कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vaijayantī

वैजयन्ती Vaijayantī

3,226 verses · 24,961 words tagged · 3,914 marked doubtful (dashed)

भूमिकाण्डः · वनाध्यायः (1/2)

इति भगवता यादवप्रकाशेन विरचितायां वैजयन्त्यां भूमिकाण्डे शैलाध्यायः

अटवी काटिकाऽरण्यं विपिनं काननं वनम् ।कक्ष्यकं कुन्दिलं वार्क्षं वनी गहनमित्यपि ॥ १ ॥
3.3.1 · p. 45
अनुष्टुप्
महाटवी त्वरण्यानी प्रस्तारस्तु तृणाटवी ।कृत्रिमं वनमारामोऽपवनोपवने अपि ॥ २ ॥
3.3.2 · p. 45
अनुष्टुप्
तदेव राज्ञ उद्यानमाक्रीडश्चाथ तस्य तत् ।सान्तःपुरस्य प्रमदावनं गेहस्य निष्कुटः ॥ ३ ॥
3.3.3 · p. 45
अनुष्टुप्
पुष्पवाटी त्वमात्यादेस्त्रयी वाटी फलाय चेत् ।वृक्षो द्रुमो भूरुहो द्रुर्विटपी विष्टरोंऽघ्रिपः ॥ ४ ॥
3.3.4 · p. 45
अनुष्टुप्
अनोकहो नगो भूरुट् तरुः शाखी कुठः कुजः ।वसुः करालिकोऽगच्छो जर्णो रूक्षः पुलाक्यपि ॥ ५ ॥
3.3.5 · p. 45
अनुष्टुप्
वानस्पत्यः पुष्पफली फली त्वेव वनस्पतिः ।ओषधिः फलपाकान्ता ह्रस्वशाखाशिफः क्षुपः ॥ ६ ॥
3.3.6 · p. 45
अनुष्टुप्
अप्रकाण्डे स्तंबगुल्मावुलपस्तु प्रतानिनी ।गुल्मिन्यपि च वल्ली तु व्रततिर्व्रतती लता ॥ ७ ॥
3.3.7 · p. 45
अनुष्टुप्
वन्ध्यो वृक्षोऽवकेशी स्यादवन्ध्यस्तु फलेग्रहिः ।पुष्पितः स्यात् कुसुमितः फलितः फलिनः फली ॥ ८ ॥
3.3.8 · p. 45
अनुष्टुप्
फुल्ले प्रफुल्लसम्फुल्लव्याकोचविकचस्फुटाः ।उत्फुल्लोन्मिषितोन्निद्रा उद्बुद्धोन्मीलितस्मिताः ॥ ९ ॥
3.3.9 · p. 45
अनुष्टुप्
फलमामं शलाटुः स्याद्वानं शुष्कतरं फलम् ।त्रिषु वन्ध्यादयोऽथ स्यादंकुरोंकूरमस्त्रियौ ॥ १० ॥
3.3.10 · p. 45
अनुष्टुप्
प्ररोहश्चाथ वंशः स्याद्योंऽकुरः पर्वसूत्थितः ।परुः पर्व पुमान् ग्रंथिर्निर्यासः खपुरो लशः ॥ ११ ॥
3.3.11 · p. 45
अनुष्टुप्
शिफा जटाऽवरोहस्तु सा शाखाजा वटादिषु ।मूलं बुध्नोंऽघ्रिनामास्मादास्कन्धात् स्यात् प्रकाण्डकम् ॥ १२ ॥
3.3.12 · p. 46
अनुष्टुप्
स दारुमात्रं स्स्थाण्वस्त्री दारु काष्ठमथ त्रयीं ।छल्ली त्वक् स्त्री त्वचा न क्ली वल्कलं चोलकोऽस्त्रियौ ॥ १३ ॥
3.3.13 · p. 46
अनुष्टुप्
