची परवत्प्रदिष्टः[77a]कर्वस्तु कामे नरि मूषके च ॥ ५०० ॥
6.29.500 · p. 358
इन्द्रवज्राmetre not read in every linenearly इन्द्रवज्रा: pāda 1, syllable 1 स (wrong syllable)
प्रागाद्ययोरन्यवदेव पूर्वःस पूर्वजे पुंसि वहौ च वां नः (?) ।कण्वो मुनौ ना कुकृतेऽन्तिमे स्या-त्किण्वं सुराबीजकपापयोश्च ॥ १ ॥
6.29.1 · p. 358
उपजातिः
विल्वं फले श्रीफलवाचकं चतत्त्वं परात्मन्यपि वाद्यभेदे ।तथा स्वरूपे त्रितये तु खर्वेह्रस्वे न्यगर्थेऽपि च खर्व एवम् ॥ २ ॥
6.29.2 · p. 359
उपजातिः
पद्वो रथे स्यादपि भूमिलोकेबह्व(प्राध्व)स्तु मार्गे महति त्रिलिङ्गः ।अश्वस्तुरङ्गे नरभिद्यपि स्यात्विश्वे तु पुं भूम्नि सुरप्रभेदे ॥ ३ ॥
6.29.3 · p. 359
इन्द्रवज्रा
स्त्रियां विषायां न तु पुंसि शुण्ठ्यांलोके तु षण्ढे निखिलेऽन्यवच्च ।प्रुष्वस्त्वृतौ भास्वति चाथ योषि-दम्भःकणेऽथाशनिगोऽपि शंवः ॥ ४ ॥
6.29.4 · p. 359
उपजातिः
पार्श्वं तु कक्षाधरके च चक्रो-पान्तेऽपि न स्त्री चरमे तु दिष्टम् ।स्यात्पर्शुवृन्देऽप्यथ दूरमार्गेप्राध्वं प्रणम्रेऽपि च बन्धनेऽपि ॥ ५ ॥
6.29.5 · p. 359
इन्द्रवज्रा
पक्वं विनाशोन्मुखपाकभाजो-र्द्वंद्वं रहस्ये मिथुने च युग्मे ।भवेद्द्वयांतं कलहे समास-भेदे तु पुंसीति वदन्ति सन्तः ॥ ६ ॥
6.29.6 · p. 359
उपजातिः
[77b]ऊर्ध्वं तु तुङ्गोत्थितयोः परस्मिं-स्तथोपरिष्टादपि कीर्तितं च ।द्यौः स्वर्गलोके गगनेऽपि च स्त्रीमेषे त्वविर्भूभृति भास्करे च ॥ ७ ॥
6.29.7 · p. 359
उपजातिः
आखौ कुथेऽथर्तुमतीगतः स्त्रीरविस्तु भानौ क्षितिपालभेदे ।काव्याभिधे काव्यकरे बुधे चकविश्च वाल्मीकिमुनावथ स्त्री ॥ ८ ॥
6.29.8 · p. 359
उपजातिः
भवेत्खलीने छविरङ्गना स्या-च्छोभारुचोर्घृष्विरयं वराहे ।स्याद्धर्षके तु त्रिषु शेवमन्त्येलिङ्गाकृतौ कामरिपोः स्त्रियां स्यात् ॥ ९ ॥
6.29.9 · p. 360
उपजातिः
ग्रीवा शिरोधावपि तच्छिरायांमीवा तु वायावुदरक्रिमौ च ।रेवा सरिद्भित्स्मरयोषितोः स्या-नील्यां च लट्वा तु करञ्जभेदे ॥ १० ॥
6.29.10 · p. 360
इन्द्रवज्रा
पक्ष्यन्तरे स्याच्च कुसुम्भशाकेतथा भवेद्गुग्गुलुशाक एषा ।नीवी वणिङ्मूलधनेऽङ्गनानांकटीस्थवस्त्रस्य च बन्धनेऽपि ॥ ११ ॥
6.29.11 · p. 360
उपजातिः
दर्विः फणायां च खजाकिकायांदार्वी हरिद्रासुरदारुणोश्च ।कटंकटेर्यामथ शोभनायांबुद्धौ च चार्वी गदिता च पृथ्वी ॥ १२ ॥
6.29.12 · p. 360
उपजातिः
भूमौ पृथौ मे[78a]चकजीरके चस्याद्बाष्पिकायामवनौ महत्याम् ।उर्वी भवेत्स्यन्दनभेदके तुलघ्वी तथा ह्रस्वविवक्षितेऽपि ॥ १३ ॥
6.29.13 · p. 360
इन्द्रवज्राmetre not read in every line