चोचं वल्कं च सारस्तु मज्जा स्नावः किनाटकम् ।निष्कुटः कोटरो न स्त्री विदलं दारु पाटितम् ॥ १४ ॥
3.3.14 · p. 46
अनुष्टुप्
स्कन्धः प्रघाणोऽथ शिखा शाखाथ शिखरं शिरः ।स्कन्धशाखा तु शाला स्यात् प्रवालः पल्लवांकुरः ॥ १५ ॥
3.3.15 · p. 46
अनुष्टुप्
विस्तारो विटपः स्तम्ब उच्छ्रायस्तु ममुन्नतिः ।छदस्तु छदनं पत्रं पलाशं पतनं दलम् ॥ १६ ॥
3.3.16 · p. 46
अनुष्टुप्
पर्णं बर्हं पतत्रं च त्रयी शुङ्गास्य कोशिका ।पल्लवोऽस्त्री किसलयं किसलोऽपि नवे दले ॥ १७ ॥
3.3.17 · p. 46
अनुष्टुप्
पत्रमध्यसिरा माढिः पुष्पोऽस्त्री कुसुमं सुमम् ।मणीचकं प्रसूनं च सूनं सुमनसः स्त्रियः ॥ १८ ॥
3.3.18 · p. 46
अनुष्टुप्
मकरन्दो मरन्दोऽस्य रसे जालं तु जालकम् ।कलिका कोरकश्चाथ कुट्मलो मुकुलोऽस्त्रियौ ॥ १९ ॥
3.3.19 · p. 46
अनुष्टुप्
गुच्छो गुलुच्छः स्तबको मञ्ज्यां मंजरिवल्लरी ।प्रसवः पिप्पलं सस्यं फलं वृन्तं तु बन्धनम् ॥ २० ॥
3.3.20 · p. 46
अनुष्टुप्
षण्डास्त्वाम्रादयः शब्दा आम्रादिफलपुष्पयोः ।हरीतक्यादिकं स्त्री स्यादश्वत्थादिफले पुनः ॥ २१ ॥
3.3.21 · p. 46
अनुष्टुप्
अश्वत्थमैंगुदं प्लाक्षं नैयग्रोधं च बार्हतम् ।वैणवं शैग्रवं चाथ जम्बूः स्त्री जम्बु जांबवम् ॥ २२ ॥
3.3.22 · p. 46
अनुष्टुप्
जात्यादयः स्वलिङ्गाः स्युः पुष्पार्थे ब्रीहयः फले ।विदार्याद्यास्तु मूलेऽपि पाटला कुसुमे न ना ॥ २३ ॥
3.3.23 · p. 46
अनुष्टुप्
सप्तम्यन्तपदारम्भाः पर्यायी इह कुत्र चित् ।सप्तम्यन्तं च पुंलिङ्गं विज्ञेयं संशये सति ॥ २४ ॥
3.3.24 · p. 47
अनुष्टुप्
आम्रे कामाङ्गमाकन्दौ चूतो वेलोंऽङ्गनाप्रियः ।करको वलयश्चाथ श्रेष्ठेऽत्र सहकारकः ॥ २५ ॥
3.3.25 · p. 47
अनुष्टुप्
अथ श्यामलके लाला लवली लावली फला ।केसरे वकुलो मद्यलालसः सिंहकेसरः ॥ २६ ॥
3.3.26 · p. 47
अनुष्टुप्
द्राक्षाफलो गुडश्चाथ न्यग्रोधो बहुपाद्वटः ।श्रीवृक्षे पिप्पलोऽश्वत्थः प्लक्षश्चलदलोंऽगुलः ॥ २७ ॥
3.3.27 · p. 47
अनुष्टुप्
उदुम्बरे प्राणिफलो मशकी हेमदुग्धकः ।प्लक्षस्तु पर्कटिजटिकलापिगिरिलक्ष्मणाः ॥ २८ ॥
3.3.28 · p. 47
अनुष्टुप्
पलाशे किंशुकः पर्णो वातपोथस्त्रिपर्णकः ।आस्फोतो ब्रह्मवृक्षश्च हस्तिकर्णदले कृती ॥ २९ ॥