त्रिवाः ।

स्याज्जन्महेतौ प्रभवोऽम्बुमूलेज्ञानादिमस्थानपराक्रमेषु ।धने निभृत्यां विभवोऽथ पुष्पेफले तरूणामपि गर्भमुक्तः ॥ १४ ॥
6.29.14 · p. 360
उपजातिः
तोकोद्भवे च प्रसवोऽथ मन्त्रि-सहाययोः स्यात्सचिवस्तथैव ।धूर्ते च मत्ते कितवः प्रदिष्टोहेमाह्वये वञ्चकवाचकोऽपि ॥ १५ ॥
6.29.15 · p. 360
उपजातिः
नाके तु न स्त्री त्रिदिवः स्त्रियां तु[न]द्यन्तरे गोदुहि बल्लवः स्यात् ।स्यात्सूपकारेऽपि हिडिम्बशत्रौना पल्लवः षिद्गगतोऽस्त्रियां तु ॥ १६ ॥
6.29.16 · p. 361
इन्द्रवज्रा
शृङ्गारलाक्षारसविस्तरेषुनवच्छदे स्याद्विटपे बले च ।पलायने विद्रव एष बुद्धौस्यात्पुंगवो ना वृषभेऽन्यवत्तु ॥ १७ ॥
6.29.17 · p. 361
उपजातिः
श्रेष्ठे मतस्तूद्धव उत्सवे चक्रतोश्च वह्नौ हरिमातुले च ।स्यादुत्सवस्तु प्रसरप्रकोप-महेषु पुंनागतरौ तु विष्णौ ॥ १८ ॥
6.29.18 · p. 361
उपजातिः
स्यात्केशवः[78b]केशवति त्रिलिङ्गो-ऽथो कैतवं द्यूत इहच्छले च ।स्यात्फेरवः क्रोष्टरि रक्तपे चस्याद्रौरवो भीषणनारकार्थः ॥ १९ ॥
6.29.19 · p. 361
इन्द्रवज्राmetre not read in every line
स्यात्कैरवो हंससपत्नधूर्ते-ऽथो कैरवं स्यात्कुमुदे स्त्रियां तु ।ज्योत्स्नाभिधानेऽप्यथ भैरवः स्या-च्छंभौ त्रये भीषणभन्न( ? )योश्च ॥ २० ॥
6.29.20 · p. 361
इन्द्रवज्रा
स्यात्सैन्धवोऽस्त्री लवणे तुरंगेपुमान्परस्मिंस्तु स सिन्धुजाते ।और्वे द्विजे वाडव आदिलिङ्गोरसेवमाने( ? )वडवागणेऽन्त्ये ॥ २१ ॥
6.29.21 · p. 361
उपजातिः
तद्वद्वधूनां करणेऽथ न स्त्रीपातालवाची गदितः प्रवीणैः ।स्यान्निह्नवोऽविश्वसनेऽपलापेतथा निकारे मत आश्रवस्तु ॥ २२ ॥
6.29.22 · p. 361
उपजातिः
ना संश्रवक्लेशनयोर्वचःस्थेत्रये रिपौ शात्रव आदिलिङ्गः ।भावे गणे च द्विषतां द्वयोनो-ऽथो माधवः केशवराधमासोः ॥ २३ ॥
6.29.23 · p. 362
उपजातिः
पुष्पाकरे स्त्री त्वतिमुक्तमद्य-दूतीषु च स्यान्मधुशर्करायाम् ।लोध्रे मुनौ गालव आर्तवं तुऋतूद्भवे स्त्रीरजसि प्रसूने ॥ २४ ॥
6.29.24 · p. 362
उपजातिः
[79a] स्याद्भार्गवो दैत्यगुरौ च पर्शु-रामे सुधन्वन्यपि सिन्धुरे च ।स्त्री हैमवत्यां सितदूर्विकायांहेमाद्रिजायामपि कामलायाम् ॥ २५ ॥
6.29.25 · p. 362
इन्द्रवज्रा
स्यादाहवः संगरयोगवाचीस्याद्राघवो दाशरथौ च मत्स्ये ।स्यात्ताण्डवोऽस्त्री तृणभेदनृत्ये-ऽथो संभवो जन्मनि मेलके च ॥ २६ ॥
6.29.26 · p. 362
इन्द्रवज्रा
हेतौ तथाधारत ईरितोऽय-माधेयकस्यानतिरिक्ततायाम् ।स्याद्वान्धवो बन्धुसुहृद्गतो नापञ्चत्वमन्तेऽपि च पञ्चभावे ॥ २७ ॥
6.29.27 · p. 362
इन्द्रवज्रा
शत्रौ तथा तेजसि च प्रभावोनाशेऽप्यसत्ताविषयेऽप्यभावः ।विभाव उक्तो रसकारणेऽपितथा प्रदिष्टः परिचित्यभिन्नः ॥ २७ ॥
6.29.27 · p. 362
उपजातिः
निष्पावः पवने च शूर्पपवने स्याद्राजमाषे तथाशिम्ब्यां स्यादपि निर्विकल्पविषये सुग्रीव उक्तः पुनः ।वालिभ्रातरि वाच्यवत्तु गदितोऽसौ शोभनग्रीवकेराजीवस्तु मृगे झषे निगदितः स्याद्रागजीविन्यपि ॥ २८ ॥
6.29.28 · p. 362
शार्दूलविक्रीडितम्
पद्मेऽन्त्येऽप्यथ कर्णवैरिधनुषि स्याद्गाण्डिवं न[79b]स्त्रियांगाण्डीवं च धनुष्यथो किल शरेऽक्षीवं भवेद्बान्तवत् ।अन्यस्मिन्मदवर्जितेऽथ नृपतौ स्यात्पार्थिवो वाच्यवत्पृथ्व्युत्पातविकारयोर्जनकजागौर्योर्भवेद्योषिति ॥ २९ ॥
6.29.29 · p. 363
शार्दूलविक्रीडितम्metre not read in every line
गजाह्वमुक्तं किल नागकेसरेद्विजिह्व उक्तः पिशुने भुजंगमे ।* * * * * *स्वर्गे गुरौ दीदिविरस्त्रि चान्ने ॥ ३० ॥
6.29.30 · p. 363
वंशस्थम्metre not read in every line
स्यूते च वीणावयवे प्रसेवःस्यात्कुम्भदास्यां वडवा तुरङ्ग्याम् ।भेदेऽङ्गनानामपि विप्रनार्यांस्यात्कारवी मेचकजीरमिस्योः ॥ ३१ ॥
6.29.31 · p. 363
इन्द्रवज्रा
दीप्ये तथा स्यादपि बाष्पिकायां* * * * * *स्यात्कारवेल्ले सुखवी च जीरे ।स्यात्कृष्णजीरे
6.29.49 · p. 363
इन्द्रवज्राmetre not read in every line