3.3.29 · p. 47
अनुष्टुप्
बिल्वे मालूरमङ्गल्यौ श्रीफलो गोहरीतकी ।परिव्याधे बालभीरुर्भीरुबालोऽम्बुवेतसः ॥ ३० ॥
3.3.30 · p. 47
अनुष्टुप्
शीतेऽभ्रपुष्पो वानीरो वञ्जुलो वेतसो रथः ।विदुले प्रिय आम्राते द्वौ पीतनकपीतनौ ॥ ३१ ॥
3.3.31 · p. 47
अनुष्टुप्
कपित्थे स्युर्दधिफलो दधित्थग्राहिमन्मथाः ।हृद्यो दन्तशठः पुष्पफलोऽरिष्टे तु फेनिलः ॥ ३२ ॥
3.3.32 · p. 47
अनुष्टुप्
मातुलुंगे तु रुचको वराम्लः केसरी शठः ।वीजपूरे मातुलुंगो लुंगः सुफलपूरकौ ॥ ३३ ॥
3.3.33 · p. 47
अनुष्टुप्
देविकायां महाशल्का दूष्यांगी मधुकुक्कुटी ।अथात्यम्ला मातुलुंगी पूतिपुष्पी वृकाम्लिका ॥ ३४ ॥
3.3.34 · p. 47
अनुष्टुप्
छागे तु करुणो लक्षो मल्लिकाकुसुमप्रियः ।जम्बीरे जम्भको दन्तशठो जम्भीरजम्भलौ ॥ ३५ ॥
3.3.35 · p. 47
अनुष्टुप्
नागरंगे तु नारंगो नार्यंगस्तक्रवासनः ।त्वग्गन्ध एलको योगी मुचुलिन्दे तु निम्नकः ॥ ३६ ॥
3.3.36 · p. 48
अनुष्टुप्
न्युब्जे कर्मफलो भव्यः कर्मरंगः शठेश्वरौ ।महीपतिर्दन्तशठः कर्ता नेता च कर्म च ॥ ३७ ॥
3.3.37 · p. 48
अनुष्टुप्
विकंकते ग्रन्थिलः स्याद्व्याघ्रपाच्च मधुच्छदः ।सर्जेऽश्वकर्णः साले तु कार्ष्यकः सस्यसंवरः ॥ ३८ ॥
3.3.38 · p. 48
अनुष्टुप्
पीतसाले गौरसर्जप्रियकासनपीवराः ।रक्तपुष्पोऽप्यथो सिन्धुसर्जे बाणः खरोऽर्जुनः ॥ ३९ ॥
3.3.39 · p. 48
अनुष्टुप्
रोहिते रौहिषो रोही रक्तो रौहितकोऽपि च ।स्त्रीप्रिये वञ्जुलोऽशोकः कंकेलिः कर्णपूरकः ॥ ४० ॥
3.3.40 · p. 48
अनुष्टुप्
हेमपुष्पोऽप्यथांकोले निचोलोंऽकोढशोधनौ ।रसाले वरणः सेतुस्तिक्तशाकोऽश्मरीरिपुः ॥ ४१ ॥
3.3.41 · p. 48
अनुष्टुप्
दोषग्रहे तु कतको द्रावणः स्रवणः सरः ।उल्लेखनीयो लक्ष्मीवांस्तेरस्तोयप्रसादनः ॥ ४२ ॥
3.3.42 · p. 48
अनुष्टुप्
राजादने फलाध्यक्षः प्रियकश्च मधुस्रवः ।मधुपुष्पे मधुष्ठीलो वानप्रस्थो मधूकवत् ॥ ४३ ॥
3.3.43 · p. 48
अनुष्टुप्
गुडपुष्पोऽप्यद्रिजेऽस्मिन् गौरशाको मधूलकः ।पारिभद्रस्य भेदे च मन्दारः पारिजातकः ॥ ४४ ॥
3.3.44 · p. 48
अनुष्टुप्
भूर्जपत्रे भुजो भूर्जो मृदुत्वक् चर्मिचर्मिकौ ।पीलौ गुडफलः स्रंसी श्यामश्चाथात्र शैलजे ॥ ४५ ॥
3.3.45 · p. 48
अनुष्टुप्
अक्षोङः कर्परालश्च नेमीये त्वतिमुक्तकः ।चित्रकृत् तिमिशो नेमी वञ्जुलोऽथायुगच्छदे ॥ ४६ ॥
3.3.46 · p. 48
अनुष्टुप्
सप्तपर्णो विशालत्वक्छारदो विषमच्छदः ।कोविदारे चमरिको रक्तपुष्पो युगच्छदः ॥ ४७ ॥
3.3.47 · p. 48
अनुष्टुप्
काञ्चनारोऽप्यार्ग्वधे तु व्याघातश्चतुरंगुलः ।आरग्वध आरेवतः शम्याकः प्रग्रहोऽर्ग्वधः ॥ ४८ ॥
3.3.48 · p. 49
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 1 आ (syllables merged)
कृतमालः सुपर्णश्च मदने तु फणी रसः ।पिण्डीतके मरुवक इक्ष्वाकुर्गालवामनौ ॥ ४९ ॥
3.3.49 · p. 49
अनुष्टुप्
विचुलः पिचुलो राढः कैडर्यो विषपुष्पकः ।काकर्दश्छर्दनश्चीनो गरलः कण्टकीति च ॥ ५० ॥
3.3.50 · p. 49
अनुष्टुप्
कालस्कन्धे तिन्दुकोऽक्ली स्फूर्जकः शितिसारकः ।काकेन्दौ काकपीलुः स्यात् कुलकः काकतिन्दुकः ॥ ५१ ॥
3.3.51 · p. 49
अनुष्टुप्
सिते लोध्रे महालोध्रः शवरश्चाथ लोहिते ।तिरीटो मार्जनश्चिल्वः कृष्णेऽस्मिन् लोध्रगालवौ ॥ ५२ ॥
3.3.52 · p. 49
अनुष्टुप्
गुग्गुलौ कालनिर्यासो देवधूपो महेश्वरः ।श्रीमान् स्निग्धः सर्वसहः श्लेष्मी तिक्तः कटुर्लघुः ॥ ५३ ॥
3.3.53 · p. 49
अनुष्टुप्
कामः पुरो जटायुश्च कुंभोलूखलकं वरम् ।रज्जुदाले नीचुदारः कच्छूदारो गृहद्रुमः ॥ ५४ ॥
3.3.54 · p. 49
अनुष्टुप्
गूढवृक्षः श्लेष्मफलो विषघ्नो द्विजकुत्सितः ।उद्दालो बहुवारो ना सेलुः श्लेष्मातकी न षण् ॥ ५५ ॥
3.3.55 · p. 49
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 श्ले (wrong syllable)
शोभाञ्जने तीक्ष्णगन्धः शिग्रुः काक्षीवमोचकौ ।उष्णो मुरुंगी रक्तेऽस्मिन् मधुशिग्रुः सुभञ्जनः ॥ ५६ ॥
3.3.56 · p. 49
अनुष्टुप्
गृञ्जनः स्वादुगन्धा च प्रियालुस्तु धनुः पटः ।कार्ष्मर्ये गोपभद्रा स्यात् कार्ष्मरी कृष्णवृन्तिका ॥ ५७ ॥
3.3.57 · p. 49
अनुष्टुप्
श्रीपर्णी कुमुदा गृष्टिर्गम्भारी भद्रपर्णिका ।कैडर्ये कट्फलः कुम्भी श्रीपर्णी कुमुदेति च ॥ ५८ ॥
3.3.58 · p. 49
अनुष्टुप्
सुपार्श्वे स्यात् कन्दरालो गर्दभाण्डः कपीतनः ।ताम्रपाकी फलेपाकी प्लक्षको गन्धमुण्डकः ॥ ५९ ॥
3.3.59 · p. 49
अनुष्टुप्