चतुर्वाः ।

ऽभिषवस्तु यज्ञे ॥ ३२ ॥
6.29.32 · p. 363
इन्द्रवज्राmetre not read in every line
स्यान्मद्यसंधानक आप्लवे चाथोपप्लवो विप्लवे राहुजन्ये ।परिप्लवस्त्वाकुललोलयोः स्या-त्कुसीलवः स्यान्नटयाचकार्थः ॥ ३३ ॥
6.29.33 · p. 363
उपेन्द्रवज्राmetre not read in every line
प्राचेतसे स्यादपलापहार्दे-प्यपह्नवः स्याच्च पराभवस्तु ।तिरस्कृतौ भङ्गविनाशयोश्चा-थादीनवो दोषदुरन्ततान्ते ॥ ३४ ॥
6.29.34 · p. 363
उपजातिः
[80a]पारसवो द्विजजाते शूद्रायां स्यात्परस्त्रीजे ।शस्त्रे शीतशिवं शम्यां * * शैलेयमिश्योश्च ॥ ३५ ॥
6.29.35 · p. 364
metre not recognised
ताम्रघटे गर्गर्यां यदूत्तमे स्यात्पुटग्रीवः ।जीमूतेऽपामार्गे धामार्गव उक्तस्तथा घोषे ॥ ३६ ॥
6.29.36 · p. 364
metre not recognised
अनुभावो रसकार्ये विनिर्णये स्यात्प्रभावेऽपि ।सौनन्दिनि बलदेवः पवने स्त्री त्रायमाणायाम् ॥ ३७ ॥
6.29.37 · p. 364
metre not recognised
ललजिह्वः शुनि हिंस्रे क्रमेलके स्त्री तु दूर्वायाम् ।भार्गवनार्यामपि शतपर्वा स्यात्तु पञ्चाङ्गे ॥ ३८ ॥
6.29.38 · p. 364
metre not recognised
जलचत्वरे कुलीरे जलबिल्वो रोहिताश्वस्तु ।अग्नौ च हरिश्चन्द्रापत्ये विद्वद्भिराम्नातः ॥ ३९ ॥
6.29.39 · p. 364
metre not recognised
दण्डोत्पले बलायां सहदेवा सारिवायां च ।सर्पाक्ष्यां सहदेवी पुंसि कनिष्ठे सुते पाण्डोः ॥ ४० ॥
6.29.40 · p. 364
metre not recognisednearly अनुष्टुप्: pāda 2, syllable 7 यां (wrong syllable); pāda 4, syllable 7 पा (wrong syllable)
जीवंजीवः पक्षिवृक्षप्रभेदे
6.29.59 · p. 364
अनुष्टुप्

पञ्चवाः ।

ऽथाशितंभवः ।अतिथ्य[ श ]नपर्याप्तेऽन्नादौ तृप्तावपि स्मृतम् ॥ ५४ ॥
6.29.54 · p. 364
अनुष्टुप्