कदम्बे पुलकी श्रीमान् प्रावृषेण्यो हलीमकः ।महाकदम्बके नीपो धूर्तो धूतीरदीपनौ ॥ ६० ॥
3.3.60 · p. 50
अनुष्टुप्
वासन्ते स्यात् कुरवकस्तिलकः कुवको मधुः ।शुक्लपुष्पः कुरवको मदनो धूर्तनागरौ ॥ ६१ ॥
3.3.61 · p. 50
अनुष्टुप्
करञ्जे स्यान्नक्तमालः प्रकीर्यश्चिरिबिल्वकः ।कालिंगे पूतिकरजः पूतिकः कलिकारकः ॥ ६२ ॥
3.3.62 · p. 50
अनुष्टुप्
बालपत्रे तिक्तसारः खदिरो दन्तधावनः ।सिते तु तस्मिन् कदरः शल्यकश्च मरुन्धवः ॥ ६३ ॥
3.3.63 · p. 50
अनुष्टुप्
मरूद्भवे विट्खदिरोऽप्यरिमोऽप्यरिमेदकः ।कण्टकी चाप्यथैरण्डे हस्तपर्णोऽप्यलम्बकः ॥ ६४ ॥
3.3.64 · p. 50
अनुष्टुप्
रुवुः पञ्चांगुलश्च ञ्चुरामण्डस्तरुणोऽम्बुकः ।गन्धर्वहस्तो रुवुको वातन्घो व्याघ्रपुच्छकः ॥ ६५ ॥
3.3.65 · p. 50
अनुष्टुप्
प्रियके तु प्रियंग्वाख्या कारम्भा फलिनी फली ।विष्वक्सेना बला वृन्ता गुन्द्रा गोवन्दिनी लता ॥ ६६ ॥
3.3.66 · p. 50
अनुष्टुप्
भावज्ञा सर्षपी स्त्र्याख्या वृत्ताङ्गी सुयमावनी ।कन्या चापि कदम्बस्तु निचुलोऽम्बुज इज्जलः ॥ ६७ ॥
3.3.67 · p. 50
अनुष्टुप्
स्योनाके शोणकट्वङ्गौ दीर्घवृन्तः कुटन्नटः ।मण्डूकपर्णः पत्रोर्णो भल्लूकः शुकनासकः ॥ ६८ ॥
3.3.68 · p. 50
अनुष्टुप्
भूतपुष्पो नटो ढंक ऋक्षष्टुण्डुक आरलुः ।तिलके पललः श्रीमान् सुगन्धो मुखमण्डनः ॥ ६९ ॥
3.3.69 · p. 50
अनुष्टुप्
कर्णपूरोऽल्पपुष्पश्च पुन्नागे सुरवल्लभः ।किदिरः दीनकंबोजौ तद्भेदे सुरपर्णिका ॥ ७० ॥
3.3.70 · p. 50
अनुष्टुप्
पारिभद्रे द्रुकिलिमं देवदारु सुराह्वयम् ।पूतिकाष्ठं भद्रदारु पीतदारु च दारु च ॥ ७१ ॥
3.3.71 · p. 50
अनुष्टुप्
वृक्षोत्पले कर्णिकारः परिव्याधोऽथ भण्डिले ।कपीतनः शिरीपश्च करके दाडिमी त्रयी ॥ ७२ ॥
3.3.72 · p. 51
अनुष्टुप्
कुटजे कुटचो वत्सः शक्राख्यो गिरिमल्लिका ।एतस्यैवास्त्रियाविन्द्रयवभद्रयवौ फले ॥ ७३ ॥
3.3.73 · p. 51
अनुष्टुप्
पनसे कण्टकिफलः पयोऽण्डो जघनेफलः ।कर्कशी मधुबीजश्च सरले पूतिकाष्ठकम् ॥ ७४ ॥
3.3.74 · p. 51
अनुष्टुप्
निंबे पार्वतकैडर्यद्वेषिच्छर्दनमाथिकाः ।रोमशः पिचुमन्दश्च लकुचे लिकुचो डहुः ॥ ७५ ॥
3.3.75 · p. 51
अनुष्टुप्
पिचुले झावुकः शाके पृथुच्छदहलीमकौ ।उन्मत्ते धूर्तधुत्तूरधुस्तूरकितवाः शठः ॥ ७६ ॥
3.3.76 · p. 51
अनुष्टुप्
धुर्ध्दूरः काञ्चनाह्वोऽथ त्रिपुरे मदमत्तकः ।प्रेतालये तु तित्तीकः शाखोटो गण्डमालहा ॥ ७७ ॥
3.3.77 · p. 51
अनुष्टुप्
कृसरे भीरुमार्जारकिंशुका इंगुदी न षण् ।पिण्डारके तु पिण्डीकः कृष्णे त्वस्मिन् वलाहकः ॥ ७८ ॥
3.3.78 · p. 51
अनुष्टुप्
पुत्रजीवे त्वक्षफलो रुद्राक्षे तु महामुनिः ।एकास्ये त्वत्र माभीदो द्विमुखे तु वरार्गलः ॥ ७९ ॥
3.3.79 · p. 51
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्व (wrong syllable)
चतुर्मुखे ब्रह्मसंज्ञः पंचवक्त्रे हराह्वयः ।षण्मुखे तु गुहाख्योऽथ किंपाके काकमर्दकः ॥ ८० ॥
3.3.80 · p. 51
अनुष्टुप्
तिंतृडीकेऽम्लिका चिञ्चा शुक्तिर्नारी कपिप्रिया ।तिंत्रिणी चाप्यथो हेमपुष्पे चांपेयचंपकौ ॥ ८१ ॥
3.3.81 · p. 51
अनुष्टुप्
हरणः शीतलः कांतः कमनीयः पचंपचः ।हीने त्वंजिः कुंभफलश्चांपेयो नागकेसरः ॥ ८२ ॥
3.3.82 · p. 51
अनुष्टुप्
करमर्दे वशश्चोलः कृष्णपाकफलैः पदैः ।व्यस्तैः समस्तैर्युग्मैश्च पुंसि पंचदशाभिधाः ॥ ८३ ॥
3.3.83 · p. 51
अनुष्टुप्
सुषेणो विग्नकोऽप्यल्पफलेऽस्मिन् करमर्दिका ।वन्दाके वृक्षको वन्दा जीवन्त्यपदरोहिणी ॥ ८४ ॥
3.3.84 · p. 52
अनुष्टुप्
वृक्षादनी वृक्षरुहा सेव्यास्मिन् क्षीरवृक्षजे ।तनुस्तुष्टो जयः कान्तः कुणिः कातुलको द्रुमः ॥ ८५ ॥
3.3.85 · p. 52
अनुष्टुप्
अग्निमन्थे हविर्मन्थोऽप्यरणिः पावको वशा ।गणिकार्यप्यथो देवताडे वेणी खरागरी ॥ ८६ ॥
3.3.86 · p. 52
अनुष्टुप्
कालस्कंधे तमालोऽस्त्री तापिंछे काकतुंडिका ।बदर्यां कुवली कोलिः कूली क्रूरा तिरीटिका ॥ ८७ ॥
3.3.87 · p. 52
अनुष्टुप्
लताकोलौ तु खलुकी गिरिकोलौ तु सौरसा ।हस्तिकोलौ महाघोण्टा गोपघोण्टा महाफला ॥ ८८ ॥
3.3.88 · p. 52
अनुष्टुप्
जलकोलौ तु संगाली नरकोलौ तु कर्कशी ।सृगालकोलौ हिंस्राथ शमी सक्तुफला जया ॥ ८९ ॥
3.3.89 · p. 52
अनुष्टुप्
काचस्थाल्यां कुबेराक्षी कृष्णवृन्ता फलेरुहा ।आमोघा पाटलिर्न क्ली पूरण्यां शल्मलिर्न षण् ॥ ९० ॥
3.3.90 · p. 52
अनुष्टुप्
काष्ठीला नूलिनी तूलफकलाथ कूटशाल्मलौ ।रोचनः शिंशपायां तु तीक्ष्णधूमावसादनी ॥ ९१ ॥
3.3.91 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कपिला पिच्छिला भस्मगर्भा मण्डलपत्रिका ।जंब्वां त्रिसारा विरजा महाजंब्वां महाफला ॥ ९२ ॥
3.3.92 · p. 52
अनुष्टुप्
सुरसाथो राजजंब्वां सुफलः सुरभिच्छदः ।काकजंब्वां तु मेघाभः शिवेष्टः शीतपल्लवः ॥ ९३ ॥
3.3.93 · p. 52
अनुष्टुप्
जंबूटनीलजंबूटौ शफर्यां श्लक्ष्णपत्रकः ।शिखीन्द्राश्मन्तकाम्लोटा धवे गौरधुरंधरौ ॥ ९४ ॥
3.3.94 · p. 52
अनुष्टुप्
भल्लातक्यां त्रिलिंगायामग्निमुख्यप्यरुष्करः ।कंपिल्ले रोचनी गुण्डा रक्तांगश्चन्द्रकर्कशौ ॥ ९५ ॥
3.3.95 · p. 52
अनुष्टुप्
सल्लक्यां सुरभिर्हस्तिप्रिया हस्त्यशना ध्रुवा ।वैजयन्त्यां तु तर्कारी नादेयी च जयन्त्यपि ॥ ९६ ॥
3.3.96 · p. 53
अनुष्टुप्
धातक्यामनलज्वाला सुभिक्षा धातृपुष्पिका ।स्नुह्यां समन्तदुग्धा स्नुग्वज्रा नन्दासिपत्रिका ॥ ९७ ॥
3.3.97 · p. 53
अनुष्टुप्
सिद्गुण्डः सिन्धुरप्यस्यां विपत्रायां त्रिकण्टकः ।वज्री गण्डर्यथो घण्टारवायां शणपुष्पिका ॥ ९८ ॥
3.3.98 · p. 53
अनुष्टुप्
तुण्डिकेर्यां रवा शीरा केसरा बदराफला ।कार्पास्यक्ल्यत्र वन्यायां भारद्वाज्यपि कुष्ठनुत् ॥ ९९ ॥
3.3.99 · p. 53
अनुष्टुप्
विपघ्न्यां भञ्जिका भाञ्जी विष्ठा ब्राह्मणयष्टिका ।ब्रह्मदण्डी च पद्मा च सारपर्ण्यां स्थिरा ध्रुवा ॥ १०० ॥
3.3.100 · p. 53
अनुष्टुप्
कोकिलाक्षस्तु काण्डेक्षुरिक्षुरः क्षुरकः क्षुरः ।वासके त्वाटरूषः स्यात् मिंहास्यो वाजिदंतकः ॥ १०१ ॥
3.3.101 · p. 53
अनुष्टुप्
वाशा सिंही वैद्यमाता वार्ताक्यां दुष्प्रधर्षिणी ।वातिंगनस्तु भण्डाकी वार्ताकुर्हिंगुलुः स्त्रियाम् ॥ १०२ ॥
3.3.102 · p. 53
अनुष्टुप्
गोष्ठवातिंगने त्वेला परुका जलजंबुका ।हस्तिवातिंगने त्विभ्या विशाला दद्रुनाशिनी ॥ १०३ ॥
3.3.103 · p. 53
अनुष्टुप्
बृहत्यां प्रसहा काली वार्ताकी हिंगुदी कुली ।लताबृहत्यां मुस्निग्धा धन्या प्रसहनी लता ॥ १०४ ॥
3.3.104 · p. 53
अनुष्टुप्
निदिग्धिकायां संधानी महासन्धा गिरिप्रिया ।कण्टकार्या परिक्रूरा कुल्या कुल्यस्पृशी वरा ॥ १०५ ॥
3.3.105 · p. 53
अनुष्टुप्
दुस्स्पर्शा राष्ट्रिका सिंही कण्टकाली निदिग्धिका ।दण्डोत्पले सहा देवा तलपोटे प्रमेहनुत् ॥ १०६ ॥
3.3.106 · p. 53
अनुष्टुप्
हयपुच्छी तु कांबोजी माषपर्णी महासहा ।मार्कवे भृंगराजः स्यात् पर्पणस्तु श्वपामनः ॥ १०७ ॥
3.3.107 · p. 53
अनुष्टुप्
कालमेष्यां कृण्णफला वागूजी वसुवल्लिका ।सोमवल्ली पूतिफली सोमराजिरवल्गुजः ॥ १०८ ॥
3.3.108 · p. 54
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 कृ (wrong syllable); pāda 3, syllable 5 पू (wrong syllable)
परित्राण्यां त्रायमाणा त्रायन्ती बलभद्रिका ।रेवत्यां रामदूती स्याद्वारुणी नागदन्त्यपि ॥ १०९ ॥
3.3.109 · p. 54
अनुष्टुप्
श्रीफल्यां क्लीतकी नीली नीलकेशी महारसा ।ग्रामीणा रञ्जनी तुत्था कारवाही च नीलिनी ॥ ११० ॥
3.3.110 · p. 54
अनुष्टुप्
फल्गुः काकोदुंबरिका बलयूर्जघनेफला ।दास्यां षडश्रा शार्ङ्गष्ठा काकजंघा विलोमिका ॥ १११ ॥
3.3.111 · p. 54
अनुष्टुप्
काकनासा तु काकांगी जीवनीया शिरोरुहा ।तृड्घ्न्यां वयस्या काकोली काकमाची तु वायसी ॥ ११२ ॥
3.3.112 · p. 54
अनुष्टुप्
प्रत्यक्छ्रेण्यां सुतश्रेणी द्रवन्ती शंबरी वृषा ।चित्रोपचित्रा न्यग्रोधी रण्डा मूषिकपर्ण्यपि ॥ ११३ ॥
3.3.113 · p. 54
अनुष्टुप्
देव्यां मूर्वा धनुश्रेणी गोकर्णी पीलुपर्णिका ।मधूलिका तिक्तवल्का पीलुनी तेजनी स्रुवा ॥ ११४ ॥
3.3.114 · p. 54
अनुष्टुप्
प्रत्यक्पर्णी तु शिखरी किणिही खरमञ्जरी ।अपामार्गः शैखरिको धामार्गवमयूरकौ ॥ ११५ ॥
3.3.115 · p. 54
अनुष्टुप्
अजशृंग्यां विषाणी स्याद्रोजिह्वादार्विके समे ।शंखिनी चोरपुष्पी स्यात् केशिनी चाप्यथो लघुः ॥ ११६ ॥
3.3.116 · p. 54
अनुष्टुप्
वर्षा लंकायिका स्पृक्का मरुन्माला लता मरुत् ।कच्छूरके द्राविडकः काल्यको वेधमुख्यकः ॥ ११७ ॥
3.3.117 · p. 54
अनुष्टुप्
निर्गुण्ड्यामिन्द्रसुरसः सिन्दुवारश्च सिन्दुकः ।कुठेरके तु पर्णासो मालोर्जरकठिञ्जरौ ॥ ११८ ॥
3.3.118 · p. 54
अनुष्टुप्
सितेऽस्मिन् मञ्जरी तीक्ष्णस्तीक्ष्णगन्धोऽर्जकोऽत्र तु ।सुगन्धौ श्वेतसुरसा भारती तुलसी शिवा ॥ ११९ ॥
3.3.119 · p. 54
अनुष्टुप्
अल्पपत्रस्तु जंबीरः फणिर्जकसमीरणौ ।अस्मिन् सुगन्धौ सौवासो मञ्जरीकमयूरकौ ॥ १२० ॥
3.3.120 · p. 55
अनुष्टुप्